रामाय ...पतये नमः

विकिपुस्तकानि तः

मूलम्
रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥२७॥

पदच्छेदः
रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥२७॥

अन्वयः
रामाय, रामभद्राय, रामचन्द्राय, वेधसे, रघुनाथाय, नाथाय, सीतायाः पतये नमः ॥२७॥

सरलार्थः
रामाय नमः। रामभद्राय नमः। रामचन्द्राय नमः। विष्णवे नमः। रघुनाथाय नमः। नाथाय नमः। सीतायाः पतये नमः ॥२७॥

समासविग्रहः २७
रामभद्राय
रामः भद्रः इव रामभद्रः, तस्मै।... उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।२.१.५६

रामचन्द्राय
रामः चन्द्रः इव रामचन्द्रः,तस्मै।... उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।२.१.५६

रघुनाथाय
रघूणां नाथः रघुनाथः,तस्मै।... षष्ठी॥२.२.८

रामरक्षास्तोत्रम् - सान्वयं सार्थम्
"https://sa.wikibooks.org/w/index.php?title=रामाय_...पतये_नमः&oldid=7213" इत्यस्माद् प्रतिप्राप्तम्