रसरत्नसमुच्चय : अध्याय 13

विकिपुस्तकानि तः
Jump to navigation Jump to search

कट्वम्लतीक्ष्णलवणोष्णविदाहिरूक्षैः पित्तं प्रदुष्टम् अशनैर् अतिसेवितैस् तैः ।
संदूष्य रक्तम् अमुनोभयमार्गवर्ति निर्यात्यसृक्स्थलयकृत्प्लिहतोऽतिमात्रम् ।। रस-१३.१ ।।

पारदं हिङ्गुलुकं च ऊर्ध्वयन्त्रेण मेलयेत् ।
कुक्कुटाण्डरसं भागं टङ्कणक्षारम् एव च ।। रस-१३.२ ।।

गन्धकस्य तथा भागं घृतेन परिमर्दयेत् ।
सिद्धं रसं समादाय जीरतोयेन दापयेत् ।। रस-१३.३ ।।

दिनानि त्रीणि माषं च ग्रहणीरक्तदोषजित् ।
ज्वरदाहविनाशं च रक्तपित्तविनाशनम् ।। रस-१३.४ ।।

प्रत्येकं तोलमानेन सूतकं ताम्रभस्मकम् ।
दिनानि त्रीणि गुटिकां कृत्वा चाग्नौ विनिक्षिपेत् ।। रस-१३.५ ।।

ततः शुष्कं समादाय पुनरेव च मर्दयेत् ।
समस्तैः समगन्धैश्च कृत्वा कज्जलिकां च तैः ।। रस-१३.६ ।।

मुस्तादाडिमदूर्वाभिः केतकीस्तनवारिभिः ।
सहदेव्याः कुमार्याश्च पर्पटस्यापि वारिणा ।। रस-१३.७ ।।

रामशीतलिकातोयैः शतावर्या रसेन च ।
भावयित्वा प्रयत्नेन दिवसे दिवसे पृथक् ।। रस-१३.८ ।।

तिक्तं गुडूचिकासत्त्वं पर्पटीशीरमागधीः ।
शृङ्गाटं सारिवा चैषां समानं सूक्ष्मचूर्णकम् ।। रस-१३.९ ।।

द्राक्षादिककषायेण सप्तधा परिभावयेत् ।
ततः पोताश्रयं क्षिप्त्वा वट्यः कार्याश्चणोपमाः ।। रस-१३.१० ।।

अयं चन्द्रकलानामा रसेन्द्रः परिकीर्तितः ।
सर्वपित्तगदध्वंसी वातपित्तगदापहः ।। रस-१३.११ ।।

अन्तर्बाह्यमहादाहविध्वंसनमहाक्षमः ।
ग्रीष्मकाले शरत्काले विशेषेण प्रशस्यते ।। रस-१३.१२ ।।

कुरुते नाग्निमान्द्यं च महातापज्वरं हरेत् ।
श्रमं मूर्छां हरत्याशु स्त्रीणां रक्तमहास्रवम् ।। रस-१३.१३ ।।

ऊर्ध्वाधो रक्तपित्तं च रक्तवान्तिं विशेषतः ।
मूत्रकृच्छ्राणि सर्वाणि नाशयेन्नात्र संशयः ।। रस-१३.१४ ।।

पटोलमायसं चूर्णं सूतेन्द्रं समचारितम् ।
लोहारिवर्गसंघृष्टं रक्तपित्तहरं परम् ।। रस-१३.१५ ।।

वृषादलानां स्वरसस्य कर्षं रसेन्द्रगुञ्जामधुशर्करायुतम् ।
लिहन्प्रभाते मनुजो निहन्याद् दुःखाकरं दारुणरक्तपित्तम् ।। रस-१३.१६ ।।

