सामग्री पर जाएँ

रसरत्नसमुच्चय : अध्याय 09

विकिपुस्तकानि तः
रसरत्नसमुच्चय, ९

अथ यन्त्राणि वक्ष्यन्ते रसतन्त्राण्यशेषतः ।
समालोच्य समासेन सोमदेवेन साम्प्रतम् ।। रस-९.१ ।।

स्वेदादिकर्म निर्मातुं वार्त्तिकेन्द्रैः प्रयत्नतः ।

यन्त्र > निरुक्ति

यन्त्र्यते पारदो यस्मात्तस्माद्यन्त्रमिति स्मृतम् ।। रस-९.२ ।।

दोलायन्त्र

द्रवद्रव्येण भाण्डस्य पूरितार्धोदकस्य च ।
मुखस्योभयतो द्वारद्वयं कृत्वा प्रयत्नतः ।। रस-९.३ ।।

तयोस्तु निक्षिपेद् दण्डं तन्मध्ये रसपोटलीम् ।
बद्ध्वा तु स्वेदयेदेतद्दोलायन्त्रमिति स्मृतम् ।। रस-९.४ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • दोलायन्त्रमाह द्रवद्रव्येणेति ।। रसबोध-९.४;१
  • द्रवद्रव्येण काञ्जिकादिस्वेदनद्रव्येण ।। रसबोध-९.४;२
  • मुखस्येति ।। रसबोध-९.४;३
  • भाण्डकन्धरायाः प्रान्तद्वये छिद्रद्वयं कृत्वेत्यर्थः ।। रसबोध-९.४;४
  • तयोः छिद्रयोः ।। रसबोध-९.४;५
  • तन्मध्ये दण्डमध्ये ।। रसबोध-९.४;६
  • स्वेदनार्हेण काञ्जिकादिना केनचित् द्रवेण भाण्डार्धमापूर्य भाण्डकन्धराप्रान्तद्वये छिद्रद्वयं कृत्वा तन्मध्ये दण्डमेकं निधाय तस्मिन् रसपोट्टलीं बद्ध्वा च एवं लम्बयेत् यथा भाण्डस्थद्रवे सा निमज्जेत् परं तु भाण्डम् न स्पृशेदिति निष्कर्षः ।। रसबोध-९.४;७



स्वेदनीयन्त्र

साम्बुस्थालीमुखे बद्धवस्त्रे पाक्यं निवेशयेत् ।
पिधाय पच्यते यत्र स्वेदनीयन्त्रमुच्यते ।। रस-९.५ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ पत्रपुष्पादीनामतिमृदुद्रव्याणां स्वल्पस्वेदार्थं यन्त्रान्तरमाह साम्बुस्थालीति ।। रसटी-९.५;१
  • स्थालीं चतुर्थांशजलेन पूरितोदरां जलेनार्धपूरितोदरां वा कृत्वा तस्या मुखम् आ समन्ताद् वस्त्रेण बद्धं यथा स्यात्तथा मुखाबद्धे वस्त्रे पाक्यं स्वेद्यम् अतिकोमलं द्रव्यं विनिक्षिप्य न्युब्जशरावादिना पिधायाच्छाद्य यत्र पच्यते तत् स्वेदनीयन्त्रमित्युच्यते ।। रसटी-९.५;२
  • अस्यैव यन्त्रस्य कन्दुकसंज्ञां वक्ष्यति ।। रसटी-९.५;३



पातनायन्त्र

अष्टाङ्गुलपरीणाहमानाहेन दशाङ्गुलम् ।
चतुरङ्गुलकोत्सेधं तोयाधारं गलादधः ।। रस-९.६ ।।

अधोभाण्डे मुखं तस्य भाण्डस्योपरि वर्तिनः ।
षोडशाङ्गुलविस्तीर्णपृष्ठस्यास्ये प्रवेशयेत् ।। रस-९.७ ।।

पार्श्वयोर् महिषीक्षीरचूर्णमण्डूरफाणितैः ।
लिप्त्वा विशोषयेत्संधिं जलाधारे जलं क्षिपेत् ।
चुल्ल्याम् आरोपयेद् एतत् पातनायन्त्रमुच्यते ।। रस-९.८ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथोर्ध्वपातनायन्त्रमाह अष्टाङ्गुलेति ।। रसटी-९.८;१
  • अथ न्युब्जस्थाप्यस्य विशालपृष्ठस्य मृत्पात्रस्याङ्गुलाद् अधोऽङ्गुलमितपृष्ठभागाद् अधोभागे तोयाधारः कार्यः ।। रसटी-९.८;२
  • कथम् ।। रसटी-९.८;३
  • अष्टाङ्गुलपरीणाहम् अष्टाङ्गुलगर्भविस्तारं यथा स्यात्तथा ।। रसटी-९.८;४
  • तथानाहेन बन्धेन सह दशाङ्गुलं यथा स्यात्तथा बन्ध आलवालं तत्प्रदेशं संगृह्य दशाङ्गुलविस्तारम् इत्यर्थः ।। रसटी-९.८;५
  • एवं च बन्धस्थौल्यम् अङ्गुलद्वयमितं गर्भविस्तारश्चाष्टाङ्गुलमितः कार्य इत्यवतिष्ठते ।। रसटी-९.८;६
  • न ह बन्धने ।। रसटी-९.८;७
  • चतुरङ्गुलोच्छ्रायं यथा स्यात्तथा तोयाधारः पृष्ठे कार्य इत्यर्थः ।। रसटी-९.८;८
  • तादृशाधारविशिष्टस्य षोडशाङ्गुलविस्तीर्णपृष्ठस्योपरिवर्तिनस्तस्य भाण्डस्यास्येऽधो भाण्डमुखं प्रवेशयेत् ।। रसटी-९.८;९
  • ततो मुखपार्श्वयोर्महिषीक्षीरादिभिः संधिं लिप्त्वा विशोषयेत् ।। रसटी-९.८;१०
  • चूर्णः सुधा श्वेतं लेपद्रव्यमित्यर्थः ।। रसटी-९.८;११
  • पातनायन्त्रमीरितम् ।। रसटी-९.८;१२
  • ऊर्ध्वपातनायन्त्रमुक्तमित्यर्थः ।। रसटी-९.८;१३

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • पातनायन्त्रस्य स्वरूपमाह अष्टाङ्गुलेति ।। रसबोध-९.८;१
  • परीणाहः विस्तारः परिधिरिति यावत् ।। रसबोध-९.८;२
  • आनाहः औन्नत्यं दैर्घ्यमिति यावत् ।। रसबोध-९.८;३
  • उत्सेधः उपचितिः स्थौल्यमिति यावत् ।। रसबोध-९.८;४



अधःपातनयन्त्र

अथोर्ध्वभाजने लिप्तस्थापितस्य जले सुधीः ।
दीप्तैर् वनोपलैः कुर्यादधः पातं प्रयत्नतः ।। रस-९.९ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अधःपातनयन्त्रमाह अस्योर्ध्वेति ।। रसटी-९.९;१
  • जलाधारविहीनस्य वैपरीत्येन जले स्थापितस्यास्योक्तयन्त्रस्य संबन्धि यद् ऊर्ध्वभाजनं तत्र लिप्तस्थापितस्य लेपं कृत्वा स्थापितस्य पारदस्य यन्त्रोपरि दीप्तैर्वनोपलैरधःपातं कुर्यात् ।। रसटी-९.९;२
  • इत्येतद् अधःपातनायन्त्रम् अभिहितम् ।। रसटी-९.९;३

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • अधःपातनायन्त्रे पातनक्रममाह अथेति ।
  • अथ उक्तरीत्या यन्त्रनिर्माणानन्तरम् ऊर्ध्वभाजने उपरिस्थाधोमुखभाण्डोदरे इत्यर्थः आदौ लिप्तं पश्चात् स्थापितं तस्य लिप्तस्थापितस्य रसस्येति शेषः जले अधोभाण्डस्थिते इति शेषः दीप्तैः वनोत्पलैः वन्यकरीषाग्निभिः ।। रसबोध-९.९;१



कच्छपयन्त्र

जलपूर्णपात्रमध्ये दत्त्वा घटखर्परं सुविस्तीर्णम् ।
तदुपरि विडमध्यगतः स्थाप्यः सूतः कृतः कोष्ठ्याम् ।। रस-९.१० ।।

लघुलोहकटोरिकया कृतषण्मृत्संधिलेपयाच्छाद्य ।
पूर्वोक्तघटखर्परमध्येऽङ्गारैः खदिरकोलभवैः ।। रस-९.११ ।।

स्वेदनतो मर्दनतः कच्छपयन्त्रस्थितो रसो जरति ।
अग्निबलेनैव ततो गर्भे द्रवन्ति सर्वसत्त्वानि ।। रस-९.१२ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • कच्छपयन्त्रं द्विविधं जलकच्छपं स्थलकच्छपं च ।। रसटी-९.१२;१
  • तत्रेदानीं जलकच्छपमाह जलपूर्णेति ।। रसटी-९.१२;२
  • घटखर्परं खण्डितमुखं सच्छिद्रं घटखण्डमुत्तानं दत्त्वा तदुपरि कोष्ठीं मूषां छिद्रे किंचित्प्रविष्टबुध्नां नीरावियोगिनीमुत्तानां सुदृढं निश्चलं संस्थाप्य कोष्ठीमभितः कुड्यं विदध्यात् ।। रसटी-९.१२;३
  • कोष्ठ्यां बिडं तन्मध्ये पारदं च दत्त्वा स सम्यक्स्थाप्यः ।। रसटी-९.१२;४
  • ततो लघुलोहकटोरिकया न्युब्जया तं पारदं कोष्ठ्यामाच्छाद्य मृत्कर्पटादिना संधिं रुद्ध्वा तद्घटखर्परम् अङ्गारैः करीषादिमिश्रैः पूर्णं कुर्यात् पूर्णं तद् घटखर्परम् अङ्गारैः करीषतुषमिश्रैः ।। रसटी-९.१२;५
  • गर्भद्रवन्तीति स्थाने गर्भद्रुतिः सर्वलोहानामिति पाठः ।। रसटी-९.१२;६
  • एवं रीत्या कच्छपयन्त्रस्थः पारदः स्वेदनतो वह्नितापेन मर्दनतो बिडादिना सह पाकावसरे तत्रैव जातेन मर्दनेन द्रुतं ग्रासं त्रिदिनं जरति ।। रसटी-९.१२;७
  • एवं चैतद्यन्त्रं गर्भद्रुतिपूर्वकं जारणोपयोगीति भावः ।। रसटी-९.१२;८
  • अत्र जलपूर्णपात्रं भूमावेव निखातं कृत्वा तन्मुखे सच्छिद्रमुत्तानं शरावं दत्त्वा तत्र छिद्रे नीरावियोगिनीं मूषां काचविलेपितां धृत्वा तत्र पारदस्याधस्तादुपरिष्टाच्च गन्धकं दत्त्वा पिधायोपर्युपलाग्निना गन्धकं जारयन्ति केचित् ।। रसटी-९.१२;९
  • किंचैतद्घटकशरावे छिद्रसंस्थितां पक्वमूषां कृत्वा तस्यामष्टांशबिडावृतं पारदं धृत्वा लोहपात्र्यां संरुद्धं मुद्रितं च कृत्वा तदुपर्यष्टाङ्गुलमानां वालुकां विनिक्षिप्य हठात्तदुपरि ध्मानेन ध्मातं तद्गर्भसम्भूतं रसं मायूरपित्तलिप्तं काञ्चनं ग्रासयन्तीति ।। रसटी-९.१२;१०
  • स्थलकूर्मयन्त्रं तु किंचिद्गर्तायुक्ते भूतले तथैव घटखर्परं न्युब्जं निधाय संधिलेपादि कृत्वा तदुपरि सर्वतः पार्श्वभागे च पुटं दद्यादिति ।। रसटी-९.१२;११
  • तत्र गर्तायां वनसूरणादिकन्दोदरे बिडं तन्मध्ये सग्रासं पारदं दत्त्वा तत्कन्दशकलेनैवाच्छाद्य मृत्कर्पटादिनावेष्ट्य संशोष्य धारयेत् ।। रसटी-९.१२;१२
  • पृष्ठे चाग्निं संततं दिनत्रयं दद्यात् ।। रसटी-९.१२;१३
  • अन्तरान्तरा कन्दपरिवर्तनं कार्यं यथा कन्दो न दह्येत ।। रसटी-९.१२;१४
  • एवं स्थलकूर्मयन्त्रेण जारणम् विदध्यादिति ।। रसटी-९.१२;१५
  • कन्दे दग्धप्राये सति अन्यत्रान्यत्र कन्दे पूर्ववत्तं पारदं धृत्वा पाचयेत् ।। रसटी-९.१२;१६



