रचनानुपपत्त्यधिकरणम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

रचनानुपपत्तेश्च नानुमानम्।२.२.१
वेदान्ती- जडं प्रधानं जगद्रचयतीति यदुच्यते साङ्ख्यै:, तदसत्।यतो हि चेतनं विना रचनोपपत्ति: न भवति।अत: जगत् सुखदु:खमोहात्मकसामान्यपूर्वकम्, सुखदु:खमोहात्मकत्वात्, मृत्पूर्वको मृद्घट इव इत्येतदनुमानमप्रमाणम्।चकारेण अन्वयानुपपत्ति: गृह्यते।
प्र.- कीदृशी अन्वयानुपपत्ति:।
वे.- बाह्याध्यात्मिकानां भेदानां सुखदु:खमोहात्मकत्वं नोपपद्यते, यतो हि –
१ सुखादय: आध्यात्मिका: शब्दादयस्तु बाह्या:।
२ सुखादय: कार्यभूता: शब्दादयस्तु तेषां निमित्तानि।

प्रवृत्तेश्च।२.२.२
वे.- प्रवृत्ते: अनुपपत्तेश्च जडं प्रधानं जगत्कारणं नोपपद्यते।
पू.- कथं प्रवृत्ते: अनुपपत्ति:?
वे.- जगद्रचनासिद्ध्यर्थं साम्यावस्थानां सत्वरजस्तमसां प्रवृत्तिरपेक्षिता।सा चाचेतनस्य प्रधानस्य स्वतन्त्रतया नोपपद्यते।
पू. – ननु चेतनस्यापि स्वतन्त्रस्य प्रवृत्ति:न दृश्यते? देहादिसंयुक्तस्यैव चेतनस्य प्रवृत्ति: दृश्यते।
वे.- भवतु।तथापि चेतनसत्त्वे प्रवृत्ति:, चेतनाभावे प्रवृत्त्यभाव: इति चेतनादेव प्रवृत्तिरिति वक्तुं युज्यते।
पू. देहे सति प्रवृत्तिदर्शनं देहाभावे प्रवृत्त्यदर्शनमिति अचेतनस्य एव प्रवृत्ति: इति कुतो नाङ्गीक्रियते?
वे.- काष्ठादिव्यपाश्रयोऽग्नि: अनुपलभ्यमानोऽपि ज्वलने सति दहति।अत: दहनकर्म अग्नेरेव, न तु काष्ठस्य।तथैवात्र द्रष्टव्यम्।
पू.-स्वयं प्रवृत्तिरहितस्यात्मन: प्रवर्तकत्वं नोपपद्यते।
वे.- उपपद्यते।यथायस्कान्त: स्वयं प्रवृत्तिरहितोऽपि अयस: प्रवर्तक: भवति।यथा वा रूपादयो विषया: स्वयं प्रवृत्तिरहिता अपि चक्षुरादीनां प्रवर्तका भवन्ति।तथेश्वरोऽपि स्वयं प्रवृत्तिरहित: सन् सर्वं प्रवर्तयति।
पू.- यदि परमेश्वर: एक: तर्हि कं नु खलु प्रवर्तयति?
वे.- अविद्याप्रत्युपस्थापितनामरूपम्।

पयोऽम्बुवच्चेत्तत्रापि।२.२.३
पू.- यथा वत्सविवृद्धिनिमित्तं क्षीरं प्रवर्तते, यथा वा लोकोपकाराय जलं स्यन्दते, तथा अचेतनं प्रधानं पुरुषार्थसिद्धये प्रवर्तते।
वे.-तत्रापि पयोऽम्बुनो: चैतन्यमनुमीयते।यत्प्रवृत्तिमत्, तच्चेतनाधिष्ठितं रथादिवत्।इत्यनुमानेन पयोऽम्बुनोश्चेतनाधिष्ठितत्वम् अनुमीयते।रथदृष्टान्त: उभयपक्षयो: अचेतनत्वेन मान्य:। पयोऽम्बुदृष्टान्तौ तु नास्माभि: स्वीक्रियेते।अपि च शास्त्रमपि पयोऽम्बुनो: सचेतनत्वं श्रावयति
– ‘योऽप्सु तिष्ठन्, योऽपोऽन्तरो यमयति।(बृ. ३.७.४) एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्य: स्यन्दन्ते –(बृ. ३.८.७) अत: पयोऽम्बुनो: दृष्टान्तत्वेनोपन्यास: नोचित:।

