र,ल...

विकिपुस्तकानि तः
Jump to navigation Jump to search

रसनग्राह्यत्वम् =

रासनत्वम्।रसनेन्द्रियग्राह्यप्रत्यक्षविषयत्वम्।
॥। यथा मधुररसे रसनग्राह्यत्वं,,रासनत्वं,रसनेन्द्रियग्राह्यप्रत्यक्षविषयत्वं वा विद्यते।

रसनेन्द्रियग्राह्यप्रत्यक्षविषयत्वम् =
रासनत्वम्।रसनग्राह्यत्वम्।
यथा मधुररसे रसनेन्द्रियग्राह्यप्रत्यक्षविषयत्वं , रासनत्वं,, रसनग्राह्यत्वं वा विद्यते।

रसनेन्द्रियजन्यप्रत्यक्षत्वम् =
रासनत्वम् ।
यथाय मधुररसज्ञाने रसनेन्द्रियजन्यप्रत्यक्षत्वं , रासनत्वं वा विद्यते।

रहितत्वम् =
अत्यन्ताभावः ।शून्यत्वम्।
यथा भूतले घटरहितत्वं घटात्यन्ताभावः,घटशून्यत्वं वा ।
यथा पुरुषे स्तन्यरहितत्वं,स्तन्यात्यन्ताभावः, स्तन्यशून्यत्वं वा

रासनत्वम् =
रसनेन्द्रियग्राह्यप्रत्यक्षविषयत्वम्।रसनग्राह्यत्वम्।
यथा मधुररसे रासनत्वं, रसनेन्द्रियग्राह्यप्रत्यक्षविषयत्वं, रसनग्राह्यत्वं वा विद्यते।

रासनत्वम् =
रसनेन्द्रियजन्यप्रत्यक्षत्वम्।
यथा मधुररसज्ञाने रासनत्वं, रसनेन्द्रियजन्यप्रत्यक्षत्वं वा विद्यते।

रूपम् =
वर्णः ।
अभास्वरशुक्लम् इति जलस्य रूपं, वर्णःवा।
कफस्य रूपं, वर्णः वा श्वेतः

लक्षणम् =
असाधारणधर्मः।
यथा गन्धः इति पृथिव्याः लक्षणम्, असाधारणधर्मः, वा।
यथा इतिकर्तव्यताविशिष्ट-रोगोत्पत्तिकारणम् इति हेतोः लक्षणम् , असाधारणधर्मः, वा।

लक्षणा =
शक्यसम्बन्धः।
यथा ‘गङ्गायां घोषः’ इत्यत्र गङ्गापदस्य गङ्गातीरे लक्षणा, शक्यसम्बन्धः वा।
यथा ‘मधुररसः स्निग्धः’ इति अत्र मधुरपदस्य मधुररसवद्द्रव्ये लक्षणा, शक्यसम्बन्धो वा।

लिङ्गम् =
साधकं ।साधनं ।हेतुः ।
यथा ‘पर्वतो वह्निमान् धूमात्’ इत्यनुमाने धूमः लिङ्गं, साधकं,साधनं, हेतुः वा।
यथा ‘भीमसेनः बलवान्, उत्तमव्यायामशक्तेः’ इत्यनुमाने उत्तमव्यायामशक्तिः लिङ्गं,, साधकं, ,साधनं,, हेतुः वा।


न्यायशास्त्रीयशब्दपर्यायसङ्ग्रहः

"https://sa.wikibooks.org/w/index.php?title=र,ल...&oldid=6465" इत्यस्माद् प्रतिप्राप्तम्