दीपिकायन्त्र

कच्छपयन्त्रान्तर्गतमृन्मयपीठस्थदीपिकासंस्थः ।
यस्मिन्निपतति सूतः प्रोक्तं तद्दीपिकायन्त्रम् ।। रस-९.१३ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • दीपिकायन्त्रमाह कच्छपेति ।। रसबोध-९.१३;१
  • वक्ष्यमाणकच्छपयन्त्रमध्यवर्तिमृन्मयघटखर्पररूपपीठोपरि प्रदीपमेकम् संस्थाप्य तत्र सूतं स्थापयेत् कच्छपयन्त्राधः वह्निं च दद्यात् एवं प्रदीपस्थसूतः कच्छपयन्त्रे पतति तत् दीपिकाख्यं यन्त्रं ज्ञेयम् ।। रसबोध-९.१३;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ दीपिकायन्त्रमाह कच्छपयन्त्रेति ।। रसटी-९.१३;१
  • जलपूर्णपात्रमध्ये घटकलशमुत्तानं निधाय तत्र कोष्ठीमकृत्वा तत्स्थाने मृन्मयपीठं कृत्वा तत्र दीपिकां निधाय दीपं प्रज्वाल्य नागस्वर्णबीजसहितं गन्धकमनःशिलाहरीतालसहितं च पारदं मर्दनेन पिष्टीकृतं पोटलिकायां बद्ध्वा कच्छपाकारन्युब्जमृत्पात्रोदरे तैलमग्नां तां पोटलीं दीपज्वालोपरि यथा स्यात्तथावलम्बितां बद्ध्वा तन्न्युब्जं पात्रं न्युब्जं निधाय दीपोष्मणा नागं भक्षयित्वा पारदो जलपात्रेऽधः पतति यस्मिन् यन्त्रे तद्दीपिकायन्त्रमुक्तम् ।। रसटी-९.१३;२
  • नागजारणार्थस्य यन्त्रस्योपयोगो बोध्यः ।। रसटी-९.१३;३
  • ततो जीर्णनागं पारदं भस्ममूषायां ध्मानेन वियुक्तं नागं कृत्वा तस्मिन्रसे साधकावरबीजं जारयन्तीति ।। रसटी-९.१३;४
  • दीपिकासंस्थो दीपिकोपरि सम्यक्स्थित इत्यर्थः ।। रसटी-९.१३;५



डेकीयन्त्र

भाण्डकण्ठादधश् छिद्रे वेणुनालं विनिक्षिपेत् ।
कांस्यपात्रद्वयं कृत्वा सम्पुटं जलगर्भितम् ।। रस-९.१४ ।।

नलिकास्यं तत्र योज्यं दृढं तच्चापि कारयेत् ।
युक्तद्रव्यैर्विनिक्षिप्तः पूर्वं तत्र घटे रसः ।। रस-९.१५ ।।

अग्निना तापितो नालात्तोये तस्मिन्पतत्यधः ।
यावदुष्णं भवेत् सर्वं भाजनं तावदेव हि ।
जायते रससंधानं डेकीयन्त्रमितीरितम् ।। रस-९.१६ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • डेकीयन्त्रमाह भाण्डकण्ठादिति ।। रसबोध-९.१६;१
  • भाण्डस्य कण्ठनिम्ने छिद्रमेकं विधाय तत्र वंशनिर्मितं नलमेकं संयोज्य स्थापयेत् ।। रसबोध-९.१६;२
  • अन्यच्च जलपूर्णकांस्यपात्रद्वयेन संपुटमेकं कृत्वा भाण्डकण्ठस्थनलाग्रं तत्र प्रवेश्य दृढं सन्धिरोधं कुर्यात् ।। रसबोध-९.१६;३
  • ततो भाण्डमध्ये निर्दिष्टद्रव्यैः सह रसं क्षिप्त्वा अग्निज्वाला देया तेन नालच्छिद्रानुसारी रसः कांस्यपात्रमध्यस्थजले पतति ।। रसबोध-९.१६;४
  • एवं यावत् सर्वं पात्रं उष्णं भवेत् तावत् कुर्यात् ।। रसबोध-९.१६;५
  • रससंधानं रसनिर्गमनम् इत्यर्थः ।। रसबोध-९.१६;६

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ ढेकीयन्त्रमाह भाण्डकण्ठादिति ।। रसटी-९.१६;१
  • अधश्छिद्र उपकण्ठं कृते छिद्रे जलगर्भितं स्वादुशीतजलगर्भितम् ।। रसटी-९.१६;२
  • युक्तद्रव्यैः शुद्धियोग्यैः काञ्जिकादिभिः पातनोपयोगिद्रवैश्च सह संयुक्तो रसो घटे सच्छिद्रोपकण्ठे वह्निस्थिते मृन्मयघटे पूर्वं विनिक्षिप्तः कार्यः ।। रसटी-९.१६;३
  • भाजनं सम्पुटघटकम् अधोभाजनम् उष्णं यावद्भवेद् घटे तावदग्निः कार्य इत्यर्थः ।। रसटी-९.१६;४
  • रससंधानं पारदस्य सम्यगाधानं स्थापनमित्यर्थः ।। रसटी-९.१६;५
  • एतद्यन्त्रसमं देगयन्त्रं रससारेऽभिहितम् ।
  • बृहद्भाण्डं समादाय कुक्षौ च छिद्रसंयुतम् ।
  • भाण्डे काचघटीं क्षिप्त्वा मुखं छिद्रे नियोजयेत् ।। रसटी-९.१६;६
  • तदास्ये काचनालं स्यात्तच्च नालमधोमुखम् ।
  • रुद्ध्वा तदा तयोः संधिमर्धं च नालकं दिहेत् ।। रसटी-९.१६;७
  • भाण्डं वालुकयापूर्य तस्य द्वारं निरुध्य च ।
  • वह्नेः प्रज्वालनं तावद्यावत्तन्नालकं द्रवेत् ।। रसटी-९.१६;८
  • शीतं यन्त्रं समुत्तार्य घटीं प्रक्षालयेत्ततः ।
  • द्रावं क्षिप्त्वा पुनर्दद्यात्पुनः पाको विधीयते ।। रसटी-९.१६;९
  • एवं रङ्गद्रुतिः प्रोक्ता देगयन्त्रेऽतिशोभना ।
  • तालो नागः शिलाचौरः शुल्वो हंसश्च गन्धकः ।। रसटी-९.१६;१०
  • एते रङ्गं विमुञ्चन्ति विद्रुमं गैरिकं तथा ।
  • वालुकादेगयन्त्रेण पिच्छकेशा द्रवन्ति च ।। रसटी-९.१६;११
  • इति ।। रसटी-९.१६;१२



जारणायन्त्र

लोहमूषाद्वयं कृत्वा द्वादशाङ्गुलमानतः ।
ईषच्छिद्रान्वितामेकां तत्र गन्धकसंयुताम् ।। रस-९.१७ ।।

मूषायां रसयुक्तायाम् अन्यस्यां तां प्रवेशयेत् ।
तोयं स्यात्सूतकस्याध ऊर्ध्वाधो वह्निदीपनम् ।। रस-९.१८ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • जारणायन्त्रमाह लोहेत्यादि द्वाभ्याम् ।। रसबोध-९.१८;१
  • वितस्तिमानं लौहमयमूषाद्वयं निर्माय तयोरीषच्छिद्रान्वितायाम् एकस्यां मूषायां गन्धकं संस्थापयेत् ततः रसगर्भायामन्यस्यां मूषायां पूर्वोक्तां सगन्धकमूषां प्रवेश्य सूतगर्भमूषाधो जलं स्थापयित्वा ऊर्ध्वाधश्च वह्निं प्रज्वालयेदिति ।। रसबोध-९.१८;२



जारणायन्त्र (२)

रसोनकरसं भद्रे यत्नतो वस्त्रगालितम् ।
दापयेत्प्रचुरं यत्नादाप्लाव्य रसगन्धकौ ।। रस-९.१९ ।।

स्थालिकायां पिधायोर्ध्वं स्थालीमन्यां दृढां कुरु ।
संधिं विलेपयेद्यत्नान्मृदा वस्त्रेण चैव हि ।। रस-९.२० ।।

स्थाल्यन्तरे कपोताख्यं पुटं कर्षाग्निना सदा ।
यन्त्रस्याधः करीषाग्निं दद्यात्तीव्राग्निमेव वा ।। रस-९.२१ ।।

एवं तु त्रिदिनं कुर्यात्ततो यन्त्रं विमोचयेत् ।
तप्तोदके तप्तचुल्ल्यां न कुर्याच्छीतलां क्रियाम् ।। रस-९.२२ ।।

न तत्र क्षीयते सूतो न च गच्छति कुत्रचित् ।
अनेन च क्रमेणैव कुर्याद्गन्धकजारणम् ।। रस-९.२३ ।।

विद्याधरयन्त्र

यन्त्रं विद्याधरं ज्ञेयं स्थालीद्वितयसम्पुटात् ।
चुल्लीं चतुर्मुखीं कृत्वा यन्त्रभाण्डं निवेशयेत् ।। रस-९.२४ ।।