व्यतिरेकानवस्थितेश्चानपेक्षत्वात्। २.२.४
वे.- साङ्ख्योक्तं प्रधानं नाम सत्वरजस्तमसां साम्यावस्था।तद्व्यतिरेकेण प्रधानस्य न किमपि प्रवर्तकमस्ति न किमपि निवर्तकमस्ति।पुरुषस्तूदासीन:।स न प्रवर्तको न वा निवर्तक:।एवं स्थिते, अनपेक्षत्वात् प्रधानं कदाचिन्महदाद्याकारेण परिणमते, कदाचित् न परिणमते इति निर्युक्तिकम्।
पू.- अयं दोष: चेतनकारणपक्षेऽपि सम्भवति।
वे.- न।ईश्वरस्य सर्वशक्तिमत्त्वात्, प्रवृत्त्यप्रवृत्ती न विरुद्ध्येते।

अन्यत्राभावाच्च न तृणादिवत्।२.२.५
पू.- प्रधानं निमित्तान्तरनिरपेक्षमेव परिणमते।नायमस्ति नियमो यन्निमित्तान्तरनिरपेक्षं परिणमनं नैव भवतीति। तृणपल्लवोदकादि निमित्तान्तरनिरपेक्षमेव क्षीररूपेण परिणमते।
वे.- तृणादीनां निमित्तान्तरनिरपेक्षं परिणमनं भवति इति कुतो निर्णीतम्?
पू.- अनुपलम्भात्।यदि किञ्चिन्निमित्तान्तरमुपलभेमहि, यथाकामं तेन तृणादिसाहाय्येन क्षीरं सम्पादयेमहि।न तु सम्पादयामहे।अत: निमित्तान्तरनिरपेक्षमेव तृणादि परिणमते इति ब्रूम:।
वे.- निमित्तान्तरमुपलभ्यते खलु।धेनुरेव निमित्तान्तरम्।ततोऽन्यत्र तृणादे: परिणामस्याभाव:। अनडुहा भक्षितं वा स्थाने एव नष्टं वा तृणं न क्षीरत्वेन परिणमते|एवमन्यत्राभावात् परिणामस्य धेनुरिति निमित्तान्तरं भवति।तस्मात् प्रधानस्यापि निर्निमित्तं महदादिरूपेण परिणमनं नोपपद्यते।

