रामानुजमते मोक्षः।टिप्पनीं लिखत।

विकिपुस्तकानि तः
Jump to navigation Jump to search

रामानुजमते मोक्षः।टिप्पनीं लिखत।

रामानुजः ज्ञानकर्मसमुच्चयवादी।कर्म, उपासना, तथा ज्ञानम् इति एतेषां समुच्चयेन मोक्षः भवति इति तस्य मतम्।

केवलं कर्मणा मोक्षः न भवति,यतो हि केवलं कर्मानुष्ठानस्य निन्दा श्रुत्या कृता यथा-
अन्धं तमः प्रविशन्ति ये अविद्यामुपासते। बृहदारण्यकम् ४.४.१०।ईशावास्यं ९
अत्र अविद्याशब्दः कर्मपरः।

एवमेव केवलं ज्ञानस्य अपि निन्दा श्रूयते-
ततो भूय इव ते तमो, य उ विद्यायां रताः।- बृहदारण्यकम् ४.४.१०।ईशावास्यं ९

उभयोः समुच्चयस्य तु फलम् अमृतत्वं श्रुत्या प्रतिपादितम् –
विद्यां चाविद्यां च यस्तद्वेदोभयं सह।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते॥ईशावास्यम्११
अतः ज्ञानं तथा कर्म इति एतयोः समुच्चयादेव मोक्षः सम्भवति।

पञ्चविधया उपासनया परमकारुणिकः परमेश्वरः प्रसन्नः भवति।सः स्वस्य यथायथम् स्वरूपं भक्ताय अनुभावयति।तेन भक्तः निरतिशयम् आनन्दम् अनुभवति।एषः एव मोक्षः।ईश्वरः स्वस्य पदं भक्ताय ददाति -
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।ददामि बुद्धियोगं तं येन मामुपयान्ति ते।भ.गीता१०.१०
यथा पुण्ये क्षीणे सति जीवः स्वर्गलोकात् पुनः मर्त्यलोकं प्राप्नोति तथा अत्र नास्ति। एतत् पदं पुनरावृत्तिरहितम् अस्ति।एतत् पदं प्राप्य जीवः न कदापि पुनः जन्ममृत्युपरम्परायां बद्धः भवति।
ईश्वरस्य जगत्कर्तृत्वं विहाय अन्ये सर्वे धर्माः मुक्तिदशायां जीवे आविर्भवन्ति।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे रामानुजमतम्