तत्रौषधं विनिक्षिप्य निरुन्ध्याद्भाण्डकाननम् ।
यन्त्रं विद्याधरं नाम तन्त्रज्ञैः परिकीर्तितम् ।। रस-९.२५ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • विद्याधरयन्त्रमाह यन्त्रमिति ।। रसबोध-९.२५;१
  • स्थालीद्वितयसम्पुटात् हण्डिकाद्वयकृतपुटविशेषात् ।। रसबोध-९.२५;२
  • तदेव विवृणोति चुल्लीमिति ।। रसबोध-९.२५;३
  • अधोभाण्डे औषधं निक्षिप्य भाण्डान्तरेण मुखं पिधाय चुल्ल्यां चतुर्मुख्यां संस्थाप्य च ज्वाला देया ।। रसबोध-९.२५;४
  • कोष्ठीयन्त्रमिति संज्ञान्तरमस्य ।। रसबोध-९.२५;५
  • ग्रन्थान्तरे तु विद्याधरयन्त्रलक्षणम् अन्यविधं तत्तु अग्रे स्वयमेव वक्ष्यति ।। रसबोध-९.२५;६

$

  • टीका रससरत्नसमुच्चयटीका:
  • विद्याधरयन्त्रमाह ।। रसटी-९.२५;१
  • तत्र प्रथमं तत्स्वरूपं समासत उक्त्वानन्तरं सविस्तरमाह यन्त्रमिति ।। रसटी-९.२५;२
  • स्थालीद्वितयसंपुटादिति ।। रसटी-९.२५;३
  • समस्थूलानामेव संपुटं भवति न तु महदत्यल्पयोरिति ।। रसटी-९.२५;४
  • इति वक्ष्यमाणः स्थालीयन्त्रादस्याकृतिविशेषः स्फुटीकृतः ।। रसटी-९.२५;५
  • अथ विस्तरेणाह चुल्लीं चतुर्मुखीमिति ।। रसटी-९.२५;६
  • सर्वत्र साम्येनाग्निप्रवृत्त्यर्थं चतुर्मुखीम् इत्युक्तम् ।। रसटी-९.२५;७
  • तत्र यन्त्रभाण्डं निवेशयेत् ।। रसटी-९.२५;८
  • निरुन्ध्यात् ।। रसटी-९.२५;९
  • न्युब्जमुखेन पात्रान्तरेण संपुटेत् ।। रसटी-९.२५;१०
  • एतद्यन्त्रम् विद्याधरनाम्ना शास्त्रे परिकीर्तितम् ।। रसटी-९.२५;११
  • अस्योपयोगस्तु सौम्यवीर्यद्रव्याणां मृद्वग्निना पाकार्थं बोध्यः ।। रसटी-९.२५;१२
  • अत एव वक्ष्यति पञ्चदशाध्याये कनकसुन्दररसे दत्त्वा विद्याधरे यन्त्रे पुटेदारण्यकोपलैरिति ।। रसटी-९.२५;१३



सोमानलयन्त्र

ऊर्ध्वं वह्निरधश्चापो मध्ये तु रससंग्रहः ।
सोमानलम् इदं प्रोक्तं जारयेद्गगनादिकम् ।। रस-९.२६ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • सोमानलयन्त्रमाह ऊर्ध्वमिति ।। रसबोध-९.२६;१
  • गगनादिकम् अभ्रादिकम् ।। रसबोध-९.२६;२
  • स्थालीमध्ये रसमूषां संस्थाप्य शरावेण मुखं पिधाय मृद्वस्त्रेण सन्धिं लिप्त्वा च जलपूर्णस्थाल्यन्तरोपरि स्थालीं तां स्थापयेत् शरावोपरि करीषाग्निं च दद्याद् इति ।। रसबोध-९.२६;३

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ सोमानलयन्त्रं समासत आह ऊर्ध्वं वह्निरिति ।। रसटी-९.२६;१
  • मध्य इति ।। रसटी-९.२६;२
  • अधःपात्रे जलं तदुपरि उत्तानं शरावादि दत्त्वा तत्र लघुमूषामुत्तानां धृत्वा तन्मध्ये बिडं बिडमध्ये सग्रासं पारदं च दत्त्वा दृढं पिधानेन पिधाय तदुपरि खर्परं दत्त्वा तत्राग्निर् देयः ।। रसटी-९.२६;३
  • इति विधिना गगनसत्त्वादिकं जारयेदिति ।। रसटी-९.२६;४
  • एतदेव यन्त्रं सनाभिनालं कृत्वाग्निमधो दत्त्वा नाभिमध्ये पारदं सग्रासं दत्त्वा जारयेदिति प्रकारान्तरेण रससारेऽभिहितम् ।। रसटी-९.२६;५
  • तथा च तत्पाठः ।
  • सोमानलस्य यन्त्रस्य नाभिमध्ये रसं क्षिपेत् ।
  • दत्त्वाष्टांशं बिडं नाभिं किंचिदम्लेन पूरयेत् ।। रसटी-९.२६;६
  • क्षाराम्लं त्र्यूषणं मूत्रं राजिका शिग्रु चित्रकम् ।
  • नालं प्रपूरयेद् एभिर् नाभेश्चोपरि साधकः ।। रसटी-९.२६;७
  • दद्यादुपरि यन्त्रस्य सच्छिद्रं समबुध्नकम् ।
  • छिद्रे च दोरकं बद्ध्वा अम्लैः खर्परपूरणम् ।। रसटी-९.२६;८
  • रसोपरि पतेद्बिन्दुः स्तोकं स्तोकं पुनः पुनः ।
  • यन्त्राधः स्थापयेदग्निम् अहोरात्रत्रयं बुधः ।। रसटी-९.२६;९
  • त्रिदिनैर् जीर्यते ग्रासं सूतको नात्र संशयः ।
  • इति ।। रसटी-९.२६;१०
  • सच्छिद्रं समबुध्नकमिति खर्परस्य विशेषणम् ।। रसटी-९.२६;११
  • नालं तु क्षारादिपूरितं कृत्वा खर्परच्छिद्रसंमुखम् एवोच्छ्रितं कार्यमिति भावः ।। रसटी-९.२६;१२
  • एतदेव यन्त्रं नाभिरहितं कृत्वा वैपरीत्येनाग्निजलस्थापनेन प्राप्ताग्नीषोमाख्यं पारदबन्धकरं भवतीत्यपि तद्ग्रन्थे एवाभिहितम् ।
  • अथाधोऽग्निरुपर्यापो मध्ये देयो रसेश्वरः ।
  • अग्नीषोमाख्ययन्त्रेण बध्यते सप्तरात्रतः ।। रसटी-९.२६;१३
  • इति ।। रसटी-९.२६;१४



गर्भयन्त्र

गर्भयन्त्रं प्रवक्ष्यामि पिष्टिकाभस्मकारकम् ।
चतुरङ्गुलदीर्घां च त्र्यङ्गुलोन्मितविस्तराम् ।। रस-९.२७ ।।

मृन्मयीं सुदृढां मूषां वर्तुलं कारयेन्मुखम् ।
लोणस्य विंशतिर्भागा भाग एकस्तु गुग्गुलोः ।। रस-९.२८ ।।

सुश्लक्ष्णं पेषयित्वा तु वारं वारं पुनः पुनः ।
मूषालेपं दृढं कृत्वा लवणार्धमृदम्बुभिः ।। रस-९.२९ ।।

कर्षेत् तुषाग्निना भूमौ स्वेदयेन्मृदु मानवित् ।
अहोरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत् ।। रस-९.३० ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • गर्भयन्त्रमाह गर्भयन्त्रमिति ।। रसबोध-९.३०;१
  • पिष्टिका नष्टपिष्टीकृतः रसः इत्यर्थः ।। रसबोध-९.३०;२
  • लोणस्य लवणस्य लोणस्य इत्यत्र लोहस्य इति पाठान्तरं न युक्तं लवणार्धमृदम्बुभिः इति वक्ष्यमाणवाक्यविरोधात् ।। रसबोध-९.३०;३
  • अत्र वारं वारमिति पदं पेषयित्वा तथा पुनः पुनरिति पदं मूषालेपमित्यनेन योजनीयम् ।। रसबोध-९.३०;४
  • लवणार्धमृदम्बुभिरिति सहार्थे तृतीया तेन लवणार्धमृदम्बुभिः सह लोणगुग्गुलू पेषयित्वा इति तथा विंशतिभागलवणापेक्षया मृदोऽर्धत्वमिति च बोध्यम् ।। रसबोध-९.३०;५
  • कर्षेत् आतपे शोषयेत् ।। रसबोध-९.३०;६

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ गर्भयन्त्रं प्रतिजानीते गर्भयन्त्रमिति ।। रसटी-९.३०;१
  • यत्र सर्वं यन्त्रं भूम्युदर एवावस्थितं विदध्यात् तद्गर्भयन्त्रं नाम ।। रसटी-९.३०;२
  • तदेव स्पष्टीकरोति चतुरङ्गुलेति ।। रसटी-९.३०;३
  • चतुरङ्गुलदीर्घादिलक्षणां मूषां विधाय तन्मुखं वर्तुलं कारयेत् ।। रसटी-९.३०;४
  • सम्यक् पिधानसंधानार्थं यथोक्तभागं लोहकिट्टगुग्गुलयोर् गृहीत्वा भागत्रयं मृदो गृहीत्वैकभागात्मकं लवणं गृहीत्वा सर्वमेतज्जलेन संमर्द्य तेन मूषां सान्तर्बहिर्विलिप्य तत्र धात्वादिकृतपिष्टिकां संभृत्य सम्यक् पिधाय भूमिमध्यगां गजपुटपर्याप्तां गर्तां करीषमिश्रतुषैरर्धपूरितां कृत्वा तत्र मूषां धृत्वा तदुपरि गराकण्ठदघ्नं करीषतुषैरेव सम्पूर्यावशिष्टगर्तां मृत्तिकया सम्पूर्यान्तर्वायुप्रवेशार्थं किंचिदङ्गुलीसमं छिद्रं विधायाग्निं दत्त्वा स्वेदयेत् ।। रसटी-९.३०;५
  • एवं निर्वाणाग्नितुषादियुक्त्या निष्कास्य पुनस्तुषादिपूरणादिसर्वमन्तरान्तरा कुर्यादहोरात्रपर्यन्तं त्रिरात्रपर्यन्तं वेति ।। रसटी-९.३०;६
  • अत्र गोवरपुटं भूमावेव देयम् ।। रसटी-९.३०;७
  • तदुक्तं रसराजसुन्दरे ।। रसटी-९.३०;८
  • चूर्णीकृतकरीषाग्नौ भूमावेव तु यत्पुटम् ।
  • दीयते तत्तु कृतिभिर्गोवरं समुदाहृतम् ।। रसटी-९.३०;९
  • इति ।। रसटी-९.३०;१०



हंसपाक

खर्परं सिकतापूर्णं कृत्वा तस्योपरि न्यसेत् ।
अपरं खर्परं तत्र शनैर् मृद्वग्निना पचेत् ।। रस-९.३१ ।।

पञ्चक्षारैस्तथा मूत्रैर् लवणं च विडं ततः ।
हंसपाकं समाख्यातं यन्त्रं तद् वार्त्तिकोत्तमैः ।। रस-९.३२ ।।

