लघुसिद्धान्तकौमुदी

विकिपुस्तकानि तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

संकेत :

लसक = लघुसिद्धान्तकौमुदी

पा = पाणिनीय अष्टाध्यायी



लघुसिद्धान्तकौमुदी

अथ संज्ञाप्रकरणम्

हलन्त्यम्॥ (लसक_१ = पा_१,३.३)
उपदेशे ऽन्त्यं हलित्स्यात्। उपदेश आद्योच्चारणम्। सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र॥

अदर्शनं लोपः॥ (लसक_२ = पा_१,१.६०)
प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्।

तस्य लोपः॥ (लसक_३ = पा_१,३.९)
तस्येतो लोपः स्यात्। णादयो ऽणाद्यर्थाः।

आदिरन्त्येन सहेता॥ (लसक_४ = पा_१,१.७१)
अन्त्येनेता सहति आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् यथाणिति अ इ उ वर्णानां संज्ञा। एवमच् हल् अलित्यादयः॥

ऊकालो ऽज्झ्रस्वदीर्घप्लुतः॥ (लसक_५ = पा_१,२.२७)
उश्च ऊश्च ऊ३श्च वः॑ वां कालो यस्य सो ऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात्। स प्रत्येकमुदात्तादि भेदेन त्रिधा।

उच्चैरुदात्तः॥ (लसक_६ = पा_१,२.२९)

नीचैरनुदात्तः॥ (लसक_७ = पा_१,२.३०)

समाहारः स्वरतिः॥ (लसक_८ = पा_१,२.३१)
स नवविधो ऽपि प्रत्येकमनुनासिकत्वाननुनासिकत्वाभ्यां द्विधा॥

मुखनासिकावचनो ऽनुनासिकः॥ (लसक_९ = पा_१,२.८)
मुखसहतिनासिकयोच्चार्यमाणो वर्णो ऽनुनासिकसंज्ञः स्यात्। तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः। ऌवर्णस्य द्वादश, तस्य दीर्घाभावात्। एचामपि द्वादश, तेषां ह्रस्वाभावात्॥

तुल्यास्यप्रयत्नं सवर्णम्॥ (लसक_१० = पा_१,१.८)
ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात्। (ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम्)। अकुहविसर्जनीयानां कण्ठः। इचुयशानां तालु। ऋटुरषाणां मूर्धा। ऌतुलसानां दन्ताः। उपूपध्मानीयानामोष्ठौ। ञमङणनानां नासिका च। एदैतोः कण्ठ तालु। ओदौतोः कण्ठोष्टम्। वकारस्य दन्तोष्ठम्। जिह्वामूलीयस्य जिह्वामूलम्। नासिकानुस्वारस्य। यत्नो द्विधा - आभ्यन्तरो बाह्यश्चआद्यः पञ्चधा - स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृत भेदात्। तत्र स्पृष्टं प्रयतनं स्पर्शानाम्। ईषत्स्पृष्टमन्तःस्थानाम्। ईषद्विवृतमूष्मणाम्। विवृतं स्वराणाम्। ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्। प्रक्रियादशायां तु विवृतमेव। बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषो ऽघोषो ऽल्पप्राणोमहाप्राण उदात्तो ऽनुदात्तः स्वरतिश्चेति। खरो विवाराः श्वासा अघोषाश्च। हशः संवारा नादा घोषाश्च। वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः। वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः। कादयो मावसानाः स्पर्शाः। यणो ऽन्तःस्थाः। शल ऊष्माणः। अचः स्वराः। -क-ख इति कखाभ्यां प्रगर्धविसर्गसदृशो जिह्वामूलीयः। -प-फ इति पफाभ्यां प्रागर्धविसर्गसदृश उपध्मानीयः। अं अः इत्यचः परावनुस्वारविसर्गौ॥

अणुदित्सवर्णस्य चाप्रत्ययः॥ (लसक_११ = पा_१,१.६९)
प्रतीयते विधीयत इति प्रत्ययः। अविधीयमानो ऽणुदिच्च सवर्णस्य संज्ञा स्यात्। अत्रैवाण् परेण णकारेण। कु चु टु तु पु एते उदितः। तदेवम् - अ इत्यष्टादशानां संज्ञा। तथेकारोकारौ। ऋकारस्त्रिंशतः। एवं ऌकारो ऽपि। एचो द्वादशानाम्। अनुनासिकाननुनासिकभेदेन यवला द्विधा॑ तेनाननुनासिकास्ते द्वयोर्द्वयोस्संज्ञा।

परः संनिकर्षः संहता॥ (लसक_१२ = पा_१,१.१०९)
विर्णानामतिशयितः संनिधिः संहतासिंज्ञः स्यात्॥

हलो ऽनन्तराः संयोगः॥ (लसक_१३ = पा_१,१.७)
अज्भिरव्यवहता हलिः संयोगसंज्ञाः स्युः॥

सुप्तिङन्तं पदम्॥ (लसक_१४ = पा_१,४.१४)
सुबन्तं तिङन्तं च पदसंज्ञं स्यात्॥

इति संज्ञाप्रकरणम्

अथाच्सन्धिः

इको यणचि॥ (लसक_१५ = पा_६,१.७७)
इकः स्थाने यण् स्यादचि संहितायां विषये। सुधी उपास्य इति स्थिते॥

तस्मिन्निति निर्दिष्टे पूर्वस्य॥ (लसक_१६ = पा_१,१.६६)
सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहतिस्य पूर्वस्य बोध्यम्॥

स्थाने ऽन्तरतमः॥ (लसक_१७ = पा_१,१.५०)
प्रसङ्गे सति सदृशतम आदेशः स्यात्। सुध्य् उपास्य इति जाते॥

अनचि च॥ (लसक_१८ = पा_८,४.४७)
अचः परस्य यरो द्वे वा स्तो न त्वचि। इति धकारस्य द्वित्वेन सुध्ध्य् उपास्य इति जाते॥

झलां जश् झशि॥ (लसक_१९ = पा_८,४.५३)
स्पष्टम्। इति पूर्वधकारस्य दकारः॥

संयोगान्तस्य लोपः॥ (लसक_२० = पा_८,२.२३)
संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात्॥

अलो ऽन्त्यस्य॥ (लसक_२१ = पा_१,१.५२)
षष्ठीनिर्दिष्टाऽन्त्यस्याल आदेशः स्यात्। इति यलोपे प्राप्ते - (यणः प्रतिषेधो वाच्यः)। सुद्ध्युपास्यः। मद्धरिः। धात्रशः। लाकृतिः॥

एचो ऽयवायावः॥ (लसक_२२ = पा_६,१.७८)

एचः क्रमादय् अव् आय् आव् एते स्युरचि॥

यथासंख्यमनुदेशः समानाम्॥ (लसक_२३ = पा_१,३.१०)
समसंबन्धी विधिर्यथासंख्यं स्यात्। हरये। विष्णवे। नायकः। पावकः॥

वान्तो यि प्रत्यये॥ (लसक_२४ = पा_६,१.७९)
यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः। गव्यम्। नाव्यम्। (अध्वपरमाणे चि)। गव्यूतिः॥

अदेङ् गुणः॥ (लसक_२५ = पा_१,१.२)
अत् एङ् च गुणसंज्ञः स्यात्॥

तपरस्तत्कालस्य॥ (लसक_२६ = पा_१,१.७०)
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात्॥

आद्गुणः॥ (लसक_२७ = पा_६,१.८७)
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्। उपेन्द्रः। गङ्गोदकम्॥

उपदेशे ऽजनुनासिक इत्॥ (लसक_२८ = पा_१,३.२)
उपदेशे ऽनुनासिको ऽजित्संज्ञः स्यात्। प्रतिज्ञानुनासिक्याः पाणिनीयाः। लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा॥

उरण् रपरः॥ (लसक_२९ = पा_१,१.५१)
ऋ इति त्रिंशतः संज्ञेत्युक्तम्। तत्स्थाने यो ऽण् स रपरः सन्नेव प्रवर्तते। कृष्णर्द्धिः। तवल्कारः॥

लोपः शाकल्यस्य॥ (लसक_३० = पा_८,३.१९)
अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोपो वाशि परे॥

पूर्वत्रासिद्धम्॥ (लसक_३१ = पा_८,२.१)
सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम्। हर इह, हरयिह। विष्ण इह, विष्णविह॥

वृद्धिरादैच्॥ (लसक_३२ = पा_१,१.१)
आदैच्च वृद्धिसंज्ञः स्यात्॥

वृद्धिरेचि॥ (लसक_३३ = पा_६,१.८८)
आदेचि परे वृद्धिरेकादेशः स्यात्। गुणापवादः। कृष्णैकत्वम्। गङ्गौघः। देवैश्वर्यम्। कृष्णौत्कण्ठ्यम्॥

एत्येधत्यूठ्सु॥ (लसक_३४ = पा_६,१.८९)
अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात्। उपैति। उपैधते। प्रष्ठौहः। एजाद्योः किम् ? उपेतः। मा भवान्प्रेदिधत्। (अक्षादूहन्यामुपिसंख्यानम्)। अक्षौहणी सेना। (प्रादूहोढोढ्येषैष्येषु)। प्रौहः। प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः। (ऋते च तृतीयासमासे)। सुखेन ऋतः सुखार्तः। तृतीयेति किम् ? परमर्तः। (प्रवत्सतरकम्बलवसनार्णदशानामृणे)। प्रार्णम्, वत्सतर्राणम्, इत्यादि॥

उपसर्गाः क्रियायोगे॥ (लसक_३५ = पा_१,४.५९)
प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः। प्र परा अप सम् अनु अव निस् निर दुस् दुर वि आङ् नि अधि अपि अति सु उत् अभि प्रति पर उपि - एते प्रादयः॥

भूवादयो धातवः॥ (लसक_३६ = पा_१,३.१)
क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः॥

उपसर्गादृति धातौ॥ (लसक_३७ = पा_६,१.९१)
अवर्णान्तादुपसर्गाद्दकारादौ धातौ परे वृद्धिरेकादेशः स्यात्। प्रार्च्छति॥

एङि पररूपम्॥ (लसक_३८ = पा_६,१.९४)
आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात्। प्रेजते। उपोषति॥

अचो ऽन्त्यादि टि॥ (लसक_३९ = पा_१,१.६४)
अचां मध्ये यो ऽन्त्यः स आदिर्यस्य तट् टिसंज्ञं स्यात्। (शकन्ध्वादिषु पररूपं वाच्यम्)। तच्च टेः। शकन्धुः। कर्कन्धुः मनीषा। आकृतिगणो ऽयम्। मार्त्तण्डः॥

ओमाङोश्च॥ (लसक_४० = पा_६,१.९५)
ओमि आङि चात्परे पररूपमेकादेशः स्यात्। शिवायोंं नमः। शिव एहि॥

अन्तादिवच्च॥ (लसक_४१ = पा_६,१.८५)
यो ऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत्। शिवेहि॥

अकः सवर्णे दीर्घः॥ (लसक_४२ = पा_६,१.१०१)
अकः सवर्णे ऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात्। दैत्यारः। श्रीशिः। विष्णूदयः। होतॄकारः॥

एङः पदान्तादति॥ (लसक_४३ = पा_६,१.१०९)
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्। हरेऽव। विष्णो ऽव॥

सर्वत्र विभाषाः गोः॥ (लसक_४४ = पा_६,१.१२२)
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते। गोअग्रम्, गो ऽग्रम्। एङन्तस्य किम् ? चित्रग्वग्रम्। पदान्ते किम्? गोः॥

अनेकाल् शित्सर्वस्य॥ (लसक_४५ = पा_१,१.५५)
इति प्राप्ते॥

ङिच्च॥ (लसक_४६ = पा_१,१.५३)
ङिदनेकालप्यन्त्यस्ययैव स्यात्॥

अवङ् स्फोटायनस्य॥ (लसक_४७ = पा_६,१.१३३)
पदान्ते एङन्तस्य गोरवङ् वाचि। गवाग्रम्, गो ऽग्रम्। पदान्ते किम् ? गवि॥

इन्द्रे च॥ (लसक_४८ = पा_६,१.१२४)
गोरवङ् स्यादिन्द्रे। गवेन्द्रः॥

दूराद्धूते च॥ (लसक_४९ = पा_८,२.८४)
दूरात्सम्बोधने वाक्यस्य टेः प्लुतो वा॥

प्लुतप्रगृह्या अचि नित्यम्॥ (लसक_५० = पा_६,१.१२५)
एते ऽचि प्रकृत्या स्युः। आगच्छ कृष्ण ३ अत्र गौश्चरति॥

ईदूदेद् द्विवचनं प्रगृह्यम्॥ (लसक_५१ = पा_१,१.११)
ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात्। हरी एतौ। विष्णू इमौ। गङ्गे अमू॥

अदसो मात्॥ (लसक_५२ = पा_१,१.१२)
अस्मात्परावीदूतौ प्रगृह्यौ स्तः। अमी ईशाः। रामकृष्णावमू आसाते। मात्किम् ? अमुके ऽत्र॥

चादयो ऽसत्वे॥ (लसक_५३ = पा_१,४.५७)
अद्रव्यार्थाश्चादयो निपाताः स्युः॥

प्रादयः॥ (लसक_५४ = पा_१,४.५८)
एते ऽपि तथा॥

निपात एकाजनाङ्॥ (लसक_५५ = पा_१,१.१४)
एको ऽज् निपात आङ्वर्जः प्रगृह्यः स्यात्। इ इन्द्रः। उ उमेशः। ऽवाक्यस्मरणयोरङित्॑ आ एवं नु मन्यसे। आ एवं किल तत्। अन्यत्र ङित् ॑ आ ईषदुष्णम् ओष्णम्॥

ओत्॥ (लसक_५६ = पा_१,१.१५)
ओदन्तो निपातः प्रगृह्यः स्यात्। अहो ईशाः॥

सम्बुद्धौ शाकल्यस्येतावनार्षे॥ (लसक_५७ = पा_१,१.१६)
सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्यो ऽवैदिके इतौ परे। विष्णो इति, विष्ण इति, विष्णविति॥

मय उञो वो वा॥ (लसक_५८ = पा_८,३.३३)
मयः परस्य उञो वो वाचि। किम्वुक्तम्, किमु उक्तम्॥

इको ऽसवर्णे शाकल्यस्य ह्रस्वश्च॥ (लसक_५९ = पा_६,१.१२७)
पदान्ता इको ह्रस्वा वा स्युरसवर्णे ऽचि। ह्रस्वविधिसामर्थ्यान्न स्वरसन्धिः। चक्रि अत्र, चक्रय्त्र। पदान्ता इति किम् ? गौर्यौ -.

अचो रहाभ्यां द्वे॥ (लसक_६० = पा_८,४.४६)
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः। गौर्य्यौ। (न समासे)। वाप्यश्वः॥

ऋत्यकः॥ (लसक_६१ = पा_६,१.१२८)
ऋति परे पदान्ता अकः प्राग्वद्वा। ब्रह्म ऋषिः, ब्रह्मर्षिः। पदान्ताः किम् ? आर्छत्॥

इत्यच्सन्धिः

अथ हल् सन्धिः

स्तोः श्चुना श्चुः॥ (लसक_६२ = पा_८,४.४०)
सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः। रामश्शेते। रामश्चिनोति। सच्चित्। शार्ङ्गिञ्जय॥

शात्॥ (लसक_६३ = पा_८,४.४४)
शात्परस्य तवर्गस्य चुत्वं न स्यात्। विश्नः। प्रश्नः॥

ष्टुना ष्टुः॥ (लसक_६४ = पा_८,४.४१)
स्तोः ष्टुना योगे ष्टुः स्यात्। रामष्षष्ठः। रामष्टीकते। पेष्टा। तट्टीका। चक्रिण्ढौकसे॥

न पदान्ताट्टोरनाम्॥ (लसक_६५ = पा_८,४.४२)
पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात्। षट् सन्तः। षट् ते। पदान्तात्किम् ? ईट्टे। टोः किम् ? सर्पिष्टमम्। (अनाम्नवतिनगरीणामिति वाच्यम्)। षण्णवतिः। षण्णगर्य्यः॥

तोः षि॥ (लसक_६६ = पा_८,४.४३)
न ष्टुत्वम्। सन्षष्ठः॥

झलां जशो ऽन्ते॥ (लसक_६७ = पा_८,२.३९)
पदान्ते झलां जशः स्युः। वागीशः॥


यरो ऽनुनासिके ऽनुनासिको वा॥ (लसक_६८ = पा_८,४.४५)
यरः पदान्तस्यानुनासिके परे ऽनुनासिको वा स्यात्। एतन्मुरारिः, एतद् मुरारिः। (प्रत्यये भाषायां नित्यम्)। तन्मात्रम्।
चिन्मयम्॥

तोर्लि॥ (लसक_६९ = पा_८,४.६०)
तवर्गस्य लकारे परे परसवर्णः। तवर्गस्य लकारे परे परसवर्णः। तल्लयः। विद्वांल्लिखति। नस्यानुनासिको लः।

उदः स्थास्तम्भोः पूर्वस्य॥ (लसक_७० = पा_८,४.४१)
उदः परयोः स्थास्तम्भोः पूर्वसवर्णः॥

तस्मादित्युत्तरस्य॥ (लसक_७१ = पा_१,१.६७)
पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम्॥

आदेः परस्य॥ (लसक_७२ = पा_१,१.५४)
परस्य यद्विहितं तत्तस्यादेर्बोध्यम्। इति सस्य थः॥

झरो झरि सवर्णे॥ (लसक_७३ = पा_८,४.६५)
हलः परस्य झरो वा लोपः सवर्णे झरि॥

खरि च॥ (लसक_७४ = पा_८,४.५५)
खरि झलां चरः। इत्युदो दस्य तः। उत्थानम्। उत्तम्भनम्॥

झयो हो ऽन्यतरस्याम्॥ (लसक_७५ = पा_८,४.६२)
झयः परस्य हस्य वा पूर्वसवर्णः। नादस्य घोषस्य संवारस्य महाप्राणस्य तादृशो वर्गचतुर्थः। वाग्घरिः, वाघरिः॥

शश्छो ऽटि॥ (लसक_७६ = पा_८,४.६३)
झयः परस्य शस्य छो वाटि। तद् शिव इत्यत्र दस्य श्चुत्वेन जकारे कृते खरि चेति जकारस्य चकारः। तच्छिवः, तच्शिवः। (छत्वममीति वाच्यम्) तच्छ्लोकेन॥

