सामग्री पर जाएँ

रसरत्नसमुच्चय : अध्याय 01

विकिपुस्तकानि तः

यस्यानन्दभवेन मङ्गलकलासंभावितेन स्फुरधाम्ना सिद्धरसामृतेन करुणावीक्षासुधासिन्धुना ।
भक्तानां प्रभवप्रसंहृतिजरारागादिरोगाः क्षणाच्छान्तिं यान्ति जगत्प्रधानभिषजे तस्मै परस्मै नमः ।। रस-१.१ ।।

आदिमश्चन्द्रसेनश्च लङ्केशश्च विशारदः ।
कपाली मत्तमाण्डव्यौ भास्करः शूरसेनकः ।। रस-१.२ ।।

रत्नकोशश्च शम्भुश्च सात्त्विको नरवाहनः ।
इन्द्रदो गोमुखश्चैव कम्बलिर् व्याडिरेव च ।। रस-१.३ ।।

नागार्जुनः सुरानन्दो नागबोधिर् यशोधनः ।
खण्डः कापालिको ब्रह्मा गोविन्दो लम्पको हरिः ।। रस-१.४ ।।

सप्तविंशतिसंख्याका रससिद्धिप्रदायकाः ।
रसाङ्कुशो भैरवश्च नन्दी स्वच्छन्दभैरवः ।। रस-१.५ ।।

मन्थानभैरवश्चैव काकचण्डीश्वरस्तथा ।
वासुदेव ऋषिः शृङ्गः क्रियातन्त्रसमुच्चयी ।। रस-१.६ ।।

रसेन्द्रतिलको योगी भालुकी मैथिलाह्वयः ।
महादेवो नरेन्द्रश्च वासुदेवो हरीश्वरः ।। रस-१.७ ।।

एतेषां क्रियतेऽन्येषां तन्त्राण्यालोक्य संग्रहः ।
रसानामथ सिद्धानां चिकित्सार्थोपयोगिनाम् ।। रस-१.८ ।।

सूनुना सिंहगुप्तस्य रसरत्नसमुच्चयः ।
रसोपरसलोहानि यन्त्रादिकरणानि च ।। रस-१.९ ।।

शुद्ध्यर्थमपि लोहानां तन्त्रादिकरणानि च ।
शुद्धिः सत्त्वं द्रुतिर्भस्मकरणं च प्रवक्ष्यते ।। रस-१.१० ।।

अस्ति नीहारनिलयो महानुत्तरदिङ्मुखे ।
उत्तुङ्गशृङ्गसंघातलङ्घिताभ्रो महीधरः ।। रस-१.११ ।।

विश्रामाय वियन्मार्गविलङ्घनघनश्रमः ।
अवतीर्ण इव क्षोणीं शरदम्बुमुचां गणः ।। रस-१.१२ ।।

राशिराशीविषाधीशफणाफलकरोचिषाम् ।
भित्त्वा भुवमिवोत्तीर्णो यो विभाति भृशोन्नतः ।। रस-१.१३ ।।

ज्वलदौषधयो यस्य नितम्बमणिभूमयः ।
नक्तमुद्दामतडितामनुकुर्वन्ति वार्मुचाम् ।। रस-१.१४ ।।

कटके संचरन्तीनां यस्य किंनरयोषिताम् ।
पादेषु धातुरागेण लाक्षाकृत्यमनुष्ठितम् ।। रस-१.१५ ।।

अवतंसितशीतांशुराच्छादितदिगम्बरः ।
यो गुहाधिगतो लोकैर्गिरीश इति गीयते ।। रस-१.१६ ।।

निमीलितदृशो नित्यं मुनयो यस्य सानुषु ।
प्रत्यक्षयन्ति गिरिशमवाङ्मनसगोचरम् ।। रस-१.१७ ।।

शिलातलप्रतिहतैर्यस्य निर्झरशीकरैः ।
अहन्यपि निरीक्षन्ते यक्षास्ताराङ्कितं नभः ।। रस-१.१८ ।।

नीहारपवनोद्रेकनिःसहा यत्र पुरुषाः ।
निजस्त्रीणां निषेवन्ते कुचोष्माणं निरन्तरम् ।। रस-१.१९ ।।

