सामग्री पर जाएँ

रसादयः कोशाः। - टिप्पनीं लिखत

विकिपुस्तकानि तः

गौडपादकारिकायाम् अद्वैतप्रकरणे अस्य उल्लेखः विद्यते।

रसादयो हि ये कोशाः व्याख्याताः तैत्तिरीयके। तेषामात्मा परो जीवः खं यथा सम्प्रकाशितः॥११
इतः पूर्वम् अस्मिन् प्रकरणे अद्वय़ः उत्पत्त्यादिविवर्जितः आत्मा प्रतिज्ञातः।एतादृशस्य आत्मतत्त्वस्य प्रतिपादनं श्रुतौ अपि विद्यते इति प्रमाणदर्शनार्थमिदं सूत्रमारब्धं ग्रन्थकारेण।

तैत्तिरीयोपनिषदि ये पञ्च रसादयः कोशाः उक्ताः तेषां यः परः आत्मा सः एव अस्माभिः अत्र आत्मत्वेन अभिप्रेतः, न तर्कप्रतिपादितः इति सूत्रस्य पिण्डार्थः।

तैत्तिरीये अन्नमयकोशः, प्राणमयकोशः, मनोमयकोशः,विज्ञानमयः कोशः, आनन्दमयः कोशः इति कोशाः उक्ताः।एते कोशाः क्रमात् अन्तः अन्तः सन्ति।

स्थूलभूतैः आरब्धः देहः अन्नमयः कोशः। अन्नमयशब्देन यः कोशः तैत्तिरीये उक्तः स एव प्रकृते रसमयकोशसंज्ञया परामृष्टः।अस्मात् अन्नमयात् प्राणमयः अन्तः।द्वदशप्राणाः प्राणमयकोशसंज्ञकाः।तस्मात् प्राणमयात् मनोमयः अन्तः।पञ्च ज्ञानेन्द्रियाणि, पञ्चकर्मेन्द्रियाणि तथा मनः इति मनोमयः कोशः।तस्मात् मनोमयात् विज्ञानमयः अन्तः। विज्ञानमयात् आनन्दमयः अन्तः। तस्मात् अपि परः आत्मा।सः एतान् सर्वान् कोशान् जीवयति इति जीवसंज्ञकः।

एषः परः आत्मा एव अस्माकम् अभिप्रेतः।अतः श्रुतिप्रमाणकः अयमात्मा।तार्किकाः पुरुषबुद्धिप्रमाणकम् आत्मतत्त्वम् अङ्गीकुर्वन्ति।तच्च नास्माकम् अभिप्रेतम् इति ग्रन्थकारस्य आशयः।

गौडपादकारिका-प्रश्नोत्तरसङ्ग्रहः  गौडपादकारिका-लघूत्तरप्रश्नाः  गौडपादकारिका-दीर्घोत्तरप्रश्नाः