मो ऽनुस्वारः॥ (लसक_७७ = पा_८,३.२३)
मान्तस्य पदस्यानुस्वारो हलि। हरिं वन्दे॥

नश्चापदान्तस्य झलि॥ (लसक_७८ = पा_८,३.२४)
नस्य मस्य चापदान्तस्य झल्यनुस्वारः। यशांसि। आक्रंस्यते। झलि किम् ? मन्यते॥

अनुस्वारस्य ययि परसवर्णः॥ (लसक_७९ = पा_८,४.५८)
स्पष्टम्। शान्तः॥

वा पदान्तस्य॥ (लसक_८० = पा_८,४.५९)
त्वङ्करोषि, त्वं करोषि॥

मो राजि समः क्वौ॥ (लसक_८१ = पा_८,३.२५)
क्विबन्ते राजतौ परे समो मस्य म एव स्यात्। सम्राट्॥

हे मपरे वा॥ (लसक_८२ = पा_८,३.२६)
मपरे हकारे परे मस्य मो वा। किम् ह्मलयति, किं ह्मलयति। (यवलपरे यवला वा)/ किंय्ह्यः, किं ह्यः। किंव्ह्वलयति, किं ह्वलयति। किंल् ह्लादयति, किं ह्लादयति॥

नपरे नः॥ (लसक_८३ = पा_८,३.२७)
नपरे हकारे मस्य नो वा। किन् ह्नुते, किं ह्नुते॥

आद्यन्तौ टकितौ॥ (लसक_८४ = पा_१,१.४६)
टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः॥

ङ्णोः कुक्टुक् शरि॥ (लसक_८५ = पा_८,३.२८)
वा स्तः। (चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्)। प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः। सुगण्ठ् षष्ठः सुगण्ट् षष्ठः, सुगण् षष्ठः॥

डः सि धुट्॥ (लसक_८६ = पा_८,३.२९)
डात्परस्य सस्य धुड्वा। षट्त्सन्तः, षट् सन्तः॥

नस्च॥ (लसक_८७ = पा_८,३.३०)
नान्तात्परस्य सस्य धुड्वा। सन्त्सः, सन्सः॥

शि तुक्॥ (लसक_८८ = पा_८,३.३१)
पदान्तस्य नस्य शे परे तुग्वा। सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः॥

ङमो ह्रस्वादचि ङमुण् नित्यम्॥ (लसक_८९ = पा_८,३.३२)
ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट्। प्रत्यङ्ङात्मा। सुगण्णीशः। सन्नच्युतः॥

समः सुटि॥ (लसक_९० = पा_८,३.५)
समो रुः सुटि॥

अत्रानुनासिकः पूर्वस्य तुवा॥ (लसक_९१ = पा_८,३.२)
अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा॥

अनुनासिकात्परो ऽनुस्वारः॥ (लसक_९२ = पा_८,३.४)
अनुनासिकं विहाय रोः पूर्वस्मात्परो ऽनुस्वारागमः॥

खरवसानयोर्विसर्जनीयः॥ (लसक_९३ = पा_८,३.१५)
खरि अवसाने च पदान्तसाय रेफस्य विसर्गः। (संपुंकानां सो वक्तव्यः)। संस्स्कर्ता, संस्स्कर्ता॥

पुमः खय्यम्परे॥ (लसक_९४ = पा_८,३.६)
अम्परे खयि पुमो रुः। पुंस्कोकिलः, पुंस्कोकिलः॥

नश्छव्यप्रशान्॥ (लसक_९५ = पा_८,३.७)
अम्परे छवि नान्तस्य पदस्यरुः॑ न तु प्रशान्शब्दस्य॥

विसर्जनीयस्य सः॥ (लसक_९६ = पा_८,३.३४)
खरि। चक्रिंस्त्रायस्व, चक्रिंस्त्रायस्व। अप्रशान् किम् ? प्रशान्तनोति। पदस्येति किम् ? हन्ति॥

नॄन् पे॥ (लसक_९७ = पा_८,३.१०)
नॄनित्यस्य रुर्वा पे॥

कुप्वोः एक एपौ च॥ (लसक_९८ = पा_८,३.३७)
कवर्गे पवर्गे च विसर्गस्य एक एपौ स्तः, चाद्विसर्गः। नॄं पाहि, नॄंः पाहि, नॄंः पाहि। नॄन् पाहि॥

तस्य परमाम्रेडितम्॥ (लसक_९९ = पा_८,१.२)
द्विरुक्तस्य परमाम्रेडितम् स्यात्॥

कानाम्रेडिते॥ (लसक_१०० = पा_८,३.१२)
कान्नकारस्य रुः स्यादाम्रेडिते। कांस्कान्, कांस्कान्॥

छे च॥ (लसक_१०१ = पा_६,१.७३)
ह्रस्वस्य छे तुक्। शिवच्छाया॥

पदान्ताद्वा॥ (लसक_१०२ = पा_६,१.७९)
दीर्घात् पदान्तात् छे तुग्वा। लक्ष्मीच्छाया, लक्ष्मी छाया॥

इति हल्सन्धिः।

अथ विसर्गसन्धिः

विसर्जनीयस्य सः॥ (लसक_१०३ = पा_८,३.३४)
खरि। विष्णुस्त्राता॥

वा शरि॥ (लसक_१०४ = पा_८,३.३६)
शरि विसर्गस्य विसर्गो वा। हरिः शेते, हरिश्शेते॥

समजुषो रुः॥ (लसक_१०५ = पा_८,२.६६)
पदान्तस्य सस्य सजुषश्च रुः स्यात्॥

अतो रोरप्लुतादप्लुतादप्लुते॥ (लसक_१०६ = पा_६,१.११३)
अप्लुतादतः परस्य रोरुः स्यादप्लुते ऽति। शिवोर्ऽच्यः॥

हशि च॥ (लसक_१०७ = पा_६,१.११४)
तथा। शिवो वन्द्यः॥

भो भगो अघो अपूर्वस्य यो ऽशि॥ (लसक_१०८ = पा_८,३.१७)
एतत्पूर्वस्य रोर्यादेशो ऽशि। देवा इह, देवायिह। भोस् भगोस् अघोस् इति सान्ता निपाताः। तेषां रोर्यत्वे कृते॥

हलि सर्वेषाम्॥ (लसक_१०९ = पा_८,३.२२)
भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि। भो देवाः। भगो नमस्ते। अघो याहि॥

रो ऽसुपि॥ (लसक_११० = पा_८,२.६९)
अह्नो रेफादेशो न तु सुपि। अहरहः। अहर्गणः॥

रो रि॥ (लसक_१११ = पा_८,३.१४)
रेफस्य रेफे परे लोपः॥

ढ्रलोपे पूर्वस्य दीर्घो ऽणः॥ (लसक_११२ = पा_६,३.१११)
ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः। पुना रमते। हरी रम्यः। शम्भू राजते। अणः किम् ? तृढः। वृढः। मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते॥

विप्रतिषेधे परं कार्यम्॥ (लसक_११३ = पा_१,४.२)
तुल्यबलविरोधे परं कार्यं स्यात्। इति लोपे प्राप्ते। पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव। मनोरथः॥

एतत्तदोः सुलोपो ऽकोरनञ्समासे हलि॥ (लसक_११४ = पा_६,१.१३२)
अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे। एष विष्णुः। स शम्भुः। अकोः किम् ? एषको रुद्रः। अनञ्समासे किम् ? असः शिवः। हलि किम् ? एषो ऽत्र॥

सो ऽचि लोपे चेत्पादपूरणम्॥ (लसक_११५ = पा_६,१.१३४)
स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्य्येत। सेमामविड्ढि प्रभृतिम्। सैष दाशरथी रामः॥

इति विसर्गसन्धिः॥
इति पञ्चसन्धिप्रकरणम्।

अथ षड्लिङ्गेषु अजन्तपुंल्लिङ्गाः

अर्थवदधातुरप्रत्ययः प्रातिपदिकम्॥ (लसक_११६ = पा_१,२.४५)
धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात्॥

कृत्तद्धितसमासाश्च॥ (लसक_११७ = पा_१,२.४६)
कृत्तद्धितान्तौ समासाश्च तथा स्युः॥

स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् लसक_११८ = पा_४,१.२)
सु औ जस् इति प्रथमा। अम् औट् शस् इति द्वितीया। टा भ्याम् भिस् इति तृतीया। ङे भ्याम् भ्यस् इति चतुर्थी। ङसि भ्याम् भ्यस् इति पञ्चमी। ङस् ओस् आम् इति षष्ठी। ङि ओस् सुप् इति सप्तमी॥

ङ्याप्प्रातिपदिकात्॥ (लसक_११९ = पा_४,१.१)

प्रत्ययः॥ (लसक_१२० = पा_३,१.१)

परश्च॥ (लसक_१२१ = पा_३,१.२)
इत्यधिकृत्य। ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः॥

सुपः॥ (लसक_१२२ = पा_१,४.१०३)
सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः॥

द्व्येकयोर्द्विवचनैकवचने॥ (लसक_१२३ = पा_१,४.२२)
द्वित्वैकत्वयोरेते स्तः॥

विरामो ऽवसानम्॥ (लसक_१२४ = पा_१,४.११०)
वर्णानामभावो ऽवसानसंज्ञः स्यात्। रुत्वविसर्गौ। रामः॥

सरूपाणामेकशेष एकविभक्तौ॥ (लसक_१२५ = पा_१,२.६४)
एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते॥

प्रथमयोः पूर्वसवर्णः॥ (लसक_१२६ = पा_६,१.१०२)
अकः प्रथमाद्वितीययोरचि पूर्वसवर्णदीर्घ एकादेशः स्यात्। इति प्राप्ते॥

नादिचि॥ (लसक_१२७ = पा_६,१.१०४)
आदिचि न पूर्वसवर्णदीर्घः। वृद्धिरेचि। रामौ॥

बहुषु बहुवचनम्॥ (लसक_१२८ = पा_१,४.२१)
बहुत्वविवक्षायां बहुवचनं स्यात्॥

चुटू॥ (लसक_१२९ = पा_१,३.७)
प्रत्ययाद्यौ चुटू इतौ स्तः॥

विभक्तिश्च॥ (लसक_१३० = पा_१,४.१०४)
सुप्तिङौ विभक्तिसंज्ञौ स्तः॥

न विभक्तौ तुस्माः॥ (लसक_१३१ = पा_१,३.४)
विभक्तिस्थास्तवर्गसमा नेतः। इति सस्य नेत्त्वम्। रामाः॥

एकवचनं सम्बुद्धिः॥ (लसक_१३२ = पा_२,३.४९)
सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात्॥

यस्मात्प्रत्ययविधिस्तदादि प्रत्यये ऽङ्गम्॥ (लसक_१३३ = पा_१,४.१३)
यः प्रत्ययो यस्मात् क्रियते तदादिशब्दस्वरूपं तस्मिन्नङ्गं स्यात्॥

एङ्ह्रस्वात्सम्बुद्धेः॥ (लसक_१३४ = पा_६,१.६९)
एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धल्लुप्यते सम्बुद्धेश्चेत्। हे राम। हे रामौ। हे रामाः॥

अमि पूर्वः॥ (लसक_१३५ = पा_६,१.१०७)
अको ऽम्यचि पूर्वरूपमेकादेशः। रामम्। रामौ॥

लशक्वतद्धिते॥ (लसक_१३६ = पा_१,३.८)
तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः॥

तस्माच्छसो नः पुंसि॥ (लसक_१३७ = पा_६,१.१०३)
पूर्वसवर्णदीर्घात्परो यः शसः सस्तस्य नः स्यात्पुंसि॥

अट्कुप्वाङ्नुम्व्यवाये ऽपि॥ (लसक_१३८ = पा_८,४.२)
अट् कवर्गः पवर्गः आङ् नुम् एतैर्व्यस्तैर्यथासंभवं मिलितैश्च व्यवधाने ऽपि रषाभ्यां परस्य नस्य णः समानपदे। इति प्राप्ते॥

पदान्तस्य॥ (लसक_१३९ = पा_८,४.३७)
नस्य णो न। रामान्॥

टाङसिङसामिनात्स्याः॥ (लसक_१४० = पा_७,१.१२)
अदन्ताट्टादीनामिनादयः स्युः। णत्वम्। रामेण॥

सुपि च॥ (लसक_१४१ = पा_७,३.१०२)
यञादौ सुपि अतो ऽङ्गस्य दीर्घः। रामाभ्याम्॥

अतो भिस ऐस्॥ (लसक_१४२ = पा_७,१.९)
अनेकाल्शित्सर्वस्य। रामैर्ः॥

ङेयः॥ (लसक_१४३ = पा_७,१.१३)
अतो ऽङ्गात्परस्य ङेयदिशः॥

स्थानिवदादेशो ऽनल्विधौ॥ (लसक_१४४ = पा_१,१.५६)
आदेशः स्थानिवत्स्यान्न तु स्थान्यलाश्रयविधौ। इति स्थानिवत्त्वात् सुपि चेति दीर्घः। रामाय। रामाभ्याम्॥

बहुवचने झल्येत्॥ (लसक_१४५ = पा_७,३.१०३)
झलादौ बहुवचने सुप्यतो ऽङ्गस्यैकारः। रामेभ्यः। सुपि किम् ? पचध्वम्॥

वावसाने॥ (लसक_१४६ = पा_८,४.५६)
अवसाने झलां चरो वा। रामात्, रामाद्। रामाभ्याम्। रामेभ्यः। रामस्य॥

ओसि च॥ (लसक_१४७ = पा_७,३.१०४)
अतो ऽङ्गस्यैकारः। रामयोः॥

ह्रस्वनद्यापो नुट्॥ (लसक_१४८ = पा_७,१.५४)
ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः॥

नामि॥ (लसक_१४९ = पा_६,४.३)
अजन्ताङ्गस्य दीर्घः। रामाणाम्। रामे। रामयोः। सुपि - एत्त्वे कृते॥

आदेशप्रत्यययोः॥ (लसक_१५० = पा_८,३.५९)
इण्कुभ्यां परस्यापदान्तस्यादेशस्य प्रत्ययावयवस्य यः सस्तस्य मूर्धन्यादेशः। ईषद्विवृतस्य सस्य तादृश एव षः। रामेषु। एवं कृष्णादयो ऽप्यदन्ताः॥

सर्वादीनि सर्वनामानि॥ (लसक_१५१ = पा_१,१.२७)
सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम। पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्। स्वमज्ञातिधनाख्यायाम्। अन्तरं बहिर्योगोपसंव्यानयोः। त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम्॥

जसः शी॥ (लसक_१५२ = पा_७,१.१७)
अदन्तात्सर्वनाम्नो जसः शी स्यात्। अनेकाल्त्वात्सर्वादेशः। सर्वे॥

सर्वनाम्नः स्मै॥ (लसक_१५३ = पा_७,१.१४)
अतः सर्वनाम्नो डेः स्मै। सर्वस्मै॥

ङसिङ्योः स्मात्स्मिनौ॥ (लसक_१५४ = पा_७,१.१५)
अतः सर्वनाम्न एतयोरेतौ स्तः। सर्वस्मात्॥

आमि सर्वनाम्नः सुट्॥ (लसक_१५५ = पा_७,१.५२)
अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः। एत्वषत्वे। सर्वेषाम्। सर्वस्मिन्। शेषं रामवत्। एवं विश्वादयो ऽप्यदन्ताः॥ उभशब्दो नित्यं द्विवचनान्तः। उभौ २। उभाभ्याम् ३। उभयोः २। तस्येह पाठो ऽकजर्थः। उभयशब्दस्य द्विवचनं नास्ति। उभयः। उभये। उभयम्। उभयान्। उभयेन। उभयैः। उभयस्मै। उभयेभ्यः। उभयस्मात्। उभयेभ्यः। उभयस्य। उभयेषाम्। उभयस्मिन्। उभयेषु॥ डतरडतमौ प्रत्ययौ, प्रत्ययग्रहणे तदन्तग्रहणमिति तदन्ता ग्राह्याः॥ नेम इत्यर्धे॥ समः सर्वपर्याय स्तुल्यपर्यायस्तु न, यथासंख्यमनुदेशः समानामिति ज्ञापकात्॥

पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्॥ (लसक_१५६ = पा_१,१.३४)
एतेषां व्यवस्थायामसंज्ञायां च सर्वनामसंज्ञा गणसूत्रात्सर्वत्र या प्राप्ता सा जसि वा स्यात्। पूर्वे, पूर्वाः। असंज्ञायां किम् ? उत्तराः कुरवः। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। व्यवस्थायां किम् ? दक्षिणा गाथकाः, कुशला इत्यर्थः॥

स्वमज्ञातिधनाख्यायाम्॥ (लसक_१५७ = पा_१,१.३५)
ज्ञातिधनान्यवाचिनः स्वशब्दस्य प्राप्ता संज्ञा जसि वा। स्वे, स्वाः॑ आत्मीयाः, आत्मान इति वा। ज्ञातिधनवाचिनस्तु, स्वाः॑ ज्ञातयोर्ऽथा वा॥

अन्तरं बहिर्योगोपसंव्यानयोः॥ (लसक_१५८ = पा_१,४.३६)
बाह्ये परिधानीये चार्थे ऽन्तरशब्दस्य प्राप्ता संज्ञा जसि वा। अन्तरे, अन्तरा वा गृहाः॑ बाह्या इत्यर्थः। अन्तरे, अन्तरा वा शाटकाः॑ परिधानीया इत्यर्थः॥

पूर्वादिभ्यो नवभ्यो वा॥ (लसक_१५९ = पा_७,१.१६)
एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः। पूर्वस्मात्, पूर्वात्। पूर्वस्मिन्, पूर्वे। एवं परादीनाम्। शेषं सर्ववत्॥

प्रथमचरमतयाल्पार्द्धकतिपयनेमाश्च॥ (लसक_१६० = पा_१,१.३३)
एते जसि उक्तसंज्ञा वा स्युः। प्रथमे, प्रथमाः॥ तयः प्रत्ययः। द्वितये, द्वितयाः। शेषं रामवत्॥ नेमे, नेमाः। शेषं सर्ववत्॥ (तीयस्य ङित्सु वा)। द्वितीयस्मै, द्वितीयायेत्यादि। एवं तृतीयः॥ निर्जरः॥

