सामग्री पर जाएँ

रसरत्नसमुच्चय : अध्याय 10

विकिपुस्तकानि तः
च्रुचिब्ले > स्य्नोन्य्म्स्

मूषा हि क्रौञ्चिका प्रोक्ता कुमुदी करहाटिका ।
पाचनी वह्निमित्रा च रसवादिभिरीर्यते ।। रस-१०.१ ।।

च्रुचिब्ले > निरुक्ति

मुष्णाति दोषान् मूषा या सा मूषेति निगद्यते ।। रस-१०.२ ।।

च्रुचिब्ले > मतेरिअल्

उपादानं भवेत्तस्या मृत्तिका लोहमेव च ।। रस-१०.३ ।।

मूषामुखविनिष्क्रान्ता वरमेकापि काकिणी ।
दुर्जनप्रणिपातेन धिग्लक्षम् अपि मानिनाम् ।। रस-१०.४ ।।

संधिलेप

मूषापिधानयोर्बन्धे बन्धनं संधिलेपनम् ।
अन्ध्रणं रन्ध्रणं चैव संश्लिष्टं संधिबन्धनम् ।। रस-१०.५ ।।

टोन्/ऌएह्म् fंर् टिएगेल्

मृत्तिका पाण्डुरस्थूला शर्करा शोणपाण्डुरा ।
चिराध्मानसहा सा हि मूषार्थम् अतिशस्यते ।
तदभावे च वाल्मीकी कौलाली वा समीर्यते ।। रस-१०.६ ।।

या मृत्तिका दुग्धतुषैः शणेन शिखित्रकैर् वा हयलद्दिना च ।
लौहेन दण्डेन च कुट्टिता सा साधारणा स्यात् खलु मूषिकार्थे ।। रस-१०.७ ।।

श्वेताश्मानस् तुषा दग्धाः शिखित्राः शणखर्परे ।
लद्दिः किट्टं कृष्णमृत्स्ना संयोज्या मूषिकामृदि ।। रस-१०.८ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • मूषार्थं प्रशस्तमृत्तिकामाह मृत्तिकेति ।। रसबोध-१०.८;१
  • पाण्डुरस्थूला पाण्डुवर्णा स्थूला च ।। रसबोध-१०.८;२
  • अथवा शोणपाण्डुरा रक्तपाण्डुमिश्रवर्णा चिराध्मानसहा दीर्घकालं व्याप्य अग्निसंतापं प्राप्यापि अविदारणशीला एवंविधा या शर्करा मृत्तिका कङ्कररूपा मृत्तिका ।। रसबोध-१०.८;३
  • शर्करामृत्तिकाभावे ग्राह्यमृत्तिकामाह तदिति ।। रसबोध-१०.८;४
  • वाल्मीकी कृमिशैलोद्भवा मृद् उइमाटी इति वङ्गभाषा ।। रसबोध-१०.८;५
  • कौलाली कुम्भकारमृदित्यर्थः ।। रसबोध-१०.८;६
  • हयलद्दिना अश्वपुरीषेन ।। रसबोध-१०.८;७
  • उपादानान्तराण्याह श्वेताश्मान इति ।। रसबोध-१०.८;८
  • श्वेताश्मानः श्वेतप्रस्तराः ।। रसबोध-१०.८;९
  • खर्परः कपालखण्डः दग्धमृत्तिका इति यावत् ।। रसबोध-१०.८;१०
  • शणखर्परे इत्यत्र शणकर्पटे इति पाठे कर्पटं छिन्नवस्त्रम् ।। रसबोध-१०.८;११
  • लद्दिः हयलद्दिः ।। रसबोध-१०.८;१२
  • किट्टं मण्डूरम् ।। रसबोध-१०.८;१३
  • कृष्णमृत्स्ना कृष्णवर्णमृत्तिका ।। रसबोध-१०.८;१४
  • मूषिकामृदा मूषार्थग्राह्यमृत्तिकया सहेत्यर्थः ।। रसबोध-१०.८;१५

$

  • टीका रससरत्नसमुच्चयटीका:
  • मूषार्थं प्रशस्तमृत्तिकाया लक्षणमाह मृत्तिकेति ।। रसटी-१०.८;१
  • पाण्डुरा स्थूलकणा शोणमिश्रपाण्डुरकणा वा ।। रसटी-१०.८;२
  • कौलाली कुलालभाण्डोत्पादनार्थम् उपादानमृत्तिका ।। रसटी-१०.८;३
  • अथ सर्वमूषोपयोगिसाधारणमृत्तिकाम् आह या मृत्तिकेति ।। रसटी-१०.८;४
  • दग्धतुषेति ।। रसटी-१०.८;५
  • चतुर्थांशेन दग्धतुषयुक्ता प्रत्येकं तथा भागैः शिखित्रैः कोकिलैर् हयलद्दिनाश्वशकृता च युक्ता सा प्रशस्ता ।। रसटी-१०.८;६
  • मूषिकामृदि चतुर्थांशेन संयोज्यद्रव्याण्याह श्वेताश्मान इति ।। रसटी-१०.८;७
  • गारेत्यपरपर्यायाः ।। रसटी-१०.८;८
  • ते च दग्धा एव ग्राह्याः ।। रसटी-१०.८;९
वज्रमूषा

मृदस्त्रिभागाः शणलद्दिभागौ भागश्च निर्दग्धतुषोपलादेः ।
किट्टार्धभागं परिखण्ड्य वज्रमूषां विदध्यात्खलु सत्त्वपाते ।। रस-१०.९ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • वज्रमूषामाह मृद इति ।। रसबोध-१०.९;१
  • मृदः पूर्वोक्तरूपमृत्तिकायाः ।। रसबोध-१०.९;२
  • शणलद्दिभागौ शणस्य लद्देश्च प्रत्येकं भागद्वयम् ।। रसबोध-१०.९;३
  • परिखण्ड्य चूर्णयित्वा ।। रसबोध-१०.९;४
योगमूषा

दग्धाङ्गारतुषोपेता मृत्स्ना वल्मीकमृत्तिका ।
तत्तद्विडसमायुक्ता तत्तद्विडविलेपिता ।। रस-१०.१० ।।

तया या विहिता मूषा योगमूषेति कथ्यते ।
अनया साधितः सूतो जायते गुणवत्तरः ।। रस-१०.११ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • योगमूषामाह दग्धेति ।। रसबोध-१०.११;१
  • दग्धशब्दोऽत्र अङ्गारतुषाभ्यां प्रत्येकं सम्बध्यते ।। रसबोध-१०.११;२
  • मृत्स्ना पाण्डुरस्थूलादिगुणोपेता शर्करामृत्तिकेत्यर्थः ।। रसबोध-१०.११;३
  • तत्तद्विडसमायुक्ता सूतजारणार्थं प्राङ्निरूपितविडमिश्रिता ।। रसबोध-१०.११;४
  • तत्तद्विडविलेपिता तेनैव विडेनालिप्ता ।। रसबोध-१०.११;५
  • दग्धाङ्गारादिविडान्तं सर्वमेकत्र संनीय मूषां विरचय्य विडेन लिप्त्वा शुष्कीकृत्य गृह्णीयादिति ।। रसबोध-१०.११;६

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ योगमूषामाह दग्धगारेति ।। रसटी-१०.११;१
  • दग्धा गारा वज्रप्रसवाः श्वेतपाषाणा दग्धं शालितुषं च प्रत्येकं चतुर्थांशेन तैस्तथा तत्तद्विडचूर्णैश्च मिश्रिता या प्रशस्ता वल्मीकमृत्तिका तया विहिता घटिता मूषा योगमूषेति कीर्त्यते ।। रसटी-१०.११;२
  • इयं चाभ्रकसत्त्वादेर् जारणायां विशिष्टो यो यो विडस्तेन विलेपिता तेनैव कार्या ।। रसटी-१०.११;३
  • अथ जारणायां सा पारदगर्भिता कोष्ठीयन्त्रे भस्त्रिकया ध्माता चेत्तया साधितो जारितताम्रसत्त्वादिः खोटादिरूपश्च पारदो गुणवत्तरो भवति ।। रसटी-१०.११;४
  • एवं चेयं योगवाहिमूषा योगमूषेत्यन्वर्थनामिकेति भावः ।। रसटी-१०.११;५
वज्रद्रावणिकमूषा

गारभूनागधौताभ्यां शणैर्दग्धतुषैरपि ।
समैः समा च मूषामृन्महिषीदुग्धमर्दिता ।। रस-१०.१२ ।।

क्रौञ्चिका यन्त्रमात्रं हि बहुधा परिकीर्तिता ।
तया विरचिता मूषा वज्रद्रावणिकोचिता ।। रस-१०.१३ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • वज्रद्रावणोपयोगिमूषामाह गारेति ।। रसबोध-१०.१३;१
  • गारशब्दोऽत्र कोष्ठागारिकार्थकः नामैकदेशेनापि नामसाकल्यग्रहणम् इति न्यायात् कोष्ठागारिका मृत्तिकाविशेषः कुमीरे पोकार मोटी इति भाषा ।। रसबोध-१०.१३;२
  • भूनागशब्देनापि तन्मृत्तिका ग्राह्या एवं च गारभूनागधौताभ्यां धौतकोष्ठागारिकाकिञ्चुलूकमृद्भ्याम् ।। रसबोध-१०.१३;३
  • मूषामृत् पूर्वोक्तशर्करावाल्मीकिकौलाल्यादीनाम् अन्यतमा ।। रसबोध-१०.१३;४
  • गारादितुषान्तं सर्वं समम् मृत्तिका च सर्वैः समाना ग्राह्या ।। रसबोध-१०.१३;५
  • क्रौञ्चिकेति ।। रसबोध-१०.१३;६
  • यन्त्रमात्रे हि क्रौञ्चिका संज्ञा वर्तते सा हि बहुधा विविधप्रकारा इत्यन्वयः ।। रसबोध-१०.१३;७

