रसरत्नसमुच्चय : अध्याय 07

विकिपुस्तकानि तः
Jump to navigation Jump to search

रसशालां प्रकुर्वीत सर्वबाधाविवर्जिते ।
सर्वौषधिमये देशे रम्ये कूपसमन्विते ।। रस-७.१ ।।

यक्षत्र्यक्षसहस्राक्षदिग्विभागे सुशोभने ।
नानोपकरणोपेतां प्राकारेण सुशोभिताम् ।। रस-७.२ ।।

शालायाः पूर्वदिग्भागे स्थापयेद् रसभैरवम् ।
वह्निकर्माणि चाग्नेये याम्ये पाषाणकर्म च ।। रस-७.३ ।।

नैरृत्ये शस्त्रकर्माणि वारुणे क्षालनादिकम् ।
शोषणं वायुकोणे च वेधकर्मोत्तरे तथा ।
स्थापनं सिद्धवस्तूनां प्रकुर्याद् ईशकोणके ।। रस-७.४ ।।

पदार्थसंग्रहः कार्यो रससाधनहेतुकः ।
सत्त्वपातनकोष्ठीं च झरत्कोष्ठीं सुशोभनाम् ।। रस-७.५ ।।

भूमिकोष्ठीं चलत्कोष्ठीं जलद्रोण्योऽप्यनेकशः ।
भस्त्रिकायुगलं तद्वन्नलिके वंशलोहयोः ।। रस-७.६ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • स्वर्णादिमय्यः कुण्ड्यो वर्तुलपात्राणि ।। रसटी-७.६;१



स्वर्णायोघोषशुल्वाश्मकुण्ड्यश् चर्मकृतां तथा ।
करणानि विचित्राणि द्रव्याण्यपि समाहरेत् ।। रस-७.७ ।।

कण्डणी पेषणी स्वल्पा द्रोणीरूपाश्च वर्तुलाः ।
आयसास्तप्तखल्लाश्च मर्दकाश्च तथाविधाः ।। रस-७.८ ।।

सूक्ष्मच्छिद्रसहस्राढ्या द्रव्यगालनहेतवे ।


  • टीका रससरत्नसमुच्चयटीका:
  • कटत्राणि कषायितचर्मखण्डानि ।। रसटी-७.९कख;१



चालनी च कटत्राणि शलाका हि च कुण्डली ।। रस-७.९ ।।

सिएवे

चालनी त्रिविधा प्रोक्ता तत्स्वरूपं च कथ्यते ।
वैणवीभिः शलाकाभिर्निर्मिता ग्रथिता गुणैः ।
कीर्तिता सा सदा स्थूलद्रव्याणां गालने हिता ।। रस-७.१० ।।


  • टीका रससरत्नसमुच्चयटीका:
  • इयं चतुष्कोणा दीर्घचालनी ।। रसटी-७.१०;१
  • तत्र दीर्घाः शलाकास्तिरश्चीनाश्च वंशमय्यश् चतुष्कोणकाष्ठपट्टिकाछिद्रेषु बहिर्निर्गताग्राः सूत्रबद्धाः कार्याः ।। रसटी-७.१०;२



सिएवे > व्.२

चूर्णचालनहेतोश्च चालन्यन्यापि वंशजा ।। रस-७.११ ।।

कर्णिकारस्य शाल्मल्या हरिजातस्य कम्बया ।
चतुरङ्गुलविस्तारयुक्तया निर्मिता शुभा ।। रस-७.१२ ।।

सिएवे > कुण्डली

कुण्डल्यरत्निविस्तारा छागचर्माभिवेष्टिता ।
वाजिवालाम्बरानद्धतला चालनिका परा ।
तया प्रचालनं कुर्याद्धर्तुं सूक्ष्मतरं रजः ।। रस-७.१३ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • कुण्डलीं कुण्डलाकारां वर्तुलां तृतीयां चालनीं विदध्यात् ।। रसटी-७.१३;१
  • वाजिवाला अश्वपुच्छकेशाः ।। रसटी-७.१३;२
  • अम्बरं वस्त्रम् ।। रसटी-७.१३;३
  • तदन्यतरेणानद्धतला बद्धतला ।। रसटी-७.१३;४