संचरन् कटके यस्य निदाघेऽपि दिवाकरः ।
उद्दामहिमरुद्धोष्मा न शीतांशोर्विभिद्यते ।। रस-१.२० ।।

गुहागृहेषु कस्तूरीमृगनाभिसुगन्धिषु ।
गायन्ति यत्र किंनर्यो गौरीपरिणयोत्सवम् ।। रस-१.२१ ।।

चकास्ति तत्र जगतामादिदेवो महेश्वरः ।
रसात्मना जगत्त्रातुं जातो यस्मान्महारसः ।। रस-१.२२ ।।

शताश्वमेधेन कृतेन पुण्यं गोकोटिभिः स्वर्णसहस्रदानात् ।
नृणां भवेत्सूतकदर्शनेन यत्सर्वतीर्थेषु कृताभिषेकात् ।। रस-१.२३ ।।

विधाय रसलिङ्गं यो भक्तियुक्तः समर्चयेत् ।
जगत्त्रितयलिङ्गानां पूजाफलमवाप्नुयात् ।। रस-१.२४ ।।

भक्षणं स्पर्शनं दानं ध्यानं च परिपूजनम् ।
पञ्चधा रसपूजोक्ता महापातकनाशिनी ।। रस-१.२५ ।।

हन्ति भक्षणमात्रेण पूर्वजन्माघसम्भवम् ।
रोगसंघमशेषाणां नराणां नात्र संशयः ।। रस-१.२६ ।।

पूर्वजन्मकृतं पापं सद्यो नश्यति देहिनाम् ।
सुगन्धपिष्टसूतेन यदि शम्भुर्विलेपितः ।। रस-१.२७ ।।

अभ्रकं त्रुटिमात्रं यो रसस्य परिजारयेत् ।
शतक्रतुफलं तस्य भवेदित्यब्रवीच्छिवः ।। रस-१.२८ ।।

यश्च निन्दति सूतेन्द्रं शम्भोस्तेजः परात्परम् ।
स पतेन्नरके घोरे यावत्कल्पविकल्पना ।। रस-१.२९ ।।

रोगिभ्यो यो रसं दत्ते शुद्धिपाकसमन्वितम् ।
तुलादानाश्वमेधानां फलं प्राप्नोति शाश्वतम् ।। रस-१.३० ।।

सिद्धे रसे करिष्यामि निर्दारिद्र्यगदं जगत् ।
रसध्यानमिदं प्रोक्तं ब्रह्महत्यादिपापनुत् ।। रस-१.३१ ।।

अभ्रग्रासो हि सूतस्य नैवेद्यं परिकीर्तितम् ।
रसस्येत्यर्चनं कृत्वा प्राप्नुयात्क्रतुजं फलम् ।। रस-१.३२ ।।

उदरे संस्थिते सूते यस्योत्क्रामति जीवितम् ।
स मुक्तो दुष्कृताद्घोरात्प्रयाति परमं पदम् ।। रस-१.३३ ।।

मूर्छित्वा हरति रुजं बन्धनमनुभूय मुक्तिदो भवति ।
अमरीकरोति हि मृतः कोऽन्यः करुणाकरः सूतात् ।। रस-१.३४ ।।

सुरगुरुगोद्विजहिंसापापकलापोद्भवं किलासाध्यम् ।
श्वित्रं तदपि च शमयति यस्तस्मात्कः पवित्रतरः सूतात् ।। रस-१.३५ ।।

रसबन्ध एव धन्यः प्रारम्भे यस्य सततमितिकरणा ।
सेत्स्यति रसे करिष्ये महीमहं निर्जरामरणाम् ।। रस-१.३६ ।।

सुकृतफलं तावदिदं सुकुले यज्जन्म धीश्च तत्रापि ।
सापि च सकलमहीतलतुलनफला भूतलं च सुविधेयम् ।। रस-१.३७ ।।

भूतलविधेयतायाः फलमर्थास्ते च विविधभोगफलाः ।
भोगाश्च सन्ति शरीरे तदनित्यमतो वृथा सकलम् ।। रस-१.३८ ।।

इति धनशरीरभोगान्मत्वानित्यान्सदैव यतनीयम् ।
मुक्तौ सा च ज्ञानात् तच्चाभ्यासात् स च स्थिरे देहे ।। रस-१.३९ ।।