सपटोलकहिङ्गूलः सक्षौद्रो रक्तपित्तनुत् ।। रस-१३.१७ ।।

नवनीतं सिता लाजा द्राक्षया सह भक्षयेत् ।। रस-१३.१८ ।।

मस्तके च घृतं दद्याद्रक्तपित्तहरं परम् ।। रस-१३.१९ ।।

द्राक्षावासायुतं क्वाथं शर्कराभावितं पिबेत् ।। रस-१३.२० ।।

वासारसं सिताक्षौद्रैर्लाजान्वा शर्करासमान् ।
भक्षयन् रक्तपित्तार्तस् तृष्णादाहज्वरं जयेत् ।। रस-१३.२१ ।।

धात्रीचूर्णं सितायुक्तं भक्षयेद्रक्तपित्तनुत् ।। रस-१३.२२ ।।

दोषाः शोषमनोऽभितापकुपिताः कुर्वन्ति कासं ततः पीतं पूतिकफं प्रतीपनयनः पूयोपमं ष्ठीवति ।
शीतोष्णेच्छुर् अकारणेन बहुभुक् स्निग्धप्रसन्नाननः पार्श्वार्त्यल्पबलक्षयाकृतिर् अपि प्रादुर्भवत्यन्यथा ।। रस-१३.२३ ।।

सार्कतीक्ष्णाभ्रकोऽगस्त्यकासमर्दवरारसैः ।
मर्दितो वेतसाम्लेन पिण्डितः कासनाशनः ।। रस-१३.२४ ।।

तारे पिष्टशिलां क्षिप्त्वा हरितालाच्चतुर्गुणाम् ।
वासागोक्षुरसाराभ्यां मर्दयेत् प्रहरद्वयम् ।। रस-१३.२५ ।।

प्रस्विन्नो वालुकायन्त्रे गुञ्जाद्वितयसंमितः ।
कासं त्रिकटुनिर्गुण्डीमूलचूर्णयुतो हरेत् ।। रस-१३.२६ ।।

भूनागाभ्रकयोः सत्त्वं कान्तहेमाभ्ररूप्यकम् ।
मुक्ताफलानि रत्नानि ताप्यं वैक्रान्तमेव च ।। रस-१३.२७ ।।

भस्मीकृतमिदं सर्वं पृथङ् माषमितं मतम् ।
निष्कमात्रमितं शुद्धं राजावर्तरजस्तथा ।। रस-१३.२८ ।।

एतत्सर्वं समं योज्यं मर्दयित्वाम्लवेतसैः ।
रुद्ध्वा मूषोदरे कोष्ठ्यां धमेदाकाशदर्शनम् ।। रस-१३.२९ ।।

शतवारं धमेदेवं मर्दयित्वाम्लवेतसैः ।
ततः संचूर्णिते चास्मिन्मुक्ताभस्म द्विशाणकम् ।। रस-१३.३० ।।

मरिचं पञ्च शाणेयं क्षिप्त्वा संमर्द्य यत्नतः ।
रम्ये करण्डके क्षिप्त्वा स्थापयेत् तदनन्तरम् ।। रस-१३.३१ ।।

सोऽयं रत्नकरण्डको रसवरो मध्वाज्यसंक्रामणो हन्याच्छ्वासगदं ज्वरं ग्रहणिकां कासं च हिध्मामयम् ।
शूलं शोषमहोदरं बहुविधं कुष्ठं च हन्याद् गदान् बल्यो वृष्यकरः प्रदीपनतमः स्वस्थोचितो वेगवान् ।। रस-१३.३२ ।।

शुद्धसूतस्य भागैकं भागैकं शुद्धगन्धकम् ।
भागत्रयं मृतं ताम्रं मरिचं पञ्चभागिकम् ।। रस-१३.३३ ।।

मृताभ्रस्य चतुर्भागं भागमेकं विषं क्षिपेत् ।
भूताङ्कुशस्य भागैकं सर्वं चाम्लेन मर्दयेत् ।। रस-१३.३४ ।।

