रामानुजमतेन अविद्याखण्डनं कुरुत।

विकिपुस्तकानि तः
Jump to navigation Jump to search

रामानुजमतेन अविद्याखण्डनं कुरुत।
अद्वैतिभिः अविद्या इति कश्चिद् भावपदार्थः अभ्युपगतः।अविद्या इति ज्ञानाभावः न इति तेषां मतम्।रामानुजमतेन अस्य खण्डनम् इत्थम् –

१ अविद्या तथा ज्ञानाभावः इति एतयोः भेदः नास्ति।यतो हि तयोः योगक्षेमौ समानौ
अविद्या आत्माश्रिता अस्ति।ज्ञानाभावस्य आश्रयः अपि आत्मा एव।
अविद्या आत्मानं विषयीकरोति।अज्ञानस्य विषयः अपि आत्मा एव।
अविद्या विद्यया निवर्तते।ज्ञानाभावः अपि ज्ञानेन निवर्तते।
एवम् अविद्या तथा ज्ञानाभावः इति उभयोः आश्रयः समानः, विषयः समानः ध्वंसहेतुः समानः।अतः एतयोः भेदः न उपपद्यते।

२ अविद्याखण्डनाय रामानुजस्य द्वितीयः युक्तिवादः एवम्-
अविद्याख्यः कश्चित् अज्ञानव्यतिरिक्तः भावपदार्थः नास्ति, विकल्पासहिष्णुत्वात्। विकल्पासहिष्णुत्वं च एवम् –
अविद्यानिवर्तकः प्रत्यगात्मा अविद्याश्रयभूतः वा अविद्याविषयभूतः अस्ति अथवा न?
यदि अस्ति तर्हि आत्मनि अविद्यायाः अवस्थानम् एव न सम्भवति।
यदि नास्ति तर्हि आत्मना अविद्यायाः अनुभूतिः एव न सम्भवति।

अविद्यानिवर्तकः प्रत्यगात्मा अविद्याश्रयभूतः वा अविद्याविषयभूतः अस्ति तथापि सामान्यम् आत्मज्ञानम् अविद्यानिवर्तकं नास्ति अतः प्रत्यगात्मना सह अविद्यायाः अवस्थानं सम्भवति इति अद्वैतिनां मतम्।तत्र उत्तरति रामानुजः-
यदि एवम् अस्ति तर्हि ज्ञानाभावविषये अपि एतत् सर्वं समानम् एव अस्ति। ज्ञानाभावभिन्नः ‘अविद्या’ इति पृथक् पदार्थः किमर्थम् अङ्गीक्रियते? ‘अहम् अज्ञः’ इति एषः ज्ञानाभावस्य प्रत्ययः इति उभौ अपि अङ्गीकुर्वः।

अद्वैतिभिः अविद्यासाधनाय अनुमानं प्रस्तूयते –
प्रमाणज्ञानं (पक्षः)
स्वप्रागभावव्यतिरिक्त-स्वविषयावरण-स्वनिवर्त्य-स्वदेशगत-वस्त्वन्तरपूर्वकम् (साध्यम्)
अप्रकाशितार्थप्रकाशकत्वात् (हेतुः)
अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावत् (उदाहरणम्)

एतद् अनुमानं खण्डयति रामानुजः एवम् –
अनुमानेऽस्मिन् ‘अप्रकाशितार्थप्रकाशकत्वात्’ इति हेतुः।स्वयम् अबिद्या अपि अप्रकाशितं प्रपञ्चं प्रकाशयति।अतः तस्याम् ‘अप्रकाशितार्थप्रकाशकत्वात्’ इति हेतुः वर्तते।अतः तत्रापि द्वितीय-अविद्यापूर्वकत्वं मन्तव्यम्।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे रामानुजमतम्