अभ्युपगमेऽप्यर्थाभावात्।२.२.६
वे.- प्रधानस्य स्वाभाविकी प्रवृत्तिर्न भवतीति स्थापितम्।तथापि भवन्मतमनुरुध्य प्रधानस्य स्वाभाविकी प्रवृत्तिर्भवतीति अभ्युपगच्छाम:। तथापि दोषोऽनुषज्येत एव।यदि सहकारि निमित्तं नापेक्ष्यते, तर्हि प्रयोजनमपि किमपि नापेक्ष्यते।तत: प्रधानं पुरुषस्यार्थं साधयितुं प्रवर्तते इति प्रतिज्ञा हीयते।
पू.- सहकारि नापेक्षते, प्रयोजनमपेक्षत एव।
वे.- किं प्रयोजनमपेक्षते ?
पू.- पुरुषार्थ:।
वे.- कीदृश: पुरुषार्थ: ?भोगो वा अपवर्गो वा? उभयं वा?
१ भोगश्चेत् सुखप्राप्तिदु:खपरिहाररूपातिशयशून्यस्य पुरुषस्य कीदृशो भोग: स्यात्?
तथा च मुक्ति: अपि नैव सम्भवेद् यदि भोगार्थं प्रधानं प्रवर्तेत।
२ अथ पुरुषमोक्षार्थं प्रधानं प्रवर्तते इति चेत् प्रधानप्रवृत्ते: पूर्वं पुरुषस्य मोक्ष: सिद्ध: एव आसीत्। अनर्था तर्हि प्रधानस्य प्रवृत्ति:।
३ उभयार्थं प्रधानं प्रवर्तते इति चेत् भोगानामानन्त्याद् मोक्ष: नैव सम्भवेत्।
अत: अर्थाभावात् प्रधानस्य प्रवृत्ति: नास्तीति अभ्युपगन्तव्यम्।
पू.- औत्सुक्यनिवृत्त्यर्थं प्रधानस्य प्रवृत्तिरिति मन्तव्यम्।
वे.- कस्य औत्सुक्यं सम्भवति ?
न प्रधानस्य, तस्य अचेतनत्वात्।
न पुरुषस्य, तस्य निर्मलत्वात्।
पू.- प्रधानस्य सर्गशक्ति: तथा पुरुषस्य दृक्छक्ति: इति एतयो: वैय्यर्थ्यभयात् प्रधानं प्रवर्तते इति मन्यामहे।
वे.- तथा चेद् उभयशक्त्यो: उच्छेदाभावात् सर्गोच्छेदोऽसम्भव:।ततश्च अनिर्मोक्षप्रसङ्ग:।अत: प्रधानस्य प्रवृत्ति: पुरुषार्था भवतीति एतदयुक्तम्।

पुरुषाश्मवदिति चेत्तथापि।२.२.७
पूर्व.- यथा कश्चिद् ज्ञानशक्तिसम्पन्न: परं प्रवृत्तिशक्तिरहित: पुरुष: अन्यं ज्ञानशक्तिरहितं परं प्रवृत्तिशक्तिसम्पन्नं पुरुषं प्रवर्तयति, तथात्र ज्ञानशक्तिसम्पन्न: परं प्रवृत्तिशक्तिरहित: पुरुष: ज्ञानशक्तिरहितं परं प्रवृत्तिशक्तिसम्पन्नं प्रधानं प्रवर्तयिष्यति।
वे.- तथापि दोषनिर्मोक्षो नास्ति।
पू.-कोऽत्र दोष:?
वे.- अभ्युपेतहानि:।
पू.- कथम्?
वे.- १ प्रधानं स्वतन्त्रतया प्रवर्तते इति पूर्वमभ्युपेतम्।इदानीं पुरुष: प्रधानं प्रवर्तयतीत्युच्यते।
२ पुरुषो निष्क्रिय इति पूर्वमभ्युपेतं इदानीं पुरुष: प्रधानं प्रवर्तयतीत्युच्यते।
अपरश्चात्र दोषो विद्यते।पङ्गुरपि वागादिभि: अन्धं प्रवर्तयति।निष्क्रिय उदासीन: पुरुष: केन खलु व्यापारेण प्रधानं प्रवर्तयिष्यतीति विषमो दृष्टान्त:।
पू.- तर्हि अयस्कान्तस्य दृष्टान्तोऽभ्युपगम्य:।यथायस्कान्त: सन्निधिमात्रेण अय: प्रवर्तयति, तथा पुरुष: सन्निधिमात्रेण प्रधानं प्रवर्तयति।
वे.- अयस्कान्त: नित्यमय:सन्निधौ नास्तीति तस्य सन्निधि: व्यापार एव।अथ यदि सन्निधिमात्रेण पुरुष: प्रधानं प्रवर्तयति, तर्हि प्रधानपुरुषयो: नित्यं सान्निध्यं विद्यते।तेन नित्यमेव सर्गप्रसङ्ग:।अत: अनुपन्यास: पुरुषाश्मवदिति।
पुरुष: उदासीन:।प्रधानमचेतनम्।तृतीय: सम्बन्धयिता नास्ति।कथं प्रधानपुरुषसम्बन्ध: स्यात्?
पू. – योग्यतावशात्।प्रधानपुरुषयो: मिथ: सम्बन्धस्य योग्यतास्तीति सम्बन्ध: उपपद्यते।
वे.- तथा सति सा योग्यता नित्यास्तीति सर्गोऽपि नित्य: स्याद् मोक्षश्चासम्भव: स्यात्।पूर्वं मिथ: सम्बन्धे अर्थाभाव: इति यो दोष: दर्शित: सोऽत्राप्यस्ति।
पू.- चेतनकारणवादेऽप्ययं दोषो विद्यते।चेतनं ब्रह्म उदासीनमिति तस्य प्रवर्तकत्वं न सम्भवति।