यामं भूताङ्कुशो नाम माषैकं वातकासजित् ।
अनुपानं लिहेत्क्षौद्रैर्विभीतकफलत्वचः ।
पित्तकासारुचिश्वासक्षयकासांश्च नाशयेत् ।। रस-१३.३५ ।।

रसभस्म विषं तुल्यं गन्धकं द्विगुणं मतम् ।
बोलतालकवाह्लीककर्कोटीमाक्षिकं निशा ।। रस-१३.३६ ।।

कण्टकारी यवक्षारलाङ्गलीक्षारसैन्धवम् ।
मधूकसारं संचूर्ण्य सप्ताहं चार्द्रकद्रवैः ।। रस-१३.३७ ।।

गुटिकां बदराकारां श्लेष्मकासापनुत्तये ।
भक्षयेद् बोलबद्धोऽयं रसः सश्वासपाण्डुजित् ।। रस-१३.३८ ।।

रसगन्धकपिप्पल्यो हरीतक्यक्षवासकम् ।
षडुत्तरगुणं चूर्णं बब्बुलक्वाथभावितम् ।। रस-१३.३९ ।।

एकविंशतिवाराणि शोषयित्वा विचूर्णयेत् ।
भक्षयेन्मधुना हन्ति कासम् अग्निरसो ह्य् अयम् ।। रस-१३.४० ।।

त्रिकटु त्रिफला चैला जातीफललवंगकम् ।
एतेषां समभागानां समः पूर्वरसो भवेत् ।। रस-१३.४१ ।।

सम्पूर्यालोडयेत् क्षौद्रे भक्ष्यो निष्कद्वयं द्वयम् ।
स्वयम् अग्निरसो नाम्ना क्षयकासनिकृन्तनः ।। रस-१३.४२ ।।

भृङ्गराजस्य पत्त्राणि मधुना चूर्णितानि हि ।
गोलकं धारयेद्वक्त्रे कासविष्टम्भशान्तये ।। रस-१३.४३ ।।

अर्कैरण्डस्य पत्त्राणां रसं पीत्वा च कासजित् ।। रस-१३.४४ ।।

दन्तीमूलस्य धूमं वा निर्गुण्ड्या वा पिबेज्जयेत् ।। रस-१३.४५ ।।

इन्द्रवारुणिकामूलं भृङ्गीकृष्णातिलैः सह ।
भक्षयेत् क्षयकासार्तो निष्कमात्रं प्रशान्तये ।। रस-१३.४६ ।।

श्लेष्मोपरुद्धमनः पवनोऽतिदुष्टः संदूषयन्ननु जलान्नवहाश् च नाडीः ।
आमाशयोद्भवम् इमं विदधात्य् उरस्थः श्वासं च वक्रगमनो हि शरीरभाजाम् ।। रस-१३.४७ ।।

इन्द्रवारुणिकामूलं देवदारु कटुत्रयम् ।
शर्करासहितं खादेद् ऊर्ध्वश्वासप्रशान्तये ।। रस-१३.४८ ।।

सूतार्धं गन्धकं मर्द्यं यामैकं कन्यकाद्रवैः ।
द्वयोः समं ताम्रपत्त्रं पूर्वकल्केन मेलयेत् ।। रस-१३.४९ ।।

दिनैकं हण्डिकायन्त्रे पक्वमादाय चूर्णयेत् ।
सूर्यावर्तरसो ह्य् एष द्विगुञ्जः श्वासजित् भवेत् ।। रस-१३.५० ।।

सूतः षोडश तत्समो दिनकरस्तस्यार्धभागो बलिः सिन्धुस्तस्य समः सुसूक्ष्ममृदितः षट् पिप्पली चूर्णितः ।
जम्बीरस्वरसेन मर्दितम् इदं तप्तं सुपक्वं भवेत् कासश्वाससगुल्मशूलजठरं पाण्डुं लिहन्नाशयेत् ।। रस-१३.५१ ।।