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ हीनजातीयनातिकठिनवज्रप्रमुखकठिनपाषाणसत्त्वरत्नानां द्रावणकरीं मूषामाह गारेति ।। रसटी-१०.१३;१
  • गाराः श्वेता वज्रोत्पादकाः पाषाणाः ।। रसटी-१०.१३;२
  • भूनागधौतं परिभाषाध्यायोक्तं ग्राह्यम् ।। रसटी-१०.१३;३
  • शणा दग्धतुषाश्चैते मिथः समाः ।। रसटी-१०.१३;४
  • तैः समा समभागा प्रागुक्तलक्षणा मूषोपादानमृद् एकत्र कृत्वा महिषीदुग्धेन संमर्द्य संस्कृता चेयं मृत्क्रौञ्चिकापक्षमात्रं नानाविधमूषारूपो यो भागो यन्त्रतुल्यस्तन्निर्माणार्थं प्रशस्तत्वेन बहुषु ग्रन्थेषु कथिता ।। रसटी-१०.१३;५
  • तद्धितमूषायाः सत्त्वाहरणादिकार्येष्वग्निना चिरकालपर्यन्तं दुर्भेद्यत्वात् ।। रसटी-१०.१३;६
  • भूनागोपेतत्वेन शीघ्रद्रावणोपयोगित्वाच्च ।। रसटी-१०.१३;७
  • तया संस्कृतया मृदा विहिता मूषा शास्त्रे वज्रद्रावणकेति ख्याता ।। रसटी-१०.१३;८
गारमूषा

दुग्धषड्गुणगाराष्टकिट्टाङ्गारशणान्विता ।
कृष्णमृद्भिः कृता मूषा गारमूषेत्युदाहृता ।
यामयुग्मपरिध्मानान् नासौ द्रवति वह्निना ।। रस-१०.१४ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • गारमूषामाह दुग्धेति ।। रसबोध-१०.१४;१
  • गारस्य षड्गुणत्वं किट्टाङ्गारशणानां च प्रत्येकम् अष्टगुणत्वं कृष्णमृदपेक्षया बोध्यम् ।। रसबोध-१०.१४;२
  • दुग्धं च मर्दनयोग्यम् ।। रसबोध-१०.१४;३

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ गारमूषामाह दग्धेति ।। रसटी-१०.१४;१
  • दग्धा ये मृत्तिकापेक्षया षड्गुणा गारास्तद्विशिष्टास्तथा लोहकिट्टा अङ्गारा निर्वाणाग्नयः कोकिलाः ।। रसटी-१०.१४;२
  • तथा शणाः ताग इति ख्याताः ।। रसटी-१०.१४;३
  • ते च प्रत्येकं चतुर्थांशमितास्तैर्युक्ता या कृष्णवर्णा मृत्तत्कृता मूषा शास्त्रे गारमूषेति परिकीर्तिता ।। रसटी-१०.१४;४
  • तेषां पाषाणानामत्र साधकमध्ये ह्यधिकभागोपेतत्वादिति भावः ।। रसटी-१०.१४;५
वरमूषा

वज्राङ्गारतुषास्तुल्यास् तच्चतुर्गुणमृत्तिका ।
गारा च मृत्तिकातुल्या सर्वैर् एतैर् विनिर्मिता ।
वरमूषेति निर्दिष्टा याममग्निं सहेत सा ।। रस-१०.१५ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • वरमूषामाह वज्रेति ।। रसबोध-१०.१५;१
  • वज्रं तदाख्यलौहं पूर्वोक्तसंगत्या तत्किट्टं वा बोध्यम् ।। रसबोध-१०.१५;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ वरमूषाम् आह वज्रेति ।। रसटी-१०.१५;१
  • वज्रो हीरकः ।। रसटी-१०.१५;२
  • तदलाभे वैक्रान्तं ग्राह्यम् ।। रसटी-१०.१५;३
  • अङ्गारा हठान्मृत्तिकाधूलिप्रक्षेपेण निरग्नयः कोकिलाः ।। रसटी-१०.१५;४
  • तथा दग्धतुषाः ।। रसटी-१०.१५;५
  • सर्वे च मिथस्तुल्यभागाः ।। रसटी-१०.१५;६
  • सर्वेभ्यश्चतुर्गुणा मृत्तिका तत्तुल्या गाराः श्वेतपाषाणाः ।। रसटी-१०.१५;७
  • एतन्निर्मिता मूषा वरमूषेति कथ्यते ।। रसटी-१०.१५;८
  • वरस्य श्रेष्ठस्य महामूल्यस्य हीरकस्यात्र घटकत्वात् ।। रसटी-१०.१५;९
वर्णमूषा

पाषाणरहिता रक्ता रक्तवर्गानुसाधिता ।
मृत्तया साधिता मूषा क्षितिखेचरलेपिता ।
वर्णमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते ।। रस-१०.१६ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • वर्णमूषामाह पाषाणरहितेति ।। रसबोध-१०.१६;१
  • रक्ता रक्तवर्णा ।। रसबोध-१०.१६;२
  • रक्तवर्गानुसाधिता वक्ष्यमाणकुसुम्भादिमाक्षिकान्तवर्गक्वाथेन भाविता शृता वा ।। रसबोध-१०.१६;३
  • क्षितिखेचरलेपिता क्षितिश्च खं च क्षितिखे तत्र चरतः इति क्षितिखेचरौ भूनागमृत् काशीशं च यद्वा क्षितिस्थः खेचरः काशीशमित्यर्थः ।। रसबोध-१०.१६;४
  • वर्णोत्कर्षे प्रशस्तवर्णतापादने रक्तवर्णजनने इत्याशयः ।। रसबोध-१०.१६;५

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ वर्णमूषामाह पाषाणेति ।। रसटी-१०.१६;१
  • पाषाणा रक्तपाषाणाः ।। रसटी-१०.१६;२
  • समभागैश्च तैः सहिता या रक्ता रक्तवर्णा मृत्तिका तया साधिता विहिता मूषा वर्णमूषेति प्रोक्ता ।। रसटी-१०.१६;३
  • यस्मादियं नियुज्यत उपयुज्यते निर्वाहणेन धातोः पारदस्य वा रक्तवर्णोत्पादनार्थम् ।। रसटी-१०.१६;४
  • उक्तं च रसहृदये ।। रसटी-१०.१६;५
  • निर्गुण्डीरसभावितपुटितं शिलया वर्तितं श्लक्ष्णम् ।
  • तावन्मृदितपुटितं निरुत्थभावं व्रजेद्यावत् ।। रसटी-१०.१६;६
  • तारे तन्निर्व्यूढं यावत् पीतं भवेद्रुचिरम् ।
  • हेम्ना समेन मिलितं मात्रातुल्यं भवेत् कनकम् ।। रसटी-१०.१६;७
  • इति ।। रसटी-१०.१६;८
  • अत्र निर्वाहणं चास्यां मूषायां कार्यम् ।। रसटी-१०.१६;९
  • रक्तवर्गः श्वेतवर्गश्चास्मिन्नेवाध्याये वक्ष्यमाणः ।। रसटी-१०.१६;१०
रूप्यमूषा

पाषाणरहिता श्वेता श्वेतवर्गानुसाधिता ।
मृत् तया साधिता मूषा क्षितिखेचरलेपिता ।
रौप्यमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते ।। रस-१०.१७ ।।

विडमूषा

तत्तद्भेदमृदोद्भूता तत्तद्विडविलेपिता ।
देहलोहार्थयोगार्थं विडमूषेत्युदाहृता ।। रस-१०.१८ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • विडमूषामाह तत्तदिति ।। रसबोध-१०.१८;१
  • तत्तद्भेदमृदोद्भूता शर्करादीनाम् अन्यतममृदा रचिता इत्यर्थः ।। रसबोध-१०.१८;२
  • तत्तद्भेदमृदोद्भूता इत्यत्र तत्तद्विडमृदोद्भूता इति पाठे पूर्वोक्तविडेन पूर्वोक्तमृदा च उद्भूता निर्मिता ।। रसबोध-१०.१८;३
  • देहलोहार्थयोगार्थं देहस्य लौहवद् दार्ढ्यसम्पादनार्था ये योगाः तदर्थं तत्कर्मसम्पादनार्थम् इत्यर्थः ।। रसबोध-१०.१८;४

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ विडमूषामाह तत्तद्विडमृदुद्भूतेति ।। रसटी-१०.१८;१
  • अभ्रसत्त्वजारणस्वर्णजारणोपयोगीनि यानि वडवानलादिविडानि यथोद्दिष्टरसादिभावितानि चूर्णानि तथा सर्वलोहादिजारणोपयोगिविडात्मकश्चूर्णः परिभाषाध्याये विडवर्णनावसरे प्रागुक्तः ।। रसटी-१०.१८;२
  • तथा पूर्वोक्ता नानाविधा पाण्डुरादिमृत्तदुद्भूता तत्सिद्धा तथा तत्तद्विडैर् ग्रासजारणसाधनैर् विशिष्टैश्चूर्णैरन्तर्विलेपिता या मूषा सा विडमूषेत्युच्यते ।। रसटी-१०.१८;३
  • इयं मूषा दृढकायकररसायनविधौ साधनत्वेन देहार्था देहोपयोगिनीत्यर्थः ।। रसटी-१०.१८;४
  • तथा लोहमारणोपयोगिनी ।। रसटी-१०.१८;५
  • अत एव लोहार्था ।। रसटी-१०.१८;६
  • तथा अर्थो धनं तथा सुवर्णाद्युत्पादनविधौ धातुवादे साधनत्वेनार्थार्था ।। रसटी-१०.१८;७
  • तथा कासघ्नरत्नकरण्डकरसार्शोनाशकसर्वलोकाश्रयरसप्रभृतिनानाविधरोगघ्नरसविधौ साधनत्वेन योगार्था चेतीयं चतुर्विधकार्योपयोगिनी भवति ।। रसटी-१०.१८;८
वज्रद्रावणिकमूषा (२)