तत्स्थैर्ये न समर्थं रसायनं किमपि मूललोहादि ।
स्वयमस्थिरस्वभावं दाह्यं क्लेद्यं च शोष्यं च ।। रस-१.४० ।।

काष्ठौषध्यो नागे नागो वङ्गेऽथ वङ्गमपि शुल्बे ।
शुल्बं तारे तारं कनके कनकं च लीयते सूते ।। रस-१.४१ ।।

अमृतत्वं हि भजन्ते हरमूर्तौ योगिनो यथा लीनाः ।
तद्वत्कवलितगगने रसराजे हेमलोहाद्याः ।। रस-१.४२ ।।

परमात्मनीव सततं भवति लयो यत्र सर्वसत्त्वानाम् ।
एकोऽसौ रसराजः शरीरमजरामरं कुरुते ।। रस-१.४३ ।।

स्थिरदेहेऽभ्यासवशात् प्राप्य ज्ञानं गुणाष्टकोपेतम् ।
प्राप्नोति ब्रह्मपदं न पुनर्भववासजन्मदुःखानि ।। रस-१.४४ ।।

एकांशेन जगद्युगपदवष्टभ्यावस्थितं परं ज्योतिः ।
पादैस्त्रिभिस्तदमृतं सुलभं न विरक्तिमात्रेण ।। रस-१.४५ ।।

न हि देहेन कथंचिद्व्याधिजरामरणदुःखविधुरेण ।
क्षणभङ्गुरेण सूक्ष्मं तद्ब्रह्मोपासितुं शक्यम् ।। रस-१.४६ ।।

नामापि देहसिद्धे को गृह्णीयाद्विना शरीरेण ।
यद्योगगम्यममलं मनसोऽपि न गोचरं तत्त्वम् ।। रस-१.४७ ।।

यज्ञाद्दानात्तपसो वेदाध्ययनाद्दमात्सदाचारात् ।
अत्यन्तभूयसी किल योगवशादात्मसंवित्तिः ।। रस-१.४८ ।।

भ्रूयुगमध्यगतं यच्छिखिविद्युत्सूर्यवज्जगद्भासि ।
केषांचित्पुण्यदृशामुन्मीलति चिन्मयं परं ज्योतिः ।। रस-१.४९ ।।

परमानन्दैकरसं परमं ज्योतिःस्वभावमविकल्पम् ।
विगलितसकलक्लेशं ज्ञेयं शान्तं स्वसंवेद्यम् ।। रस-१.५० ।।

तस्मिन्नाधाय मनः स्फुरदखिलं चिन्मयं जगत्पश्यन् ।
उत्सन्नकर्मबन्धो ब्रह्मत्वमिहैव चाप्नोति ।। रस-१.५१ ।।

रागद्वेषविमुक्ताः सत्याचारा मृषारहिताः ।
सर्वत्र निर्विशेषा भवन्ति चिद्ब्रह्मसंस्पर्शात् ।। रस-१.५२ ।।

तिष्ठन्त्यणिमादियुता विलसद्देहाः सदोदितानन्दाः ।
ब्रह्मस्वभावममृतं सम्प्राप्ताश् चैव कृतकृत्याः ।। रस-१.५३ ।।

आयतनं विद्यानां मूलं धर्मार्थकाममोक्षाणाम् ।
श्रेयः परं किमन्यच्छरीरमजरामरं विहायैकम् ।। रस-१.५४ ।।

प्रत्यक्षेण प्रमाणेन यो न जानाति सूतकम् ।
अदृष्टविग्रहं देवं कथं ज्ञास्यति चिन्मयम् ।। रस-१.५५ ।।

यज्जरया जर्जरितं कासश्वासादिदुःखविवशं च ।
योग्यं तन्न समाधौ प्रतिहतबुद्धीन्द्रियप्रसरम् ।। रस-१.५६ ।।

बालः षोडशवर्षो विषयरसास्वादलम्पटः परतः ।
यातविवेको वृद्धो मर्त्यः कथमाप्नुयान्मुक्तिम् ।। रस-१.५७ ।।

अस्मिन्न् एव शरीरे येषां परमात्मनो न संवेदः ।
देहत्यागादूर्ध्वं तेषां तद्ब्रह्म दूरतरम् ।। रस-१.५८ ।।