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • कुण्डली चालन्या वेष्टनी ।। रसबोध-७.१३;१
  • अरत्निविस्तारा प्रसारितकनिष्ठाङ्गुलिबद्धमुष्टिहस्तप्रमाणायता चतुरङ्गुलविस्तृतकर्णिकारादिवल्कलनिर्मिता अरत्निविस्तारवेष्टनी युक्ता छागचर्ममण्डिता अश्वपुच्छकेशसूक्ष्मवस्त्ररचिततलदेशा सूक्ष्मतरद्रव्यचालनार्थम् अपरविधा चालनीत्यर्थः ।। रसबोध-७.१३;२



मूषामृत्तुषकार्पासवनोपलकपिष्टकम् ।
त्रिविधं भेषजं धातुजीवमूलमयं तथा ।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • शर्करा वालुका ।। रसबोध-७.१४अ-द्;१

$

  • टीका रससरत्नसमुच्चयटीका:
  • शर्करा अतिक्षुद्रपाषाणरवकाः ।। रसटी-७.१४अ-द्;१
  • तदपेक्षया स्थूलाः श्वेताः कणाः सितोपलाः ।। रसटी-७.१४अ-द्;२
  • शर्कराशब्देन वालुकापि ग्राह्या ।। रसटी-७.१४अ-द्;३



शिखित्र, शर्करा

शिखित्रा गोवरं चैव शर्करा च सितोपला ।। रस-७.१४ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • सितोपला कठिनी फुलकडी इति भाषा ।। रसबोध-७.१४;१



छर्चोअल्

शिखित्राः पावकोच्छिष्टा अङ्गाराः कोकिला मताः ।। रस-७.१५ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • दग्धकाष्ठकठिनखण्डानामेव शिखित्रसंज्ञा कोकिलसंज्ञा च ।। रसटी-७.१५;१
  • संप्रति तेषां सामान्यम् अवान्तरभेदं चाह शिखित्रा इति ।। रसटी-७.१५;२
  • पावकेन वह्निना भुक्त्वा उच्छिष्टाः परित्यक्ता अङ्गाराः शिखित्राः कोकिलाश्च मताः ।। रसटी-७.१५;३
  • विशेषस्त्वित्थम् वह्निना भुक्त्वा स्वयं त्यक्ताः शिखित्रा हठात् प्रतिकूलवायुधूलिक्षेपमृत्तिकादिनिपीडनादिना यत्नेन वह्नितो वियोजिता अङ्गाराः कोकिला मता इति चेति ।। रसटी-७.१५;४
  • ते प्रज्वलिता जलेन विना निर्वाणाः कृता वह्निमुक्ताः कृताः ।। रसटी-७.१५;५



छर्चोअल् > कोकिल

कोकिलाश् चेतिताङ्गारा निर्वाणाः पयसा विना ।। रस-७.१६ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • शिखित्रलक्षणे कोकिला उक्ताः अतः कोकिलाशब्दस्यार्थम् आह कोकिला इति ।। रसबोध-७.१६;१
  • चेतिताङ्गाराः तप्ताङ्गाराः पयसो विना स्वयं निर्वाणाः शान्ताः चेत् ते अङ्गाराः कोकिलाः मताः कोकिलाः कय्ला इति भाषा ।। रसबोध-७.१६;२



द्रिएद् चोwदुन्ग्

पिष्टकं छगणं छाणम् उपलं चोत्पलं तथा ।
गिरिण्डोपलसाठी च संशुष्कच्छगणाभिधाः ।। रस-७.१७ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • चषकं पानपात्रं वाटी ग्लास् इति प्रसिद्धम् ।। रसबोध-७.१७;१


काचायोमृद्वराटानां कूपिका चषकानि च ।। रस-७.१८ ।।

बोत्त्ले

कूपिका कुपिका सिद्धा गोला चैव गिरिण्डिका ।। रस-७.१९ ।।

चषकपर्यायाः

चषकं च कटोरी च वाटिका खारिका तथा ।
कञ्चोली ग्राहिका चेति नामान्येकार्थकानि हि ।। रस-७.२० ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • क्षुद्रशिप्राः क्षुद्राकाराः शुक्तयः ।। रसबोध-७.२०;१