गारभूनागधौताभ्यां तुषमृष्टशणेन च ।
समैः समा च मूषामृन्महिषीदुग्धमर्दिता ।। रस-१०.१९ ।।

क्रौञ्चिका यन्त्रमात्रे हि बहुधा परिकीर्तिता ।
तया विरचिता मूषा लिप्ता मत्कुणशोणितैः ।। रस-१०.२० ।।

बालाब्दध्वनिमूलैश्च वज्रद्रावणक्रौञ्चिका ।
सहतेऽग्निं चतुर्यामं द्रवेण व्याधिता सती ।। रस-१०.२१ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • पूर्वोक्तवज्रद्रावणोपयोगिमूषायाः प्रकारान्तरमाह गारेति ।। रसबोध-१०.२१;१
  • मत्कुणः छारपोका इति ख्यातः क्रिमिविशेषः तस्य शोणितैः ।। रसबोध-१०.२१;२
  • अब्दध्वनिः वनतण्डुलीयकः कांटानटे इति भाषा बालाब्दध्वनिमूलैः नवोत्पन्नतण्डुलीयमूलैः यद्वा वालः अश्वपुच्छकेशः तथा अब्दध्वनिमूलं तैः लिप्ता इत्यनेनान्वयः ।। रसबोध-१०.२१;३
  • द्रवेण व्याधिता विद्धा स्पृष्टा इत्यर्थः द्रवपूर्णा इत्याशयः ।। रसबोध-१०.२१;४

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथाव्यभिचारेण वज्रमात्रद्रावणार्थं वज्रमूषामाह गारेति ।। रसटी-१०.२१;१
  • वालाब्देति ।। रसटी-१०.२१;२
  • वाला नरकेशाः ।। रसटी-१०.२१;३
  • अब्दध्वनिमूलं तन्दुलीयकमूलम् ।। रसटी-१०.२१;४
  • इयं मूषा द्रवद्रवेण व्यथिता सती अन्तःस्थतैजसद्रव्ययोगसंयोगेन बाह्याग्निसंयोगेन च संततं पीडिता सत्यप्यग्निं सहते ।। रसटी-१०.२१;५
मूषाप्यायन

द्रवे द्रवीभावमुखे मूषाया ध्मानयोगतः ।
क्षणमुद्धरणं यत्तन्मूषाप्यायनम् उच्यते ।। रस-१०.२२ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • मूषाप्यायनमाह द्रवे इति ।। रसबोध-१०.२२;१
  • ध्मायते अनेनेति ध्मानमग्निः तद्योगतः अग्निसंयोगाद् द्रवे द्रावणोपयोगिनि द्रव्ये द्रवीभावमुखे द्रवीभवितुम् आरब्धे मूषाया यत् क्षणम् उद्धरणम् अग्नितः उत्तोलनम् अवतारणमित्यर्थः तद् आप्यायनं तर्पणं स्थायित्वसम्पादनम् इत्यर्थः ।। रसबोध-१०.२२;२
वृन्ताकमूषा

वृन्ताकाकारमूषायां नालं द्वादशकाङ्गुलम् ।
धत्तूरपुष्पवच् चोर्ध्वं सुदृढं श्लिष्टपुष्पवत् ।। रस-१०.२३ ।।

अष्टाङ्गुलं च सच्छिद्रं सा स्याद् वृन्ताकमूषिका ।
अनया खर्परादीनां मृदूनां सत्त्वमाहरेत् ।। रस-१०.२४ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • वृन्ताकमूषामाह वृन्ताकेति ।। रसबोध-१०.२४;१
  • वृन्ताकं वार्त्ताकुः वार्त्ताकुफलसदृशाकारां मूषां कृत्वा तत्र द्वादशाङ्गुलदीर्घं नालं योजयेत् नालाग्रभागं च धुस्तूरपुष्पवद् उपर्यधो युग्मरूपावस्थितम् अष्टाङ्गुलं सच्छिद्रं च कुर्यात् ।। रसबोध-१०.२४;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • वृन्ताकमूषामाह वृन्ताकाकारेति ।। रसटी-१०.२४;१
  • द्वादशकाङ्गुलम् ।। रसटी-१०.२४;२
  • द्वादशाङ्गुलं दीर्घम् ऊर्ध्वम् उत्तानमूषाया ऊर्ध्वतनमुखभागो धत्तूरपुष्पवत् क्रमेण विस्तीर्णस्तद्वदेव च संश्लेषेण त्रिचतुष्कोणयुतो ध्मानावसरे पिहितेऽपि मुखे सति तत्कोणमार्गेणान्तःस्थधूमस्य बहिर्निर्गमनार्थं कोणघटनेनैव तन्मुखं सच्छिद्रं भवति ।। रसटी-१०.२४;३
  • तच्च मुखम् अष्टाङ्गुलविस्तृतं वर्तुलसूत्रवेष्टनेनाष्टाङ्गुलमितम् इत्यर्थः ।। रसटी-१०.२४;४
गोस्तनमूषा

मूषा या गोस्तनाकारा शिखायुक्तपिधानका ।
सत्त्वानां द्रावणे शुद्धौ मूषा सा गोस्तनी भवेत् ।। रस-१०.२५ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ गोस्तनमूषामाह मूषाया इति ।। रसटी-१०.२५;१
  • शिखायुक्तेति ।। रसटी-१०.२५;२
  • शिखराकारपिधानकसहितेयमेव चान्धमूषाभिधीयते ।। रसटी-१०.२५;३
  • द्वंद्वितबीजमेलापादिविधावस्या उपयोगो बोध्यः ।। रसटी-१०.२५;४
  • यत्र तु न्युब्जया तयाच्छादनं क्रियते तत्र पिधानरहिता ग्राह्या ।। रसटी-१०.२५;५
  • यथा नाभियन्त्रे प्रागुक्तम् ।
  • ततश्चाच्छादयेत् सम्यग्गोस्तनाकारमूषया ।
  • इति ।। रसटी-१०.२५;६
मल्लमूषा

निर्दिष्टा मल्लमूषा या मल्लद्वितयसम्पुटात् ।
पर्पट्यादिरसादीनां स्वेदनाय प्रकीर्तिता ।। रस-१०.२६ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • मल्लमूषामाह निर्दिष्टेति ।। रसटी-१०.२६;१
  • मल्लं पिधानोपयोगि विस्तीर्णं किंचिद् गभीरोदरं मृन्मयं पात्रं शरावेति लोके प्रसिद्धम् ।। रसटी-१०.२६;२
  • सप्तविंशतितमेऽध्यायेऽस्या उपयोगं वक्ष्यति मदनसंजीवनरसविधौ ।। रसटी-१०.२६;३
  • अन्यत्रापि प्रभूतस्थले चैषोपयुज्यते ।। रसटी-१०.२६;४
  • तदेवोच्यते पर्पट्यादीति ।। रसटी-१०.२६;५
पक्वमूषा

कुलालभाण्डरूपा या दृढा च परिपाचिता ।
पक्वमूषेति सा प्रोक्ता पोट्टल्यादिविपाचने ।। रस-१०.२७ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • पक्वमूषामाह कुलालेति ।। रसबोध-१०.२७;१
  • घटकपालयोः पृथक् पृथक् निर्माणार्थं यः प्रतिरूपः सः कुलालभाण्डशब्देनोच्यते तद्रूपा इत्यर्थः ।। रसबोध-१०.२७;२
  • पोटल्यादिविपाचने रत्नगर्भपोटल्यादिपाके इत्यर्थः ।। रसबोध-१०.२७;३

$

  • टीका रससरत्नसमुच्चयटीका:
  • त्रयोदशाध्यायोक्तपर्पटीप्रभृतिरसानाम् अल्पस्वेदसाध्यानां पक्वमूषामाह कुलालेति ।। रसटी-१०.२७;१
  • वस्त्रमयपोटलीव भेषजगर्भितं भेषजमयमूषा कपर्दिकाशङ्खादि भूमौ गजपुटादिना पाचयितुम् यत्र पात्रान्तरे ध्रियते पाकोत्तरम् आच्छादनसहितं च गृह्यते ।। रसटी-१०.२७;२
  • यथा राजयक्ष्मचिकित्सायां मृगाङ्कपोटलीविधौ स रसः पोटलीत्युच्यते ।। रसटी-१०.२७;३
गोलमूषा

निर्वक्त्रगोलकाकारा पुटनद्रव्यगर्भिणी ।
गोलमूषेति सा प्रोक्ता सत्वरद्रवरोधिनी ।। रस-१०.२८ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • गोलमूषामाह निर्वक्त्रेति ।। रसबोध-१०.२८;१
  • मुखविरहितगोलाकारा इत्यर्थः ।। रसबोध-१०.२८;२
  • सत्वरद्रवरोधिनी द्रवपदार्थस्रावनिवारिणी इत्यर्थः ।। रसबोध-१०.२८;३
  • मध्यस्थितपुटनद्रव्या सम्यङ्निरुद्धानना गोलाकृतिमूषा गोलमूषा बोध्या ।। रसबोध-१०.२८;४

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ गोलमूषामाह निर्वक्त्रेति ।। रसटी-१०.२८;१
  • गत्वरद्रव्यं पारदरसकमनःशिलाहरितालप्रभृति मध्ये दत्त्वा कुलालेन या निर्मुखैव विधीयते एतत्समा ताम्रमूषा रसहृदयेऽष्टादशावबोधेऽभिहिता ।। रसटी-१०.२८;२
  • अत एव तदुदाहरणमत्र नोपयोगि ।। रसटी-१०.२८;३
  • मृन्मयोदाहरणप्रयोगो नोपलभ्यते ।। रसटी-१०.२८;४
महामूषा