ब्रह्मादयो यतन्ते तस्मिन्दिव्यां तनुं समाश्रित्य ।
जीवन्मुक्ताश्चान्ये कल्पान्तस्थायिनो मुनयः ।। रस-१.५९ ।।

तस्माज्जीवन्मुक्तिं समीहमानेन योगिना प्रथमम् ।
दिव्या तनुर्विधेया हरगौरीसृष्टिसंयोगात् ।। रस-१.६० ।।

शैलेऽस्मिञ् शिवयोः प्रीत्या परस्परजिगीषया ।
सम्प्रवृत्ते च सम्भोगे त्रिलोकीक्षोभकारिणि ।। रस-१.६१ ।।

विनिवारयितुं वह्निः सम्भोगं प्रेषितः सुरैः ।
काङ्क्षमाणैस् तयोः पुत्रं तारकासुरमारकम् ।। रस-१.६२ ।।

कपोतरूपिणं प्राप्तं हिमवत्कन्दरेऽनलम् ।
अपक्षिभावसंक्षुब्धं स्मरलीलाविलोकिनम् ।। रस-१.६३ ।।

तं दृष्ट्वा लज्जितः शम्भुर्विरतः सुरतात्तदा ।
प्रच्युतश्चरमो धातुर्गृहीतः शूलपाणिना ।। रस-१.६४ ।।

प्रक्षिप्तो वदने वह्नेर्गङ्गायामपि सोऽपतत् ।
बहिः क्षिप्तस्तया सोऽपि परिदह्यमानया ।। रस-१.६५ ।।

संजातास्तन्मलाधानाद्धातवः सिद्धिहेतवः ।
यावदग्निमुखाद्रेतो न्यपतद्भूरिसारतः ।। रस-१.६६ ।।

शतयोजननिम्नांस्तान्कृत्वा कूपांस्तु पञ्च च ।
तदाप्रभृति कूपस्थं तद्रेतः पञ्चधाभवत् ।। रस-१.६७ ।।

रसो रसेन्द्रः सूतश्च पारदो मिश्रकस्तथा ।
इति पञ्चविधो जातः क्षेत्रभेदेन शम्भुजः ।। रस-१.६८ ।।

रसो रक्तो विनिर्मुक्तः सर्वदोषै रसायनः ।
संजातास्त्रिदशास्तेन नीरुजा निर्जरामराः ।। रस-१.६९ ।।

रसेन्द्रो दोषनिर्मुक्तः श्यावो रूक्षोऽतिचञ्चलः ।
रसायिनोऽभवंस्तेन नागा मृत्युजरोज्झिताः ।। रस-१.७० ।।

देवैर्नागैश् च तौ कूपौ पूरितौ मृद्भिर् अश्मभिः ।
तदाप्रभृति लोकानां तौ जाताव् अतिदुर्लभौ ।। रस-१.७१ ।।

ईषत्पीतश्च रूक्षाङ्गो दोषयुक्तश्च सूतकः ।
दशाष्टसंस्कृतैः सिद्धो देहं लोहं करोति सः ।। रस-१.७२ ।।

अथान्यकूपजः कोऽपि स चलः श्वेतवर्णवान् ।
पारदो विविधैर्योगैः सर्वरोगहरः स हि ।। रस-१.७३ ।।

मयूरचन्द्रिकाछायः स रसो मिश्रको मतः ।
सोऽप्यष्टादशसंस्कारयुक्तश्चातीव सिद्धिदः ।। रस-१.७४ ।।

त्रयः सूतादयः सूताः सर्वसिद्धिकरा अपि ।
निजकर्मविनिर्माणैः शक्तिमन्तोऽतिमात्रया ।। रस-१.७५ ।।

एतां रससमुत्पत्तिं यो जानाति स धार्मिकः ।
आयुर् आरोग्यसंतानं रससिद्धिं च विन्दति ।। रस-१.७६ ।।

रसनात्सर्वधातूनां रस इत्यभिधीयते ।
जरारुङ्मृत्युनाशाय रस्यते वा रसो मतः ।। रस-१.७७ ।।

रसोपरसराजत्वाद्रसेन्द्र इति कीर्तितः ।
देहलोहमयीं सिद्धिं सूते सूतस्ततः स्मृतः ।। रस-१.७८ ।।