जराया जरसन्यतरस्याम्॥ (लसक_१६१ = पा_७,२.१०१)
अजादौ विभक्तौ। (प.) पदाङ्गाधिकारे तस्य च तदन्तस्य च। (प.) निर्दिश्यमानस्यादेशा भवन्ति। (प.) एकदेशविकृतमनन्यवत्, इति जरशब्दस्य जरस्। निर्जरसौ। निर्जरस इत्यादि। पक्षे हलादौ च रामवत्॥ विश्वपाः॥

दीर्घाज्जसि च॥ (लसक_१६२ = पा_६,१.१०५)
दीर्घाज्जसि इचि च परे पूर्वसवर्णदीर्घो न स्यात्। विश्वपौ। विश्वपाः। हे विश्वपाः। विश्वपाम्। विश्वपौ॥

सुडनपुंसकस्य॥ (लसक_१६३ = पा_१,१.४३)
स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य॥

स्वादिष्वसर्वनामस्थाने॥ (लसक_१६४ = पा_१,४.१७)
कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं पदं स्यात्॥

यचि भम्॥ (लसक_१६५ = पा_१,४.१८)
यादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसंज्ञं स्यात्॥

आकडारादेका संज्ञा॥ (लसक_१६६ = पा_१,४.१)
इत ऊर्ध्वं कडाराः कर्मधारय इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया। या परानवकाशा च॥

आतो धातोः॥ (लसक_१६७ = पा_६,४.१४०)
आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः। अलो ऽन्त्यस्य। विश्वपः। विश्वपा। विश्वपाभ्यामित्यादि। एवं शङ्खध्मादयः। धातोः किम् ? हाहान्॥ हरिः। हरी॥

जसि च॥ (लसक_१६८ = पा_७,३.१०९)
ह्रस्वान्तस्याङ्गस्य गुणः। हरयः॥

ह्रस्वस्य गुणः॥ (लसक_१६९ = पा_७,३.१०८)
सम्बुद्धौ। हे हरे। हरिम्। हरी। हरीन्॥

शेषो घ्यसखि॥ (लसक_१७० = पा_१,४.७)
शेष इति स्पष्टार्थम्। ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञम्॥

आङो नास्त्रियाम्॥ (लसक_१७१ = पा_७,३.१२०)
घेः परस्याङो ना स्यादस्त्रियाम्। आङिति टासंज्ञा। हरिणा। हरिभ्याम्। हरिभिः॥

घेर्ङिति॥ (लसक_१७२ = पा_७,३.१११)
घिसंज्ञस्य ङिति सुपि गुणः। हरये। हरिभ्याम्। हरिभ्यः॥

ङसिङसोश्च॥ (लसक_१७३ = पा_६,१.११०)
एङो ङसिङसोरति पूर्वरूपमेकादेशः। हरेः २। हर्योः २। हरीणाम्॥

अच्च घेः॥ (लसक_१७४ = पा_७,३.११९)
इदुद्भ्यामुत्तरस्य ङेरौत्, घेरच्च। हरौ। हरिषु। एवं कव्यादयः॥

अनङ् सौ॥ (लसक_१७५ = पा_७,१.९३)
सख्युरङ्गस्यानङादेशो ऽसम्बुद्धौ सौ॥

अलो ऽन्त्यात्पूर्व उपधा॥ (लसक_१७६ = पा_१,१.६५)
अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः॥

सर्वनामस्थाने चासम्बुद्धौ॥ (लसक_१७७ = पा_६,४.८)
नान्तस्योपधाया दीर्घो ऽसम्बुद्धौ सर्वनामस्थाने॥

अपृक्त एकाल् प्रत्ययः॥ (लसक_१७८ = पा_१,२.४१)
एकाल् प्रत्ययो यः सो ऽपृक्तसंज्ञः स्यात्॥

हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्॥ (लसक_१७९ = पा_६,१.६८)
हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते॥

नलोपः प्रातिपदिकान्तस्य॥ (लसक_१८० = पा_८,२.७)
प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नस्य लोपः। सखा॥

सख्युरसंबुद्धौ॥ (लसक_१८१ = पा_७,१.९२)
सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात्॥

अचो ञ्णिति॥ (लसक_१८२ = पा_७,२.११५)
अजन्ताङ्गस्य वृद्धिर्ञिति णिति च परे। सखायौ। सखायः। हे सखे। सखायम्। सखायौ। सखीन्। सख्या। सख्ये॥

ख्यत्यात्परस्य॥ (लसक_१८३ = पा_६,१.११२)
खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उः। सख्युः॥

औत्॥ (लसक_१८४ = पा_७,३.११८)
इतः परस्य ङेरौत्। सख्यौ। शेषं हरिवत्॥

पतिः समास एव॥ (लसक_१८५ = पा_१,४.८)
घिसंज्ञः। पत्युः २। पत्यौ। शेषं हरिवत्। समासे तु भूपतये। कतिशब्दो नित्यं बहुवचनान्तः॥

बहुगणवतुडति संख्या॥ (लसक_१८६ = पा_१,१.२३)

डति च॥ (लसक_१८७ = पा_१,१.२५)
डत्यन्ता संख्या षट्संज्ञा स्यात्॥

षड्भ्यो लुक्॥ (लसक_१८८ = पा_७,१.२२)
जश्शसोः॥

प्रत्ययस्य लुक्श्लुलुपः॥ (लसक_१८९ = पा_१,१.६१)
लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात्॥

प्रत्ययलोपे प्रत्ययलक्षणम्॥ (लसक_१९० = पा_१,१.६२)
प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्। इति जसि चेति गुणे प्राप्ते॥

न लुमताङ्गस्य॥ (लसक_१९१ = पा_१,१.६३)
लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्। कति २। कतिभिः। कतिभ्यः २। कतीनाम्। कतिषु। युष्मदस्मत्षट्संज्ञकास्त्रिषु सरूपाः॥ त्रिशब्दो नित्यं बहुवचनान्तः। त्रयः। त्रीन्। त्रिभिः। त्रिभ्यः २॥

त्रेस्त्रयः॥ (लसक_१९२ = पा_७,१.५३)
त्रिशब्दस्य त्रयादेशः स्यादामि। त्रयाणाम्। त्रिषु। गौणत्वे ऽपि प्रियत्रयाणाम्॥

त्यदादीनामः॥ (लसक_१९३ = पा_७,२.१०२)
एषामकारो विभक्तौ। (द्विपर्य्यन्तानामेवेष्टिः)। द्वौ २। द्वाभ्याम् ३। द्वयोः २॥ पाति लोकमिति पपीः सूर्यः॥

दीर्घाज्जसि च॥ (लसक_१९४ = पा_६,१.१०५)
पप्यौ २। पप्यः। हे पपीः। पपीम्। पपीन्। पप्या। पपीभ्याम् ३। पपीभिः। पप्ये। पपीभ्यः २। पप्यः २। पप्योः। दीर्घत्वान्न नुट्, पप्याम्। ङौ तु सवर्णदीर्घः, पपी। पप्योः। पपीषु। एवं वातप्रम्यादयः॥ बह्व्यः श्रेयस्यो यस्य स बहुश्रेयसी॥

यू स्त्र्याख्यौ नदी॥ (लसक_१९५ = पा_१,४.३)
ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः। (प्रथमलिङ्गग्रहणं च)। पूर्वं स्त्र्याख्यस्योपसर्जनत्वे ऽपि नदीत्वं वक्तव्यमित्यर्थः॥

अम्बार्थनद्योर्ह्रस्वः॥ (लसक_१९६ = पा_७,३.१०७)
सम्बुद्धौ। हे बहुश्रेयसि॥

आण्नद्याः॥ (लसक_१९७ = पा_७,३.११२)
नद्यन्तात्परेषां ङितामाडागमः॥

आटश्च॥ (लसक_१९८ = पा_६,१.९०)
आटो ऽचि परे वृद्धिरेकादेशः। बहुश्रेयस्यै। बहुश्रेयस्याः। बहुश्रेयसीनाम्॥

ङेराम्नद्याम्नीभ्यः॥ (लसक_१९९ = पा_७,३.११७)
नद्यन्तादाबन्तान्नीशब्दाच्च परस्य ङेराम्। बहुश्रेयस्याम्। शेषं पपीवत्॥ अङ्यन्तत्वान्न सुलोपः। अतिलक्ष्मीः। शेषं बहुश्रेयसीवत्॥ प्रधीः॥

अचि श्नुधातुभ्रुवां य्वोरियङुवङौ॥ (लसक_२०० = पा_६,४.७७)
श्नु प्रत्ययान्तस्येवर्णोवर्णान्तस्य धातोर्भ्रू इत्यस्य चाङ्गस्य चेयङुवङौ स्तो ऽजादौ प्रत्यये परे। इति प्राप्ते॥

एरनेकाचो ऽसंयोगपूर्वस्य॥ (लसक_२०१ = पा_६,४.८२)
धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचो ऽङ्गस्य यणजादौ प्रत्यये। प्रध्यौ। प्रध्यः। प्रध्यम्। प्रध्यौ। प्रध्यः। प्रध्यि। शेषं पपीवत्। एवं ग्रामणीः। ङौ तु ग्रामण्याम्॥ अनेकाचः किम् ? नीः। नियौ। नियः। अमि शसि च परत्वादियङ्, नियम्। ङेराम्॑ नियाम्॥ असंयोगपूर्वस्य किम् ? सुश्रियौ। यवक्रियौ॥

गतिश्च॥ (लसक_२०२ = पा_१,४.६०)
प्रादयः क्रियायोगे गतिसंज्ञाः स्युः। (गतिकारकेतरपूर्वपदस्य यण् नेष्यते)। शुद्धधियौ॥

न भूसुधियोः॥ (लसक_२०३ = पा_६,४.८५)
एतयोरचि सुपि यण्न। सुधियौ। सुधिय इत्यादि॥ सुखमिच्छतीति सुखीः। सुतीः। सुख्यौ। सुत्यौ। सुख्युः। सुत्युः। शेषं प्रधीवत्। शम्भुर्हरिवत्। एवं भान्वादयः॥

तृज्वत्क्रोष्टुः॥ (लसक_२०४ = पा_६,१.९५)
असम्बुद्धौ सर्वनामस्थाने परे। क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः॥

ऋतो ङिसर्वनामस्थानयोः॥ (लसक_२०५ = पा_७,१.११०)
ऋतो ऽङ्गस्य गुणो ङौ सर्वनामस्थाने च। इति प्राप्ते -- .

ऋदुशनस्पुरुदंसो ऽनेहसां च॥ (लसक_२०६ = पा_७,१.९४)
ऋदन्तानाम् उशनसादीनाम् च अनङ् स्यात् असंबुद्धौ सौ॥

अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्॥ (लसक_२०७ = पा_६,४.११)
अबादीनाम् उपधाया दीर्घः असंबुद्धौ सर्वनामस्थाने। क्रोष्टा। क्रोष्टारौ। क्रोष्टारः। क्रोष्टून्॥

विभाषा तृतीयादिष्वचि॥ (लसक_२०८ = पा_७,१.९७)
अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत्। क्रोष्ट्रा। क्रोष्ट्रे॥

ऋत उत्॥ (लसक_२०९ = पा_६,१.१११)
ऋतो ङसिङसोरति उदेकादेशः। रपरः॥

रात्सस्य॥ (लसक_२१० = पा_८,२.२४)
रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य। रस्य विसर्गः। क्रोष्टुः २। क्रोष्ट्रोः २। (नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन)। क्रोष्टूनाम्। क्रोष्टरि। पक्षे हलादौ च शम्भुवत्॥ हूहूः। हूह्वौ। हूह्वः। हूहूम् इत्यादि॥ अतिचमूशब्दे तु नदीकार्य्यं विशेषः। हे अतिचमु। अतिचम्वै। अतिचम्वाः। अतिचमूनाम्॥ खलपूः॥

ओः सुपि॥ (लसक_२११ = पा_६,४.८३)
धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचो ऽङ्गस्य यण् स्यादचि सुपि। खलप्वौ। खलप्वः। एवं सुल्वादयः॥ स्वभूः। स्वभुवौ। स्वभुवः॥ वर्षाभूः॥

वर्षाभ्वश्च॥ (लसक_२१२ = पा_६,४.८४)
अस्य यण् स्यादचि सुपि। वर्षाभ्वावित्यादि॥ दृन्भूः। (दृन्करपुनः पूर्वस्य भुवो यण् वक्तव्यः)। दृन्भ्वौ। एवं करभूः॥ धाता। हे धातः। धातारौ। धातारः। (ऋवर्णान्नस्य णत्वं वाच्यम्)। धातॄणाम्। एवं नप्त्रादयः॥ नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम्। तेनेह न। पिता। पितरौ। पितरः। पितरम्। शेषं धातृवत्। एवं जामात्रादयः॥ ना। नरौ॥

नृ च॥ (लसक_२१३ = पा_६,४.६)
अस्य नामि वा धीर्घः। नृणाम्। नॄणाम्॥

गोतो णित्॥ (लसक_२१४ = पा_७,१.९०)
ओकाराद्विहितं सर्वनामस्थानं णिद्वत्। गौः। गावौ। गावः॥

औतो ऽम्शसोः॥ (लसक_२१५ = पा_६,१.९३)
ओतो ऽम्शसोरचि आकार एकादेशः। गाम्। गावौ। गाः। गवा। गवे। गोः। इत्यादि॥

रायो हलि॥ (लसक_२१६ = पा_७,२.८५)
अस्याकारादेशो हलि विभक्तौ। राः। रायौ। रायः। राम्यामित्यादि॥ ग्लौः। ग्लावौ। ग्लावः। ग्लौभ्यामित्यादि॥

इत्यजन्तपुंल्लिङ्गाः।

अथाजन्तस्त्रीलिङ्गाः

रमा।

औङ आपः॥ (लसक_२१७ = पा_७,१.१८)
आबन्तादङ्गात्परस्ययौङः शी स्यात्। औङित्यौकारविभक्तेः संज्ञा। रमे। रमाः॥

सम्बुद्धौ च॥ (लसक_२१८ = पा_७,३.१०६)
आप एकारः स्यात्सम्बुद्धौ। एङ्ह्रस्वादिति संबुद्धिलोपः। हे रमे। हे रमे। हे रमाः। रमाम्। रमे। रमाः॥

आङि चापः॥ (लसक_२१९ = पा_७,३.१०५)
आङि ओसि चाप एकारः। रमया। रमाभ्याम्। रमाभिः॥

याडापः॥ (लसक_२२० = पा_७,३.११३)
आपो ङितो याट्। वृद्धिः। रमायै। रमाभ्याम्। रमाभ्यः। रमायाः। रमयोः। रमाणाम्। रमायाम्। रमासु। एवं दुर्गाम्बिकादयः॥

सर्वनाम्नः स्याड्ढ्रस्वश्च॥ (लसक_२२१ = पा_७,३.११४)
आबन्तात्सर्वनाम्नो ङितः स्याट् स्यादापश्च ह्रस्वः। सर्वस्यै। सर्वस्याः। सर्वासाम्। सर्वस्याम्। शेषं रमावत्॥ एवं विश्वादय आबन्ताः॥

विभाषा दिक्समासे बहुव्रीहौ॥ (लसक_२२२ = पा_१,१.२८)
सर्वनामता वा। उत्तरपूर्वस्यै, उत्तरपूर्वायै। तीयस्येति वा सर्वनामसंज्ञा। द्वितीयस्यै, द्वितीयायै॥ एवं तृतीया॥ अम्बार्थेति ह्रस्वः। हे अम्ब। हे अक्क। हे अल्ल॥ जरा। जरसौ इत्यादि। पक्षे रमावत्॥ गोपाः, विश्वपावत्॥ मतीः। मत्या॥

ङिति ह्रस्वश्च॥ (लसक_२२३ = पा_१,४.६)
इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ, ह्रस्वौ चेवर्णोवर्णौ, स्त्रियां वा नदीसंज्ञौ स्तो ङिति। मत्यै, मतये। मत्याः २। मतेः २॥

इदुद्भ्याम्॥ (लसक_२२४ = पा_७,३.११७)
इदुद्भ्यां नदीसंज्ञकाभ्यां परस्य ङेराम्। मत्याम्, मतौ। शेषं हरिवत्॥ एवं बुद्ध्यादयः॥

त्रिचतुरोः स्त्रियां तिसृचतसृ॥ (लसक_२२५ = पा_७,२.९९)
स्त्रीलिङ्गयोरेतौ स्तो विभक्तौ॥

अचि र ऋतः॥ (लसक_२२६ = पा_७,२.१००)
तिसृ चतसृ एतयोरृकारस्य रेफादेशः स्यादचि। गुणदीर्घोत्वानामपवादः। तिस्रः। तिसृभ्यः। तिसृभ्यः। आमि नुट्॥

न तिसृचतसृ॥ (लसक_२२७ = पा_६,४.४)
एतयोर्नामि दीर्घो न। तिसृणाम्। तिसृषु॥ द्वे। द्वे। द्वाभ्याम्। द्वाभ्याम्। द्वाभ्याम्। द्वयोः। द्वयोः॥ गौरी। गौर्य्यौ। गौर्य्यः। हे गौरि। गौर्य्यै इत्यादि। एवं नद्यादयः॥ लक्ष्मीः। शेषं गौरीवत्॥ एवं तरीतन्त्र्यादयः॥ स्त्री। हे स्त्रि॥

स्त्रियाः॥ (लसक_२२८ = पा_६,४.७९)
अस्येयङ् स्यादजादौ प्रत्यये परे। स्त्रियौ। स्त्रियः॥

वाम्शसोः॥ (लसक_२२९ = पा_६,४.८०)
अमि शसि च स्त्रिया इयङ् वा स्यात्। स्त्रियम्, स्त्रीम्। स्त्रियः, स्त्रीः। स्त्रिया। स्त्रियै। स्त्रियाः। परत्वान्नुट्। स्त्रीणाम्। स्त्रीषु॥ श्रीः। श्रियौ। श्रियाः॥

नेयङुवङ्स्थानावस्त्री॥ (लसक_२३० = पा_१,४.४)
इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो न तु स्त्री। हे श्रीः। श्रियै, श्रिये। श्रियाः, श्रियः॥

वामि॥ (लसक_२३१ = पा_१,४.५)
इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो न तु स्त्री। श्रीणाम्, श्रियाम्। श्रियि, श्रियाम्॥ धेनुर्मतिवत्॥

स्त्रियां च॥ (लसक_२३२ = पा_७,१.९६)
स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते॥