तले या कूर्पराकारा क्रमादुपरि विस्तृता ।
स्थूलवृन्ताकवत् स्थूला महामूषेत्यसौ स्मृता ।
सा चायोऽभ्रकसत्त्वादेः पुटाय द्रावणाय च ।। रस-१०.२९ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • महामूषामाह तले इति ।। रसबोध-१०.२९;१
  • कूर्पराकारा कूर्परः कफोणिः भुजमध्यसन्धिर् इत्यर्थः तदाकारा ।। रसबोध-१०.२९;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ महामूषामाह तल इति ।। रसटी-१०.२९;१
  • अयोऽभ्रकेति ।। रसटी-१०.२९;२
  • अत्रायःशब्देन कान्तं ग्राह्यम् ।। रसटी-१०.२९;३
  • तस्यान्तःपीतरेखाविशिष्टस्य छागरक्तेन भावनया शुद्धस्य ।। रसटी-१०.२९;४
  • पिण्डीबद्धस्य कोष्ठयन्त्रोदरे मूषायां लघुभस्त्रया धमनाद्भवति सत्त्वनिपातनम् ।। रसटी-१०.२९;५
मण्डूकमूषा

मण्डूकाकारा या निम्नतायामविस्तरा ।
षडङ्गुलप्रमाणेन मूषा मण्डूकसंज्ञिका ।
भूमौ निखन्य तां मूषां दद्यात्पुटमथोपरि ।। रस-१०.३० ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • मण्डूकमूषामाह मण्डूकेति ।। रसबोध-१०.३०;१
  • मण्डूकः भेकः तदाकारा ।। रसबोध-१०.३०;२
  • षडङ्गुलप्रमाणेन निम्नतायामविस्तरा षडङ्गुलप्रमाणगभीरतादैर्घ्यविस्तारयुक्ता ।। रसबोध-१०.३०;३

$

  • टीका रससरत्नसमुच्चयटीका:
  • मण्डूकमूषामाह मण्डूकेति ।। रसटी-१०.३०;१
  • तदाकारमूषाया गाम्भीर्यदैर्घ्यपरिणाहाः षडङ्गुलमिताः कार्याः ।। रसटी-१०.३०;२
  • उपरि मृत्तिकया ताम् चतुरङ्गुलमितम् आच्छाद्य भूमिपृष्ठोपरीत्यर्थः ।। रसटी-१०.३०;३
मूसल-/मुशलमूषा

मूषा या चिपिटा मूले वर्तुलाष्टाङ्गुलोच्छ्रया ।
मूषा सा मूसलाख्या स्याच्चक्रिबद्धरसे हिता ।। रस-१०.३१ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • मुषलमूषामाह मूषेति ।। रसबोध-१०.३१;१
  • वर्तुला मूलाद् ऊर्ध्वमिति बोध्यम् ।। रसबोध-१०.३१;२
  • चक्रिबद्धरसे स्त्रीरोगाधिकारोक्त औषधविशेषः ।। रसबोध-१०.३१;३

$

  • टीका रससरत्नसमुच्चयटीका:
  • मुशलमूषामाह मूषेति ।। रसटी-१०.३१;१
  • चक्रिबद्धरसो द्वाविंशाध्याये वक्ष्यमाणः ।। रसटी-१०.३१;२
कोष्ठी (गेनेरल् देfइनितिओन्)

सत्त्वानां पातनार्थाय पातितानां विशुद्धये ।
कोष्ठिका विविधाकारास्तासां लक्षणम् उच्यते ।। रस-१०.३२ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अल्पाग्निसाध्यस्य द्रव्यपाकस्य साधनाय मूषा नानाविधा उक्ताः ।। रसटी-१०.३२;१
  • संप्रति प्रभूताग्निसाध्यस्य द्रव्यपाकस्य साधनार्थं विविधाः कोष्ठीर् वक्तुकामः प्रथमं तासां प्रयोजनमाह सत्त्वानामिति ।। रसटी-१०.३२;२
  • मूषामृदैव कोष्ठीर् विदध्याद् इत्यभिप्रायेणैवात्र कोष्ठीनां मृद्विशेषो नोक्तः ।। रसटी-१०.३२;३
  • रसरत्नाकरे तु मृत्तिकाद्रव्याणां प्रमाणमपि स्पष्टं कृत्वाभिहितम् ।। रसटी-१०.३२;४
  • तथा च तद्ग्रन्थः ।
  • गारा दग्धास्तुषा दग्धा वल्मीकमृत्तिका ।
  • अजाश्वानां मलं दग्धं यावत् तत् कृष्णतां गतम् ।। रसटी-१०.३२;५
  • पाषाणभेदपत्राणि कृष्णा मृच्च समं समम् ।
  • वज्रवल्ल्या द्रवैर्मर्द्यं दिनं वा पेषयेद्दृढम् ।। रसटी-१०.३२;६
  • तेन कोष्ठीर् वङ्कनाला वज्रमूषाश्च कारयेत् ।
  • मृन्मयकोशस्य कोष्ठीति नाम प्रसिद्धम् ।। रसटी-१०.३२;७
  • सा च द्विविधा ।। रसटी-१०.३२;८
  • भूमिकोष्ठी चलत्कोष्ठी च ।। रसटी-१०.३२;९
  • यत्कोष्ठीयन्त्रं प्रागुदितं सा चलत्कोष्ठीति निगद्यते ।। रसटी-१०.३२;१०
  • इदानीम् उच्यमानास्तु सर्वा भूमिकोष्ठ्यः ।। रसटी-१०.३२;११
  • ताश्च द्विविधाः ।। रसटी-१०.३२;१२
  • प्रकाशकोष्ठी सपिधानकोष्ठी चेति भेदेन ।। रसटी-१०.३२;१३
अङ्गारकोष्ठी

राजहस्तसमुत्सेधा तदर्धायामविस्तरा ।
चतुरस्रा च कुड्येन वेष्टिता मृन्मयेन च ।। रस-१०.३३ ।।

एकभित्तौ चरेद्द्वारं वितस्त्याभोगसंयुतम् ।
द्वारं सार्धवितस्त्या च संमितं सुदृढं शुभम् ।। रस-१०.३४ ।।

देहल्यधो विधातव्यं धमनाय यथोचितम् ।
प्रादेशप्रमिता भित्तिर् उत्तरङ्गस्य चोर्ध्वतः ।। रस-१०.३५ ।।

द्वारं चोपरि कर्तव्यं प्रादेशप्रमितं खलु ।
ततश्चेष्टिकया रुद्ध्वा द्वारसंधिं विलिप्य च ।। रस-१०.३६ ।।

शिखित्रैस्तां समापूर्य धमेद्भस्त्राद्वयेन च ।
शिखित्रान् धमनद्रव्यम् ऊर्ध्वद्वारेण निक्षिपेत् ।। रस-१०.३७ ।।

सत्त्वपातनगोलांश्च पञ्च पञ्च पुनः पुनः ।
भवेद् अङ्गारकोष्ठीयं खराणां सत्त्वपातिनी ।। रस-१०.३८ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • अङ्गारकोष्ठिकालक्षणमाह राजहस्तेति ।। रसबोध-१०.३८;१
  • राजहस्तसमुत्सेधा हस्तद्वयोन्नता ।। रसबोध-१०.३८;२
  • राजहस्तस्य विस्तृतव्याख्या गजपुटव्याख्यायां द्रष्टव्या ।। रसबोध-१०.३८;३
  • चतुरस्रा चतुष्कोणा ।। रसबोध-१०.३८;४
  • वितस्त्याभोगसंयुतं द्वादशाङ्गुलविस्तृतम् ।। रसबोध-१०.३८;५
  • द्वारं सार्धवितस्त्या च इत्यस्य देहल्यधः इत्यनेन संबन्धः ।। रसबोध-१०.३८;६
  • देहली द्वारनिम्ने पिण्डिका ।। रसबोध-१०.३८;७
  • प्रादेशप्रमिता अङ्गुष्ठस्य प्रदेशिन्या व्यासः प्रादेश उच्यते इत्युक्तलक्षणा तर्जनीसहितविस्तृताङ्गुष्ठप्रमाणा ।। रसबोध-१०.३८;८
  • उत्तरङ्गस्य द्वारोर्ध्वस्थदारुणः ।। रसबोध-१०.३८;९
  • हस्तद्वयोत्सेधं हस्तमितायामविस्तारं चतुष्कोणं समन्तात् मृन्मयभित्तिवेष्टितं च चुल्ल्याकारमेकं मार्त्तिकं यन्त्रं कृत्वा तस्य एकभित्तौ वितस्तिविस्तरं द्वारं द्वारपिण्डिकाधः अष्टादशाङ्गुलमानं द्वारान्तरं च कुर्यात् ।। रसबोध-१०.३८;१०
  • द्वारोर्ध्वभागे अङ्गुष्ठतर्जन्योर् मध्यवत् विस्तृतां भित्तिं स्थापयित्वा तदुपरि तद्वद्विस्तृतं द्वारमन्यत् विदध्यात् ततः इष्टकया द्वारसन्धिं रुद्ध्वा आलिप्य च कोष्ठीमङ्गारैः परिपूर्य द्वाभ्यां भस्त्राभ्यां धमेत् ।। रसबोध-१०.३८;११
  • भस्मीभूते च अङ्गारे पुनरपि अङ्गारं सत्त्वपातनगोलादिकं च पञ्च पञ्च कृत्वा ऊर्ध्वद्वारेण पुनः पुनः निक्षिपेत् ।। रसबोध-१०.३८;१२
  • इयम् अङ्गारकोष्ठी खरद्रव्याणां सत्त्वपातने शुभा ज्ञेया ।। रसबोध-१०.३८;१३

