रामेति ... च विन्दति
पठन सेटिंग्स
मूलम्
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥१२॥
पदच्छेदः
राम-इति रामभद्र-इति रामचन्द्र-इति वा स्मरन् ।
नरः न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ॥१२॥
अन्वयः
राम-इति रामभद्र-इति रामचन्द्र-इति वा स्मरन् नरः पापैः न लिप्यते।सः भुक्तिं मुक्तिं च विन्दति ॥१२॥
सरलार्थः
यः नरः राम इति अथवा रामभद्र इति अथवा रामचन्द्र इति नामस्मरणं करोति, तस्य पापलेपः न भवति।सः भोगमपि प्राप्नोति, मोक्षमपि प्राप्नोति॥१२
सन्धिविग्रहः
सन्धिः | विग्रहः | सूत्रम् |
---|---|---|
रामेति | राम-इति | आद्गुणः।६.१.८६ |
रामभद्रेति | रामभद्र-इति | आद्गुणः।६.१.८६ |
रामचन्द्रेति | रामचन्द्र-इति | आद्गुणः।६.१.८६ |
नरो न | नरस् न | ससजुषो रुः।८.२.६६ हशि च।६.१.११२ |
पापैर्भुक्तिं | पापैः भुक्तिं | ससजुषो रुः।८.२.६६ |
समासविग्रहः१२
रामभद्र
रामः च अयं भद्रःच।... विशेषणं विशेषेण बहुलम्।२.१.५७
'रामचन्द्रः
रामः चन्द्रः इव।...उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ।२.१.५६
रामरक्षास्तोत्रम् - सान्वयं सार्थम्