वालुकायन्त्र

सरसां गूढवक्त्रां मृद्वस्त्राङ्गुलघनावृताम् ।
शोषितां काचकलशीं त्रिषु भागेषु पूरयेत् ।। रस-९.३३ ।।

भाण्डे वितस्तिगम्भीरे वालुकासुप्रतिष्ठिता ।
तद्भाण्डं पूरयेत्त्रिभिरन्याभिरवगुण्ठयेत् ।। रस-९.३४ ।।

भाण्डवक्त्रं मणिकया संधिं लिम्पेन् मृदा पचेत् ।
चुल्ल्यां तृणस्य चादाहान् मणिकापृष्ठवर्तिनः ।
एतद्धि वालुकायन्त्रं तद्यन्त्रं लवणाश्रयम् ।। रस-९.३५ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • वालुकायन्त्रमाह सरसामिति ।। रसबोध-९.३५;१
  • सरसां पारदगर्भाम् ।। रसबोध-९.३५;२
  • गूढवक्त्रां संकीर्णमुखीम् ।। रसबोध-९.३५;३
  • मृदिति ।। रसबोध-९.३५;४
  • मृद्वस्त्रेण मृल्लिप्तवस्त्रेण अङ्गुलघनं अङ्गुलमानोत्सेधं यथा तथा आवृताम् ।। रसबोध-९.३५;५
  • त्रिषु भागेषु पूरयेत् पाच्यरसादिना काचकलस्याः भागत्रयं पूरयेदित्यर्थः ।। रसबोध-९.३५;६
  • त्रिषु भागेष्विति अवच्छेदे सप्तमी ।। रसबोध-९.३५;७
  • भाण्डे इत्यत्र काचकलसीं स्थापयेदिति शेषः ।। रसबोध-९.३५;८
  • वालुकाभिः कियान् भागः पूरयितव्य इत्यपेक्षायामाह तद्भाण्डमिति ।। रसबोध-९.३५;९
  • त्रिभिरित्यत्र ।। रसबोध-९.३५;१०
  • भागैरिति शेषः ।। रसबोध-९.३५;११
  • तृतीया चात्र अभेदे भाण्डस्य भागत्रयमित्यर्थः पूरयेत् वालुकयेति शेषः अन्याभिः वालुकाभिरित्यर्थः अवशिष्टांशं पूरयेदिति शेषः ।। रसबोध-९.३५;१२
  • अवगुण्ठयेदित्यस्य मणिकया इत्यनेन सम्बन्धः मणिकया शरावेण ।। रसबोध-९.३५;१३
  • अयमर्थः संकीर्णमुखीं काचकूपिकां मृद्वस्त्रेणाङ्गुलोत्सेधमालिप्य शोषयित्वा च तस्या भागत्रयं रसेनापूरयेत् ततो वितस्तिप्रमाणगभीरे वालुकया त्रिभागपूर्णे भाण्डमध्ये तां निवेश्य ऊर्ध्वं वालुकया आच्छादयेत् ततश्च शरावेण भाण्डवक्त्रं पिधाय मृत्तिकया संधिं लिप्त्वा च तावत् पचेत् यावत् शरावोपरि न्यस्तं तृणं न दहेदिति ।। रसबोध-९.३५;१४
  • तुल्यलक्षणत्वात् वालुकायन्त्रप्रसङ्गे लवणयन्त्रम् अप्यतिदिशति तदिति ।। रसबोध-९.३५;१५
  • तद् उक्तप्रकारं यन्त्रं लवणाश्रयम् अपि भवतीति शेषः लवणयन्त्रम् अपि वालुकायन्त्रम् भवतीत्यर्थः ।। रसबोध-९.३५;१६

$

  • टीका रससरत्नसमुच्चयटीका:
  • वालुकायन्त्रं द्विविधमाह सुरसामिति ।। रसटी-९.३५;१
  • सुरसां ग्रन्थिकोटररेखाद्यभावेन सुलक्षणां ।। रसटी-९.३५;२
  • गूढवक्त्राम् अकरालमुखाम् अद्रिमृत्कर्पटादिना त्रिवारं सप्तवारं वा कृतेनाङ्गुलस्थूलेन वेष्टिताम् आतपे संशोषितां काचघटीम् उदरस्य भागचतुष्टयं परिकल्प्य त्रिषु भागेषु पूरयेत् ।। रसटी-९.३५;३
  • तस्या गर्भे भागत्रयं कज्जल्यादिना भेषजेन पूरयेत् ।। रसटी-९.३५;४
  • एवं सम्पूरितां तां वितस्तिगम्भीरे भाण्डे मृन्मये विशालखर्परे पूरितवालुकामध्ये स्थापितां कुर्यात् ।। रसटी-९.३५;५
  • पूरणीयवालुकाया मानमप्याह तद्भाण्डं पूरयेदिति ।। रसटी-९.३५;६
  • भाण्डोदरस्यापि भागचतुष्टयं परिकल्प्य तद्भाण्डं वालुकया त्रिभिर्भागैर्मितया त्रिभागपूरणपर्याप्तया पूरयेत्संभरेत् ।। रसटी-९.३५;७
  • अन्याभिर् अवशिष्टैकभागमिताभिर् वालुकाभिः काचकलशीम् अभितः प्रक्षेपेणावगुण्ठयेत् ।। रसटी-९.३५;८
  • कण्ठपर्यन्तम् आच्छादितां कुर्यादित्यर्थः ।। रसटी-९.३५;९
  • भाण्डमुखं च मणिकया विशालन्युब्जमृत्पात्रेणाच्छाद्य संधिलेपादि कृत्वा चुल्ल्यां पचेत् ।। रसटी-९.३५;१०
  • तत्पचनकालमानम् आह तृणस्येति ।। रसटी-९.३५;११
  • मणिकापृष्ठे प्रक्षिप्ततृणदाहपर्यन्तं पचेत् ।। रसटी-९.३५;१२
  • तृणदाहेत्युपलक्षणम् ।। रसटी-९.३५;१३
  • सिन्दूररसादौ रक्तवर्णोत्पत्तिपर्यन्तमपि पाकस्यावश्यकत्वात् ।। रसटी-९.३५;१४
  • स च वर्णो ज्ञेयः ।। रसटी-९.३५;१५
  • कूपीमुखाद् उद्गतरक्तवर्णबाष्पदर्शनेनेति बोध्यम् ।। रसटी-९.३५;१६



वालुकायन्त्र (२)

पञ्चाढवालुकापूर्णभाण्डे निक्षिप्य यत्नतः ।
पच्यते रसगोलाद्यं वालुकायन्त्रम् ईरितम् ।। रस-९.३६ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • अन्यविधं वालुकायन्त्रमाह पञ्चेति ।। रसबोध-९.३६;१
  • चत्वारिंशच्छरावमितवालुकापूर्णभाण्डे इत्यर्थः ।। रसबोध-९.३६;२
  • अत्र वालुकामध्ये एव रसगोलादिकं स्थापयेत् न तु काचकूप्यामिति विशेषः ।। रसबोध-९.३६;३



लवणयन्त्र (१)

एवं लवणनिक्षेपात्प्रोक्तं लवणयन्त्रकम् ।। रस-९.३७ ।।

लवणयन्त्र (२)

अन्तःकृतरसालेपताम्रपात्रमुखस्य च ।
लिप्त्वा मृल्लवणेनैव संधिं भाण्डतलस्य च ।। रस-९.३८ ।।

तद्भाण्डं पटुनापूर्य क्षारैर्वा पूर्ववत्पचेत् ।
एवं लवणयन्त्रं स्याद् रसकर्मणि शस्यते ।। रस-९.३९ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अन्तः कृतरसालेप इति ।। रसटी-९.३९;१
  • आलेप इत्युपलक्षणम् ।। रसटी-९.३९;२
  • मृद्भाण्डे खर्परसमाने विशालमुखेऽन्तस्तले न्युब्जं स्थापनीयं यल्लघु ताम्रपात्रं तत् पारदादिगोलकोपरि न्युब्जं निधाय मृल्लवणादिना भाण्डतलताम्रपात्रमुखसंधिं विलिप्य तयन्त्रभाण्डं लवणक्षाराद्यन्यतमेनापूर्य पिधानेन पिधाय प्रहरपर्यन्तं शालिस्फुटनपर्यन्तं प्रहरपर्यन्तं वा पचेत् ।। रसटी-९.३९;३
  • एवंविधमपि यन्त्रं लवणयन्त्राख्यमेतद् रसकर्मणि पाकमूर्छनादिकर्मणि प्रशस्तं स्यात् ।। रसटी-९.३९;४

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • लवणयन्त्रस्य प्रकारान्तरमाह अन्तरिति ।। रसबोध-९.३९;१
  • अन्तस् ताम्रपात्रमध्ये इत्यर्थः कृतः रसेन आलेपः यत्र तथाभूतं यत् ताम्रपात्रं तस्य मुखं तस्य रसलिप्तोदरताम्रपात्रमुखस्य तथा भाण्डतलस्य ताम्रपात्रमुखोपरि स्थापितभाण्डाधोभागस्य ।। रसबोध-९.३९;२
  • तद्भाण्डम् उपरिस्थभाण्डम् ।। रसबोध-९.३९;३
  • पूर्ववत् तृणस्य चादाहाद् इत्यर्थः ।। रसबोध-९.३९;४
  • ताम्रपात्रोदरे रसं निक्षिप्य तदुपरि लवणपूर्णं क्षारपूर्णं वा भाण्डमेकं विन्यसेत् ततो मृल्लवणेन सन्धिं रुद्ध्वा पचेत् इति ।। रसबोध-९.३९;५


नालिकायन्त्र

लोहनालगतं सूतं भाण्डे लवणपूरिते ।
निरुद्धं विपचेत्प्राग्वन् नालिकायन्त्रम् ईरितम् ।। रस-९.४० ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • नालिकायन्त्रमाह लोहेति ।। रसबोध-९.४०;१
  • लौहमयनालमध्ये पारदम् आपूर्य छिद्ररोधं कृत्वा च लवणपूरितभाण्डान्तः नालं तं निरुन्ध्यात्ततो मणिकया भाण्डवक्त्रम् आच्छाद्य आलिप्य च सन्धिं तावत् पचेत् यावत् शरावोपरिस्थं तृणं न दहेत् इति ।। रसबोध-९.४०;२