$

  • टीका रससरत्नसमुच्चयटीका:
  • प्रथमं सपिधानकोष्ठीमाह राजहस्तेति ।। रसटी-१०.३८;१
  • सपादहस्तस्त्रिंशदङ्गुलात्मकस्तन्मित उत्सेध उच्छ्रयो यस्यास्तथोक्ता ।। रसटी-१०.३८;२
  • तदर्धमात्रौ दैर्घ्यविस्तारौ यस्यास्तथोक्ता ।। रसटी-१०.३८;३
  • तथा चतुरस्रा चतुष्कोणा सर्वतो दार्ढ्याय मृन्मयेन कुड्येन भित्त्या बहिर्वेष्टिता कार्या ।। रसटी-१०.३८;४
  • तेन चतसृषु दिक्षु चतस्रो भित्तयः सम्भवन्ति ।। रसटी-१०.३८;५
  • एकभित्ताविति सामान्यत उक्तमपि योग्यतया पूर्वभित्तौ पश्चिमभित्तौ वेति विशेषार्थे पर्यवस्यति ।। रसटी-१०.३८;६
  • तस्यां दिशि स्थितायां भित्तौ द्वारं वितस्त्या संमितं कार्यम् ।। रसटी-१०.३८;७
  • यद्वितस्तिमितं दीर्घं सूत्रं तद्वर्तुलं निधायान्तरवकाशो यावान् सम्भवति तन्मितं वर्तुलं चतुरङ्गुलमितम् इत्यर्थः ।। रसटी-१०.३८;८
  • अन्तःस्थितज्वालायाः सत्त्वनिर्गमकालबोधिकायाः परीक्षार्थं चरेत् कुर्यात् ।। रसटी-१०.३८;९
  • तदर्थं प्रकाश आवश्यकः ।। रसटी-१०.३८;१०
  • स तु प्राच्यां प्रतीच्यां वाधिक्येन लभ्यत इति प्रकाशयोग्यत्वाद् विशिष्टा दिगेवात्र गृहीता ।। रसटी-१०.३८;११
  • तद्द्वारस्याधोभागो देहली द्वारदेहसंरक्षिका सा द्वित्र्यङ्गुलमिता कार्या ।। रसटी-१०.३८;१२
  • तादृग्देहल्या अधोभागे भूतलं संलग्नं पूर्ववदेव सार्धवितस्तिमितसूत्रेण परिच्छिन्नम् अर्थात् षडङ्गुलं वर्तुलं द्वारं भस्त्रायोजनाय कार्यम् ।। रसटी-१०.३८;१३
  • अत्र वितस्तिदीर्घा तावद् भित्तिरेव सार्धवितस्तिदीर्घा च द्वारद्वयार्थं पर्याप्ता न भवति ।। रसटी-१०.३८;१४
  • अत उक्तं सूत्रमितं वर्तुलं चेति ।। रसटी-१०.३८;१५
  • केचित्तु क्रमनिम्नभूमिनिखाततिर्यग्गर्ताभागोऽपि सार्धवितस्तिमानार्थं संग्राह्य इति नोक्तसूत्रदैर्घ्यमानापेक्षा लोहकाराणां तथैव संप्रदायोऽपि संप्रति ध्मानविधौ दृश्यत इति वदन्ति ।। रसटी-१०.३८;१६
  • तत्तु नोचितम् ।। रसटी-१०.३८;१७
  • तादृशगर्ताभागस्य पातालकोष्ठिकायां वक्ष्यमाणत्वात् ।। रसटी-१०.३८;१८
  • ऊर्ध्वभागे कोष्ठिकाया उत्तराङ्गस्योर्ध्वाङ्गस्य च कर्तव्या या भित्तिः सा चतुर्विधापि प्रादेशप्रमिता दशाङ्गुलमितैवार्थाच्छिखाकारवत् संकुचिता कार्या ।। रसटी-१०.३८;१९
  • शिखास्थान ऊर्ध्वं द्वारं तु प्रादेशमितायामविस्तारम् एव कार्यम् ।। रसटी-१०.३८;२०
  • ततस्तद्द्वारं चेष्टिकया रुद्ध्वा प्रागुक्तवितस्तिमितं द्वारं च कोकिलैः समापूर्य धमेत् ।। रसटी-१०.३८;२१
  • किं कृत्वा रुद्ध्वा धमेत्तदाह प्रथमं शिखित्रान् कोकिलान् ध्मानार्हम् अभ्रकादिद्रवं चोर्ध्वद्वारेण क्रमेण निक्षिपेत् ।। रसटी-१०.३८;२२
  • किं तद् ध्मानद्रव्यं पिण्डीकृतं भागशः सकृदेव वा निक्षिपेद् इत्याकाङ्क्षायामाह सत्त्वपातनगोलान् इति ।। रसटी-१०.३८;२३
  • पुनः पुनः प्रतिप्रक्षेपकालावसरं संततं ध्मात्वा यदाङ्गाराः कार्श्यं प्राप्नुयुः श्वेतभस्मावृताश्च भवेयुस्तदा पुनः कोकिलान् दत्त्वा पुनर्धमनं कार्यम् ।। रसटी-१०.३८;२४
  • एवं भस्त्राद्वयेन प्रहरपर्यन्तं संततं ध्मानेन प्रायः कठिनद्रव्याणां सत्त्वनिर्गमनकालः समुपजायते ।। रसटी-१०.३८;२५
  • परं तु नायं कालः सत्त्वनिर्गमनज्ञापकः स्वातन्त्रेण किंतु शुक्ला वह्निज्वालैव ज्ञायमाना ।। रसटी-१०.३८;२६
  • उक्तं हि परिभाषाध्याये ।
  • यदा हुताशो दीप्तार्चिः शुक्लोत्थानसमन्वितः ।
  • शुद्धावर्तस्तदा ज्ञेयः स कालः सत्त्वनिर्गमे ।
  • इति ।। रसटी-१०.३८;२७
  • तदा स्फुटिपिण्डीर् बहिर् निष्कास्य किट्टं पृथक्कृत्य गुरुमार्गेण सत्त्वमात्रं ग्राह्यम् ।। रसटी-१०.३८;२८
  • अथ द्वितीयः सत्त्वपिण्डानां प्रक्षेपकालः प्राप्नोतीति बोध्यम् ।। रसटी-१०.३८;२९
  • अथ मृदुद्रव्याणां सत्त्वपातार्थम् अल्पध्मानापेक्षा ।। रसटी-१०.३८;३०
पातालकोष्ठी

दृढभूमौ चरेद्गर्तं वितस्त्या संमितं शुभम् ।
वर्तुलं चाथ तन्मध्ये गर्तमन्यं प्रकल्पयेत् ।। रस-१०.३९ ।।

चतुरङ्गुलविस्तारनिम्नत्वेन समन्वितम् ।
गर्ताद्धरणिपर्यन्तं तिर्यङ्नालसमन्वितम् ।। रस-१०.४० ।।

किंचित् समुन्नतं बाह्यगर्ताभिमुखनिम्नगम् ।
मृच्चक्रीं पञ्चरन्ध्राढ्यां गर्भगर्तोदरे क्षिपेत् ।। रस-१०.४१ ।।

आपूर्य कोकिलैः कोष्ठीं प्रधमेद् एकभस्त्रया ।
पातालकोष्ठिका ह्य् एषा मृदूनां सत्त्वपातिनी ।
ध्मानसाध्यपदार्थानां नन्दिना परिकीर्तिता ।। रस-१०.४२ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • पातालकोष्ठिकामाह दृढभूमाविति ।। रसबोध-१०.४२;१
  • कठिनमृत्तिकायां वितस्तिमानं वर्तुलं गर्तम् एकं कृत्वा तन्मध्ये चतुरङ्गुलविस्तारं चतुरङ्गुलगभीरं गर्ताद् भूपृष्ठपर्यन्तयायिवक्राकृतिनालसंयुक्तम् ईषदुच्छ्रितं च गर्तमन्यं कुर्यात् ।। रसबोध-१०.४२;२
  • ततः अभ्यन्तरगर्तमध्ये पञ्चरन्ध्रसंयुक्तां मृच्चक्रीं स्थापयित्वा अङ्गारैः कोष्ठीं परिपूर्य च एकभस्त्रया प्रधमेत् ।। रसबोध-१०.४२;३
  • मृदुद्रव्याणां सत्त्वपातनार्थम् इयं पातालकोष्ठीति ज्ञेयमिति निष्कर्षः ।। रसबोध-१०.४२;४

$

  • टीका रससरत्नसमुच्चयटीका:
  • अतस्तदुपयोगिकोष्ठीविशेषमाह दृढभूमाविति ।। रसटी-१०.४२;१
  • तत्र द्वादशाङ्गुलं गर्तं विधाय तत्तलमध्ये चतुरङ्गुलगाम्भीर्यविस्तारम् अन्यं वर्तुलं गर्तं कृत्वा गर्भगर्ततलम् आरभ्य पृष्ठभागपर्यन्तं बाह्यगर्ताभिमुखं तत्सल्लग्नं किंचित्समुन्नतं तिर्यङ्नालसमन्वितं द्वारं विधाय गर्भगर्तोपरि मृच्चक्रीं पञ्चरन्ध्रविशिष्टां वायोर् ऊर्ध्वगमनार्थं क्षिपेत् ।। रसटी-१०.४२;२
  • तदुपर्यङ्गारांस्तदुपरि सत्त्वपातनगोलांश्च निक्षिप्य सर्वां कोष्ठीं कोकिलैः पूरयित्वैकभस्त्रया धमेत् ।। रसटी-१०.४२;३
  • एषा पातालकोष्ठिकेत्युच्यते ।। रसटी-१०.४२;४
गारकोष्ठी