साधारणं तु वटकं वक्ष्यामि शृणु तत्त्वतः ।
पारदं गन्धकं चैव पलमेकं पृथक् पृथक् ।। रस-१३.५२ ।।

पलत्रयं त्रिकटुकं वङ्गम् एकपलं क्षिपेत् ।
सर्वम् एकत्र संयोज्य दिनानि त्रीणि मर्दयेत् ।। रस-१३.५३ ।।

गोमूत्रेण तथा त्रीणि दिनानि परिमर्दयेत् ।
अक्षप्रमाणवटकं छायाशुष्कं तु कारयेत् ।। रस-१३.५४ ।।

नित्यमेकं तु वटकं दिनानि त्रिंशदेव च ।
श्वासकासज्वरहरम् अग्निमान्द्यारुचिप्रणुत् ।। रस-१३.५५ ।।

रसभागो भवेदेको गन्धको द्विगुणो मतः ।
त्रिभागा पिप्पली ग्राह्या चतुर्भागा हरीतकी ।। रस-१३.५६ ।।

विभीतः पञ्चभागस्तु वासा षड्गुणिता भवेत् ।
भार्ङ्गीसप्तगुणा ग्राह्या सर्वं चूर्णं प्रकल्पयेत् ।। रस-१३.५७ ।।

बब्बुलक्वाथम् आदाय भावयेद् एकविंशतिः ।
विभीतकप्रमाणेन मधुना गुटिकां चरेत् ।। रस-१३.५८ ।।

एकैकां भक्षयेत्प्रातर्वटी सप्तामृताभिधा ।
श्वासकासादिकं व्याधिं तत्क्षणान्नाशयेद् इयम् ।। रस-१३.५९ ।।

सूतं शुल्बं सुलोहं बलिम् अमृतयुतं त्रित्रिकं रेणुकाब्दं गण्डीरं केसराग्निं द्विगुणगुडयुतं मर्दयित्वा समस्तम् ।
कुर्यात् कोलास्थिमात्रान् सुरुचिरवटकान् भक्षयेत् प्राग्दिनादौ पथ्यासीसर्वरोगान् हरति च नितरां नीलकण्ठाभिधानः ।। रस-१३.६० ।।

तारताम्ररसपिष्टिका शिला गन्धतालसमभागिकं रसैः ।
आटरूषसुरसार्द्रसम्भवैर् मर्दय प्रकुरु गोलकं ततः ।। रस-१३.६१ ।।

मृत्स्नया च परिवेष्ट्य गोलकं यामयुग्मम् अथ भूधरे पचेत् ।
गन्धकेन कुरु तत्समं ततश् चाटरूषकटुकैर् विभावयेत् ।। रस-१३.६२ ।।

श्वासकासकरिकेसरीरसो वल्लयस्य परिसेवयेद् बुधः ।। रस-१३.६३ ।।

रसगन्धकताम्राभ्रं कणाशुण्ठ्यूषणं समम् ।
भूतम् एकं विषं चैकं सूर्यः कासादिनाशनः ।। रस-१३.६४ ।।

गन्धकं मरिचं साज्यं पिबेच्छ्वासकफापहम् ।
शिला हिङ्गु विडङ्गं च मरिचं कुष्ठसैन्धवम् ।
मध्वाज्याभ्यां लिहेत् कर्षं श्वासकाशकफापहम् ।। रस-१३.६५ ।।

विदाहिगुरुविष्टम्भिरूक्षाभिष्यन्दिभोजनैः ।
शीतपानाशनस्थानरजोधूमातपानिलैः ।
व्यायामकर्मभाराध्ववेगाघातापतर्पणैः ।
हिक्का श्वासश्च कासश्च नृणां समुपजायते ।
रसगन्धकधान्याभ्रतालताप्योपलं क्रमात् ।
भागवृद्धं वचाकुष्ठहरिद्राक्षारचित्रकैः ।। रस-१३.६६ ।।