भूधरयन्त्र

वालुकागूढसर्वाङ्गां गर्ते मूषां रसान्विताम् ।
दीप्तोपलैः संवृणुयाद् यन्त्रं तद् भूधराह्वयम् ।। रस-९.४१ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ भूधरयन्त्रमाह वालुकेति ।। रसटी-९.४१;१
  • गर्ते राजहस्तमात्रगम्भीरे गर्ते हस्तमात्रायामविस्तारे चतुरस्रे वर्तुले वा तादृशे गर्ते रसान्वितां पारदगर्भितां मल्लमूषां वालुकागूढसर्वाङ्गां निधाय गर्तकण्ठपर्यन्तं वालुकया प्रपूर्योपरि किंचित्पार्श्वे च दीप्तवन्योपलैः संवृणुयादाच्छादयेत् ।। रसटी-९.४१;२
  • समन्ततो वन्योपलैराच्छाद्य ज्वालयेदित्यर्थः ।। रसटी-९.४१;३
  • अत्र पारदस्य यन्त्रणमात्रं वालुकायां भूमावेव वह्निस्तूपर्येव गर्भयन्त्रे सर्वमेव भूगर्भे ।। रसटी-९.४१;४
  • भूधरपुटे तु न वालुकासंबन्धः ।। रसटी-९.४१;५
  • इति त्रयाणां यन्त्रपुटानां विशेषो बोध्यः ।। रसटी-९.४१;६



पुटयन्त्र

शरावसम्पुटान्तस्थं करीषेष्व् अग्निमानवित् ।
पचेच्चुल्ल्यां द्वियामं वा रसं तत् पुटयन्त्रकम् ।। रस-९.४२ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • पुटयन्त्रमाह शरावेति ।। रसबोध-९.४२;१
  • करीषेषु पचेत् अथवा अग्निमानविद् द्वियामं चुल्ल्याम् अङ्गारेषु पचेद् योज्यम् ।। रसबोध-९.४२;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ पुटयन्त्रमाह शरावेति ।। रसटी-९.४२;१
  • भूमितले करीषराशिं कृत्वा तत्र शरावसंपुटितं पारदं च धृत्वाग्निमानविद्वैद्यो घाटिकाद्वयपर्यन्तं पचेत् ।। रसटी-९.४२;२
  • अत्यन्तसंनिहिताग्निसंयोगात् ।। रसटी-९.४२;३
  • अथवा चुल्ल्यां करीषाग्निं दत्त्वाधिश्रितखर्परे शरावसंपुटितं रसं धृत्वा खर्परमुखमाच्छाद्य यामपर्यन्तं द्वियामं वा पचेत् ।। रसटी-९.४२;४
  • दूरतराग्निसंयोगात् ।। रसटी-९.४२;५
  • एवं न्यूनाधिकः पचनकालो रसयोगिद्रव्याद्युद्गमशालित्वावयवशैथिल्यकाठिन्याद्यनुरोधेन स्वबुद्ध्यैव तर्क्य इति भावः ।। रसटी-९.४२;६



कोष्ठीयन्त्र

षोडशाङ्गुलविस्तीर्णं हस्तमात्रायतं समम् ।
धातुसत्त्वनिपातार्थं कोष्ठीयन्त्रम् इति स्मृतम् ।। रस-९.४३ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • कोष्ठीयन्त्रमाह षोडशेति ।। रसबोध-९.४३;१
  • अत्र सममिति पदेन मिलितभाण्डद्वयस्य षोडशाङ्गुलत्वादि बोध्यम् एवं च वितस्तिप्रमाणदीर्घस्य अष्टाङ्गुलविस्तीर्णस्य च अधोभाण्डस्य मुखोपरि तावन्मानं भाण्डान्तरम् अधोमुखं संस्थाप्य अधो दृढाङ्गारैर् भस्त्रया धमेत् तेन धातुसत्त्वं निर्गच्छतीति ।। रसबोध-९.४३;२
  • अत्रिसंहितायाम् एतच्छ्लोकानन्तरम् अस्यैवापरांशः पठितः तद्यथा ।। रसबोध-९.४३;३
  • परिपूर्णं दृढाङ्गारैरधो वातेन कोष्ठके ।
  • मात्रया ज्वालमार्गेण ज्वालयेच्च हुताशनम् ।। रसबोध-९.४३;४
  • इति ।। रसबोध-९.४३;५

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ कोष्ठीयन्त्रमाह षोडशाङ्गुलेति ।। रसटी-९.४३;१
  • धातुसत्त्वेति ।। रसटी-९.४३;२
  • विशिष्टधातूनां ताप्यगैरिकविमलादीनाम् अनुद्गमशालिनां मृदूनां च सत्त्वस्य निपातार्थम् एतद्यन्त्रं विद्यात् ।। रसटी-९.४३;३
  • अस्यां कोष्ठ्यां मध्य उचितां धातुगर्भितां वृन्ताकादिमूषां संस्थाप्य कोकिलैर् मूषाम् उपर्युपरिभावेन पार्श्वतश्च सम्पूर्य यथोचितं धमेत् ।। रसटी-९.४३;४
  • लघुभस्त्रिकादिनेत्यर्थः ।। रसटी-९.४३;५
  • कोष्ठीयन्त्रे सत्त्वनिपातनार्हा धातव उदाहृताश्च रससारे ।
  • वैक्रान्तं सस्यकं ताप्यं कान्ताभ्रे विमलं गिरिः ।
  • गैरिका तुत्थकं चैव राजावर्तो विशेषतः ।। रसटी-९.४३;६
  • एषाम् उपरसानां च कोष्ठे सत्त्वनिपातनम् ।
  • इति ।। रसटी-९.४३;७



वलभीयन्त्र

यत्र लोहमये पात्रे पार्श्वयोर्वलयद्वयम् ।
तादृक् स्वल्पतरं पात्रं वलयप्रोतकोष्ठकम् ।। रस-९.४४ ।।

पूर्वपात्रोपरि न्यस्य स्वल्पपात्रे परिक्षिपेत् ।
रसं संमूर्छितं स्थूलपात्रम् आपूर्य काञ्जिकैः ।। रस-९.४५ ।।

द्वियामं स्वेदयेदेव रसोत्थापनहेतवे ।
एतत्स्याद् वलभीयन्त्रं रसे षाड्गुण्यकारकम् ।
सूक्ष्मकान्तमये पात्रे रसः स्याद्गुणवत्तरः ।। रस-९.४६ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • वलभीयन्त्रमाह यत्रेति ।। रसबोध-९.४६;१
  • वलयद्वयं वलयं कडा आंटा इति ख्यातं ।। रसबोध-९.४६;२
  • तादृक् लोहमयम् ।। रसबोध-९.४६;३
  • वलयेति ।। रसबोध-९.४६;४
  • वलये बृहत्पात्रस्थवलये प्रोतम् आबद्धं कोष्ठं मध्यदेशो यस्य तादृशम् ।। रसबोध-९.४६;५
  • अयमर्थो बृहदाकारं कान्तलौहमयं पात्रमेकं निर्माय तस्यान्तर्गलाद् अधःपार्श्वद्वये वलयद्वयं संयोजनीयं क्षुद्राकारम् अपरमपि तथाविधं पात्रमेकं कृत्वा बृहत्पात्रस्थे वलये अस्पृष्टतलभागं यथा तथा आबध्य तत्र मूर्छितरसं परिक्षिपेत् काञ्जिकेन स्थूलपात्रं च पूरयेदिति ।। रसबोध-९.४६;६
  • रसे षाड्गुण्यकारकं षाड्गुण्यं विद्या वितर्को विज्ञानं स्मृतिस्तत्परता क्रिया इत्युक्तषड्गुणप्रदशक्तिजनकम् एवंविधरसोपयोक्ता उक्तषाड्गुण्यसिद्धिं लभते इत्यर्थः ।। रसबोध-९.४६;७

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ खलचरीयन्त्रमाह यत्रेति ।। रसटी-९.४६;१
  • यन्त्रभूते लोहपात्र आभ्यन्तरोपकण्ठे पार्श्वयोर् अवसञ्जनार्थं वलयद्वयं कार्यं ।। रसटी-९.४६;२
  • वलयमध्ये तु प्रवेशार्हकोष्ठकं लौहं स्वल्पपात्रमन्यद्विधाय मूर्छितरसगर्भितं तत्स्वल्पपात्रं प्रवेश्य वलययोर् अवसज्जितं कृत्वा स्थूलपात्रे काञ्जिकं प्रभूतं दत्त्वा चुल्ल्यां मन्दाग्निना प्रहरपर्यन्तं स्वेदयेत् ।। रसटी-९.४६;३
  • तेन पारद उत्थाय काञ्जिकद्रवे प्रविश्य तिष्ठति अत एवास्य यन्त्रस्य जलाहार्ययन्त्रम् इत्यपि नामान्तरं काञ्जिकजलेन स्वल्पपात्राद् रसस्य ह्रियमाणत्वादिति ।। रसटी-९.४६;४
  • मूर्छितो रस उत्थाय खलेऽङ्गणे चरितुं शक्नोत्यनेनेति व्युत्पत्त्या खलचरीत्यपि नाम ।। रसटी-९.४६;५
  • अत्र यत्स्वल्पं पात्रं तत्कान्तमयं कृत्वा यन्त्रे तत्पात्रमध्ये पारदो धृतश्चेद् अतिशयेन गुणवान्भवति ।। रसटी-९.४६;६
  • उक्तं च रसार्णवे ।
  • न सूतेन विना कान्तं न कान्तेन विना रसः ।
  • कान्तसूतसमायोगात् प्रयोगो देहधारकः ।। रसटी-९.४६;७
  • इति ।। रसटी-९.४६;८



तिर्यक्पातनयन्त्र

क्षिपेद्रसं घटे दीर्घनताधोनालसंयुते ।
तन्नालं निक्षिपेदन्यघटकुक्ष्यन्तरे खलु ।। रस-९.४७ ।।

तत्र रुद्ध्वा मृदा सम्यग्वदने घटयोरथ ।
अधस्ताद्रसकुम्भस्य ज्वालयेत्तीव्रपावकम् ।। रस-९.४८ ।।

इतरस्मिन्घटे तोयं प्रक्षिपेत्स्वादु शीतलम् ।
तिर्यक्पातनम् एतद्धि वार्त्तिकैर् अभिधीयते ।। रस-९.४९ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • तिर्यक्पातनयन्त्रमाह क्षिपेदिति ।। रसबोध-९.४९;१
  • दीर्घनताधोनालसंयुते दीर्घाकारं नतं निम्नाभिमुखं च यत् अधोनालं तेन संयुते ।। रसबोध-९.४९;२
  • अयं विधिः एकस्मिन् घटे रसं निधाय तस्य उदराधो दीर्घम् अधोलम्बितं नालमेकं संयोज्य द्वितीयघटोदरस्थच्छिद्रे नालाग्रं प्रवेश्य मृद्वस्त्रेण सन्धिमालिप्य च घटयोर्मुखम् अपि तथा लिम्पेत् रसकुम्भाधश्च तीव्राग्निं प्रज्वालयेत् द्वितीयघटे स्वादुशीतलं जलं च प्रक्षिपेत् इति ।। रसबोध-९.४९;३