द्वादशाङ्गुलनिम्ना या प्रादेशप्रमिता तथा ।
चतुरङ्गुलतश्चोर्ध्वं वलयेन समन्विता ।। रस-१०.४३ ।।

भूरिच्छिद्रवतीं चक्रीं वलयोपरि निक्षिपेत् ।
शिखित्रांस्तत्र निक्षिप्य प्रधमेद् वङ्कनालतः ।
गारकोष्ठीयम् आख्याता मृष्टलोहविनाशिनी ।। रस-१०.४४ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अधोध्मानविशिष्टां कोष्ठीमुक्तोर्ध्वधमनविशिष्टां कोष्ठीमाह द्वादशेति ।। रसटी-१०.४४;१
  • प्रादेशायामविस्तारा कोष्ठी भूतलोपरि कार्या ।। रसटी-१०.४४;२
  • सा च तलभागम् आरभ्योपरि चतुरङ्गुलभागं विहाय तदुपरि वलयेन कटकेन समन्वितां तां कृत्वा वलयोपरि प्रभूतच्छिद्रयुक्तां चक्रीं निक्षिप्य तत्र कोकिलांश्च दत्त्वा वङ्कनालतः प्रधमेत् ।। रसटी-१०.४४;३
  • मृत्तिकापेक्षया अधिकगारभागमिश्रितमृदुपादानेयं कोष्ठी गारकोष्ठीत्युच्यते ।। रसटी-१०.४४;४
  • इयं कांस्यरीतिप्रमुखं यत्सृष्टलोहं तन्मध्ये संसर्गघटकयोर् मध्य एकस्यावशेषकरी द्वितीयं विनाश्येत्यर्थः ।। रसटी-१०.४४;५

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • गारकोष्ठीमाह द्वादशेति ।। रसबोध-१०.४४;१
  • द्वादशाङ्गुलगभीरा प्रादेशप्रमाणविस्तारविशिष्टा कोष्ठी एका कार्या तस्या ऊर्ध्वं चतुरङ्गुले वलयाकारम् आलवालम् एकं दत्त्वा तदुपरि बहुच्छिद्रां चक्रीं निधाय अङ्गारं निक्षिप्य च वङ्कनालेन प्रधमेत् इति ।। रसबोध-१०.४४;२
  • मृष्टलोहविनाशिनी शोधितलौहमारिणी इत्यर्थः ।। रसबोध-१०.४४;३
वङ्कनाल

मूषामृद्भिर् विधातव्यम् अरत्निप्रमितं दृढम् ।
अधोमुखं च तद्वक्त्रे नालं पञ्चाङ्गुलं खलु ।
वङ्कनालम् इदं प्रोक्तं दृढध्मानाय कीर्तितम् ।। रस-१०.४५ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • गारकोष्ठिकायां वङ्कनालम् इत्युक्तं किं तत् वङ्कनालम् इत्याशंसायामाह मूषामृद्भिरिति ।। रसबोध-१०.४५;१
  • शर्करादीनाम् अन्यतमाभिः मूषोपयोगिमृद्भिः अरत्निप्रमितं दृढं नालं कृत्वा तन्मुखे पञ्चाङ्गुलप्रमाणम् अधोमुखं नालम् एकं योजयेत् दृढध्मानाय तद् वङ्कनालं वेदितव्यम् ।। रसबोध-१०.४५;२
मूषाकोष्ठी/तिर्यक्प्रधमनकोष्ठी

कोष्ठी सिद्धरसादीनां विधानाय विधीयते ।
द्वादशाङ्गुलकोत्सेधा सा बुध्ने चतुरङ्गुला ।
तिर्यक्प्रधमनास्या च मृदुद्रव्यविशोधिनी ।। रस-१०.४६ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ सिद्धरसानां खोटबद्धादीनाम् अभ्रकादिसत्त्वानां च काचटङ्कणसौवीरादिना शोधयितुं साधनभूतां कोष्ठीमाह द्वादशाङ्गुलेति ।। रसटी-१०.४६;१
  • अस्यां कोष्ठ्यां स्थापितमूषामध्ये सिद्धरसादि प्रक्षिप्य संततध्मानावसरेऽन्तरान्तरा मुहुः काचचूर्णादि दत्त्वा धमेत् ।। रसटी-१०.४६;२
  • मृदुद्रव्यं सत्त्वादि ।। रसटी-१०.४६;३
  • इयं कोष्ठी बुध्नभागमारभ्य मुखभागपर्यन्तं क्रमविस्तृता प्रादेशप्रमितवर्तुलमुखी कार्येत्यनुक्तमपि बोध्यम् ।। रसटी-१०.४६;४
  • पूर्वस्यास्तथामानमुखस्योक्तत्वात् ।। रसटी-१०.४६;५
पुट

रसादिद्रव्यपाकानां प्रमाणज्ञापनं पुटम् ।
नेष्टो न्यूनाधिकः पाकः सुपाकं हितम् औषधम् ।। रस-१०.४७ ।।

लोहादेरपुनर्भावो गुणाधिक्यं ततोऽग्रता ।
अनप्सु मज्जनं रेखापूर्णता पुटतो भवेत् ।। रस-१०.४८ ।।

पुटाद् ग्राव्णो लघुत्वं च शीघ्रव्याप्तिश्च दीपनम् ।
जारितादपि सूतेन्द्राल्लोहानाम् अधिको गुणः ।। रस-१०.४९ ।।

यथाश्मनि विशेद् वह्निर् बहिःस्थपुटयोगतः ।
चूर्णत्वाद्धि गुणावाप्तिस्तथा लोहेषु निश्चितम् ।। रस-१०.५० ।।


  • टीका रससरत्नसमुच्चयटीका:
  • संप्रति मूषाकोष्ठ्यपेक्ष्याधिकतराग्निजनकपुटान् वक्तुं तेषां प्रयोजनमाह रसेति ।। रसटी-१०.५०;१
  • रसलोहप्रभृतिकठोरद्रव्याणां सम्यक्पाको भेषजार्थमपेक्ष्यते ।। रसटी-१०.५०;२
  • स च पाकः क्रियारूपस्तुलया परिमाणेन वा परिच्छेत्तुं न शक्यते ।। रसटी-१०.५०;३
  • सुपाकस्य प्रमाणबोधकं पुटम् एवाग्निदीपकोपलतुषगोर्वरसंपूर्यगर्तादिविशेष एव सम्भवति ।। रसटी-१०.५०;४
  • एतद्गर्तापूरितोपलाग्निनैकः सुपाकोऽभवदिति तत्पुटविशेषावृत्तिः कार्या ।। रसटी-१०.५०;५
  • यथोक्तगुणलाभपर्यन्तमिति भावः ।। रसटी-१०.५०;६
  • न्यूनपाकेन गन्धवर्णरसस्पर्शः सम्यङ्न जायते ।। रसटी-१०.५०;७
  • अधिपाकेन तु द्रव्यं निःसारं दग्धं भवत्योदनवत् ।। रसटी-१०.५०;८
  • अथ पुटस्य योगतो गुणांल्लोहस्थान् आह लोहादेरिति ।। रसटी-१०.५०;९
  • अपुनर्भावो न प्राकृतस्वरूपापादनं पञ्चमित्रसंस्कारेणापि ।। रसटी-१०.५०;१०
  • गुणाधिक्यमामावस्थापन्ने तस्मिन् भक्षिते जाठराग्न्यपाकेन रोगवारका गुणास्तथा पुष्ट्यादयो मार्दवादयश्चानुद्भूतास्तेषाम् उद्भवेनाधिक्याभासः ।। रसटी-१०.५०;११
  • तेन चाग्रता श्रेष्ठताधिकमूल्यता ।। रसटी-१०.५०;१२
  • तथाप्सु प्रक्षिप्तस्य तस्य न मज्जनम् उपरितरणम् ।। रसटी-१०.५०;१३
  • अङ्गुलिभ्यां पीडितस्य तस्य सूक्ष्माङ्गुलिरेखासु प्रविष्टत्वं च ।। रसटी-१०.५०;१४
  • अभ्रकवज्रहरितालादिरूपपाषाणविशेषेषु तु लघुत्वादयो गुणाः पुटात्प्रादुर्भवन्ति ।। रसटी-१०.५०;१५
  • किं बहुना गुणवर्णनेन ।। रसटी-१०.५०;१६
  • यत्र गुणाः सर्वे सम्भूयोत्कटा निवसन्ति तस्मात् पारदादपि जीर्णरसोपरसमणिलोहात् सुसिद्धानां लोहानां गुणा यथाविधिसेविनो नरस्य शरीरेऽधिका एव ।। रसटी-१०.५०;१७
  • भूरिफलयुतोऽपि सिद्धरसस्य हि क्रामणार्थं किंचित्स्फुटितयौवना कामिनी संनिहितापेक्ष्यते भाषणचुम्बनालिङ्गनार्थं तत्स्तनाभ्यामङ्गमर्दनार्थं च ।। रसटी-१०.५०;१८
  • तदसंनिधौ सर्वशरीरे क्रामणाभावेन न मन्मथः ।। रसटी-१०.५०;१९
  • सांनिध्ये तु प्रमादेन मैथुनम् ।। रसटी-१०.५०;२०
  • ततश्च मारणम् आपद्यते ।। रसटी-१०.५०;२१
  • किंच रससेविनो वर्षपर्यन्तं परिहारविशेषः ।। रसटी-१०.५०;२२
  • आदौ क्षेत्रीकरणं चावश्यकम् ।। रसटी-१०.५०;२३
  • पारदसिद्धावनुभूतसर्वक्रियासाधकः प्रभूतद्रव्यादिसंपच्चापेक्ष्यते ।। रसटी-१०.५०;२४
  • अत एव नातिनिरपायस्य लोहस्य गुणानाम् आधिक्यमुपचर्यते ।। रसटी-१०.५०;२५
  • ननु पाषाणतोऽपि कठिनाणां लोहविशेषाणां नावयवविश्लेष इति कथम् उक्तलाभ इत्याशङ्क्य निदर्शनेन पुनर्लोहगुणान् दृढीकरोति यथाश्मनीति ।। रसटी-१०.५०;२६
  • अन्तरग्निप्रवेशेन सर्वं सम्भवतीति भावः ।। रसटी-१०.५०;२७
महापुट