सपाठा लाङ्गली व्योषसैन्धवाक्षविषैः समम् ।
भावितं भृङ्गनीरेण हिक्कावैस्वर्यकासनुत् ।। रस-१३.६७ ।।

पक्वताम्रे रसः पिष्टो बलिना हिध्मिनां हितः ।। रस-१३.६८ ।।

चूर्णं पाठेन्द्रवारुण्योर्भाण्डे दत्त्वाथ कुनटीम् ।
तत्पृष्ठे शुद्धसूतं च कुनट्यंशं प्रदापयेत् ।। रस-१३.६९ ।।

सूतार्धं कुनटीचूर्णं तस्यार्धं पूर्वमूलिका ।
चूर्णं दत्त्वा पचेच्चुल्ल्या यामाष्ट मृदुवह्निना ।
शिलापूतो रसो नाम हन्ति हिक्कां त्रिगुञ्जकः ।। रस-१३.७० ।।

मृतसूतं मृतं ताम्रं हिङ्गु पुष्करमूलकम् ।
सैन्धवं गन्धकं तालं कटुकं चूर्णयेत् समान् ।। रस-१३.७१ ।।

देवदालीपुनर्नवयोर् निर्गुण्डीमेघनादयोः ।
तिक्तकोषातकीद्रावैर् दिनैकं मर्दयेद् दृढम् ।। रस-१३.७२ ।।

माषमात्रं लिहेत् क्षौद्रैः रसं मन्थानभैरवम् ।
कफरोगप्रशान्त्यर्थं निम्बक्वाथं पिबेदनु ।। रस-१३.७३ ।।

विश्वादित्रिकनिर्गतद्रवनिशा कीरप्रियोत्थं दलं नीलग्रीवगलालयं सुरपतेस् तार्तीयनेत्राभिधम् ।
विद्वत्पुञ्जवती कृमिप्रतिभटं निर्गुण्डिकावारिणा तुल्यांशाश् चणकप्रमाणवटिकाः सश्वासकासघ्निकाः ।। रस-१३.७४ ।।

क्वाथं रास्नाबृहत्यग्निबलादुग्धैश् च पाययेत् ।। रस-१३.७५ ।।

हिक्विनं पाययेद् धूमं पत्त्रैः शिखिनिशोद्भवैः ।। रस-१३.७६ ।।

कर्षैकं गन्धकं शुद्धं घृतैश् चोष्णोदकैः पिबेत् ।
कफं हन्त्यथ वा क्षौद्रैः पञ्चवक्त्ररसः खलु ।। रस-१३.७७ ।।

अत्युच्चभाषणविषाध्ययनाभिघातसंदूषणैः प्रकुपिताः पवनादयस् तु ।
स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां हन्युः स्वरं भवति चापि हि षड्विधः सः ।। रस-१३.७८ ।।

पर्पटी > प्रोदुच्तिओन्

रसं द्विगुणगन्धेन मर्दयित्वा सभृङ्गकम् ।
लोहपात्रे घृताभ्यक्ते द्रावितं बदराग्निना ।। रस-१३.७९ ।।

ऊर्ध्वाधो गोमयं दत्त्वा कदल्याः कोमले दले ।
स्निग्धया लोहदर्व्या च पर्पटाकारतां नयेत् ।। रस-१३.८० ।।

लोहपात्रे विनिक्षिप्ता लोहपर्पटिका भवेत् ।
ताम्रपात्रे विनिक्षिप्ता ताम्रपर्पटिका भवेत् ।। रस-१३.८१ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • पर्पटीरसमाह रसं द्विगुणेति ।। रसटी-१३.८१;१
  • सभृङ्गकं भृङ्गराजरसेन मर्दयित्वा तप्तं द्रावितं तद्गोमयोपरिस्थे कदले स्निग्धया लोहदर्व्या प्रक्षिप्य तदुपरि कदलीदले न्युब्जे गोमयं दत्त्वा करतलादिना निपीड्य पर्पटाकारं कुर्यात् ।। रसटी-१३.८१;२
  • कदलीदलस्थाने स्निग्धे लोहपत्रे विनिक्षिप्ता चेल्लोहपर्पटिका भवेत् ।। रसटी-१३.८१;३
  • अथवा ताम्रपत्रे स्निग्धे विनिक्षिप्ता ताम्रपर्पटिका भवेत् ।। रसटी-१३.८१;४
  • रसोपरि तु कदलीदलाद्येव देयम् ।। रसटी-१३.८१;५