ऋन्नेभ्यो ङीप्॥ (लसक_२३३ = पा_४,१.५)
ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप्। क्रोष्ट्री गौरीवत्॥ भ्रूः श्रीवत्॥ स्वयम्भूः पुंवत्॥

न षट्स्वस्रादिभ्यः॥ (लसक_२३४ = पा_४,१.१०)
ङीप्टापौ न स्तः॥
स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा।
याता मातेति सप्तैते स्वस्रादय उदाहृताः॥
स्वसा। स्वसारौ॥ माता पितृवत्। शसि मातॄः॥ द्यौर्गोवत्॥ राः पुंवत्॥ नौर्ग्लौवत्॥

इत्यजन्तस्त्रीलिङ्गाः

अथाजन्तनपुंसकलिङ्गाः

अतो ऽम्॥ (लसक_२३५ = पा_७,१.२४)
अतो ऽङ्गात् क्लीबात्स्वमोरम्। अमि पूर्वः। ज्ञानम्। एङ्ह्रस्वादिति हल्लोपः। हे ज्ञान//

नपुंसकाच्च॥ (लसक_२३६ = पा_७,१.१९)
क्लीबादौङः शी स्यात्। भसंज्ञायाम्॥

यस्येति च॥ (लसक_२३७ = पा_६,४.१४८)
कडारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः। इत्यल्लोपे प्राप्ते (औङः श्यां प्रतिषेधो वाच्यः)। ज्ञाने॥

जश्शसोः शिः॥ (लसक_२३८ = पा_७,१.२०)
क्लीबादनयोः शिः स्यात्॥

शि सर्वनामस्थानम्॥ (लसक_२३९ = पा_१,१.४२)
शि इत्येतदुक्तसंज्ञं स्यात्॥

नपुंसकस्य झलचः॥ (लसक_२४० = पा_७,१.७२)
झलन्तस्याजन्तस्य च क्लीबस्य नुम् स्यात् सर्वनामस्थाने॥

मिदचो ऽन्त्यात्परः॥ (लसक_२४१ = पा_१,१.४७)
अचां मध्ये यो ऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात्। उपधादीर्घः। ज्ञानानि। पुनस्तद्वत्। शेषं पुंवत्॥ एवं धन वन फलादयः॥

अद्ड्डतरादिभ्यः पञ्चभ्यः॥ (लसक_२४२ = पा_७,१.२५)
एभ्यः क्लीबेभ्यः स्वमोः अद्डादेशः स्यात्॥

टेः॥ (लसक_२४३ = पा_६,४.१४३)
डिति भस्य टेर्लोपः। कतरत्, कतरद्। कतरे। कतराणि। हे कतरत्। शेषं पुंवत्॥ एवं कतमत्। इतरत्। अन्यत्। अन्यतरत्। अन्यतमस्य त्वन्यतममित्येव। (एकतरात्प्रतिषेधो वक्तव्यः)/ एकतरम्॥

ह्रस्वो नपुंसके प्रातिपदिकस्य॥ (लसक_२४४ = पा_१,३.४७)
अजन्तस्येत्येव। श्रीपं ज्ञानवत्॥

स्वमोर्नपुंसकात्॥ (लसक_२४५ = पा_७,१.२३)
लुक् स्यात्। वारि॥

इको ऽचि विभक्तौ॥ (लसक_२४६ = पा_७,१.७३)
इगन्तस्य क्लीबस्य नुमचि विभक्तौ। वारिणी। वारीणि। न लुमतेत्यस्यानित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः। हे वारे, हे वारि। घेर्ङितीति गुणे प्राप्ते (वृद्ध्यौत्त्वतृज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन)। वारिणे। वारिणः। वारिणोः। नुमचिरेति नुट्। वारीणाम्। वारिणि। हलादौ हरिवत्॥

अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः॥ (लसक_२४७ = पा_७,१.७५)
एषामनङ् स्याट्टादावचि॥

अल्लोपो ऽनः॥ (लसक_२४८ = पा_६,४.१३४)
अङ्गावयवो ऽसर्वनामस्थानयजादिस्वादिपरो यो ऽन् तस्याकारस्य लोपः। दध्ना। दध्ने। दध्नः। दध्नः। दध्नोः। दध्नोः॥

विभाषा ङिश्योः॥ (लसक_२४९ = पा_६,४.१३६)
अङ्गावयवो ऽसर्वनामस्थानयजादिस्वादिपरो यो ऽन् तस्याकारस्य लोपो वा स्याङत् ङिश्योः परयोः। दध्नि, दधनि। शेषं वारिवत्॥ एवमस्थिसक्थ्यक्षि॥ सुधि। सुधिनी। सुधीनि। हे सुधे, हे सुधि॥

तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य॥ (लसक_२५० = पा_७,१.७४)
प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा टादावचि। सुधिया, सुधिनेत्यादि॥ मधु। मधुनी। मधूनि। हे मधो, हे मधु॥ सुलु। सुलुनी। सुलूनि। सुलुनेत्यादि॥ धातृ। धातृणी। धातॄणि। हे धातः, हे धातृ। धातॄणाम्॥ एवं ज्ञात्रादयः॥

एच इग्घ्रस्वादेशे॥ (लसक_२५१ = पा_१,१.४८)
आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात्। प्रद्यु। प्रद्युनी। प्रद्यूनि। प्रद्युनेत्यादि॥ प्ररि। प्ररिणी। प्ररीणि। प्ररिणा। एकदेशविकृतमनन्यवत्। प्रराभ्याम्। प्ररीणाम्॥ सुनु। सुनुनी। सुनूनि। सुनुनेत्यादि॥

इत्यजन्तनपुंसकलिङ्गाः।

अथ हलन्त पुंल्लिङ्गाः

हो ढः॥ (लसक_२५२ = पा_८,२.३१)
हस्य ढः स्याज्झलि पदान्ते च। लिट्, लिड्। लिहौ। लिहः। लिड्भ्याम्। लिट्त्सु, लिट्सु॥

दादेर्धातोर्घः॥ (लसक_२५३ = पा_८,२.३२)
झलि पदान्ते चोपदेशे दादेर्धातेर्हस्य घः॥

एकाचो बशो भष् झषन्तस्य स्ध्वोः॥ (लसक_२५४ = पा_८,२.३७)
धात्ववयवस्यैकाचो झषन्तस्य बशो भष् से ध्वे पदान्ते च। धुक्, धुग्। दुहौ। दुहः। धुग्भ्याम्। धुक्षु॥

वा द्रुहमुहष्णुहष्णिहाम्॥ (लसक_२५५ = पा_८,२.३३)
एषां हस्य वा घो झलि पदान्ते च। ध्रुक्, ध्रुग्, ध्रुट्, ध्रुड्। द्रुहौ। द्रुहः। ध्रुग्भ्याम्, ध्रुड्भ्याम्। ध्रुक्षु, ध्रुट्त्सु, ध्रुट्सु॥ एवं मुक्, मुग् इत्यादि॥

धात्वादेः षः सः॥ (लसक_२५६ = पा_६,१.६४)
स्नुक्, स्नुग्, स्नुट्, स्नुड्। एवं स्निक्, स्निग्, स्निट्, स्निड्॥ विश्ववाट्, विश्ववाड्। विश्ववाहौ। विश्ववाहः। विश्ववाहम्। विश्ववाहौ॥

इग्यणः संप्रसारणम्॥ (लसक_२५७ = पा_१,१.४५)
यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात्॥

वाह ऊठ्॥ (लसक_२५८ = पा_६,४.१३२)
भस्य वाहः संप्रसारणमूठ्॥

संप्रसारणाच्च॥ (लसक_२५९ = पा_६,१.१०८)
संप्रसारणादचि पूर्वरूपमेकादेशः। एत्येधत्यूठ्स्विति वृद्धिः। विश्वौहः, इत्यादि॥

चतुरनडुहोरामुदात्तः॥ (लसक_२६० = पा_७,१.९८)
अनयोराम् स्यात्सर्वनामस्थाने परे॥

सावनडुहः॥ (लसक_२६१ = पा_७,१.८२)
अस्य नुम् स्यात् सौ परे। अनड्वान्॥

अम् संबुद्धौ॥ (लसक_२६२ = पा_७,१.९९)
हे अनड्वन्। हे अनड्वाहौ। हे अनड्वाहः। अनडुहः। अनडुहा॥

वसुस्रंसुध्वंस्वनडुहां दः॥ (लसक_२६३ = पा_८,२.७२)
सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते। अनडुद्भ्यामित्यादि॥ सान्तेति किम् ? विद्वान्। पदान्ते किम् ? स्रस्तम्।
ध्वस्तम्॥

सहेः साडः सः॥ (लसक_२६४ = पा_८,३.५६)
साडरूपस्य सहेः सस्य मूर्धन्यादेशः। तुराषाट्, तुराषाड्। तुरासाहौ। तुरासाहः। तुराषाड्भ्यामित्यादि॥

दिव औत्॥ (लसक_२६५ = पा_७,१.८४)
दिविति प्रातिपदिकस्यौत्स्यात्सौ। सुद्यौः। सुदिवौ॥

दिव उत्॥ (लसक_२६६ = पा_६,१.१३१)
दिवो ऽन्तादेश उकारः स्यात् पदान्ते। सुद्युभ्यामित्यादि॥ चत्वारः। चतुरः। चतुर्भिः। चतुर्भ्यः॥

षट्चतुर्भ्यश्च॥ (लसक_२६७ = पा_७,१.५५)
एभ्य आमो नुडागमः॥

रषाभ्यां नो णः समानपदे॥ (लसक_२६८ = पा_८,४.१)

अचो रहाभ्यां द्वे॥ (लसक_२६९ = पा_८,४.४६)
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः। चतुर्ण्णाम्, चतुर्णाम्॥

रोः सुपि॥ (लसक_२७० = पा_८,३.१६)
रोरेव विसर्गः सुपि। षत्वम्। षस्य द्वित्वे प्राप्ते॥

शरो ऽचि॥ (लसक_२७१ = पा_८,४.४९)
अचि परे शरो न द्वे स्तः। चतुर्षु॥

मो नो धातोः॥ (लसक_२७२ = पा_८,२.६४)
धातोर्मस्य नः पदान्ते। प्रशान्॥

किमः कः॥ (लसक_२७३ = पा_७,२.१०३)
किमः कः स्याद्विभक्तौ। कः। कौ। के इत्यादि। शेषं सर्ववत्॥

इदमो मः॥ (लसक_२७४ = पा_७,२.१०८)
सौ। त्यदाद्यत्वापवादः॥

इदो ऽय् पुंसि॥ (लसक_२७५ = पा_७,२.१११)
इदम इदो ऽय् सौ पुंसि। अयम्। त्यदाद्यत्वे॥

अतो गुणे॥ (लसक_२७६ = पा_६,१.९७)
अपदान्तादतो गुणे पररूपमेकादेशः॥

दश्च॥ (लसक_२७७ = पा_७,२.१०९)
इदमो दस्य मः स्याद्विभक्तौ। इमौ। इमे। त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः॥

अनाप्यकः॥ (लसक_२७८ = पा_७,२.११२)
अककारस्येदम इदो ऽनापि विभक्तौ। आबिति प्रत्याहारः। अनेन॥

हलि लोपः॥ (लसक_२७९ = पा_७,२.११३)
अककारस्येदम इदो लोप आपि हलादौ। नानर्थके ऽलो ऽन्त्यविधिरनभ्यासविकारे॥

आद्यन्तवदेकस्मिन्॥ (लसक_२८० = पा_१,१.२१)
एकस्मिन्क्रियमाणं कार्यमादाविवान्त इव स्यात्। सुपि चेति दीर्घः। आभ्याम्॥

नेदमदसोरकोः॥ (लसक_२८१ = पा_७,१.११)
अककारयोरिदमदसोर्भिस ऐस् न। एभिः। अस्मै। एभ्यः। अस्मात्। अस्य। अनयोः। एषाम्। अस्मिन्। अनयोः। एषु॥

द्वितीयाटौस्स्वेनः॥ (लसक_२८२ = पा_२,४.३४)
इदमेतदोरन्वादेशे। किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः। यथा - अनेन व्याकरणमधीत मेनं छन्दो ऽध्यापयेति। अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वामिति॥ एनम्। एनौ। एनान्। एनेन। एनयोः। एनयोः॥ राजा॥

न ङिसम्बुद्ध्योः॥ (लसक_२८३ = पा_८,२.८)
नस्य लोपो न ङौ सम्बुद्धौ च। हे राजन्। (ङावुत्तरपदे प्रतिषेधो वक्तव्यः)। ब्रह्मनिष्ठः। राजानौ। राजानः। राज्ञः॥

नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति॥ (लसक_२८४ = पा_८,२.२)
सुब्विधौ स्वरविधौ संज्ञाविधौ कृति तुग्विधौ च नलोपो ऽसिद्धो नान्यत्र - राजाश्व इत्यादौ। इत्यसिद्धत्वादात्वमेत्त्वमैस्त्वं च न। राजभ्याम्। राजभिः। राज्ञि, राजनि। राजसु॥ यज्वा। यज्वानौ। यज्वानः॥

न संयोगाद्वमन्तात्॥ (लसक_२८५ = पा_६,४.१३७)
वमन्तसंयोगादनो ऽकारस्य लोपो न। यज्वनः। यज्वा। यज्वभ्याम्॥ ब्रह्मणः। ब्रह्मणा॥

इन्हन्पूषार्यम्णां शौ॥ (लसक_२८६ = पा_६,४.१२)
एषां शावेवोपधाया दीर्घो नान्यत्र। इति निषेधे प्राप्ते - .

सौ च॥ (लसक_२८७ = पा_६,४.१३)
इन्नादीनामुपधाया दीर्घो ऽसंबुद्धौ सौ। वृत्रहा। हे वृत्रहन्॥

एकाजुत्तरपदे णः॥ (लसक_२८८ = पा_८,४.१२)
एकाजुत्तपरदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रतिपदिकान्तनुम्विभक्तिस्थस्य नस्य णः। वृत्रहणौ॥

हो हन्तेर्ञ्णिन्नेषु॥ (लसक_२८९ = पा_७,३.५४)
ञिति णिति प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वम्। वृत्रघ्नः इत्यादि। एवं शार्ङ्गिन्, यशस्विन्, अर्यमन्, पूषन्॥

मघवा बहुलम्॥ (लसक_२९० = पा_६,४.१२८)
मघवन्शब्दस्य वा तृ इत्यन्तादेशः। ऋ इत्॥

उगिदचां सर्वनामस्थाने ऽधातोः॥ (लसक_२९१ = पा_७,१.७०)
अधातोरुगितो नलोपिनो ऽञ्चतेश्च नुम् स्यात्सर्वनामस्थाने परे। मघवान्। मघवन्तौ। मघवन्तः। हे मघवन्। मघवद्भ्याम्। तृत्वाभावे मघवा। सुटि राजवत्॥

श्वयुवमघोनामतद्धिते॥ (लसक_२९२ = पा_६,४.१३३)
अन्नन्तानां भानामेषामतद्धिते संप्रसारणम्। मघोनः। मघवभ्याम्। एवं श्वन्, युवन्॥

न संप्रसारणे संप्रसारणम्॥ (लसक_२९३ = पा_६,१.३७)
संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात्। इति यकारस्य नेत्वम्। अत एव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम्। यूनः। यूना। युवभ्याम् इत्यादि॥ अर्वा। हे अर्वन्॥

अर्वणस्त्रसावनञः॥ (लसक_२९४ = पा_६,४.१२७)
नञा रहितस्यार्वन्नित्यस्याङ्गस्य तृ इत्यन्तादेशो न तु सौ। अर्वन्तौ। अर्वन्तः। अर्वद्भ्यामित्यादि॥

पथिमथ्यृभुक्षामात्॥ (लसक_२९५ = पा_७,१.८५)
एषामाकारो ऽन्तादेशः स्यात् सौ परे॥

इतो ऽत्सर्वनामस्थाने॥ (लसक_२९६ = पा_७,१.८६)
पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे॥

थो न्थः॥ (लसक_२९७ = पा_७,१.८७)
पथिमथोस्थस्य न्थादेशः सर्वनामस्थाने। पन्थाः। पन्थानौ। पन्थानः॥

भस्य टेर्लोपः॥ (लसक_२९८ = पा_७,१.८८)
भस्य पथ्यादेष्टेर्लोपः। पथः। पथा। पथिभ्याम्॥ एवं मथिन्, ऋभुक्षिन्॥

ष्णान्ता षट्॥ (लसक_२९९ = पा_१,१.२४)
षान्ता नान्ता च संख्या षट्संज्ञा स्यात्। पञ्चन्शब्दो नित्यं बहुवचनान्तः। पञ्च। पञ्च। पञ्चभिः। पञ्चभ्यः। पञ्चभ्यः।
नुट्॥

नोपधायाः॥ (लसक_३०० = पा_६,४.७)
नान्तस्योपधाया दीर्घो नामि। पञ्चानाम्। पञ्चसु॥

अष्टन आ विभक्तौ॥ (लसक_३०१ = पा_७,२.८४)
हलादौ वा स्यात्॥

अष्टाभ्य औश्॥ (लसक_३०२ = पा_७,१.२१)
कृताकारादष्टनो जश्शसोरौश्। अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति। अष्टौ। अष्टौ। अष्टाभिः। अष्टाभ्यः। अष्टाभ्यः। अष्टानाम्। अष्टासु। आत्वाभावे अष्ट, पञ्चवत्॥

ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च॥ (लसक_३०३ = पा_३,२.५९)
एभ्यः क्विन्, अञ्चेः सुप्युपपदे, युजिक्रुञ्चोः, केवलयोः, क्रुञ्चेर्नलोपाभावश्च निपात्यते। कनावितौ॥

कृदतिङ्॥ (लसक_३०४ = पा_३,१.९३)
अत्र धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः स्यात्॥

वेरपृक्तस्य॥ (लसक_३०५ = पा_६,१.६७)
अपृक्तस्य वस्य लोपः॥

क्विन्प्रत्ययस्य कुः॥ (लसक_३०६ = पा_८,२.६२)
क्विन्प्रत्ययो यस्मात्तस्य कवर्गो ऽन्तादेशः पदान्ते। अस्यासिद्धत्वाच्चोः कुरिति कुत्वम्। ऋत्विक्, ऋत्विग्। ऋत्विजौ।
ऋत्विग्भ्याम्॥