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ तिर्यक्पातनयन्त्रमाह क्षिपेद्रसमिति ।। रसटी-९.४९;१
  • नताधोनालेति नतोपकण्ठच्छिद्रसंलग्नाधोनालसंयुते ।। रसटी-९.४९;२
  • अन्यघटः पार्श्वे निम्नदेशे स्थितः ।। रसटी-९.४९;३
  • ततो घटयोर्वदने रुद्ध्वा पिधानाभ्यां पिधाय संधिलेपादि कृत्वाधो घटयोर् वदनयोर् अधःस्थितनलिकायोजितच्छिद्रयोर् अपि संधिलेपं कृत्वा ज्वालयेत् ।। रसटी-९.४९;४
  • घटान्तरे तापोत्पत्तिपर्यन्तं पारदशुद्ध्यर्थम् एतद्यन्त्रस्योपयोगो बोध्यः ।। रसटी-९.४९;५



पालिकायन्त्र

चषकं वर्तुलं लौहं विनताग्रोर्ध्वदण्डकम् ।
एतद्धि पालिकायन्त्रं बलिजारणहेतवे ।। रस-९.५० ।।


  • टीका रससरत्नसमुच्चयटीका:
  • पालिकायन्त्रमाह चषकमिति ।। रसटी-९.५०;१
  • चषकं दर्वीसमानं पात्रम् ।। रसटी-९.५०;२
  • तत्तु न तिर्यग्दण्डं किंतु विनताय उच्छ्रितो दण्डो यस्य तथोक्तम् ।। रसटी-९.५०;३
  • एतद्यन्त्रं सधूमगन्धकजारणोपयोगि तथा भैरवनाथोक्तपर्पट्यादिविधौ चोपयोक्ष्यते ।। रसटी-९.५०;४

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • पालिकायन्त्रमाह चषकमिति ।। रसबोध-९.५०;१
  • विनतम् अग्रं यस्य तत् न्युब्जीकृताग्रभागम् ऊर्ध्वम् उच्चैःकृतं दण्डं यस्य तद् उन्नतदण्डं विनताग्रं च तद् ऊर्ध्वदण्डं चेति विनताग्रोर्ध्वदण्डकं लौहं लोहमयं वर्तुलं गोलाकारं चषकं कटोरिका कार्यमिति शेषः ।। रसबोध-९.५०;२
  • चषकशब्दस्य मद्यपानपात्रार्थकत्वेऽपि पात्रमात्रार्थकत्वं प्रागेव प्रदर्शितम् ।। रसबोध-९.५०;३
  • बलिजारणहेतवे गन्धकजारणार्थम् ।। रसबोध-९.५०;४



घटयन्त्र

चतुष्प्रस्थजलाधारश् चतुरङ्गुलिकाननः ।
घटयन्त्रम् इदं प्रोक्तं तदाप्यायनकं स्मृतम् ।। रस-९.५१ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • घटयन्त्रमाह चतुरिति ।। रसबोध-९.५१;१
  • षोडशशरावमितजलधारणसमर्थः चतुरङ्गुलविस्तृतमुखविशिष्टश्च घटः घटयन्त्रमिति निष्कर्षः ।। रसबोध-९.५१;२
  • आप्यायनकं रसादीनां तर्पणं षाड्गुण्यसंपादनमिति यावत् ।। रसबोध-९.५१;३
  • आप्यायनकम् इत्यत्र उत्थापनकम् इति पाठे रसोत्थापनसाधनमित्यर्थः ।। रसबोध-९.५१;४



इष्टिकायन्त्र

विधाय वर्तुलं गर्तं मल्लमत्र निधाय च ।
विनिधायेष्टकां तत्र मध्यगर्तवतीं शुभाम् ।। रस-९.५२ ।।

गर्तस्य परितः कुर्यात्पालिकाम् अङ्गुलोच्छ्रयाम् ।
गर्ते सूतं विनिक्षिप्य गर्तास्ये वसनं क्षिपेत् ।। रस-९.५३ ।।

निक्षिपेद्गन्धकं तत्र मल्लेनास्यं निरुध्य च ।
मल्लपालिकयोर्मध्ये मृदा सम्यङ् निरुध्य च ।। रस-९.५४ ।।

वनोपलैः पुटं देयं कपोताख्यं न चाधिकम् ।
इष्टिकायन्त्रम् एतत् स्याद् गन्धकं तेन जारयेत् ।। रस-९.५५ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • इष्टकायन्त्रमाह विधायेति ।। रसबोध-९.५५;१
  • मल्लं शरावपात्रम् ।। रसबोध-९.५५;२
  • पालिकाम् आलवालम् ।। रसबोध-९.५५;३
  • गोलाकारं गर्तमेकम् कृत्वा तत्र शरावं संस्थाप्य तदुपरि मध्यच्छिद्रामिष्टकाम् एकां विन्यसेत् इष्टकागर्तं परितः अङ्गुलिमितोन्नतम् आलवालम् एकं च कुर्यात् तत इष्टकारन्ध्रे पारदं विनिक्षिप्य रन्ध्रमुखे वस्त्रं तदुपरि गन्धकं च विन्यस्य शरावान्तरेण रुद्ध्वा शरावालवालयोः संधिं मृदा सम्यगालिप्य च वन्यकरीषैः कपोताख्यपुटं दद्यादिति निष्कर्षः ।। रसबोध-९.५५;४

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथेष्टिकायन्त्रं लक्षयति निधाय वर्तुलामिति ।। रसटी-९.५५;१
  • मल्लं गम्भीरोदरं क्षुद्रं मृन्मयं पात्रं तद्गर्तामध्ये संस्थाप्य तत्रैकाम् इष्टिकां मध्यगर्तवतीं च निधायेष्टिकाघटकगर्तस्य परितः समन्ततोऽङ्गुलोच्छ्रायां पालिकाम् आलवालं विधाय तद्गर्ते पारदं क्षिप्त्वा तद्गर्तमुखे वस्त्रं प्रसार्य तच्च दृढं बद्ध्वा तदुपरि समभागं गन्धकं दत्त्वा न्युब्जमल्लेन गर्तमुखं रुद्ध्वा मल्लपालिमध्यभागं मृदा सम्यग्रुद्ध्वोपरि वन्योपलैः कपोतपुटं पुनः पुनर्देयम् ।। रसटी-९.५५;२
  • इष्टिकया पारदस्य यन्त्रणाद् एतद्यन्त्रम् इष्टिकायन्त्रनाम्ना कथितम् ।। रसटी-९.५५;३
  • तेन निर्धूमगन्धकजारणं कुर्यात् ।। रसटी-९.५५;४
  • जीर्णे च गन्धके पारदो रक्तवर्णो भवेत् ।। रसटी-९.५५;५
  • अत्र द्रुतपारदे गन्धकजारणायां गर्तास्ये वस्त्राच्छादनं वस्त्रोपरि गन्धकं च दद्यादिति विधिक्रमः ।। रसटी-९.५५;६
  • यत्र तु बद्धस्य रसस्य गन्धकजारणा कर्तव्या स्यात्तदा तु पारदं वस्त्रेण बद्ध्वा तस्याधस्ताद् उपरिष्टाच्च गन्धकं दत्त्वा जारयेदित्यनुक्तोऽपि विशेषो बोध्यः ।। रसटी-९.५५;७



हिङ्गुलाकृष्टिविद्याधरयन्त्र

स्थालिकोपरि विन्यस्य स्थालीं सम्यङ् निरुध्य च ।
ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा वह्निं प्रज्वालयेद् अधः ।
एतद् विद्याधरं यन्त्रं हिङ्गुलाकृष्टिहेतवे ।। रस-९.५६ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • हिङ्गुलाकृष्टिविद्याधरयन्त्रमाह स्थालिकोपरीति ।। रसबोध-९.५६;१
  • स्थालीमित्यत्र ऊर्ध्वमुखीमिति शेषो बोध्यः ।। रसबोध-९.५६;२
  • अत्र हिङ्गुलाकृष्टिप्रकारस्य अनुक्तत्वात् ग्रन्थान्तरोक्तस्तत्प्रकारः प्रदर्श्यते तद्यथा जम्बीरादिरसशोधितहिङ्गुलम् अधःस्थाल्यां पर्णोपरि संस्थाप्य कठिनीघृष्टतलभागाम् उत्तानां स्थालीमपरां तदुपरि दत्त्वा मृदम्बरादिभिः संधिम् आलिप्य च अधो ज्वाला देया ऊर्ध्वस्थाल्यां जलं च उष्णे च तस्मिन् तत् निक्षिप्य पुनर्देयम् एवं त्रिंशद्वारं कुर्यात् ।। रसबोध-९.५६;३
  • ग्रन्थान्तरेऽस्य ऊर्ध्वपातनमिति नामान्तरम् ।। रसबोध-९.५६;४
  • कृचिदेतद् अनन्तरं ।
  • रसं संमूर्छितं स्थूलपात्रम् आपूर्य काञ्जिकैः ।
  • द्वियामं स्वेदयेदेनं रसोत्थापनहेतवे ।। रसबोध-९.५६;५
  • इत्यधिकः पाठो विद्यते ।। रसबोध-९.५६;६

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ हिङ्गुलाकृष्टिविद्याधरयन्त्रमाह स्थालिकोपरि विन्यस्येति ।। रसटी-९.५६;१
  • अन्तस्तले निहितशुष्कहिङ्गुलाया विशालमुखायाः स्थालिकाया उपर्युत्तानामेव लघुस्थालीं विन्यस्य स्थापयित्वा संधिलेपादिना रुद्ध्वोर्ध्वस्थाल्यां किंचिच्छीतलजलं पुनः पुनर्दद्यात् ।। रसटी-९.५६;२
  • अधश्चुल्ल्यां वह्निं ज्वालयेत्प्रहरत्रयपर्यन्तम् ।। रसटी-९.५६;३
  • एतद्यन्त्रं पारदस्य हिङ्गुलाद् वियुज्योर्ध्वपात्रतल आकृष्टिकरं स्यात् ।। रसटी-९.५६;४
  • एतदाकृष्टरसस्य षोडशाध्याये चण्डसंग्रहगदैककपाटविधावन्यत्र चोपयोगं वक्ष्यति ।। रसटी-९.५६;५



डमरुयन्त्र

यन्त्रस्थाल्युपरि स्थालीं न्युब्जां दत्त्वा निरुन्धयेत् ।
यन्त्रं डमरुकाख्यं तद्रसभस्मकृते हितम् ।। रस-९.५७ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ डमरुयन्त्रमाह पारदौषधगर्भितयन्त्रस्थाल्युपरि न्युब्जामेव स्थालीं निधाय निरुन्धयेत् ।। रसटी-९.५७;१
  • मृत्कर्पटादिना संधिरोधं कुर्यात् ।। रसटी-९.५७;२
  • यन्त्रस्याधस्ताद् अग्निः कार्यः ।। रसटी-९.५७;३
  • एतद् यन्त्रं डमरुकाख्यम् ऊर्ध्वतलगपारदभस्मकर्मण्युपयुज्यते ।। रसटी-९.५७;४


नाभियन्त्र

मल्लमध्ये चरेद्गर्तं तत्र सूतं सगन्धकम् ।
गर्तस्य परितः कुड्यं प्रकुर्यादङ्गुलोच्छ्रितम् ।। रस-९.५८ ।।

