रामरामेति ... वरानने
पठन सेटिंग्स
मूलम्
रामरामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥
पदच्छेदः
राम राम इति राम इति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥
अन्वयः
हे मनोरमे, ‘राम राम’ इति ‘राम’ इति (अहं) रामे रमे । हे वरानने, यत् सहस्रनाम, तत्तुल्यं रामनाम अस्ति। ॥३८॥
सरलार्थः
हे प्रिये,राम, राम, राम इति नामस्मरणे अहं रमे।हे सुन्दरि, विष्णोः सहस्रनाम्ना रामनाम समानम् अस्ति॥३८
सन्धिविग्रहः ३८
सन्धिः | विग्रहः | सूत्रम् |
---|---|---|
रामरामेति | रामराम इति | आद्गुणः।६.१.८६ |
रामेति | राम इति | आद्गुणः।६.१.८६ |
मनोरमे | मनस् रमे | ससजुषो रुः।८.२.६६ हशि च।६.१.११२ |
वरानने | वर-आनने | अकः सवर्णे दीर्घः।६.१.९९ |
समासविग्रहः ३८
मनोरमे
मनः रमयति इति।...उपपदमतिङ्।२.२.१९
सहस्रनाम
सहस्रं नाम।...विशेषणं विशेष्येण बहुलम्।२.१.५७
तत्तुल्यम्
तेन तुल्यम्।...पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्षणैः।२.१.३१
रामनाम
रामस्य नाम।...षष्ठी।२.२.८
वरानने
वरम् आननं यस्याः।...अनेकमन्यपदार्थे।२.२.२४
इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णम् ।
रामरक्षास्तोत्रम् - सान्वयं सार्थम्