युजेरसमासे॥ (लसक_३०७ = पा_७,३.७१)
युजेः सर्वनामस्थाने नुम् स्यादसमासे। सुलोपः। संयोगान्तलोपः। कुत्वेन नस्य ङः। युङ्। अनुस्वारपरसवर्णौ। युञ्जौ। युञ्जः। युग्भ्याम्॥

चोः कुः॥ (लसक_३०८ = पा_८,२.३०)
चवर्गस्य कवर्गः स्याज्झलि पदान्ते च। सुयुक्, सुयुग्। सुयुजौ। सुयुग्भ्याम्॥ खन्। खञ्जौ। खन्भ्याम्॥

व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः॥ (लसक_३०९ = पा_८,२.३६)
झलि पदान्ते च। जश्त्वचर्त्वे। राट्, राड्। राजौ। राजः। राड्भ्याम्॥ एवं विभ्राट्, देवेट्, विश्वसृट्॥ (परौ व्रजेः षः पदान्ते)। परावुपपदे व्रजेः क्विप् स्याद्दीर्घश्च पदान्ते षत्वमपि। परिव्राट्। परिव्राजौ॥

विश्वस्य वसुराटोः॥ (लसक_३१० = पा_६,३.१२८)
विश्वशब्दस्य दीर्घो ऽन्तादेशः स्याद्सौ राट्शब्दे च परे। विश्वराट्, विश्वराड्। विश्वराजौ। विश्वराड्भ्याम्॥

स्कोः संयोगाद्योरन्ते च॥ (लसक_३११ = पा_८,२.२९)
पदान्ते झलि च यः संयोगस्तदाद्योः स्कोर्लोपः। भृट्। सस्य श्चुत्वेन सः। झलां जश् झशि इति शस्य जः। भृज्जौ। भृड्भ्याम्॥ त्यदाद्यत्वं पररूपत्वं च॥

तदोः सः सावनन्त्ययोः॥ (लसक_३१२ = पा_७,२.१०६)
त्यदादीनां तकारदकारयोरनन्त्ययोः सः स्यात्सौ। स्यः। त्यौ। त्ये॥ सः। तौ। ते॥ यः। यौ। ये॥ एषः। एतौ। एते॥

ङेप्रथमयोरम्॥ (लसक_३१३ = पा_७,१.२८)
युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः॥

त्वाहौ सौ॥ (लसक_३१४ = पा_७,२.९४)
अनयोर्मपर्यन्तस्य त्वाहौ आदेशौ स्तः॥

शेषे लोपः॥ (लसक_३१५ = पा_७,२.९०)
एतयोष्टिलोपः। त्वम्। अहम्॥

युवावौ द्विवचने॥ (लसक_३१६ = पा_७,२.८२)
द्वयोरुक्तावनयोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ॥

प्रथमायाश्च द्विवचने भाषायाम्॥ (लसक_३१७ = पा_७,२.८८)
औङ्येतयोरात्वं लोके। युवाम्। आवाम्॥

यूयवयौ जसि॥ (लसक_३१८ = पा_७,२.९३)
अनयोर्मपर्यन्तस्य। यूयम्। वयम्॥

त्वमावेकवचने॥ (लसक_३१९ = पा_७,२.९७)
एकस्योक्तावनयोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ॥

द्वितीयायाञ्च॥ (लसक_३२० = पा_७,२.८७)
अनयोरात्स्यात्। त्वाम्। माम्॥

शसो न॥ (लसक_३२१ = पा_७,१.२९)
आभ्यां शसो नः स्यात्। अमो ऽपवादः। आदेः परस्य। संयोगान्तलोपः। युष्मान्। अस्मान्॥

यो ऽचि॥ (लसक_३२२ = पा_७,२.८९)
अनयोर्यकारादेशः स्यादनादेशे ऽजादौ परतः। त्वया। मया॥

युष्मदस्मदोरनादेशे॥ (लसक_३२३ = पा_७,२.८६)
अनयोरात्स्यादनादेशे हलादौ विभक्तौ। युवाभ्याम्। आवाभ्याम्। युष्माभिः। अस्माभिः॥

तुभ्यमह्यौ ङयि॥ (लसक_३२४ = पा_७,२.९५)
अनयोर्मपर्यन्तस्य। टिलोपः। तुभ्यम्। मह्यम्॥

भ्यसो ऽभ्यम्॥ (लसक_३२५ = पा_७,१.३०)
आभ्यां परस्य। युष्मभ्यम्। अस्मभ्यम्॥

एकवचनस्य च॥ (लसक_३२६ = पा_७,१.३२)
आभ्यां ङसेरत्। त्वत्। मत्॥

पञ्चम्या अत्॥ (लसक_३२७ = पा_७,१.३१)
आभ्यां पञ्चम्यां भ्यसो ऽत्स्यात्। युष्मत्। अस्मत्॥

तवममौ ङसि॥ (लसक_३२८ = पा_७,२.९६)
अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि॥

युष्मदस्मद्भ्यां ङसो ऽश्॥ (लसक_३२९ = पा_७,१.२७)
तव। मम। युवयोः। आवयोः॥

साम आकम्॥ (लसक_३३० = पा_७,१.३३)
आभ्यां परस्य साम आकं स्यात्। युष्माकम्। अस्माकम्। त्वयि। मयि। युवयोः। आवयोः। युष्मासु। अस्मासु॥
युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ॥ (लसक_३३१ = पा_८,१.२०)
पदात्परयोरपादादौ स्थितयोः षष्ठ्यादिविशिष्टयोर्वां नौ इत्यादेशौ स्तः॥

बहुवचनस्य वस्नसौ॥ (लसक_३३२ = पा_८,१.२१)
उक्तविधयोरनयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः॥

तेमयावेकवचनस्य॥ (लसक_३३३ = पा_८,१.२२)
उक्तविधयोरनयोष्षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः॥

त्वामौ द्वितीयायाः॥ (लसक_३३४ = पा_८,१.२३)
द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ स्तः॥
श्रीशस्तवावतु मापीह दत्तात्ते मे ऽपि शर्म सः। स्वामी ते मे ऽपि स हरिः पातु वामपि नौ विभुः॥
सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः। सो ऽव्याद्वो नः शिवं वो नो दद्यात् सेव्यो ऽत्र वः स नः॥
(एकवाक्ये युष्मदस्मदादेशा वक्तव्याः)। एकतिङ् वाक्यम्। ओदनं पच तव भविष्यति। (एते वान्नावादयो ऽनन्वादेशे वा वक्तव्याः)। अन्वादेशे तु नित्यं स्युः। धाता ते भक्तो ऽस्ति, धाता तव भक्तो ऽस्ति वा। तस्मै ते नम इत्येव॥ सुपात्, सुपाद्॥ सुपदौ॥

पादः पत्॥ (लसक_३३५ = पा_६,४.१३०)
पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः॥ सुपदः। सुपदा। सुपाद्भ्याम्॥ अग्निमत्, अग्निमद्। अग्निमथौ। अग्निमथः॥

अनिदितां हल उपधायाः क्ङिति॥ (लसक_३३६ = पा_६,४.२४)
हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः किति ङिति। नुम्। संयोगान्तस्य लोपः। नस्य कुत्वेन ङः। प्राङ्। प्राञ्चौ। प्राञ्चः॥

अचः॥ (लसक_३३७ = पा_६,४.१३८)
लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः॥

चौ॥ (लसक_३३८ = पा_६,३.१३८)
लुप्ताकारनकारे ऽञ्चतौ परे पूर्वस्याणो दीर्गः। प्राचः। प्राचा। प्राग्भ्याम्॥ प्रत्यङ्। प्रत्यञ्चौ। प्रतीचः। प्रत्यग्भ्याम्॥ उदङ्। उदञ्चौ॥

उद ईत्॥ (लसक_३३९ = पा_६,४.१३९)
उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भस्याकारस्य ईत्। उदीचः। उदीचा। उदग्भ्याम्। ,

समः समि॥ (लसक_३४० = पा_६,३.९३)
वप्रत्ययान्ते ऽञ्चतौ। सम्यङ्। सम्यञ्चौ। समीचः। सम्यग्भ्याम्॥ ,

सहस्य सध्रिः॥ (लसक_३४१ = पा_६,३.९५)
तथा। सध्र्यङ्॥ ,

तिरसस्तिर्यलोपे॥ (लसक_३४२ = पा_६,३.९४)
अलुप्ताकारे ऽञ्चतौ वप्रत्ययान्ते तिरसस्तिर्यादेशः। तिर्यङ्। तिर्यञ्चौ। तिरश्चः। तिर्यग्भ्याम्॥ ,

नाञ्चेः पूजायाम्॥ (लसक_३४३ = पा_६,४.३०)
पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न। प्राङ्। प्राञ्चौ। नलोपाभावादलोपो न। प्राञ्चः। प्राङ्भ्याम्। प्राङ्क्षु॥ एवं पूजार्थे प्रत्यङ्ङादयः॥ क्रुङ्। क्रुञ्चौ। क्रुङ्भ्याम्॥ पयोमुक्, पयोमुग्। पयोमुचौ। पयोमुग्भ्याम्॥ उगित्त्वान्नुमि - ,

सान्तमहतः संयोगस्य॥ (लसक_३४४ = पा_६,४.१०)
सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घो ऽसम्बुद्धौ सर्वनामस्थाने। महान्। महान्तौ। महान्तः। हे महन्। महद्भ्याम्॥ ,

अत्वसन्तस्य चाधातोः॥ (लसक_३४५ = पा_६,४.१४)
अत्वन्तस्योपधाया दीर्घो धातुभिन्नासन्तस्य चासम्बुद्धौ सौ परे। उगित्तवान्नुम्। धीमान्। धीमन्तौ। धीमन्तः। हे धीमन् शसादौ महद्वत्॥ भातेर्डवतुः। डित्त्वसामर्थ्यादभस्यापि टेर्लोपः। भवान्। भवान्तौ। भवन्तः। शत्रन्तस्य भवन्॥ ,

उभे अभ्यस्तम्॥ (लसक_३४६ = पा_६,१.५)
षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः॥ ,

नाभ्यस्ताच्छतुः॥ (लसक_३४७ = पा_७,१.७८)
अभ्यस्तात्परस्य शतुर्नुम् न। ददत्, ददद्। ददतौ। ददतः॥ ,

जक्षित्यादयः षट्॥ (लसक_३४८ = पा_६,१.६)
षड्धातवो ऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः। जक्षत्, जक्षद्। जक्षतौ। जक्षतः॥ एवं जाग्रत्। दरिद्रत्। शासत्। चकासत्॥ गुप्, गुब्। गुपौ। गुपः। गुब्भ्याम्॥ ,

त्यदादिषु दृशो ऽनालोचने कञ्च॥ (लसक_३४९ = पा_३,२.६०)
त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेः कञ् स्यात्। चात् क्विन्॥ ,

आ सर्वनाम्नः॥ (लसक_३५० = पा_६,३.९१)
सर्वनाम्न आकारो ऽन्तादेशः स्याद्दृग्दृशवतुषु। तादृक्, तादृग्। तादृशौ। तादृशः। तादृग्भ्याम्॥ व्रश्चेति षः। जश्त्वचर्त्वे। विट्, विड्। विशौ। विशः। विड्भ्याम्॥ ,

नशेर्वा॥ (लसक_३५१ = पा_८,२.६३)
नशेः कवर्गो ऽन्तादेशो वा पदान्ते। नक्, नग्॑ नट्, नड्। नशौ। नशः। नग्भ्याम्, नड्भ्याम्॥ ,

स्पृशो ऽनुदके क्विन्॥ (लसक_३५२ = पा_३,२.५८)
अनुदके सुप्युपपदे स्पृशेः क्विन्। घृतस्पृक्, घृतस्पृग्। घृतस्पृशौ। घृतस्पृशः॥ दधृक्, दधृग्। दधृषौ। दधृग्भ्याम्॥ रत्नमुषौ। रत्नमुड्भ्याम्॥ षट्, षड्। षड्भिः। षङ्भ्यः। षण्णाम्। षट्सु॥ रुत्वं प्रति षत्वस्यासिद्धत्वससजुषो रुरिति रुत्वर्म्॥ ,

वोरुपधाया दीर्घ इकः॥ (लसक_३५३ = पा_८,२.७६)
रेफवान्तयोर्धात्वोरुपधाया इको दीर्घः पदान्ते। पिपठीः। पिपठिषौ। पिपठीर्भ्याम्॥ ,

नुम्विसर्जनीयशर्व्यवाये ऽपि॥ (लसक_३५४ = पा_८,३.५८)
एतैः प्रत्येकं व्यवधाने ऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः। ष्टुत्वेन पूर्वस्य षः। पिपठीष्षु, पिपठीःषु॥ चिकीः। चिकीर्षौ। चिकीर्भ्याम्। चिकीर्षु॥ विद्वान्। विद्वांसौ। हे विद्वन्॥ ,

वसोः सम्प्रसारणम्॥ (लसक_३५५ = पा_६,४.१३१)
वस्वन्तस्य भस्य सम्प्रसारणं स्यात्। विदुषः। वसुस्रंस्विति दः। विद्वद्भ्याम्॥

पुंसो ऽसुङ्॥ (लसक_३५६ = पा_७,१.८९)
सर्वनामस्थाने विवक्षिते पुंसो ऽसुङ् स्यात्। पुमान्। हे पुमन्। पुमांसौ। पुंसः। पुम्भ्याम्। पुंसु॥ ऋदुशनेत्यनङ्। उशना। उशनसौ। (अस्य संबुद्धौ वानङ्, नलोपश्च वा वाच्यः)। हे उशन, हेउशनन्, हेउशनः। हे उशनसौ। उशनोभ्याम्। उशनस्सु॥ अनेहा। अनेहसौ। हे अनेहः॥ वेधाः। वेधसौ। हे वेधः। वेधोभ्याम्॥

अदस औ सुलोपश्च॥ (लसक_३५७ = पा_७,२.१०७)
अदस औकारो ऽन्तादेशः स्यात्सौ परे सुलोपश्च। तदोरिति सः। असौ। त्यदाद्यत्वम्। वृद्धिः॥

अदसो ऽसेर्दादु दो मः॥ (लसक_३५८ = पा_८,२.८०)
अदसो ऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य मश्च। आन्तरतम्याद्ध्स्वस्य उः, दीर्घस्य ऊः। अमू। जसः शी। गुणः॥

एत ईद्बहुवचने॥ (लसक_३५९ = पा_८,२.८१)
अदसो दात्परस्यैत ईद्दस्य च मो बह्वर्थोक्तौ। अमी। पूर्वत्रासिद्धमिति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे। अमुम्। अमू। अमून्। मुत्वे कृते घिसंज्ञायां नाभावः॥

न मु ने॥ (लसक_३६० = पा_८,२.३)
नाभावे कर्तव्ये कृते च मुभावो नासिद्धः। अमुना। अमूभ्याम् ३। अमीभिः। अमुष्मै। अमीभ्यः २। अमुष्मात्। अमुष्य। अमुयोः २। अमीषाम्। अमुष्मिन्। अमीषु॥

इति हलन्त पुंल्लिङ्गाः॥

अथ हलन्तस्त्रीलिङ्गाः

नहो धः॥ (लसक_३६१ = पा_८,२.३४)
नहो हस्य धः स्याज्झलि पदान्ते च॥

नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ॥ (लसक_३६२ = पा_६,३.११६)
क्विबन्तेषु पूर्वपदस्य दीर्घः। उपानत्, उपानद्। उपानहौ। उपानत्सु॥ क्विन्नन्तत्वात् कुत्वेन घः। उष्णिक्, उष्णिग्। उष्णिहौ। उष्णिग्भ्याम्॥ द्यौः। दिवौ। दिवः। द्युभ्याम्॥ गीः। गिरौ। गिरः॥ एवं पूः॥ चतस्रः। चतसृणाम्॥ का। के। काः। सर्वावत्॥

यः सौ॥ (लसक_३६३ = पा_७,२.११०)
इदमो दस्य यः इयम्। त्यदाद्यत्वम्। पररूपत्वम्। टाप्। दश्चेति मः। इमे। इमाः। इमाम्। अनया। हलि लोपः। आभ्याम्। आभिः। अस्यै। अस्याः। अनयोः। आसाम्। अस्याम्। आसु॥ त्यदाद्यत्वम्। टाप्। स्या। त्ये। त्याः॥ एवं तद्, एतद्॥ वाक्, वाग्। वाचौ। वाग्भ्याम्। वाक्षु॥ अप्शब्दो नित्यं बहुवचनान्तः। अप्तृन्निति दीर्घः। आपः। अपः॥

अपो भि॥ (लसक_३६४ = पा_७,४.४८)
अपस्तकारो भादौ प्रत्यये। अद्भिः। अद्भ्यः। अद्भ्यः। अपाम्। अप्सु॥ दिक्, दिश्। दिशौ। दिशः। दिग्भ्याम्॥ त्यदादिष्विति दृशेः क्विन्विधानादन्यत्रापि कुत्वम्। दृक्, दृग्। दृशौ। दृग्भ्याम्॥ त्विट्, त्विड्। त्विषौ। त्विड्भ्याम्॥ ससजुषो रुरिति रुत्वम्। सजूः। सजुषौ। सजूर्भ्याम्॥ आशीः। आशिषौ। आशीर्भ्याम्॥ असौ। उत्वमत्वे। अमू। अमूः। अमुया। अमूभ्याम् ३। अमूभिः। अमुष्यै। अमूभ्यः २। अमुष्याः। अमुयोः २। अमूषाम्। अमुष्याम्। अमूषु॥

इति हलन्तस्त्रीलिङ्गाः।

अथ हलन्तनपुंसकलिङ्गाः

स्वमोर्लुक्। दत्वम्। स्वनडुत्, स्वनडुद्। स्वनडुही। चतुरनडुहोरित्याम्। स्वनड्वांहि। पुनस्तद्वत्। शेषं पुंवत्॥ वाः। वारी। वारि। वार्भ्याम्॥ चत्वारि॥ किम्। के। कानि॥ इदम्। इमे। इमानि॥ (अन्वादेशे नपुंसके वा एनद्वक्तव्यः)। एनत्। एने। एनानि। एनेन। एनयोः॥ अहः। विभाषा ङिश्योः। अह्नी, अहनी। अहानि॥