ततश् चाच्छादयेत् सम्यग् गोस्तनाकारमूषया ।
सम्यक् तोयमृदा रुद्ध्वा सम्यगत्रोच्यमानया ।। रस-९.५९ ।।

(इन्स्.) तोयमृद्

लेहवत् कृतबब्बूलक्वाथेन परिमर्दितम् ।
जीर्णकिट्टरजः सूक्ष्मं गुडचूर्णसमन्वितम् ।
इयं हि जलमृत् प्रोक्ता दुर्भेद्या सलिलैः खलु ।। रस-९.६० ।।

(इन्स्.) वह्निमृद्

खटिकापटुकिट्टैश्च महिषीदुग्धमर्दितैः ।
वह्निमृत्स्ना भवेद् घोरवह्नितापसहा खलु ।। रस-९.६१ ।।

एतया मृत्स्नया रुद्धो न गन्तुं क्षमते रसः ।
विदग्धवनिताप्रौढप्रेम्णा रुद्धः पुमानिव ।। रस-९.६२ ।।

नन्दी नागार्जुनश्चैव ब्रह्मज्योतिर् मुनीश्वरः ।
वेत्ति श्रीसोमदेवश्च नापरः पृथिवीतले ।। रस-९.६३ ।।

Fओर्त्सेत्शुन्ग्
नाभियन्त्र

ततो जलं विनिक्षिप्य वह्निं प्रज्वालयेदधः ।
नाभियन्त्रमिदं प्रोक्तं नन्दिना सर्ववेदिना ।
अनेन जीर्यते सूतो निर्धूमः शुद्धगन्धकः ।। रस-९.६४ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • नाभियन्त्रमाह मल्लमध्ये इति ।। रसबोध-९.६४;१
  • कुड्यं भित्तिः आलवालाकारमिति यावत् ।। रसबोध-९.६४;२
  • अत्रोच्यमानया अत्र यन्त्रे उच्यमानया कथ्यमानया तोयमृदा लेहवद् इत्यादिना वक्ष्यमाणया परिभाषिकमृदा इत्यर्थः ।। रसबोध-९.६४;३
  • अत्र प्रथमं सम्यग् आच्छादयेद् द्वितीयं सम्यक् रुद्ध्वा तृतीयं सम्यग् उच्यमानया सम्बध्यते ।। रसबोध-९.६४;४
  • तोयमृत्प्रकारमाह लेहवदिति ।। रसबोध-९.६४;५
  • लेपार्थमृत्तिकाप्रस्तुतप्रसङ्गक्रमेण वह्निमृत्प्रकारमाह खटिकेति ।। रसबोध-९.६४;६
  • अयं विधिः पात्रमध्ये किंचिद् गर्तं कृत्वा तत्र रसगन्धौ निवेश्य गर्तस्य चतुर्दिक्षु अङ्गुलोच्छ्रायम् आलवालं कुर्यात् ततो गोस्तनाकृतिमूषया सालवालं सरसगन्धकं गर्तम् आच्छाद्य तोयमृदा सन्धिं लिम्पेत् ततस्तत्र जलं दत्त्वा यन्त्राधो वह्निं दापयेद् इति ।। रसबोध-९.६४;७

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ नाभियन्त्रमाह मल्लमध्य इति ।। रसटी-९.६४;१
  • दृढस्थूलविस्तृतमृत्पात्रमध्ये गर्तं कुर्यात् ।। रसटी-९.६४;२
  • तत्र पारदं गन्धकं च निदध्यात् ।। रसटी-९.६४;३
  • ततो गर्तस्य समन्ततोऽङ्गुलोच्छ्रायं कुड्याकारं बन्धं कुर्यात् ।। रसटी-९.६४;४
  • ततस्तं गर्तं गोस्तनाकारमूषया न्युब्जया पिदध्यात् ।। रसटी-९.६४;५
  • अत्रोच्यमानया तोयमृदाख्यया मृदा संधिं रुद्ध्वा संशोष्योपरिस्थितसर्वमल्लभागं कण्ठपर्यन्तं जलेन पूरयेत् ।। रसटी-९.६४;६
  • यन्त्रस्याधस्ताच्च चुल्ल्यां वह्निं प्रज्वालयेदित्यन्तिमश्लोकेन संबन्धो बोध्यः ।। रसटी-९.६४;७
  • अत्र जलमृच्छब्दबोधार्थं जलमृदं तत्प्रसङ्गाच्च वह्निमृदं च मध्यस्थितग्रन्थेनाह लेहवदिति ।। रसटी-९.६४;८
  • घनेन बब्बूलत्वक्कषायेण पुराणं लोहकिट्टचूर्णं सूक्ष्मं कणं यथा स्यात्तथा संमर्द्य तत्र गुडचूर्णं समं दत्त्वा पुनः संमर्द्य कृतेयं मृज्जलमृदिति ख्याता ।। रसटी-९.६४;९
  • अथ खटिकाश्वेतचूर्णद्रव्यं खडू चास इति वाख्यातम् ।। रसटी-९.६४;१०
  • पटु सैन्धवम् ।। रसटी-९.६४;११
  • लोहकिट्टं च सर्वमेतन्मिथः समं गृहीत्वा महिषीदुग्धेन संमर्द्य विहितेयं मृद्वह्निमृदाख्याता ।। रसटी-९.६४;१२
  • इयं च तीक्ष्णं वह्निपातं सहत इत्यन्वर्थाख्या ।। रसटी-९.६४;१३
  • एतया रुद्धो रसस्तरुण्या कृतस्नेहेन बद्धः पुरुषः इवान्यत्र गन्तुं न शक्नोति ।। रसटी-९.६४;१४
  • अस्य यन्त्रस्य जलयन्त्रमिति नामान्तरं केचिद्वदन्ति ।। रसटी-९.६४;१५
  • पाषाणभेदिरसविधावस्योपयोगं वक्ष्यति ।। रसटी-९.६४;१६
  • रससारे पारदबन्धनार्थमप्यस्य यन्त्रस्योपयोगमुदाजहार ।। रसटी-९.६४;१७



ग्रस्तयन्त्र

मूषां मूषोदराविष्टाम् आद्यन्तःसमवर्तुलाम् ।
चिपिटां च तले प्रोक्तं ग्रस्तयन्त्रं मनीषिभिः ।
सूतेन्द्ररन्धनार्थं हि रसविद्भिर् उदीरितम् ।। रस-९.६५ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • ग्रस्तयन्त्रमाह मूषामिति ।। रसबोध-९.६५;१
  • सूतेन्द्ररन्धनार्थं रसपाकार्थम् ।। रसबोध-९.६५;२

$


  • टीका रससरत्नसमुच्चयटीका:
  • अथ ग्रस्तयन्त्रमाह मूषामिति ।। रसटी-९.६५;१
  • स्थूलमूषोदरे प्रवेशयोग्याम् आद्यन्तमध्यभागेषु तत्समवर्तुलां लघुमूषां कुर्यात् ।। रसटी-९.६५;२
  • एतद्यन्त्रं ग्रस्तयन्त्रमिति ख्यातम् ।। रसटी-९.६५;३
  • अनेन हि स्वोदरे रुद्धगतिः पारदो ग्रस्तः पीडितो मारकभेषजेन मारितो वा भवति ।। रसटी-९.६५;४
  • कज्जलीकृतं भेषजान्तरेण संमर्दितं वा पारदं स्थूलमूषान्तस्तले संभृत्य तद्रोधार्थं किंचिल्लघुमूषां न्युब्जां तदुदरे प्रवेश्य दृढं यथा स्यात्तथा संधिरोधं कृत्वा गजपुटेन पारदं भस्मीकुर्वन्ति भिषजः ।। रसटी-९.६५;५
  • रन्ध्रणं बन्धनम् ।। रसटी-९.६५;६



स्थालीयन्त्र

स्थाल्यां ताम्रादि निक्षिप्य मल्लेनास्यं निरुध्य च ।
पच्यते स्थालिकाधस्तात् स्थालीयन्त्रम् इदं स्मृतम् ।। रस-९.६६ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ स्थालीयन्त्रमाह स्थाल्यामिति ।। रसटी-९.६६;१
  • स्थाल्यां मृन्मयपात्र्यां ताम्रलोहादि निक्षिप्य मल्लेन निरुद्धमुखं कृत्वा तद्भेषजं स्थालिकाधःस्थवह्निना पच्यते इत्येतत् स्थालीयन्त्रं प्रसिद्धम् ।। रसटी-९.६६;२



धूपयन्त्र

विधायाष्टाङ्गुलं पात्रं लौहमष्टाङ्गुलोच्छ्रयम् ।
कण्ठाधो ह्य् अङ्गुले देशे गलाधारे हि तत्र च ।। रस-९.६७ ।।

तिर्यग्लोहशलाकाश्च तन्वीस्तिर्यग् विनिक्षिपेत् ।
तनूनि स्वर्णपत्त्राणि तासामुपरि विन्यसेत् ।। रस-९.६८ ।।

पत्त्राधो निक्षिपेद् वक्ष्यमाणम् इहैव हि ।
तत्पात्रं न्युब्जपात्रेण छादयेदपरेण हि ।। रस-९.६९ ।।

मृदा विलिप्य संधिं च वह्निं प्रज्वालयेद् अधः ।
तेन पत्त्राणि कृत्स्नानि हतान्य् उक्तविधानतः ।। रस-९.७० ।।

रसश्चरति वेगेन द्रुतं गर्भे द्रवन्ति च ।
गन्धालकशिलानां हि कज्जल्या वा मृताहिना ।। रस-९.७१ ।।

धूपनं स्वर्णपत्त्राणां प्रथमं परिकीर्तितम् ।
तारार्थं तारपत्त्राणि मृतवङ्गेन धूपयेत् ।। रस-९.७२ ।।

धूपयेच्च यथायोग्यैरन्यैरुपरसैरपि ।
धूपयन्त्रमिदं प्रोक्तं जारणाद्रव्यसाधने ।। रस-९.७३ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • धूपयन्त्रमाह विधायेति ।। रसबोध-९.७३;१
  • गलाधारे शलाकास्थापनार्थं गलदेशस्थपालिकावद् आधारविशेषे इत्यर्थः ।। रसबोध-९.७३;२
  • अत्र प्रथमं तिर्यक् लोहशलाका इत्यनेन द्वितीयं च विनिक्षिपेत् इत्यनेन सम्बध्यते ।। रसबोध-९.७३;३
  • तिर्यक् वक्राकाराः तन्वीः सूक्ष्माः लोहशलाकाः तिर्यक् वक्रभावेन विनिक्षिपेत् इत्यन्वयः ।। रसबोध-९.७३;४
  • तेनेत्यादि ।। रसबोध-९.७३;५
  • उक्तविधिना हतानि कृत्स्नानि पत्राणि द्रुतं गर्भे द्रवन्ति ततश्च रसः स स्वर्णपत्रद्रवः वेगेन चरति स्वकार्यं साधयतीत्यर्थः ।। रसबोध-९.७३;६
  • पत्राधो निक्षिपेद्धूममित्युक्तं किंतद्धूममित्याह गन्धेति ।। रसबोध-९.७३;७
  • प्रथमं श्रेष्ठम् ।। रसबोध-९.७३;८
  • दैर्घ्यविस्तारतोऽष्टाङ्गुलमानं लोहपात्रमेकं कारयित्वा तस्य कण्ठाधः अङ्गुलिद्वयपरिमितस्थाने गलाधारे सूक्ष्मतिर्यग्लोहशलाकाः तिर्यग्भावेन विन्यस्य तदुपरि कण्टकवेध्यस्वर्णपत्राणि स्थापयेत् तत्पत्राधः पात्राभ्यन्तरे गन्धकहरितालमनःशिलाभिः कृतकज्जलीं मृतनागं वा निक्षिप्य अधोमुखपात्रान्तरेण तत् पात्रं पिधाय मृदादिना सन्धिं रुद्ध्वा च पात्राधो वह्निं प्रज्वालयेत्तेन संतप्तकज्जल्यादितो धूमं निर्गत्य स्वर्णपत्रे लगिष्यति पत्राणि तानि भस्मीभवन्ति गर्भे द्रवन्ति च ।। रसबोध-९.७३;९