विषपादं च युञ्जीत तत्साध्येष्वामयेषु च ।
सुरसाया जयन्त्याश् च कन्यकाटरूषकयोः ।। रस-१३.८२ ।।

त्रिफलाया मुनेर् भार्ङ्ग्या मुण्ड्यास् त्रिकटुचित्रयोः ।
भृङ्गराजस्य वह्नेश्च प्रत्यहं द्रवभावितम् ।। रस-१३.८३ ।।

आर्द्रकस्य रसेनापि सप्तधा भावयेत्पुनः ।
अङ्गारैः स्वेदयेद् ईषत् पर्पटरसम् उत्तमम् ।। रस-१३.८४ ।।

गुञ्जाष्टकं ददीतास्य ताम्बूलीपत्त्रसंयुतम् ।
पिप्पलीदशकैः क्वाथं निर्गुण्ड्याश् चानुपाययेत् ।
स्वरभङ्गे कफे श्वासे प्रयोज्यः सर्वदा रसः ।। रस-१३.८५ ।।

त्रिकण्टकस्य मूलानि शुण्ठीं संक्षुद्य निक्षिपेत् ।
अजाक्षीरे सनीरार्धं यावत्क्षीरं विपाचयेत् ।। रस-१३.८६ ।।

तत्क्षीरं पाययेद्रात्रौ सकणं भोजनेऽपि च ।
कूष्माण्डं वर्जयेच्चिञ्चां वृन्ताकं कर्कटीम् अपि ।। रस-१३.८७ ।।

आरनालं च तैलं च संसर्गं च विवर्जयेत् ।
मासत्रयं च सेवेत कासश्वासनिवृत्तये ।। रस-१३.८८ ।।

सजीरहिङ्गुकव्योषैः शमयेद् ग्रहणीं रसः ।
दशमूलाम्भसा वातज्वरं त्रिकटुना कफम् ।। रस-१३.८९ ।।

ज्वरं मधुकसारेण पञ्चकोलेन सर्वजम् ।
यक्ष्माणं मधुपिप्पल्या गोमूत्रेण गुदाङ्कुरान् ।। रस-१३.९० ।।

शूलम् एरण्डतैलेन पाण्डुशोफं सगुग्गुलुः ।
कुष्ठानि भृङ्गभल्लातवाकुची पञ्चनिम्बकैः ।। रस-१३.९१ ।।

धत्तूरबीजसंयोगान्मेहोन्मादविनाशिनी ।
अपस्मारं निहन्त्याशु व्योषनिम्बुदलैः सह ।। रस-१३.९२ ।।

स्तनंधयशिशूनां तु रसोऽयं नितरां हितः ।
पथ्याक्षचूर्णादिवशाद् व्याधींश् चान्यान् सुदुस्तरान् ।। रस-१३.९३ ।।

सजातीफलशीतोदं योजयेत्पर्पटीरसम् ।
पित्ताजीर्णे शिरश् चास्य शीततोयेन सेचयेत् ।। रस-१३.९४ ।।

नस्यं निष्ठीवनं धूमं तीक्ष्णं वमनरेचनम् ।
अन्नं रूक्षाल्पतीक्ष्णोष्णं कटुतिक्तकषायकम् ।
चिरकालस्थितं मद्यं योजयेत्कफरोगिणे ।। रस-१३.९५ ।।