अहन्॥ (लसक_३६५ = पा_८,२.८६)
अहन्नित्यस्य रुः पदान्ते। अहोभ्याम्॥ दण्डि। दण्डिनी। दण्डीनि। दण्डिना। दण्डिभ्याम्॥ सुपथि। टेर्लोपः। सुपथी। सुपन्थानि॥ ऊर्क, ऊर्ग। ऊर्जी। ऊन्र्जि। नरजानां संयोगः। तत्। ते। तानि॥ यत्। ये। यानि॥ एतत्। एते। एतानि॥ गवाक्, गवाग्। गोची। गवाञ्चि। पुनस्तद्वत्। गोचा। गवाग्भ्याम्॥ शकृत्। शकृती। शकृन्ति॥ ददत्॥

वा नपुंसकस्य॥ (लसक_३६६ = पा_७,१.७९)
अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य वा नुम् सर्वनामस्थाने। ददन्ति, ददति॥ तुदत्॥

आच्छीनद्ययोर्नुम्॥ (लसक_३६७ = पा_७,१.८०)
अवर्णान्तादङ्गात्परो यः शतुरवयस्तदन्तस्य नुम् वा शीनद्योः। तुदन्ती, तुदती। तुदन्ति॥

शप्श्यनोर्नित्यम्॥ (लसक_३६८ = पा_७,१.८१)
शप्श्यनोरात्परो यः शतुरवयवस्तदन्तस्य नित्यं नुम् शीनद्योः। पचन्ती। पचन्ति। दीव्यत्। दीव्यन्ती। दीव्यन्ति॥ धनुः। धनुषी। सान्तेति दीर्घः। नुम्विसर्जनीयेति षः। धनुषि। धनुषा। धनुर्भ्याम्। एवं चक्षुर्हविरादयः॥ पयः। पयसी। पयांसि। पयसा। पयाभ्याम्॥ सुपुम्। सुपुंसी। सुपुमांसि॥ अदः। विभक्तिकार्यम्। उत्वमत्वे। अमू। अमूनि। शेषं पुंवत्॥ ,

इति हलन्तनपुंसकलिङ्गाः।

इति षड्लिङ्गप्रकरणम्।

अथाव्ययानि

स्वरादिनिपातमव्ययम्॥ (लसक_३६९ = पा_१,१.३७)
स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः। स्वर्। अन्तर्। प्रातर्। पुनर्। सनुतर्। उच्चैस्। नीचैस्। शनैस्। ऋधक्। ऋते। युगपत्। आरात्। पृथक्। ह्यस्। श्वस्। दिवा। रात्रौ। सायम्। चिरम्। मनाक्। ईषत्। जोषम्। तूष्णीम्। बहिस्। अवस्। समया। निकषा। स्वयम्। वृथा। नक्तम्। नञ्। हेतौ। इद्धा। अद्धा। सामि। वत्। ब्राह्मणवत्। क्षत्रियवत्॥ सना। सनत्। सनात्। उपधा। तिरस्। अन्तरा। अन्तरेण। ज्योक्। कम्। षम्। सहसा। विना। नाना। स्वस्ति। स्वधा। अलम्। वषट्। श्रौषट्। वौषट्। अन्यत्। अस्ति। उपांशु। क्षमा। विहायसा। दोषा। मृषा। मिथ्या। मुधा। पुरा। मिथो। मिथस्। प्रायस्। मुहुस्। प्रवाहुकम्, प्रवाहिका। आर्यहलम्। अभीक्ष्णम्। साकम्। सार्धम्। नमस्। हिरुक्। धिक्। अथ। अम्। आम्। प्रताम्। प्रशान्। प्रतान्। मा। माङ्। आकृतिगणो ऽयम्॥
च। वा। ह। अह। एव। एवम्। नूनम्। शश्वत्। युगपत्। भूयस्। कूपत्। कुवित्। नेत्। चेत्। चण्। कच्चित्। यत्र। नह। हन्त। माकिः। माकिम्। नकिः। नकिम्। माङ्। नञ्। यावत्। तावत्। त्वे। द्वै। त्वै। रै। श्रौषट्। वौषट्। स्वाहा। स्वधा। वषट्। तुम्। तथाहि। खलु। किल। अथो। अथ। सुष्ठु। स्म। आदह। (उपसर्गविभक्तिस्वरप्रतिरूपकाश्च)/ अवदत्तम्। अहंयुः। अस्तिक्षीरा। अ। आ। इ। ई। उ। ऊ। ए। ऐ। ओ। औ। पशु। शुकम्। यथाकथाच। पाट्। प्याट्। अङ्ग। है। हे। भोः। अये। द्य। विषु। एकपदे। युत्। आतः। चादिरप्याकृतिगणः॥
तसिलादयः प्राक् पाशपः। शस्प्रभृतयः प्राक् समासान्तेभ्यः। अम्। आम्। कृत्वोर्थाः। तसिवती। नानाञौ। एतदन्तमप्यव्ययम्॥

कृन्मेजन्तः॥ (लसक_३७० = पा_१,१.३९)
कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात्। स्मारं स्मारम्। जीवसे। पिबध्यै॥

क्त्वातोसुन्कसुनः॥ (लसक_३७१ = पा_१,१.४०)
एतदन्तमव्ययम्। कृत्वा। उदेतोः। विसृपः॥

अव्ययीभावश्च॥ (लसक_३७२ = पा_१,१.४१)
अधिहरि॥

अव्ययादाप्सुपः॥ (लसक_३७३ = पा_२,४.८२)
अव्ययाद्विहितस्यापः सुपश्च लुक्। तत्र शालायाम्॥
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।&न्ब्स्प्॑वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥
वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः। आपं चैव हलन्तानां यथा वाचा निशा दिशा॥
वगाहः, अवगाहः। पिधानम्, अपिधानम्॥

इत्यव्ययानि॥

अथ तिङन्ते भ्वादयः

लट्, लिट्, लुट्, ऌट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, ऌङ्। एषु पञ्चमो लकारश्छन्दोमात्रगोचरः॥

लः कर्मणि च भावे चाकर्मकेभ्यः॥ (लसक_३७५ = पा_३,४.६९)
लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च॥

वर्तमाने लट्॥ (लसक_३७६ = पा_३,२.१२३)
वर्तमान क्रिया वृत्तेर्धातोर्लट् स्यात्। अटावितौ। उच्चारण सामर्थ्याल्लस्य नेत्वम्। भू सत्तायाम्॥ १॥ कर्तृ विवक्षायां भू ल् इति स्थिते --- .

तिप्तस्झिसिप्थस्थमिब्वस्मस्ताताञ्झथासाथाम्ध्वमिड्वहिमहिङ्॥ (लसक_३७७ = पा_३,४.७८)
एते ऽष्टादश लादेशाः स्युः॥

लः परस्मैपदम्॥ (लसक_३७८ = पा_१,४.९९)
लादेशाः परस्मैपद संज्ञाः स्युः॥

तङानावात्मनेपदम्॥ (लसक_३७९ = पा_१,४.१००)
तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः। पूर्व संज्ञापवादः॥

अनुदात्तङित आत्मनेपदम्॥ (लसक_३८० = पा_१,३.१२)
अनुदात्तेतो ङितश्च धातोरात्मनेपदं स्यात्॥

स्वरितञितः कर्त्रभिप्राये क्रियाफले॥ (लसक_३८१ = पा_१,३.७२)
स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले॥

शेषात्कर्तरि परस्मैपदम्॥ (लसक_३८२ = पा_१,३.७८)
आत्मनेपद निमित्त हीनाद्धातोः कर्तरि परस्मैपदं स्यात्॥

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः॥ (लसक_३८३ = पा_१,४.१०१)
तिङ उभयोः पदयोस्त्रिकाः क्रमादेतत्संज्ञाः स्युः॥

तान्येकवचनद्विवचनबहुवचनान्येकशः॥ (लसक_३८४ = पा_१,४.१०२)
लब्ध प्रथमादि संज्ञानि तिङस्त्रीणि त्रीणि प्रत्येकमेकवचनादि संज्ञानि स्युः॥

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः॥ (लसक_३८५ = पा_१,४.१०५)
तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमाने ऽप्रयुज्यमाने च मध्यमः॥

अस्मद्युत्तमः॥ (लसक_३८६ = पा_१,४.१०७)
तथाभूते ऽस्मद्युत्तमः॥

शेषे प्रथमः॥ (लसक_३८७ = पा_१,४.१०८)
मध्यमोत्तमयोरविषये प्रथमः स्यात्। भू ति इति जाते॥

तिङ् शित्सार्वधातुकम्॥ (लसक_३८८ = पा_३,४.११३)
तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः॥

कर्तरि शप्॥ (लसक_३८९ = पा_३,१.६८)
कर्त्रर्थे सार्वधातुके परे धातोः शप्॥

सार्वधातुकार्धधातुकयोः॥ (लसक_३९० = पा_७,३.८४)
अनयोः परयोरिगन्ताङ्गस्य गुणः। अवादेशः। भवति। भवतः॥

झो ऽन्तः॥ (लसक_३९१ = पा_७,१.३)
प्रत्ययावयवस्य झस्यान्तादेशः। अतो गुणे। भवन्ति। भवसि। भवथः। भवथ॥

अतो दीर्घो यञि॥ (लसक_३९२ = पा_७,३.१०१)
अतो ऽङ्गस्य दीर्घो यञादौ सार्वधातुके। भवामि। भवावः। भवामः। स भवति। तौ भवतः। ते भवन्ति। त्वं भवसि। युवां भवथः। यूयं भवथ। अहं भवामि। आवां भवावः। वयं भवामः॥

परोक्षे लिट्॥ (लसक_३९३ = पा_३,२.११५)
भूतानद्यतन परोक्षार्थवृत्तेर् धातोर्लिट् स्यात्। लस्य तिबादयः।

परस्मैपदानां णलतुसुस्थलथुसणल्वमाः॥ (लसक_३९४ = पा_३,४.८२)
लिटस्तिबादीनां नवानां णलादयः स्युः। भू अ इति स्थिते -- .

भुवो वुग्लुङ्लिटोः॥ (लसक_३९५ = पा_६,४.८८)
भुवो वुगागमः स्यात् लुङ्लिटोरचि॥

लिटि धातोरनभ्यासस्य॥ (लसक_३९६ = पा_६,१.८)
लिटि परे ऽनभ्यासधात्ववयस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य। भूव् भूव् अ इति स्थिते -- .

पूर्वो ऽभ्यासः॥ (लसक_३९७ = पा_६,१.४)
अत्र ये द्वे विहिते तयोः पूर्वो ऽभ्याससंज्ञः स्यात्॥

हलादिः शेषः॥ (लसक_३९८ = पा_७,४.६०)
अभ्यासस्यादिर्हल् शिष्यते अन्ये हलो लुप्यन्ते। इति वलोपः॥

ह्रस्वः॥ (लसक_३९९ = पा_७,४.५९)
अभ्यासत्याचो ह्रस्वः स्यात्॥

भवतेरः॥ (लसक_४०० = पा_७,४.७३)
भवतेरभ्यासोकारस्य अः स्याल्लिटि॥

अभ्यासे चर्च॥ (लसक_४०१ = पा_८,४.५४)
अभ्यासे झलां चरः स्युर्जशश्च। झशां जशः खयां चर इति विवेकः। बभूव। बभुवतुः। बभूवुः॥

लिट् च॥ (लसक_४०२ = पा_३,४.११५)
लिडादेशस्तिङ्ङार्धधातुकसंज्ञः॥

आर्धधातुकस्येड्वलादेः॥ (लसक_४०३ = पा_७,२.३५)
वलादेरार्धधातुरस्येडागमः स्यात्। बभूविथ। बभूवथुः। बभूव। बभूव। बभूविव। बभूविम।

अनद्यतने लुट्॥ (लसक_४०४ = पा_३,३.१५)
भविष्यत्यनद्यतनेर्ऽथे धातोर्लुट् स्यात्॥

स्यतासी ऌलुटोः॥ (लसक_४०५ = पा_३,१.३३)
धातोः स्य तासि एतौ प्रत्ययौ स्तो ऌलुटोः परतः। शबाद्यपवादः। इति ऌङॢटोर्ग्रहणम्।

आर्धधातुकं शेषः॥ (लसक_४०६ = पा_२,४.११४)
तिङ्शिद्भ्यो ऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात्। इट्॥

लुटः प्रथमस्य डारौरसः॥ (लसक_४०७ = पा_२,४.८५)
डा रौ रस् एते क्रमात्स्युः। डित्वसामर्थ्यादभस्यापि टेर्लोपः। भविता॥

तासस्त्योर्लोपः॥ (लसक_४०८ = पा_७,४.५०)
तासेरस्तेश्च सस्य लोपस्स्यात् सादौ प्रत्यये परे।

रि च॥ (लसक_४०९ = पा_७,४.५१)
रादौ प्रत्यये तथा। भवितारौ। भवितारः। भवितासि। भवितास्थः। भवितास्थ। भवितास्मि। भवितास्वः। भवितास्मः/

ऌट् शेषे च॥ (लसक_४१० = पा_३,३.१३)
भविष्यदर्थाद्धातोरॢट् क्रियार्थायां क्रियायां सत्यामसत्यां वा। स् य इट्। भविष्यति। भविष्यतः। भविष्यन्ति। भविष्यसि। भविष्यथः। भविष्यथ। भविष्यामि। भविष्यावः। भविष्यामः/
लोट् च॥ (लसक_४११ = पा_३,३.१६२)
विध्याद्यर्थेषु धातोर्लोट्॥

आशिषि लिङ्लोटौ॥ (लसक_४१२ = पा_३,३.१७३)

एरुः॥ (लसक_४१३ = पा_३,४.८६)
लोट इकारस्य उः। भवतु॥

तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्॥ (लसक_४१४ = पा_७,१.३५)
आशिषि तुह्योस्तातङ् वा। परत्वात्सर्वादेशः। भवतात्॥

लोटो लङ्वत्॥ (लसक_४१५ = पा_३,४.८५)
लोटस्तामादयस्सलोपश्च॥

तस्थस्थमिपां तांतंतामः॥ (लसक_४१६ = पा_३,४.१०१)
ङितश्चतुर्णां तामादयः क्रमात्स्युः। भवताम्। भवन्तु॥

सेर्ह्यपिच्च॥ (लसक_४१७ = पा_३,४.८७)
लोटः सेर्हिः सो ऽपिच्च॥

अतो हेः॥ (लसक_४१८ = पा_६,४.१०५)
अतः परस्य हेर्लुक्। भव। भवतात्। भवतम्। भवत।

मेर्निः॥ (लसक_४१९ = पा_३,४.८९)
लोटो मेर्निः स्यात्॥

आडुत्तमस्य पिच्च॥ (लसक_४२० = पा_३,४.९२)
लोडुत्तमस्याट् स्यात् पिच्च। हिन्योरुत्वं न, इकारोच्चारण सामर्थ्यात्॥

ते प्राग्धातोः॥ (लसक_४२१ = पा_१,४.८०)
ते गत्युपसर्गसंज्ञा धातोः प्रागेव प्रयोक्तव्याः॥

आनि लोट्॥ (लसक_४२२ = पा_८,४.१६)
उपसर्गसिथान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात्। प्रभवाणि / (दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः)/ दुःस्थितिः। दुर्भवानि/ (अन्तश्शब्दस्याङ्कि विधिणत्वेषूपसर्गत्वं वाच्यम्)/ अन्तर्भवाणि॥

नित्यं ङितः॥ (लसक_४२३ = पा_३,४.९९)
सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः। अलो ऽन्त्यस्येति सलोपः। भवाव। भवाम।

अनद्यतने लङ्॥ (लसक_४२४ = पा_३,२.१११)
अनद्यतन भूतार्थ वृत्तेर् धातोर् लङ् स्यात्॥

लुङ्लङॢङ्क्ष्वडुदात्तः॥ (लसक_४२५ = पा_६,४.७१)
एष्वङ्गस्याट्॥

इतश्च॥ (लसक_४२६ = पा_३,४.१००)
ङितो लस्य परस्मैपदमिकारान्तं यत्तदन्तस्य लोपः। अभवत्। अभवताम्। अभवन्। अभवः। अभवतम्। अभवत। अभवम्। अभवाव। अभवाम॥

विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्॥ (लसक_४२७ = पा_३,३.१६१)
एष्वर्थेषु धातोर्लिङ्॥

यासुट् परस्मैपदेषूदात्तो ङिच्च॥ (लसक_४२८ = पा_३,४.१०३)
लिङः परस्मैपदानां यासुडागमो ङिच्च॥

लिङः सलोपो ऽनन्त्यस्य॥ (लसक_४२९ = पा_७,२.७९)
सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः। इति प्राप्ते -- .

अतो येयः॥ (लसक_४३० = पा_७,२.८०)
अतः परस्य सार्वधातुकावयवस्य यास् इत्यस्य इय्। गुणः॥

लोपो व्योर्वलि॥ (लसक_४३१ = पा_६,१.६६)
भवेत्। भवेताम्।

झेर्जुस्॥ (लसक_४३२ = पा_३,४.१०८)
लिङो झेर्जुस् स्यात्। भवेयुः। भवेः। भवेतम्। भवेत। भवेयम्। भवेव। भवेम॥

लिङाशिषि॥ (लसक_४३३ = पा_३,४.११६)
आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात्॥

किदाशिषि॥ (लसक_४३४ = पा_३,४.१०४)
आशिषि लिङो यासुट् कित्। स्कोः संयोगाद्योरिति सलोपः॥

क्ङिति च॥ (लसक_४३५ = पा_१,१.५)
गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः। भूयात्। भूयास्ताम्। भूयासुः। भूयाः। भूयास्तम्। भूयास्त। भूयासम्। भूयास्व। भूयास्म।

लुङ्॥ (लसक_४३६ = पा_३,२.११०)
भूतार्थे धातोर्लुङ् स्यात्॥

माङि लुङ्॥ (लसक_४३७ = पा_३,३.१७५)
सर्वलकारापवादः॥

स्मोत्तरे लङ् च॥ (लसक_४३८ = पा_३,३.१७६)
स्मोत्तरे माङि लङ् स्याच्चाल्लुङ्॥

च्लि लुङि॥ (लसक_४३९ = पा_३,१.४३)
शबाद्यपवादः॥

च्लेः सिच्॥ (लसक_४४० = पा_३,१.४४)
इचावितौ॥

गातिस्थापाभूभ्यः सिचः परस्मैपदेषु॥ (लसक_४४१ = पा_२,४.७७)
एभ्यः सिचो लुक् स्यात्। गापाविहेणादेशपिबती गृह्यते॥

भूसुवोस्तिङि॥ (लसक_४४२ = पा_७,३.८८)
भू सू एतयोः सार्वधातुके तिङि परे गुणो न। अभूत्। अभूताम्। अभूवन्। अभूः। अभूतम्। अभूत। अभूवम्। अभूव। अभूम।

न माङ्योगे॥ (लसक_४४३ = पा_६,४.७४)
अडाटौ न स्तः। मा भवान् भूत्। मा स्म भवत्। मा स्म भूत्॥

लिङ्निमित्ते ऌङ् क्रियातिपत्तौ॥ (लसक_४४४ = पा_३,३.१३९)
हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यत्यर्थे ऌङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम्। अभविष्यत्। अभविष्यताम्। अभविष्यन्। अभविष्यः। अभविष्यतम्। अभविष्यत। अभविष्यम्। अभविष्याव। अभविष्याम। सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत्, इत्यादि ज्ञेयम्॥ अत सातत्यगमने॥ २॥ अतति॥

अत आदेः॥ (लसक_४४५ = पा_६,४.७०)
अभ्यासस्यादेरतो दीर्घः स्यात्। आत। आततुः। आतुः। आतिथ। आतथुः। आत। आत। आतिव। आतिम। अतिता। अतिष्यति। अततु॥

आडजादीनाम्॥ (लसक_४४६ = पा_६,४.७२)
अजादेरङ्गस्याट् लुङ्लङॢङ्क्षु। आतत्। अतेत्। अत्यात्। अत्यास्ताम्। लुङि सिचि इडागमे कृते --- .