$


  • टीका रससरत्नसमुच्चयटीका:
  • अथ धूपयन्त्रमाह विधायेति ।। रसटी-९.७३;१
  • अत्र यथोक्तमानं लौहं पात्रं विधाय तत्कण्ठाधो द्व्यङ्गुले देशे जलाधारं लघुपात्रविशेषं निहितं कुर्यात् ।। रसटी-९.७३;२
  • जडद्रव्यस्य धारणार्थम् आश्रयभूतं पात्रं जलाधारशब्दवाच्यम् ।। रसटी-९.७३;३
  • तत्र लोहशलाकास्तिर्यङ्निधाय तत्र स्वर्णपत्राणि विन्यसेत् स्थापयेत् ।। रसटी-९.७३;४
  • तेषामधोभागे वक्ष्यमाणं धूमद्रव्यं निक्षिपेत् ।। रसटी-९.७३;५
  • ततो यन्त्रपात्रम् अपरेण न्युब्जपात्रेण छादयेत् ।। रसटी-९.७३;६
  • मृदा संधिलेपं कृत्वा यन्त्रस्याधस्ताद्वह्निं कुर्यात् ।। रसटी-९.७३;७
  • उक्तविधानेन हतानि पत्राणि कृष्णानि भवन्ति ।। रसटी-९.७३;८
  • ततस्तानि सरसे तप्तखल्वे यथाविधि मर्दनेन पारदो भक्षयति ।। रसटी-९.७३;९
  • भक्षितानि च तानि पारदोदरे शीघ्रं द्रवन्ति ।। रसटी-९.७३;१०
  • अत्र धूपद्रव्यमाह ।। रसटी-९.७३;११
  • पारदेन साकं गन्धकहरितालमनःशिलानाम् अन्यतमस्य समस्तानां वा कृतायाः कज्जल्या धूपनं तया कज्जल्या भस्मीकृतनागेन धूपनं वा स्वर्णपत्राणां धूपनसंस्कारार्थं मुख्यं धूपनद्रव्यम् उदाहृतम् ।। रसटी-९.७३;१२
  • तारार्थं धूपनं तूच्यत इति शेषः ।। रसटी-९.७३;१३
  • तदाह तारपत्राण्युक्तकज्जल्या मृतेन वङ्गेन धूपयेत् ।। रसटी-९.७३;१४
  • यथायोग्यैर् मारणयोग्यैर् उपरसैर् हिङ्गूलरसकमाक्षिकादिभिर् अपि धूपयेत् ।। रसटी-९.७३;१५
  • जारणाद्रवसाधनं पत्राणां जारणोपयोगिपारदगर्भद्रवसाधनम् इत्यर्थः ।। रसटी-९.७३;१६



कन्दुकयन्त्र (१)

स्थूलस्थाल्यां जलं क्षिप्त्वा वासो बद्ध्वा मुखे दृढम् ।
तत्र स्वेद्यं विनिक्षिप्य तन्मुखं प्रपिधाय च ।। रस-९.७४ ।।

अधस्ताज्ज्वालयेदग्निं यन्त्रं तत्कन्दुकाभिधम् ।
स्वेदनीयन्त्रमित्यन्ये प्राहुश्चेदं मनीषिणः ।। रस-९.७५ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • स्पष्टम् ।। रसबोध-९.७५;१
  • स्वेदनीयन्त्रतया प्रागुक्तमपि इदं संज्ञान्तरप्रदर्शनार्थं पुनरुक्तम् अथवा तत्र स्थाल्या विशेषो नोक्तः अतः या काचित् स्थाली एव ग्राह्या अत्र तु स्थूलस्थाली एव ग्राह्या अतः स्वेदनीयन्त्रात् अस्य वैशिष्ट्यम् इति ।। रसबोध-९.७५;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • प्रागुक्तं स्वेदनीयन्त्रमेव कन्दुकयन्त्रनाम्नाह स्थूलस्थाल्यामिति ।। रसटी-९.७५;१
  • अन्ये मनीषिणो धीरा वक्ष्यमाणप्रकारेण प्राहुः यद्वेति ।। रसटी-९.७५;२
  • तत्कन्दुकयन्त्रमिति ।। रसटी-९.७५;३
  • एवं च तेषां मते स्वेदनीयन्त्रम् अस्माद् भिन्नम् एवेति भावः ।। रसटी-९.७५;४
  • पुष्पादीनाम् अतिमृदुद्रव्याणां कल्कादेर् वा स्वेदनार्थम् अस्य यन्त्रस्योपयोगो बोध्यः ।। रसटी-९.७५;५



कन्दुकयन्त्र (२)

यद्वा स्थाल्यां जलं क्षिप्त्वा तृणं क्षिप्त्वा मुखोपरि ।
स्वेद्यद्रव्यं परिक्षिप्य पिधानं प्रविधाय च ।
अधस्ताज्ज्वालयेदग्निं यन्त्रं तत् कन्दुकं स्मृतम् ।। रस-९.७६ ।।

खल्व > ग्रिन्द्स्तोने

खल्लयोग्या शिला नीला श्यामा स्निग्धा दृढा गुरुः ।
षोडशाङ्गुलकोत्सेधा नवाङ्गुलकविस्तरा ।। रस-९.७७ ।।

खल्व > पेस्त्ले

चतुर्विंशाङ्गुला दीर्घा घर्षणी द्वादशाङ्गुला ।
विंशत्यङ्गुलदीर्घा वा स्यादुत्सेधे दशाङ्गुला ।
खल्लप्रमाणं तज्ज्ञेयं श्रेष्ठं स्याद्रसकर्मणि ।। रस-९.७८ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ खल्वसंज्ञायोग्या सा शिला स्यात् ।। रसटी-९.७८;१
  • या नीला श्यामवर्णा वा स्निग्धादिगुणविशिष्टा षोडशाङ्गुलकोच्छ्राया तथा नवाङ्गुलकविस्तारा चतुर्विंशाङ्गुलैर् आ समन्ताद्दीर्घा च स्यात् ।। रसटी-९.७८;२
  • सा खल्वयोग्येति पूर्वत्र संबन्धः ।। रसटी-९.७८;३
  • घर्षणी तु द्वादशाङ्गुलदीर्घा स्यात् ।। रसटी-९.७८;४
  • पुनः खल्वशिलामानविकल्पमाह विंशत्यङ्गुलेति ।। रसटी-९.७८;५
  • अथवा खल्वशिला विंशत्यङ्गुलदीर्घा ।। रसटी-९.७८;६
  • उत्सेध उच्छ्राये च दशाङ्गुला कार्येति विशेषः ।। रसटी-९.७८;७
  • नवाङ्गुलेति विस्तारमानं तु प्रागुक्तमेव ग्राह्यम् ।। रसटी-९.७८;८

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • खल्लयन्त्रमाह खल्लयोग्येति ।। रसबोध-९.७८;१
  • उत्सेधः पार्श्वत उन्नतः ।। रसबोध-९.७८;२
  • दीर्घः आयामेन उन्नतः इति दीर्घोत्सेधयोर् भेदः ।। रसबोध-९.७८;३
  • घर्षणी कण्डनी पुत्रिका इति यावत् नोíआ इति भाषा ।। रसबोध-९.७८;४



खल्व > सुब्त्य्पेस्

खल्लयन्त्रं त्रिधा प्रोक्तं रसादिसुखमर्दने ।। रस-९.७९ ।।

निरुद्गारौ सुमसृणौ कार्यौ पुत्रिकया युतौ ।। रस-९.८० ।।

खल्व > अर्धचन्द्र

उत्सेधे स दशाङ्गुलः खलु कलातुल्याङ्गुलायामवान् विस्तारेण दशाङ्गुलो मुनिमितैर्निम्नस् तयैवाङ्गुलैः ।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • घर्षः शिलापुत्रः ।। रसबोध-९.८०;१



पाल्यां द्व्यङ्गुलिविस्तरश्च मसृणोऽतीवार्धचन्द्रोपमो घर्षो द्वादशकाङ्गुलश्च तदयं खल्लो मतः सिद्धये ।। रस-९.८१ ।।

अस्मिन्पञ्चपलः सूतो मर्दनीयो विशुद्धये ।
तत्तदौचित्ययोगेन खल्लेष्वन्येषु योजयेत् ।। रस-९.८२ ।।

खल्व (२)

द्वादशाङ्गुलविस्तारः खल्लोऽतिमसृणोपलः ।
चतुरङ्गुलनिम्नश्च मध्येऽतिमसृणीकृतः ।। रस-९.८३ ।।

मर्दकश् चिपिटोऽधस्तात् सुग्राहश्च शिखोपरि ।
अयं तु वर्तुलः खल्लो मर्दनेऽतिसुखप्रदः ।। रस-९.८४ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • मर्दनार्थं द्वितीयं वर्तुलखल्लमाह द्वादशेति ।। रसबोध-९.८४;१
  • मर्दक इति ।। रसबोध-९.८४;२
  • पुत्रिका अधोभागे चिपिटवद्विस्तीर्णा उपरिभागे च सुखेन यथा धारणीया भवति तथा कर्तव्या इत्यर्थः ।। रसबोध-९.८४;३



तप्तखल्व

लौहो नवाङ्गुलः खल्लो निम्नत्वे च षडङ्गुलः ।
मर्दकोऽष्टाङ्गुलश्चैव तप्तखल्लाभिधोऽप्ययम् ।। रस-९.८५ ।।

कृत्वा खल्लाकृतिं चुल्लीम् अङ्गारैः परिपूरिताम् ।
तस्यां निवेश्य तं खल्लं पार्श्वे भस्त्रिकया धमेत् ।। रस-९.८६ ।।

तदन्तर्मर्दिता पिष्टिः क्षारैरम्लैश्च संयुता ।
प्रद्रवत्यतिवेगेन स्वेदिता नात्र संशयः ।
कृतः कान्तायसा सोऽयं भवेत् कोटिगुणो रसः ।। रस-९.८७ ।।