निम्नविस्तरतः कुण्डे द्विहस्ते चतुरस्रके ।
वनोत्पलसहस्रेण पूरिते पुटनौषधम् ।। रस-१०.५१ ।।

क्रौञ्च्यां रुद्धं प्रयत्नेन पिष्टिकोपरि निक्षिपेत् ।
वनोत्पलसहस्रार्धं क्रौञ्चिकोपरि विन्यसेत् ।
वह्निं प्रज्वालयेत्तत्र महापुटमिदं स्मृतम् ।। रस-१०.५२ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • संप्रति गर्ताविशेषं महापुटमाह भूमिमध्य इष्टिकादिभिः कृते कुड्ये कुड्यमये गर्ते गाम्भीर्यविस्ताराभ्यां द्विहस्ते तथा चतुष्कोणे तादृग्गर्ते वन्यच्छगणैः सहस्रसंख्याकैः पूरिते सति शरावसंपुटितं भेषजं पिष्टिकोपरि पूरितच्छगणोपरि स्थापयेत् ।। रसटी-१०.५२;१
  • तादृशमूषिकोपर्यर्धसहस्रं छगणानां पूरयेत् ।। रसटी-१०.५२;२
  • ततो दीपयेत् ।। रसटी-१०.५२;३
गजपुट

राजहस्तप्रमाणेन चतुरस्रं च निम्नकम् ।
पूर्णं चोपलसाठीभिः कण्ठावध्यथ विन्यसेत् ।। रस-१०.५३ ।।

विन्यसेत्कुमुदीं तत्र पुटनद्रव्यपूरिताम् ।
पूर्णच्छगणतोऽर्धानि गिरिण्डानि विनिक्षिपेत् ।
एतद्गजपुटं प्रोक्तं महागुणविधायकम् ।। रस-१०.५४ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ गजपुटमाह राजहस्तेति ।। रसटी-१०.५४;१
  • राजहस्तस्त्रिंशदङ्गुलिमितः ।। रसटी-१०.५४;२
  • तन्मितं निम्नं गम्भीरं तन्मितविस्तारं च गर्तं बोध्यं ।। रसटी-१०.५४;३
  • निम्नमित्यत्र विस्तारशब्दो लुप्तनिर्दिष्टः ।। रसटी-१०.५४;४
  • तदुपलशाठीभिः कण्ठपर्यन्तं पूरयेत् ।। रसटी-१०.५४;५
  • उपलाः कठिना महान्तो वन्यच्छगणास्ततोऽल्पदेहाः शाठ्यः ।। रसटी-१०.५४;६
  • तत्र मूषां भेषजगर्भितां विन्यस्य पूर्वविन्यस्तच्छगणतोऽर्धमानानि गिरिण्डानि वन्यच्छगणानि विनिक्षिपेत् इत्येतद्गजपुटाख्यं मतम् ।। रसटी-१०.५४;७
वाराहपुट

इत्थं चारत्निके कुण्डे पुटं वाराहमुच्यते ।। रस-१०.५५ ।।

कुक्कुटपुट

पुटं भूमितले तत्तद्वितस्तिद्वितयोच्छ्रयम् ।
तावच्च तलविस्तीर्णं तत्स्यात्कुक्कुटकं पुटम् ।। रस-१०.५६ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ कुक्कुटपुटमाह ।। रसटी-१०.५६;१
  • भूमिपृष्ठभागे कुड्येन निर्मितं चतुर्विंशत्यङ्गुलोच्छ्रायं तावन्मानमेव तले मुखे च विस्तृतमेतादृशं यद्गर्तं भेषजं पक्तुमुपलादिभिः पूर्यते तत्कुक्कुटपुटसंज्ञं भवति ।। रसटी-१०.५६;२

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • कुक्कुटपुटमाह पुटमिति ।। रसबोध-१०.५६;१
  • वितस्तिद्वितयोच्छ्रयं हस्तप्रमाणोन्नतम् ।। रसबोध-१०.५६;२
  • तावच्च तलविस्तीर्णं अधोभागेऽपि हस्तप्रमाणविस्तृतम् ।। रसबोध-१०.५६;३
  • एतत्तु भूमेरुपरि एव कार्यं न तु गर्तं खनित्वा ।। रसबोध-१०.५६;४
कपोतपुट

यत्पुटं दीयते भूमाव् अष्टसंख्यैर् वनोपलैः ।
बद्ध्वा सूतार्कभस्मार्थं कपोतपुटमुच्यते ।। रस-१०.५७ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • यच्च गर्तं भूमितले मृदादिभिः कृतमष्टसंख्यैर्वनोपलैर्दीयते ज्वालया प्रज्वलितं क्रियते बद्धपारदस्य भस्मकरणार्थं तत्कपोतपुटमुच्यते ।। रसटी-१०.५७;१

$

  • टीका रससरत्नसमुच्चयबोधिनी:
  • बद्ध्वा मूषायां रुद्ध्वेत्यर्थः ।। रसबोध-१०.५७;१
  • सूतार्कभस्मार्थं रसभस्मार्थं ताम्रभस्मार्थं च ।। रसबोध-१०.५७;२
गोवर

गोष्ठान्तर्गोक्षुरक्षुण्णं शुष्कं चूर्णितगोमयम् ।
गोवरं तत्समादिष्टं वरिष्ठं रससाधने ।। रस-१०.५८ ।।

गोवरपुट

गोवरैर्वा तुषैर्वापि पुटं यत्र प्रदीयते ।
तद्गोवरपुटं प्रोक्तं रसभस्मप्रसिद्धये ।। रस-१०.५९ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • गोर्वरैस्तुषैर्वा यत्र गजपुटगर्तायां पुटं दीयते भेषजं पक्वं क्रियते तद्गोर्वरपुटमुच्यते ।। रसटी-१०.५९;१
भाण्डपुट

स्थूलभाण्डे तुषापूर्णे मध्ये मूषासमन्विते ।
वह्निना विहिते पाके तद्भाण्डपुटमुच्यते ।। रस-१०.६० ।।

वालुकापुट

अधस्तादुपरिष्टाच्च क्रौञ्चिकाच्छाद्यते खलु ।
वालुकाभिः प्रतप्ताभिर्यत्र तद्वालुकापुटम् ।। रस-१०.६१ ।।

भूधरपुट

वह्निमित्राः क्षितौ सम्यङ्निखन्याद् द्व्यङ्गुलादधः ।
उपरिष्टात्पुटं यत्र पुटं तद् भूधराह्वयम् ।। रस-१०.६२ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • वह्निमित्राः मूषाः दीर्घकालं वह्निना सहावस्थानात् अस्या वह्निमित्रत्वं ज्ञातव्यम् ।। रसबोध-१०.६२;१
  • स्पष्टमन्यत् ।। रसबोध-१०.६२;२

$

  • टीका रससरत्नसमुच्चयटीका:
  • अथ भूधरपुटमाह वह्निमित्रामिति ।। रसटी-१०.६२;१
  • वह्निमित्रा मूषा शराव इति यावत् ।। रसटी-१०.६२;२
  • जयसुन्दरादिरसविधावस्या उपयोगो बोध्यः ।। रसटी-१०.६२;३
लावकपुट

ऊर्ध्वं षोडशिकामूत्रैस्तुषैर्वा गोवरैः पुटम् ।
यत्र तल्लावकाख्यं स्यात् सुमृदुद्रव्यसाधने ।। रस-१०.६३ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • अथ लावकपुटमाह ऊर्ध्वमिति ।। रसटी-१०.६३;१
  • शरावाकारमूषां संपुटितां भूमौ निधाय तदुपरि षोडशवनोपलमितैस् तुषैर् गोर्वरैर् वा यत्पुटं दीयते पाकः क्रियते तल्लावकम् इति ख्यातम् ।। रसटी-१०.६३;२
  • षोडश एव षोडशिका ।। रसटी-१०.६३;३
  • सा संख्या चात्र वन्योपलानामेव ग्राह्या ।। रसटी-१०.६३;४
  • तन्मात्रैस् तद्वन्यच्छगणतुलितैर् इत्यर्थः ।। रसटी-१०.६३;५
पुट > देfऔल्त् दिमेन्सिओन्स्

अनुक्तपुटमाने तु साध्यद्रव्यबलाबलात् ।
पुटं विज्ञाय दातव्यम् ऊहापोहविचक्षणैः ।। रस-१०.६४ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • पुटानां हि प्रायो वन्यच्छगणसाध्यत्वात्तदुपस्थितिः ।। रसटी-१०.६४;१
  • अथ कुम्भपुटं ग्रन्थान्तरोक्तं वक्ष्यामि ।
  • मृद्घटे बहुरन्ध्राणि कृत्वाङ्गुलसमानि वै ।
  • चत्वारिंशत्ततस्तस्मिञ्शीतमुल्मुकचूर्णकम् ।। रसटी-१०.६४;२
  • अर्धम् आपूरयित्वा च मुखे दद्याच्छरावकम् ।
  • कर्पटेन मृदा लिप्त्वा छायाशुष्कं च कारयेत् ।। रसटी-१०.६४;३
  • तस्मिन्नङ्गारकान् क्षिप्त्वा चुल्ल्यां वा चेष्टिकासु च ।
  • निधाय त्रिदिनाच्छीतं गृहीत्वौषधिमाहरेत् ।। रसटी-१०.६४;४
  • एतत् कुम्भपुटं ज्ञेयं कथितं शास्त्रदर्शिभिः ।
  • इति ।। रसटी-१०.६४;५
स्य्नोन्य्म्स् fओर् उपल