शूर्पादिवेणुपात्राणि क्षुद्रशिप्राश्च शङ्खिकाः ।


  • टीका रससरत्नसमुच्चयटीका:
  • शङ्खिकाः क्षुद्रशङ्खमयपात्राणि ।। रसटी-७.२१कख;१

$

  • टीका रससरत्नसमुच्चयटीका:
  • क्षुरका नापितस्य शस्त्रविशेषाः ।। रसटी-७.२१कख;१

$

  • टीका रससरत्नसमुच्चयटीका:
  • पाक्यो यवक्षारः ।। रसटी-७.२०;१



क्षुरप्राश्च तथा पाक्यः यच्चान्यत्तत्र युज्यते ।


  • टीका रससरत्नसमुच्चयटीका:
  • पालिका दर्वी ।। रसटी-७.२१कख;१

$

  • टीका रससरत्नसमुच्चयटीका:
  • कर्णिका विलीति महाराष्ट्रभाषायाम् ।। रसटी-७.२१कख;१
  • सा चात्र वर्तुलाकारदन्तपङ्क्तिशिखरा ग्राह्या ।। रसटी-७.२१कख;२



पालिका कर्णिका चैव शाकच्छेदनशस्त्रकाः ।। रस-७.२१ ।।

शालासम्मार्जनाद्यं हि रसपाकान्तकर्म यत् ।
तत्रोपयोगि यच्चान्यत्तत्सर्वं परविद्यया ।। रस-७.२२ ।।

श्रीरसाङ्कुशया सर्वं मन्त्रयित्वा समर्चयेत् ।
अन्यथा तद्गतं तेजः परिगृह्णन्ति भैरवाः ।। रस-७.२३ ।।

रससंचिन्तका वैद्या निघण्टुज्ञाश्च वार्त्तिकाः ।
सर्वदेशजभाषाज्ञाः संग्राह्यास्तेऽपि साधकैः ।। रस-७.२४ ।।

रसपाकावसानं हि सदाघोरं च जापयेत् ।। रस-७.२५ ।।

सोद्यमाः शुचयः शूरा बलिष्ठाः परिचारकाः ।। रस-७.२६ ।।

धर्मिष्ठः सत्यवाग्विद्वान् शिवकेशवपूजकः ।
सदयः पद्महस्तश्च संयोज्यो रसवैद्यके ।। रस-७.२७ ।।

पताकाकुम्भपाथोजमत्स्यचापाङ्कपाणिकः ।
अनामाधस्थरेखाङ्कः स स्यादमृतहस्तवान् ।। रस-७.२८ ।।

अदेशिकः कृपामुक्तो लुब्धो गुरुविवर्जितः ।
कृष्णरेखाकरो वैद्यो दग्धहस्तः स उच्यते ।। रस-७.२९ ।।

निग्रहमन्त्रज्ञास्ते योज्या निधिसाधने ।। रस-७.३० ।।

बलिष्ठाः सत्यवन्तश्च रक्ताक्षाः कृष्णविग्रहाः ।
भूतत्रासनविद्याश्च ते योज्या बलिसाधने ।। रस-७.३१ ।।

निर्लोभाः सत्यवक्तारो देवब्राह्मणपूजकाः ।
यमिनः पथ्यभोक्तारो योजनीया रसायने ।। रस-७.३२ ।।

धनवन्तो वदान्याश्च सर्वोपस्करसंयुताः ।
गुरुवाक्यरता नित्यं धातुवादेषु ते शुभाः ।। रस-७.३३ ।।

तत्तदौषधनामज्ञाः शुचयो वञ्चनोज्झिताः ।
नानाविषयभाषाज्ञास्ते मता भेषजाहृतौ ।। रस-७.३४ ।।

शुचीनां सत्यवाक्यानामास्तिकानां मनस्विनाम् ।
संदेहोज्झितचित्तानां रसः सिध्यति सर्वदा ।। रस-७.३५ ।।

दशाष्टक्रियया सिद्धो रसोऽसौ साधकोत्तमः ।
हा रसो नष्टमित्युक्त्वा सेवेतान्यत्र तं रसम् ।। रस-७.३६ ।।

रससिद्धो भवेन्मर्त्यो दाता भोक्ता न याचकः ।
जरामुक्तो जगत्पूज्यो दिव्यकान्तिः सदा सुखी ।। रस-७.३७ ।।