रज्जुसर्पदृष्टान्तः। - टिप्पनीं लिखत

विकिपुस्तकानि तः
Jump to navigation Jump to search

रज्ज्वां सर्पः सज्जुसर्पः। विवर्तसिद्धान्तस्य अयं दृष्टान्तः।
ब्रह्म एव इदं सर्वम्।यच्च जगद्रूपेण अवभासते, तद् ब्रह्मणि विवर्तरूपं, न सत्यम्।एतं सिद्धान्तं बोधयितुं वेदान्ते ये दृष्टान्ताः मुहुर्मुहुः उच्यन्ते, तेषु अन्यतमः दृष्टान्तः रज्जुसर्प-दृष्टान्तः।अनेन दृष्टान्तेन कतिपयप्रमेयाणि साधयन्ति अद्वैतिनः।तानीत्थम् -

१ मन्दान्धकारे पतितां रज्जुं दृष्ट्वा कस्यचित् पुरुषस्य ‘सर्पोऽयम्’ इति ज्ञानं भवति। ‘इयं रज्जुः’ इति ज्ञानं न भवति अतः सर्पभ्रमः भवति।एवम् अधिष्ठानस्य अज्ञानं भ्रमोत्पादकं भवति।

२ रज्ज्वाः अज्ञानेन सर्वदा सर्वेषां सर्पभ्रमः एव भवतीति न।कदाचित् अन्यस्य कस्यचित् मालाभ्रमः अपि भवति, कस्यचित् भूरेखाभ्रमः अपि सम्भवति।सर्वे एव एते भ्रमाः रज्ज्वाः अज्ञानात् जायन्ते इति सर्वत्र समानः अंशः।

३ रज्ज्वां भासमानः अयं सर्पः न सत्यः, यतो हि सः रज्जुज्ञानेन निवर्तते।यत् त्रिकालाबाध्यं तदेव सत् इति वेदान्तस्य परिभाषा।
अयं सर्पः वन्ध्यापुत्रवत् न असत्यः।यतो हि रज्ज्वज्ञानकाले सः भासते।असत्याः वन्ध्यापुत्रसदृशाः पदार्थाः क्वचिदपि कदापि सत्त्वेन न प्रतीयन्ते।अतः रज्जुसर्पः असत्यः नास्ति।
रज्जुसर्पः सदसदुभयात्मकः इति वक्तुं न शक्यते, परस्परविरोधात्।
अतः सर्पोऽयं सदसद्विलक्षणः इति निर्धार्यते।एवमेव ब्रह्मणि भासमानं जगत् न सत्यं, न असत्यं, न वा सदसदात्मकम्।तत्तु सदसद्विलक्षणम्।

४ रज्ज्वां यद्यपि सर्पः प्रतीतः तथापि तेन सर्पेण रज्जुः विषमयी न भवति।भ्रमस्य गुणदोषैः अधिष्ठानं लिप्तं न भवति।एवमेव जगतः असज्जडदुःखरूपैः दोषैः अधिष्ठानं ब्रह्म लिप्तं न भवति।

५रज्जुसर्पस्य उपादानं भवति रज्जुविषयकम् अज्ञानं, निमित्तं भवति स्वयं रज्जुः।तथैव जगतः उपादानं भवति ब्रह्मविषयकम् अज्ञानं,निमित्तं भवति, स्वयं ब्रह्म।

गौडपादकारिका-प्रश्नोत्तरसङ्ग्रहः गौडपादकारिका-लघूत्तरप्रश्नाः   गौडपादकारिका-दीर्घोत्तरप्रश्नाः