रामं ... संसारिणो नरः

विकिपुस्तकानि तः

मूलम्
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।स्तुवन्ति नामभिर्दिव्यैः न ते संसारिणो नरः ॥२५॥

पदच्छेदः
रामं दूर्वादलश्यामं पद्म-अक्षं पीतवाससम् । स्तुवन्ति नामभिः दिव्यैः न ते संसारिणः नरः ॥२५॥

अन्वयः
ये नरः दूर्वादलश्यामं, पद्म-अक्षं, पीतवाससं, रामं दिव्यैः नामभिः स्तुवन्ति ते संसारिणः न भवन्ति ॥२५॥

सरलार्थः
रामस्य वर्णः दूर्वादलसदृशः श्यामः अस्ति।तस्य नेत्रे कमलसदृशे स्तः।तस्य वस्त्रं पीतवर्णम्। एतादृशं रामं दिव्यैः नामभिः ये जनाः स्तुवन्ति, ते संसारे न आवर्तन्ते॥२५

सन्धिविग्रहः २५

सन्धिः विग्रहः सूत्रम्
पद्माक्षं पद्म-अक्षं अकः सवर्णे दीर्घः।६.१.९९
नामभिर्दिव्यैः नामभिस् दिव्यैः ससजुषो रुः।८.२.६६
संसारिणो नरः संसारिणस् नरः ससजुषो रुः।८.२.६६

हशि च।६.१.११२ आद्गुणः।

समासविग्रहः २५
दूर्वादलश्यामम्
दूर्वायाः दलं दूर्वादलम्।... षष्ठी २.२.८
दूर्वादलम् इव श्यामः दूर्वादलश्यामः, तम्।...उपमितं व्याघ्रादिभिः सामान्याप्रयोगे २.१.५६

पद्माक्षम्
पद्मम् इव अक्षः यस्य, सः पद्माक्षः, तम्।... अनेकमन्यपदार्थे।२.२.२४

पीतवाससम्
पीतं वासः यस्य सः पीतवासाः, तम्।... अनेकमन्यपदार्थे।२.२.२४

रामरक्षास्तोत्रम् - सान्वयं सार्थम्
"https://sa.wikibooks.org/w/index.php?title=रामं_..._संसारिणो_नरः&oldid=7214" इत्यस्माद् प्रतिप्राप्तम्