अस्तिसिचो ऽपृक्ते॥ (लसक_४४७ = पा_७,३.९६)
विद्यमानात् सिचो ऽस्तेश्च परस्यापृक्तस्य हल ईडागमः॥

इट ईटि॥ (लसक_४४८ = पा_८,२.२८)
इटः परस्य सस्य लोपः स्यादीटि परे। (सिज्लोप एकादेशे सिद्धो वाच्यः)। आतीत्। आतिष्टाम्॥

सिजभ्यस्तविदिभ्यश्च॥ (लसक_४४९ = पा_३,४.१०९)
सिचो ऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस्। आतिषुः। आतीः। आतिष्टम्। आतिष्ट। आतिषम्। आतिष्व। आतिष्म। आतिष्यत्॥ षिध गत्याम्॥ ३॥

ह्रस्वं लघु॥ (लसक_४५० = पा_१,४.१०)

संयोगे गरु॥ (लसक_४५१ = पा_१,४.११)
संयोगे परे ह्रस्वं गुरु स्यात्॥

दीर्घं च॥ (लसक_४५२ = पा_१,४.१२)
गुरु स्यात्॥

पुगन्तलघूपधस्य च॥ (लसक_४५३ = पा_७,३.८६)
पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः सार्वधातुकार्धधातुकयोः। धात्वादेरिति सः। सेधति। षत्वम्। सिषेध॥

असंयोगाल्लिट् कित्॥ (लसक_४५४ = पा_१,२.५)
असंयोगात्परो ऽपिल्लिट् कित् स्यात्। सिषिधतुः। सिषिधुः। सिषेधिथ। सिषिधथुः। सिषिध। सिषेध। सिषिधिव। सिषिधिम। सेधिता। सेधिष्यति। सेधतु। असेधत्। सेधेत्। सिध्यात्। असेधीत्। असेधिष्यत्। एवम् -- चिती संज्ञाने॥ ४॥ शुच शोके॥ ५॥ गद व्यक्तायां वाचि॥ ६॥ गदति॥

नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यति चिनोतिदेग्धिषु च॥ (लसक_४५५ = पा_८,४.१७)
उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णो गदादिषु परेषु। प्रणिगदति॥

कुहोश्चुः॥ (लसक_४५६ = पा_७,४.६२)
अभ्यासकवर्गहकारयोश्चवर्गादेशः॥

अत अपधायाः॥ (लसक_४५७ = पा_७,२.११६)
उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे। जगाद। जगदतुः। जगदुः। जगदिथ। जगदथुः। जगद॥

णलुत्तमो वा॥ (लसक_४५८ = पा_७,१.९१)
उत्तमो णल् वा णित्स्यात्। जगाद, जगद। जगदिव। जगदिम। गदिता। गदिष्यति। गदतु। अगदत्। गदेत्। गद्यात्॥

अतो हलादेर्लघोः॥ (लसक_४५९ = पा_७,२.७)
हलादेर्लघोरकारस्य वृद्धिर्वेडादौ परस्मैपदे सिचि। अगादीत्, अगदीत्। अगदिष्यत्॥ णद अव्यक्ते शब्दे॥ ७॥

णो नः॥ (लसक_४६० = पा_६,१.६५)
धात्वादेर्णस्य नः। णोपदेशास्त्वनर्द्नाटिनाथ्नाध्नन्दनक्कनॄनृतः॥

उपसर्गादसमासे ऽपि णोपदेशस्य॥ (लसक_४६१ = पा_८,४.१४)
उपसर्गस्थान्निमित्तात्परस्य धातोर्नस्य णः। प्रणदति। प्रणिनदति। नदति। ननाद॥

अत एकहल्मध्ये ऽनादेशादेर्लिटि॥ (लसक_४६२ = पा_६,४.१२०)
लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्यात एत्वमभ्यासलोपश्च किति लिटि। नेदतुः। नेदुः॥

थलि च सेटि॥ (लसक_४६३ = पा_६,४.१२१)
प्रागुक्तं स्यात्। नेदिथ। नेदथुः। नेद। ननाद, ननद। नेदिव। नेदिम। नदिता। नदिष्यति। नदतु। अनदत्। नदेत्। नद्यात्। अनादीत्, अनदीत्। अनदिष्यत्॥ टु नदि समृद्धौ॥ ८॥

आदिर्ञिटुडवः॥ (लसक_४६४ = पा_१,३.५)
उपदेशे धातोराद्या एते इतः स्युः॥

इदितो नुम् धातोः॥ (लसक_४६५ = पा_७,१.५८)
नन्दति। ननन्द। नन्दिता। नन्दिष्यति। नन्दतु। अनन्दत्। नन्देत्। नन्द्यात्। अनन्दीत्। अनन्दिष्यत्। अर्च पूजायाम्॥ ९॥ अर्चति॥

तस्मान्नुड् द्विहलः॥ (लसक_४६६ = पा_७,४.७१)
द्विहलो धातोर्दीर्घीभूतात्परस्य नुट् स्यात्। आनर्च। आनर्चतुः। अर्चिता। अर्चिष्यति। अर्चतु। आर्चत्। अर्चेत्। अर्च्यात्। आर्चीत्। आर्चिष्यत्॥ व्रज गतौ॥ १०॥ व्रजति। वव्राज। व्रजिता। व्रजिष्यति। व्रजतु। अव्रजत्। व्रजेत्। व्रज्यात्॥

वदव्रजहलन्तस्याचः॥ (लसक_४६७ = पा_७,२.३)
एषामचो वृद्धिः सिचि परस्मैपदेषु। अव्राजीत्। अव्रजिष्यत्॥ कटे वर्षावरणयोः॥ ११॥ कटति। चकाट। चकटतुः। कटिता। कटिष्यति। कटतु। अकटत्। कटेत्। कट्यात्॥

ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्॥ (लसक_४६८ = पा_७,२.५)
हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नेडादौ सिचि। अकटीत्। अकटिष्यत्॥ गुपू रक्षणे॥ १२॥

गुपूधूपविच्छिपणिपनिभ्य आयः॥ (लसक_४६९ = पा_३,१.२८)
एभ्य आयः प्रत्ययः स्यात् स्वार्थे॥

सनाद्यन्ता धातवः॥ (लसक_४७० = पा_३,१.३२)
सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञकाः। धातुत्वाल्लडादयः। गोपायति॥

आयादय आर्धधातुके वा॥ (लसक_४७१ = पा_३,१.३१)
आर्धधातुकविवक्षायामायादयो वा स्युः। (कास्यनेकाच आम् वक्तव्यः)। लिटि आस्कासोराम्विधानान्मस्य नेत्त्वम्॥

अतो लोपः॥ (लसक_४७२ = पा_६,४.४८)
आर्धधातुकोपदेशे यददन्तं तस्यातो लोप आर्धधातुके॥

आमः॥ (लसक_४७३ = पा_२,४.८१)
आमः परस्य लुक्॥

कृञ् चानुप्रयुज्यते लिटि॥ (लसक_४७४ = पा_३,१.४०)
आमन्ताल्लिट्पराः कृभ्वस्तयो ऽनुप्रयुज्यन्ते। तेषां द्वित्वादि॥

उरत्॥ (लसक_४७५ = पा_७,४.६६)
अभ्यासऋवर्णस्यात् प्रत्यये। रपरः। हलादिः शेषः। वृद्धिः। गोपायाञ्चकार। द्वित्वात्परत्वाद्यणि प्राप्ते ----- .

द्विर्वचने ऽचि॥ (लसक_४७६ = पा_१,१.५९)
द्वित्वनिमित्ते ऽचि अच आदेशो न द्वित्वे कर्तव्ये। गोपायाञ्चक्रतुः॥

एकाच उपदेशे ऽनुदात्तात्॥ (लसक_४७७ = पा_७,२.१०)
उपदेशे यो धातुरेकाजनुदात्तश्च तत आर्धधातुकस्येण्न।
&न्ब्स्प्॑ूदॄदन्तैर्यौतिरुक्ष्णुशीङ्स्नुनुक्षुश्विडीङ्श्रिभिः।
&न्ब्स्प्॑वृङ्वृञ्भ्यां च विनैकाचो ऽजन्तेषु निहताः स्मृताः॥
कान्तेषु शक्लेकः। चान्तेषु पच्मुच्रिच्वच्विच्सिचः षट्। छान्तेषु प्रच्छेकः। जान्तेषु त्यज्निजिर्भज्भञ्ज्भुज्भ्रस्ज्मस्ज्यज्युज्रुज् रञ्ज्विजिर्स्वञ्ज्सञ्ज्सृजः पञ्चदश॥ दान्तेषु अद्क्षुद्खिद्छिद्तुद् नुद्पद्यभिद्विद्यतिविनद्विन्द्शद्सद्स्विद्यस्कन्धदः षोडश। धान्तेषु क्रुध्क्षुध्बुध्यबन्ध्युध्रुध्राध्व्यध्साध्शुध्सिध्या एकादश। नान्तेषु मन्यहनी द्वौ। पान्तेषु आप्छुप्क्षिप्तप्तिप्तृप्यदृप्यलिपलुप्वप्शप्स्वप् सृपस्त्रयोदश। भान्तेषु यभ्रभ्लभस्त्रयः। मान्तेषु गम्यम्नम्रमश्चत्वारः। शान्तेषु क्रश्दंश्दिश्दृश्मृश्रिश्रुश्लिश्विश्स्पृशो दश। षान्तेषु कृष् त्विष्तुष्द्विष्पुष्यपिष्विष्शिष्शुष्श्लिष्या एकादश॥ सान्तेषु घस्वसती द्वौ। हान्तेषु दह्दिह्दुह्नह्मिह्रुह्लिह्वहो ऽष्टौ।
&न्ब्स्प्॑नुदात्ता हलन्तेषु धातवस्त्र्यधिकं शतम्।
गोपायाञ्चकर्थ। गोपायाञ्चक्रथुः। गोपायाञ्चक्र। गोपायाञ्चकार। गोपायाञ्चकर। गोपायाञ्चकृव। गोपायाञ्चकृम। गोपायाम्बभूव, गोपायामास। जुगोप। जुगुपतुः। जुगुपुः॥

स्वरतिसूतिसूयतिधूञूदितो वा॥ (लसक_४७८ = पा_७,२.४४)
स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड् वा स्यात्। जुगोपिथ, जुगोप्थ। गोपायिता, गोपिता, गोप्ता। गोपायिष्यति, गोपिष्यति, गोप्स्यति। गोपायतु। अगोपायत्। गोपायेत्। गोपाय्यात्, गुप्यात्। अगोपायीत्॥

नेटि॥ (लसक_४७९ = पा_७,२.४)
इडादौ सिचि हलन्तस्य वृद्धिर्न। अगोपीत्, अगौप्सीत्॥

झलो झलि॥ (लसक_४८० = पा_८,२.२६)
झलः परस्य सस्य लोपो झलि। अगौप्ताम्। अगौप्सुः। अगौप्सीः। अगौप्तम्। अगौप्त। अगौप्सम्। अगौप्स्व। अगौप्स्म। अगोपायिष्यत्, अगोपिष्यत्, अगोप्स्यत्॥ क्षि क्षये॥ १३॥ क्षयति। चिक्षाय। चिक्षियतुः। चिक्षियुः। एकाच इति निषेधे प्राप्ते -- .

कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि॥ (लसक_४८१ = पा_७,२.१३)
क्रादिभ्य एव लिट इण्न स्यादन्यस्मादनिटो ऽपि स्यात्॥

अचस्तास्वत्थल्यनिटो नित्यम्॥ (लसक_४८२ = पा_७,२.६१)
उपदेशे ऽजन्तो यो धातुस्तासौ नित्यानिट् ततस्थल इण्न॥

उपदेशे ऽत्वतः॥ (लसक_४८३ = पा_७,२.६२)
उपदेशे ऽकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात्॥

ऋतो भारद्वाजस्य॥ (लसक_४८४ = पा_७,२.६३)
तासौ नित्यानिट ऋदन्तादेव थलो नेट् भारद्वाजस्य मते। तेन अन्यस्य स्यादेव। अयमत्र संग्रहः --- &न्ब्स्प्॑जन्तो ऽकारवान्वा यस्तास्यनिट्थलि वेडयम्।
&न्ब्स्प्॑ृदन्त ईदृङ्नित्यानिट् क्राद्यन्यो लिटि सेड्भवेत्॥
चिक्षयिथ, चिक्षेथ। चिक्षियथुः। चिक्षिय। चिक्षाय, चिक्षय। चिक्षियिव। चिक्षियिम। क्षेता। क्षेष्यति। क्षयतु। अक्षयत्। क्षयेत्॥

अकृत्सार्वधातुकयोर्दीर्घः॥ (लसक_४८५ = पा_७,४.२५)
अजन्ताङ्गस्य दीर्घो यादौ प्रत्यये न तु कृत्सार्वधातुकयोः। क्षीयात्॥

सिचि वृद्धिः परस्मैपदेषु॥ (लसक_४८६ = पा_७,२.१)
इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि। अक्षैषीत्। अक्षेष्यत्॥ तप सन्तापे॥ १४॥ तपति। तताप। तेपतुः। तेपुः। तेपिथ, ततप्थ। तेपिव। तेपिम। तप्ता। तप्स्यति। तपतु। अतपत्। तपेत्। तप्यात्। अताप्सीत्। अताप्ताम्। अतप्स्यत्॥ क्रमु पादविक्षेपे॥ १५॥

वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः॥ (लसक_४८७ = पा_३,१.७०)
एभ्यः श्यन्वा कर्त्रर्थे सार्वधातुके परे। पक्षे शप्॥

क्रमः परस्मैपदेषु॥ (लसक_४८८ = पा_७,३.७६)
क्रमो दीर्घः परस्मैपदे शिति। क्राम्यति, क्रामति। चक्राम। क्रमिता। क्रमिष्यति। क्राम्यतु, क्रामतु। अक्राम्यत्, अक्रामत्। क्राम्येत्। क्रामेत्। क्रम्यात्। अक्रमीत्। अक्रमिष्यत्॥ पा पाने॥ १६॥

पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः॥ (लसक_४८९ = पा_७,३.७८)
पादीनां पिबादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे। पिबादेशो ऽदन्तस्तेन न गुणः। पिबति॥

आत औ णलः॥ (लसक_४९० = पा_७,१.३४)
आदन्ताद्धातोर्णल औकारादेशः स्यात्। पपौ॥

आतो लोप इटि च॥ (लसक_४९१ = पा_६,४.६४)
अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः। पपतुः। पपुः। पपिथ, पपाथ। पपथुः। पप। पपौ। पपिव। पपिम। पाता। पास्यति। पिबतु। अपिबत्। पिबेत्॥

एर्लिङि॥ (लसक_४९२ = पा_६,४.६७)
घुसंज्ञकानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि। पेयात्। गातिस्थेति सिचो लुक्। अपात्। अपाताम्॥

आतः॥ (लसक_४९३ = पा_३,४.११०)
सिज्लुकि आदन्तादेव झेर्जुस्॥

उस्यपदान्तात्॥ (लसक_४९४ = पा_६,१.९६)
अपदान्तादकारादुसि पररूपमेकादेशः। अपुः। अपास्यत्॥ ग्लै हर्षक्षये॥ १७॥ ग्लायति॥

आदेच उपदेशे ऽशिति॥ (लसक_४९५ = पा_६,१.४५)
उपदेशे एजन्तस्य धातोरात्वं न तु शिति। जग्लौ। ग्लाता। ग्लास्यति। ग्लायतु। अग्लायत्। ग्लायेत्॥

वान्यस्य संयोगादेः॥ (लसक_४९६ = पा_६,४.६८)
घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वार्धधातुके किति लिङि। ग्लेयात्, ग्लायात्॥

यमरमनमातां सक् च॥ (लसक_४९७ = पा_७,२.७३)
एषां सक् स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु। अग्लासीत्। अग्लास्यत्॥ ह्वृ कौटिल्ये॥ १८॥ ह्वरति॥

ऋतश्च संयोगादेर्गुणः॥ (लसक_४९८ = पा_७,४.१०)
ऋदन्तस्य संयोगादेरङ्गस्य गुणो लिटि। उपधाया वृद्धिः। जह्वार। जह्वरतुः। जह्वरुः। जह्वर्थ। जह्वरथुः। जह्वर। जह्वार, जह्वर। जह्वरिव। जह्वरिम। ह्वर्ता॥

ऋद्धनोः स्ये॥ (लसक_४९९ = पा_७,२.१०)
ऋतो हन्तेश्च स्यस्येट्। ह्वरिष्यति। ह्वरतु। अह्वरत्। ह्वरेत्॥

गुणो ऽर्तिसंयोगाद्योः॥ (लसक_५०० = पा_७,४.२९)
अर्तेः संयोगादेरृदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च। ह्वर्यात्। अह्वार्षीत्। अह्वरिष्यत्॥ श्रु श्रवणे॥ १९॥

श्रुवः शृ च॥ (लसक_५०१ = पा_६,१.७४)
श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्च। शृणोति॥