रोगपङ्काब्धिमग्नानां पारदानाच् च पारदः ।
सर्वधातुगतं तेजोमिश्रितं यत्र तिष्ठति ।। रस-१.७९ ।।

तस्मात्स मिश्रकः प्रोक्तो नानारूपफलप्रदः ।
एवंभूतस्य सूतस्य मर्त्यमृत्युगदच्छिदः ।
प्रभावान् मानुषा जाता देवतुल्यबलायुषः ।। रस-१.८० ।।

तान् दृष्ट्वाभ्यर्थितो रुद्रः शक्रेण तदनन्तरम् ।
दोषैश्च कञ्चुकाभिश्च रसराजो नियोजितः ।। रस-१.८१ ।।

तदाप्रभृति सूतोऽसौ नैव सिध्यत्यसंस्कृतः ।

[५ गतिस्] जलगो जलरूपेण त्वरितो हंसगो भवेत् ।। रस-१.८२ ।।

मलगो मलरूपेण सधूमो धूमगो भवेत् ।
अन्या जीवगतिर्दैवी जीवोऽण्डादिव निष्क्रमेत् ।। रस-१.८३ ।।

स तांश् च जीवयेज्जीवांस्तेन जीवो रसः स्मृतः ।



  • टीका रससरत्नसमुच्चयबोधिनी:
  • रसस्य पञ्चविधगतिमाह जलग इति ।। रसबोध-१.८४अब्;१
  • जलरूपेण द्रवत्वेन जलगः जलेन सह गमनशीलः भवेत् रसस्य चूर्णप्रायोऽतिसूक्ष्मांश इति भावः त्वरितः चञ्चलः चाञ्चल्यादित्यर्थः हंसगः हंसवद् गमनशीलः भवेत् मलरूपेण मलवत्त्वात् मलगः मलेन सह मिश्रितः दोषसंश्लिष्टः भवेत् सधूमः वह्निदृष्टत्वात् धूमगः धूमेन सह गमनशीलः उड्डयनस्वभावः भवेत् अन्या अपरा पञ्चमीत्यर्थः दैवी अदृश्यरूपा जीवस्य रसस्य गतिः गमनम् अस्तीति शेषः तया गत्या अण्डात् देहरूपकोशात् जीवः आत्मा इव निष्क्रमेत् रस इति भावः केन पथा देहात् जीवो निर्गच्छति तत् यथा न दृश्यते तथा पारदस्य पञ्चमी गतिरपि न ज्ञातुम् शक्यते इत्यर्थः ।। रसबोध-१.८४अब्;२
  • पूर्वश्लोके जीवगतिशब्देन रसगतिरिति प्रदर्शितं जीवशब्दस्य रसार्थत्वे हेतुमाह स इति ।। रसबोध-१.८४अब्;३
  • सः रसः तान् जीवान् जीवयेत् जरामरणादिविनाशनद्वारा दीर्घजीवनं प्रदापयेत् तेन हेतुना रसः जीवः जीवयतीति व्युत्पत्त्या जीवनदायकः स्मृतः कथितः ।। रसबोध-१.८४अब्;४