अङ्गित्वानुपपत्तेश्च।२.२.८
वे.- सत्वरजस्तमसां साम्यावस्था प्रधानम्।तत्र गुणत्रयस्य मिथोऽङ्गाङ्गिभावेन महदादिप्रपञ्च: उत्पद्यते, अन्यस्य तु क्षोभयितु: पदार्थस्याभाव:।कथं तर्हि समा: त्रिगुणा: अङ्गित्वं प्राप्नुयु:? अत: अङ्गित्वानुपपत्ते: प्रधानं जगत्कारणं न सम्भवति।

अन्यथानुमितौ च ज्ञशक्तिवियोगात्।२.२.९
पू.- गुणत्रयस्य साम्यावस्थस्य अङ्गित्वं कारणाभावात् नोपपद्यते इति योऽयं दोष: उक्त: स न घटते।
यतो हि साम्यावस्थायामपि वैषम्योपगमयोग्या एते गुणा: इति अस्माभि: अङ्गीक्रियते।
वे.- किमत्र प्रमाणम्?
पू. – अन्यथानुमिति:।वयमन्यरीत्या अनुमिमीमहे।कार्यवशेन गुणानामयं वैषम्योपगमनरूप: स्वभाव: अनुमीयते।
वे.- तथापि प्रधानस्य ज्ञशक्तिवियोगाद् जगतो रचना न सम्भवति।
पू.- कार्यवशेन त्रिगुणानां ज्ञानशक्तिमपि अनुमिमीमहे।
वे.- तर्हि चेतनकारणवाद: भवद्भि: अङ्गीकृत: स्यात्।समा: गुणा: निमित्तं विना वैषम्यं भजन्ते इति अपि न युक्तियुक्तं प्रतिपादनम्।
पू.- निमित्ताभावेऽपि वैषम्यं भजन्ते. कार्यवशात् तथा वयमनुमिमीमहे।
वे.- तर्हि सर्वदैव वैषम्यं स्यात्।

विप्रतिषेधाच्चासमञ्जसम्।२.२.१०
वे.- परस्परविरुदधा: साङ्खानां सिद्धान्ता:।एवं विप्रतिषेधाद् असमञ्जसं तच्छास्त्रम्।
पू.- कुत्र विद्यते विप्रतिषेध:?
वे.- १ क्वचित् सप्तेन्द्रियाण्युक्तानि, क्वचिदेकादश।
२ क्वचिन्महत: तन्मात्रसर्ग उपदिष्ट:, क्वचिदहङ्कारत:।
३ क्वचित् त्रीण्यन्त: करणानि वर्णितानि, क्वचिद् एकमेव।
४ ईश्वरकारणवादिन्या श्रुत्या स्मृत्या च सह विरोध: प्रसिद्ध:।
अत: असमञ्जसं साङ्ख्यशास्त्रम्।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् द्वितीयाध्याये द्वितीय: पाद:
"https://sa.wikibooks.org/w/index.php?title=रचनानुपपत्त्यधिकरणम्&oldid=5613" इत्यस्माद् प्रतिप्राप्तम्