पिष्टकं छगणं छाणम् उत्पलं चोपलं तथा ।
गिरिण्डोपलसाठी च वराटी छगणाभिधाः ।। रस-१०.६५ ।।

(अ-)कृत्रिमलोहानि

सुवर्णं रजतं ताम्रं त्रपु सीसकम् आयसम् ।
षडेतानि च लोहानि कृत्रिमौ कांस्यपित्तलौ ।। रस-१०.६६ ।।

षड्लवण

लवणानि षड् उच्यन्ते सामुद्रं सैन्धवं विडम् ।
सौवर्चलं रोमकं च चूलिकालवणं तथा ।। रस-१०.६७ ।।

क्षारत्रय

क्षारत्रयं समाख्यातं यवसर्जिकटङ्कणम् ।। रस-१०.६८ ।।

क्षारपञ्चक

पलाशमुष्ककक्षारौ यवक्षारः सुवर्चिका ।
तिलनालोद्भवः क्षारः संयुक्तं क्षारपञ्चकम् ।। रस-१०.६९ ।।

मधुरत्रय

घृतं गुडो माक्षिकं च विज्ञेयं मधुरत्रयम् ।। रस-१०.७० ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • तुम्बिनी कटुतुम्बी सरलकाष्ठं वा ।। रसबोध-१०.७०;१
ओइल् > fओर् संस्कारस्

कङ्गुणी तुम्बिनी घोषा करीरश्रीफलोद्भवम् ।
कटुवार्त्ताकसिद्धार्थसोमराजीविभीतजम् ।। रस-१०.७१ ।।

अतसीजं महाकालीनिम्बजं तिलजं तथा ।
अपामार्गाद्देवदालीदन्तीतुम्बुरुविग्रहात् ।। रस-१०.७२ ।।

अङ्कोलोन्मत्तभल्लातपलाशेभ्यस् तथैव च ।
एतेभ्यस्तैलमादाय रसकर्मणि योजयेत् ।। रस-१०.७३ ।।

वसावर्ग

जम्बूकमण्डूकवसा वसा कच्छपसम्भवा ।
कर्कटीशिशुमारी च गोशूकरनरोद्भवा ।
अजोष्ट्रखरमेषाणां महिषस्य वसा तथा ।। रस-१०.७४ ।।

मूत्रवर्ग

मूत्राणि हस्तिकरभमहिषीखरवाजिनाम् ।
गोऽजावीनां स्त्रियः पुंसां पुष्पं बीजं तु योजयेत् ।। रस-१०.७५ ।।

पञ्चमाहिष

माहिषाम्बु दधि क्षीरं साभिघारं शकृद्रसः ।

छागलपञ्चक

तत्पञ्चमाहिषं ज्ञेयं तद्वच्छागलपञ्चकम् ।। रस-१०.७६ ।।

अम्लवर्ग

अम्लवेतसजम्बीरनिम्बुकं बीजपूरकम् ।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • अम्लीकं तिन्तिडीफलम् ।। रसबोध-१०.७७कख;१

चाङ्गेरी चणकाम्लं च अम्लीकं कोलदाडिमम् ।। रस-१०.७७ ।।

अम्बष्ठा तिन्तिडीकं च नागरं रसपत्त्रिका ।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • रसपत्त्रिका कपित्थाम्लम् ।। रसबोध-१०.७८कख;१

करवन्दं तथा चान्यदम्लवर्गः प्रकीर्तितः ।। रस-१०.७८ ।।

चणकाम्लश्च सर्वेषामेक एव प्रशस्यते ।
अम्लवेतसमेकं वा सर्वेषामुत्तमोत्तमम् ।

अम्लवर्ग > उसे

रसादीनां विशुद्ध्यर्थं द्रावणे जारणे हितम् ।। रस-१०.७९ ।।

अम्लपञ्चक

कोलदाडिमवृक्षाम्लचुल्लिकाचुक्रिकारसः ।
पञ्चाम्लकं समुद्दिष्टं तच्चोक्तं चाम्लपञ्चकम् ।। रस-१०.८० ।।

पञ्चमृत्तिका

इष्टिका गैरिका लोणं भस्म वल्मीकमृत्तिका ।
रसप्रयोगकुशलैः कीर्तिताः पञ्चमृत्तिकाः ।। रस-१०.८१ ।।

विषवर्ग

शृङ्गीकं कालकूटं च वत्सनाभं सकृत्रिमम् ।
पित्तं च विषवर्गोऽयं स वरः परिकीर्तितः ।। रस-१०.८२ ।।

रसकर्मणि शस्तोऽयं तद्भेदनविधाव् अपि ।
अयुक्त्या सेवितश्चायं मारयत्येव निश्चितम् ।। रस-१०.८३ ।।

उपविष

लाङ्गली विषमुष्टिश्च करवीरं जया तथा ।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • नीलकः भल्लातकः ।। रसबोध-१०.८४कख;१

नीलकः कनकोऽर्कश्च वर्गो ह्य् उपविषात्मकः ।। रस-१०.८४ ।।

दुग्धवर्ग

हस्त्यश्ववनिता धेनुर्गर्दभी छागिकाविका ।
उष्ट्रिकोदुम्बराश्वत्थभानुन्यग्रोधतिल्वकम् ।। रस-१०.८५ ।।

दुग्धिका स्नुग्गुणश् चैव तथैवोत्तमकण्टिका ।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • उत्तमकण्टिका एरण्डविशेषः वागा भेरेण्डा जामालगोटा इति च भाषा यद्वा उत्तमकण्टिका ।। रसबोध-१०.८६कख;१

एषां दुग्धैर् विनिर्दिष्टो दुग्धवर्गो रसादिषु ।। रस-१०.८६ ।।

विष्ठावर्ग

पारावतस्य चाषस्य कपोतस्य कलापिनः ।
गृध्रस्य कुक्कुटस्यापि विनिर्दिष्टो हि विड्गणः ।

विड्वर्ग > उसे

शोधनं सर्वलोहानां पुटनाल्लेपनात् खलु ।। रस-१०.८७ ।।

रक्तवर्ग

कुसुम्भं खदिरो लाक्षा मञ्जिष्ठा रक्तचन्दनम् ।
अक्षी च बन्धुजीवश्च तथा कर्पूरगन्धिनी ।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • कर्पूरगन्धिनी कर्पूरगन्धिहरिद्राविशेषः ।। रसबोध-१०.८८अ-द्;१

माक्षिकं चेति विज्ञेयो रक्तवर्गोऽतिरञ्जनः ।। रस-१०.८८ ।।

पीतवर्ग

किंशुकः कर्णिकारश्च हरिद्राद्वितयं तथा ।
पीतवर्गोऽयमादिष्टो रसराजस्य कर्मणि ।। रस-१०.८९ ।।

श्वेतवर्ग

तगरः कुटजः कुन्दो गुञ्जा जीवन्तिका तथा ।
सिताम्भोरुहकन्दश्च श्वेतवर्ग उदाहृतः ।। रस-१०.९० ।।

कृष्णवर्ग

कदली कारवेल्ली च त्रिफला नीलिका नलः ।
पङ्कः कासीसबालाम्रं कृष्णवर्ग उदाहृतः ।। रस-१०.९१ ।।

रञ्जन wइथ् चोलोउरिन्ग् वर्गस्

रक्तवर्गादिवर्गैश्च द्रव्यं यज्जारणात्मकम् ।
भावनीयं प्रयत्नेन तादृग्रागाप्तये खलु ।। रस-१०.९२ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • काचः मृत्तिकाविशेषः स च क्षाररसः उष्णवीर्यः अञ्जनाद्दृष्टिकारकः विडाख्यलवणो वा ।। रसबोध-१०.९२;१
  • शिप्रा शुक्तिविशेषः इत्यर्थः ।। रसबोध-१०.९२;२
शोधनीयवर्ग

काचटङ्कणशिप्राभिः शोधनीयो गणो मतः ।। रस-१०.९३ ।।

सत्त्वानां बद्धसूतस्य लोहानां मलनाशनः ।
कापालीकङ्गुणध्वंसी रसवादिभिर् उच्यते ।। रस-१०.९४ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • शोधनीगणं तदुपयोगं चाह काचटङ्कणसौवीरैरिति ।। रसटी-१०.९४;१
  • सौवीरं अञ्जनविशेषम् ।। रसटी-१०.९४;२
  • अयं गणः सूतस्य खोटबद्धादिरूपस्याभ्रकसत्त्वादीनां च यो गुणो वङ्गकापालिका नागकापालिका कालिकादिर् दोषात्मकस्तद्ध्वंसी ।। रसटी-१०.९४;३
  • अत एवायं रसवादिभिर् इष्यते ।। रसटी-१०.९४;४
वर्ग > रेमोविन्ग् हर्द्नेस्स् ओf मेतल्स्

महिषी मेषशृङ्गी च कलिङ्गो धवबीजयुक् ।
शशास्थीनि च योगोऽयं लोहकाठिन्यनाशनः ।। रस-१०.९५ ।।

वर्ग > मेल्तिन्ग् ओf मेतल्स्

गुडगुग्गुलुगुञ्जाज्यसारघैष् टङ्गणान्वितैः ।
दुर्द्रावाखिललोहादेर् द्रावणाय गणो मतः ।। रस-१०.९६ ।।

क्षाराः सर्वे मलं हन्युर् अम्लं शोधनजारणम् ।
मान्द्यं विषाणि निघ्नन्ति स्नैग्ध्यं स्नेहाः प्रकुर्वते ।। रस-१०.९७ ।।