रामो ... कौसल्येयो रघूत्तमः

विकिपुस्तकानि तः

मूलम्
रामो दाशरथिः शूरो लक्ष्मणानुचरो बली । काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥२२॥
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः । जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥२३॥
इत्येतानि जपन् नित्यं मद्भक्तः श्रद्धयान्वितः । अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः ॥२४॥

पदच्छेदः
रामः दाशरथिः शूरः लक्ष्मण-अनुचरः बली । काकुत्स्थः पुरुषः पूर्णः कौसल्येयः रघु-उत्तमः ॥२२॥
वेदान्तवेद्यः यज्ञेशः पुराणपुरुष-उत्तमः । जानकीवल्लभः श्रीमान् अप्रमेय-पराक्रमः ॥२३॥
इति एतानि जपन् नित्यं मद्भक्तः श्रद्धया अन्वितः । अश्वमेध-अधिकं पुण्यं संप्राप्नोति न संशयः ॥२४॥

अन्वयः
रामः, दाशरथिः, शूरः, लक्ष्मण-अनुचरः, बली,काकुत्स्थः, पूर्णः पुरुषः, कौसल्येयः, रघु-उत्तमः,वेदान्तवेद्यः, यज्ञेशः, पुराणपुरुष-उत्तमः,जानकीवल्लभः, श्रीमान्, अप्रमेय-पराक्रमः इति एतानि (नामानि ) नित्यं श्रद्धया अन्वितः जपन् मद्भक्तः ।अश्वमेध-अधिकं पुण्यं सम्प्राप्नोति (इत्यत्र) संशयः न ॥२२,२३,२४

सरलार्थः

सन्धिविग्रहः २२,२३,२४

सन्धिः विग्रहः सूत्रम्
रामो दाशरथिः रामस् दाशरथिः ससजुषो रुः।८.२.६६

हशि च।६.१.११२

शूरो लक्ष्मणानुचरो शूरस् लक्ष्मणानुचरो ससजुषो रुः।८.२.६६

हशि च।६.१.११२

लक्ष्मणानुचरो बली लक्ष्मणानुचरस् बली ससजुषो रुः।८.२.६६

हशि च।६.१.११२

लक्ष्मणानुचरः लक्ष्मण-अनुचरः अकः सवर्णे दीर्घः।६.१.९९
कौसल्येयो रघूत्तमः कौसल्येयस् रघूत्तमः ससजुषो रुः।८.२.६६

हशि च।६.१.११२

रघूत्तमः रघु-उत्तमः अकः सवर्णे दीर्घः।६.१.९९
वेदान्तवेद्यो यज्ञेशः वेदान्तवेद्यस् यज्ञेशः ससजुषो रुः।८.२.६६

हशि च।६.१.११२

यज्ञेशः यज्ञ-ईशः आद्गुणः।६.१.८६
पुरुषोत्तमः पुरुष-उत्तमः आद्गुणः।६.१.८६
इत्येतानि इति एतानि इको यणचि।६.१.७६
श्रद्धयान्वितः श्रद्धया अन्वितः अकः सवर्णे दीर्घः।६.१.९९
अश्वमेधाधिकं अश्वमेध-अधिकं अकः सवर्णे दीर्घः।६.१.९९

समासविग्रहः २२,२३,२४
लक्ष्मणानुचरः
लक्ष्मणः अनुचरः यस्य सः लक्ष्मणानुचरः।...अनेकमन्यपदार्थे।२.२.२४

रघूत्तमः
रघुषु उत्तमः रघूत्तमः।...सप्तमी शौण्डैः।२.१.४०


वेदान्तवेद्यः'
वेदान्तेन वेद्यः वेदान्तवेद्यः।... कर्तृकरणे कृता बहुलम्।२.१.३२

यज्ञेशः
यज्ञस्य ईशः यज्ञेशः।... षष्ठी।२.२.८

पुराणपुरुषोत्तमः
पुरुषेषु उत्तमः पुरुषोत्तमः।... सप्तमी शौण्डैः।२.१.४०
पुराणः चायं पुरुषोत्तमः च पुराणपुरुषोत्तमः।... विशेषणं विशेषेण बहुलम्।२.१.५७

जानकीवल्लभः
जानक्याः वल्लभः जानकीवल्लभः।... षष्ठी।२.२.८

अप्रमेयपराक्रमः
न प्रमेयः अप्रमेयः।... नञ्।२.२.६
अप्रमेयः पराक्रमः यस्य, सः अप्रमेयपराक्रमः।... अनेकमन्यपदार्थे।२.२.२४

मद्भक्तः
मम भक्तः मद्भक्तः।... षष्ठी।२.२.८

अश्वमेधाधिकम्
अश्वमेधात् अधिकम् अश्वमेधाधिकम्।...पञ्चमी भयेन।२.१.३७ सह सुपा।२.१.४

रामरक्षास्तोत्रम् - सान्वयं सार्थम्