चतस्रो गतयो दृश्या अदृश्या पञ्चमी गतिः ।। रस-१.८४ ।।

मन्त्रध्यानादिना तस्य रुध्यते पञ्चमी गतिः ।। रस-१.८५ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • संप्रति पञ्चभूतात्मकस्य तस्य गतिभेदेन नामभेदमाह जलग इति ।। रस-टी१.८५;१
  • यः पारदो जलरूपेण जलस्वभावेन गच्छति स जलगो जलगतिविशिष्ट इत्युच्यते ।। रसटी-१.८५;२
  • तन्मयास्तु सुवर्णादिलोहाः ।। रसटी-१.८५;३
  • स्थिरसत्त्वा रसादयोऽपि तन्मयाः ।। रसटी-१.८५;४
  • भूमिमलकिट्टयोगेनैव तेषां घनत्वं स्थिरत्वं च ।। रसटी-१.८५;५
  • अत एव द्रुतिरूपेणैव तेषां स्थितिः सम्भवति ।। रसटी-१.८५;६
  • जलस्वभावोऽधोगमनरूपः ।। रसटी-१.८५;७
  • निर्मलद्रुतिरूपलोहानाम् अप्यधोगमनं दृश्यत एव ।। रसटी-१.८५;८
  • यः पारदस्त्वरितस्त्वरया वेगेन युक्तो नात्युच्छ्रितम् आकाशे गच्छति किंतु भूमिसंनिहिताकाशे भुवि च स हंसग इत्युच्यते ।। रसटी-१.८५;९
  • हंस इवाकाशे गच्छतीति हंसगः ।। रसटी-१.८५;१०
  • स तु मयूरगण्डूपदादिषु व्यवस्थितः ।। रसटी-१.८५;११
  • यस्तु मलरूपेण कृष्णवर्णेनांशेन विशिष्टो गच्छति स मलग इत्युच्यते ।। रसटी-१.८५;१२
  • यश्च सधूमो धूमेन धूमसमानवर्णोर्ध्वरेखासहिताकाशगत्या सह वर्तत इति सधूमः स धूमग इत्युच्यते ।। रसटी-१.८५;१३
  • स तु हरितालहिङ्गुलमनःशिलारसकगौरीपाषाणादिषु व्यवस्थितः ।। रसटी-१.८५;१४
  • ते हि धूमरोधात् स्फोटं कृत्वोद्गच्छन्तीत्यनुभूयते ।। रसटी-१.८५;१५
  • नाभियन्त्रभूधरलोहमूषादियन्त्रादिना निर्धूमजारणायामपि महता प्रयत्नेनापि तेषां स्थिरत्वं मीमांस्यं भवति भवेन्नन्वेति ।। रसटी-१.८५;१६
  • अन्या चतुर्थी गतिः पारदस्यास्ति ।। रसटी-१.८५;१७
  • सा तु जीवगतिरित्युच्यते ।। रसटी-१.८५;१८
  • जीवस्येवादृश्या गतिर्जीवगतिः ।। रसटी-१.८५;१९
  • अत एव सा दैवीत्यप्युच्यते ।। रसटी-१.८५;२०
  • तस्या देवगतेरिवादृश्यत्वात्तया युक्तः स पारदोऽण्डाज्जीव इवादृश्यगत्या युक्तः स्वस्थानान्निष्क्रमेन्निर्गच्छति ।। रसटी-१.८५;२१
  • अण्डाद्देहस्य निर्गमनं दृश्यते देहसहितस्य जीवस्य तु बहिर्निर्गमनं न दृश्यते ।। रसटी-१.८५;२२
  • बालस्य चालनश्वासोच्छ्वासादिक्रियया चानुमीयते तद्वद् अस्यापीति भावः ।। रसटी-१.८५;२३
  • तया गत्या युक्त एवायं जीवान्प्राणिनो जीवयेत्तेन स रसो जीवनाम्ना स्मृतः ।। रसटी-१.८५;२४
  • कारयेत्तं संस्कारनिपुणवैद्यहस्तेन राजा तत्समो वसुमान्वात्मनः प्रजानां च रक्षणार्थम् इति भावः ।। रसटी-१.८५;२५



इति भिन्नगतित्वाच्च सूतराज्यस्य दुर्लभः ।
संस्कारस्तस्य भिषजा निपुणेन तु रक्षयेत् ।। रस-१.८६ ।।

प्रथमे रजसि स्नातां हयारूढां स्वलंकृताम् ।
वीक्षमाणां वधूं दृष्ट्वा जिघृक्षुः कूपगो रसः ।। रस-१.८७ ।।

उद्गच्छति जवात्सापि तं दृष्ट्वा याति वेगतः ।
अनुगच्छति तां सूतः सीमानं योजनोन्मितम् ।। रस-१.८८ ।।

प्रत्यायाति ततः कूपं वेगतः शिवसम्भवः ।
मार्गनिर्मितगर्तेषु स्थितं गृह्णन्ति पारदम् ।
पतितो दरदे देशे गौरवाद्वह्निवक्त्रतः ।। रस-१.८९ ।।

स रसो भूतले लीनस् तत्तद्देशनिवासिनः ।
तां मृदं पातनयन्त्रे क्षिप्त्वा सूतं हरन्ति च ।। रस-१.९० ।।