सार्वधातुकमपित्॥ (लसक_५०२ = पा_१,२.४)
अपित्सार्वधातुकं ङिद्वत्। शृणुतः॥

हुश्नुवोः सार्वधातुके॥ (लसक_५०३ = पा_६,४.८७)
हुश्नुवोरनेकाचो ऽसंयोगपूर्वस्योवर्णस्य यण् स्यादचि सार्वधातुके। शृण्वन्ति। शृणोषि। शृणुथः। शृणुथ। शृणोमि॥

लोपश्चास्यान्यतरस्यां म्वोः॥ (लसक_५०४ = पा_६,४.१०७)
असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा म्वोः परयोः। शृण्वः, शृणुवः। शृण्मः, शृणुमः। शुश्राव। शुश्रुवतुः। शुश्रुवुः। शुश्रोथ। शुश्रुवथुः। शुश्रुव। शुश्राव, शुश्रव। शुश्रुव। शुश्रुम। श्रोता। श्रोष्यति। शृणोतु, शृणुतात्। शृणुताम्। शृण्वन्तु॥

उतश्च प्रत्ययादसंयोगपूर्वात्॥ (लसक_५०५ = पा_६,४.१०६)
असंयोगपूर्वात्प्रत्ययोतो हेर्लुक्। शृणु, शृणुतात्। शृणुतम्। शृणुत। गुणावादेशौ। शृणवानि। शृणवाव। शृणवाम। अशृणोत्। अशृणुताम्। अशृण्वन्। अशृणोः। अशृणुतम्। अशृणुत। अशृणवम्। अशृण्व, अशृणुव। अशृण्म, अशृणुम। शृणुयात्। शृणुयाताम्। शृणुयुः। शृणुयाः। शृणुयातम्। शृणुयात। शृणुयाम्। शृणुयाव। शृणुयाम। श्रूयात्। अश्रौषीत्। अश्रोष्यत्॥ गमॢ गतौ॥ २०॥

इषुगमियमां छः॥ (लसक_५०६ = पा_७,३.७७)
एषां छः स्यात् शिति। गच्छति। जगाम॥

गमहनजनखनघसां लोपः क्ङित्यनङि॥ (लसक_५०७ = पा_६,४.९८)
एषामुपधाया लोपो ऽजादौ क्ङिति न त्वङि। जग्मतुः। जग्मुः। जगमिथ, जगन्थ। जग्मथुः। जग्म। जगाम, जगम। जग्मिव। जग्मिम। गन्ता॥

गमेरिट् परस्मैपदेषु॥ (लसक_५०८ = पा_७,२.५८)
गमेः परस्य सादेरार्धधातुकस्येट् स्यात् परस्मैपदेषु। गमिष्यति। गच्छतु। अगच्छत्। गच्छेत्। गम्यात्॥

पुषादिद्युताद्यॢदितः परस्मैपदेषु॥ (लसक_५०९ = पा_३,१.५५)
श्यन्विकरणपुषादेर्द्युतादेरॢदितश्च च्लेरङ् परस्मैपदेषु। अगमत्। अगमिष्यत्॥
इति परस्मैपदिनः।
एध वृद्धौ॥ १॥

टित आत्मनपदानां टेरे॥ (लसक_५१० = पा_३,४.७९)
टितो लस्यात्मनेपदानां टेरेत्वम्। एधते॥

आतो ङितः॥ (लसक_५११ = पा_७,२.८१)
अतः परस्य ङितामाकारस्य इय् स्यात्। एधेते। एधन्ते॥

थासः से॥ (लसक_५१२ = पा_३,४.८०)
टितो लस्य थासः से स्यात्। एधसे। एधेथे। एधध्वे। अतो गुणे। एधे। एधावहे। एधामहे॥

इजादेश्च गुरुमतो ऽनृच्छः॥ (लसक_५१३ = पा_३,१.३६)
इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि॥

आम्प्रत्ययवत्कृञो ऽनुप्रयोगस्य॥ (लसक_५१४ = पा_१,३.६३)
आम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः। आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात् कृञो ऽप्यात्मनेपदम्॥

लिटस्तझयोरेशिरेच्॥ (लसक_५१५ = पा_३,४.८१)
लिडादेशयोस्तझयोरेश् इरेजेतौ स्तः। एधाञ्चक्रे। एधाञ्चक्राते। एधाञ्चक्रिरे। एधाञ्चकृषे। एधाञ्चक्राथे॥

इणः षीध्वंलुङ्लिटां धो ऽङ्गात्॥ (लसक_५१६ = पा_८,३.७८)
इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य ढः स्यात्॥ एधाञ्चकृढ्वे। एधाञ्चक्रे। एधाञ्चकृवहे। एधाञ्चकृमहे। एधाम्बभूव। एधामास। एधिता। एधितारौ। एधितारः। एधितासे। एधितासाथे॥

धि च॥ (लसक_५१७ = पा_८,२.२५)
धादौ प्रत्यये परे सस्य लोपः। एधिताध्वे॥

ह एति॥ (लसक_५१८ = पा_७,४.२५)
तासस्त्योः सस्य हः स्यादेति परे। एधिताहे। एधितास्वहे। एधितास्महे। एधिष्यते। एधिष्येते। एधिष्यन्ते। एधिष्यसे। एधिष्येथे। एधिष्यध्वे। एधिष्ये। एधिष्यावहे। एधिष्यामहे॥

आमेतः॥ (लसक_५१९ = पा_३,४.९०)
लोट एकारस्याम् स्यात्। एधताम्। एधेताम्। एधन्ताम्॥

सवाभ्यां वामौ॥ (लसक_५२० = पा_३,४.९१)
सवाभ्याम् परस्य लोडेतः क्रमाद्वामौ स्तः। एधस्व। एधेथाम्। एधध्वम्॥

एत ऐ॥ (लसक_५२१ = पा_३,४.९३)
लोडुत्तमस्य एत ऐ स्यात्। एधै। एधावहै। एधामहै॥ आटश्च। ऐधत। ऐधेताम्। ऐधन्त। ऐधथाः। ऐधेथाम्। ऐधध्वम्। ऐधे। ऐधावहि। ऐधामहि॥

लिडः सीयुट्॥ (लसक_५२२ = पा_३,४.१०२)
सलोपः। एधेत। एधेयाताम्॥

झस्य रन्॥ (लसक_५२३ = पा_३,४.१०५)
लिङो झस्य रन् स्यात्। एधेरन्। एधेथाः। एधेयाथाम्। एधेध्वम्॥

इटो ऽत्॥ (लसक_५२४ = पा_३,४.१०६)
लिङादेशस्य इटो ऽत्स्यात्। एधेय। एधेवहि। एधेमहि॥

सुट् तिथोः॥ (लसक_५२५ = पा_३,४.१०७)
लिङस्तथोः सुट्। यलोपः। आर्धधातुकत्वात्सलोपो न। एधिषीष्ट। एधिषीयास्ताम्। एधिषीरन्। एधिषीष्ठाः। एधिषीयास्थाम्। एधिषीध्वम्। एधिषीय। एधिषीवहि। एधिषीमहि। ऐधिष्ट। ऐधिषाताम्॥

आत्मनेपदेष्वनतः॥ (लसक_५२६ = पा_७,१.५)
अनकारात्परस्यात्मनेपदेषु झस्य अदित्यादेशः स्यात्। ऐधिषत। ऐधिष्ठाः। ऐधिषाथाम्। ऐधिढ्वम्। ऐधिषि। ऐधिष्वहि। ऐधिष्महि। ऐधिष्यत। ऐधिष्येताम्। ऐधिष्यन्त। ऐधिष्यथाः। ऐधिष्येथाम्। ऐधिष्यध्वम्। ऐधिष्ये। ऐधिष्यावहि। ऐधिष्यामहि॥ कमु कान्तौ॥ २॥

क्रमेर्णिङ्॥ (लसक_५२७ = पा_३,१.३०)
स्वार्थे। ङित्त्वात्तङ्। कामयते॥

अयामन्ताल्वाय्येत्न्विष्णुषु॥ (लसक_५२८ = पा_६,४.५५)
आम् अन्त आलु आय्य इत्नु इष्णु एषु णेरयादेशः स्यात्। कामायाञ्चक्रे। आयादय इति णिङ् वा। चकमे। चकमाते। चकमिरे। चकमिषे। चकमाथे। चकमिध्वे। चकमे। चकमिवहे। चकमिमहे। कामयिता। कामयितासे। कमिता। कामयिष्यते, कमिष्यते। कामयताम्। अकामयत। कामयेत। कामयिषीष्ट॥

विभाषेटः॥ (लसक_५२९ = पा_८,३.७९)
इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा ढः। कामयिषीढ्वम्, कामयिषीध्वम्। कमिषीष्ट। कमिषीध्वम्॥

णिश्रिद्रुश्रुभ्यः कर्तरि चङ्॥ (लसक_५३० = पा_३,१.४८)
ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ् स्यात् कर्त्रर्थे लुङि परे। अकामि अ त इति स्थिते -- .

णेरनिटि॥ (लसक_५३१ = पा_६,४.५१)
अनिडादावार्धधातुके परे णेर्लोपः स्यात्।

णौ चङ्युपधाया ह्रस्वः॥ (लसक_५३२ = पा_७,४.१)
चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात्॥

चङि॥ (लसक_५३३ = पा_६,१.११)
चङि परे अनभ्यासस्य धात्ववयवस्यैकाचः प्रथमस्य द्वे स्तो ऽजादेर्द्वितीयस्य॥

सन्वल्लघुनि चङ्परे ऽनग्लोपे॥ (लसक_५३४ = पा_७,४.९३)
चङ्परे णौ यदङ्गं तस्य यो ऽभ्यासो लघुपरः, तस्य सनीव कार्यं स्याण्णावग्लोपे ऽसति॥

सन्यतः॥ (लसक_५३५ = पा_७,४.७९)
अभ्यासस्यात इत् स्यात् सनि॥

दीर्घो लघोः॥ (लसक_५३६ = पा_७,४.९४)
लघोरभ्यासस्य दीर्घः स्यात् सन्वद्भावविषये। अचीकमत, णिङ्भावपक्षे -- (कमेश्च्लेश्चङ् वाच्यः)। अचकमत। अकामयिष्यत, अकमिष्यत॥ अय गतौ॥ ३॥ अयते॥

उपसर्गस्यायतौ॥ (लसक_५३७ = पा_८,२.१९)
अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात्। प्लायते। पलायते॥

दयायासश्च॥ (लसक_५३८ = पा_३,१.३७)
दय् अय् आस् एभ्य आम् स्याल्लिटि। अयाञ्चक्रे। अयिता। अयिष्यते। अयताम्। आयत। अयेत। अयिषीष्ट। विभाषेटः। अयिषीढ्वम्, अयिषीध्वम्। आयिष्ट। आयिढ्वम्, आयिध्वम्। आयिष्यत॥ द्युत दीप्तौ॥ ४॥ द्योतते॥

द्युतिस्वाप्योः सम्प्रसारणम्॥ (लसक_५३९ = पा_७,४.६७)
अनयोरभ्यासस्य सम्प्रसारणं स्यात्। दिद्युते॥

द्युद्भ्यो लुङि॥ (लसक_५४० = पा_१,३.९१)
द्युतादिभ्यो लुङः परस्मैपदं वा स्यात्। पुषादीत्यङ्। अद्युतत्, अद्योतिष्ट। अद्योतिष्यत॥ एवं श्विता वर्णे॥ ५॥ ञिमिदा स्नेहने॥ ६॥ ञिष्विदा स्नेहनमोचनयोः॥ ७॥ मोहनयोरित्येके। ञिक्ष्विदा चेत्येके॥ रुच दीप्तावभिप्रीतौ च॥ ८॥ घुट परिवर्तने॥ ९॥ शुभ दीप्तौ॥ १०॥ क्षुभ संचलने॥ ११॥ णभ तुभ हिंसायाम्॥ १२-१३॥ स्रंसु भ्रंसु ध्वंसु अवस्रंसने॥ १४-१५-१६॥ ध्वंसु गतौ च॥ स्रम्भु विश्वासे॥ १७॥ वृतु वर्तने॥ १८॥ वर्तते। ववृते। वर्तिता॥

वृद्भ्यः स्यसनोः॥ (लसक_५४१ = पा_१,४.९२)
वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्यात्स्ये सनि च॥

न वृद्भ्यश्चतुर्भ्यः॥ (लसक_५४२ = पा_७,२.५९)
वृतुवृधुशृधुस्यन्दूभ्यः सकारादेरार्धधातुकस्येण् न स्यात् तङानयोरभावे। वर्त्स्यति, वर्तिष्यते। वर्तताम्। अवर्तत। वर्तेत। वर्तिषीष्ट। अवर्तिष्ट। अवर्त्स्यत्, अवर्तिष्यत्॥ दद दाने॥ १९॥ ददते॥

न शसददवादिगुणानाम्॥ (लसक_५४३ = पा_६,४.१२६)
शसेर्ददेर्वकारादीनां गुणशब्देन विहितो यो ऽकारस्तस्य एत्त्वाभ्यासलोपौ न। दददे। दददाते। दददिरे। ददिता। ददिष्यते। ददताम्। अददत। ददेत। ददिषीष्ट। अददिष्ट। अददिष्यत॥ त्रपूष् लज्जायाम्॥ २०॥ त्रपते॥

तॄफलभजत्रपश्च॥ (लसक_५४४ = पा_६,४.१२२)
एषामत एत्त्वमभ्यासलोपश्च स्यात् किति लिटि सेटि थलि च। त्रेपे। त्रपिता, त्रप्ता। त्रपिष्यते, त्रप्स्यते। त्रपताम्। अत्रपत। त्रपेत। त्रपिषीष्ट, त्रप्सीष्ट। अत्रपिष्ट, अत्रप्त। अत्रपिष्यत, अत्रप्स्यत॥
इत्यात्मनेपदिनः//
श्रिञ् सेवायाम्॥ १॥ श्रयति, श्रयते। शिश्राय, शिश्रिये। श्रयितासि, श्रयितासे। श्रयिष्यति, श्रयिष्यते। श्रयतु, श्रयताम्। अश्रयत्, अश्रयत। श्रयेत्, श्रयेत। श्रीयात्, श्रयिषीष्ट। चङ्। अशिश्रियत्, अशिश्रियत। अश्रयिष्यत्, अश्रयिष्यत॥ भृञ् भरणे॥ २॥ भरति, भरते। बभार। बभ्रतुः। बभ्रुः। बभर्थ। बभृव। बभृम। बभ्रे। बभृषे। भर्तासि, भर्तासे। भरिष्यति, भरिष्यते। भरतु, भरताम्। अभरत्, अभरत। भरेत्, भरेत॥

रिङ् शयग्लिङ्क्षु॥ (लसक_५४५ = पा_७,४.२८)
शे यकि यादावार्धधातुके लिङि च ऋतो रिङ् आदेशः स्यात्। रीङि प्रकृते रिङ्विधानसामर्थ्याद्दीर्घो न। भ्रियात्॥

उश्च॥ (लसक_५४६ = पा_१,२.१२)
ऋवर्णात्परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। भृषीष्ट। भृषीयास्ताम्। अभार्षीत्॥

ह्रस्वादङ्गात्॥ (लसक_५४७ = पा_८,२.२७)
सिचो लोपो झलि। अभृत। अभृषाताम्। अभरिष्यत्, अभरिष्यत॥ हृञ् हरणे॥ ३॥ हरति, हरते। जहार। जहर्थ। जह्रिव। जह्रिम। जह्रे। जह्रिषे। हर्तासि, हर्तासे। हरिष्यति, हरिष्यते। हरतु, हरताम्। अहरत्, अहरत। हरेत्, हरेत। ह्रियात्, हृषीष्ट। हृषीयास्ताम्। अहार्षीत्, अहृत। अहरिष्यत्, अहरिष्यत॥ धृञ् धारणे॥ ४॥ धरति, धरते॥ णीञ् प्रापणे॥ ५॥ नयति, नयते॥ डुपचष् पाके॥ ६॥ पचति, पचते। पपाच। पेचिथ, पपक्थ। पेचे। पक्तासि, पक्तासे॥ भज सेवायाम्॥ ७॥ भजति, भजते। बभाज, भेजे। भक्तासि, भक्तासे। भक्ष्यति, भक्ष्यते। अभाक्षीत्, अभक्त। अभक्षाताम्॥
यज देवपूजा सङ्गतिकरणदानेषु॥ ८॥ यजति, यजते॥

लिट्यभ्यासस्योभयेषाम्॥ (लसक_५४८ = पा_६,१.१७)
वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं लिटि। इयाज॥

वचिस्वपियजादीनां किति॥ (लसक_५४९ = पा_६,१.१५)
वचिस्वप्योर्यजादीनां च संप्रसारणं स्यात् किति। ईजतुः। ईजुः। इयजिथ, इयष्ठ। ईजे। यष्टा॥

षढोः कः सि॥ (लसक_५५० = पा_८,२.४१)
यक्ष्यति, यक्ष्यते। इज्यात्, यक्षीष्ट। अयाक्षीत्, अयष्ट॥ वह्अ प्रापणे॥ ९॥ वहति, वहते। उवाह। ऊहतुः। ऊहुः। उवहिथ॥

झषस्ताथोर्धो ऽधः॥ (लसक_५५१ = पा_८,२.४०)
झषः परस्योस्तथोर्धः स्यान्न तु दधातेः॥

ढो ढे लोपः॥ (लसक_५५२ = पा_८,३.१३)

सहिवहोरोदवर्णस्य॥ (लसक_५५३ = पा_६,३.११२)
अनयोरवर्णस्य ओत्स्याड्ढलोपे। उवोढ। ऊहे। वोढा। वक्ष्यति। अवाक्षीत्। अवोढाम्। अवाक्षुः। अवाक्षीः। अवोढम्। अवोढ। अवाक्षम्। अवाक्ष्व। अवाक्ष्म। अवोढ। अवक्षाताम्। अवक्षत। अवोढाः। अवक्षाथाम्। अवोढ्वम्। अवक्षि। अवक्ष्वहि। अवक्ष्महि॥

इति भ्वादयः॥ १॥

अथादादयः

अद भक्षणे॥ १॥

अदिप्रभृतिभ्यः शपः॥ (लसक_५५४ = पा_२,४.७२)
लुक् स्यात्। अत्ति। अत्तः। अदन्ति। अत्सि। अत्थः। अत्थ। अद्मि। अद्वः। अद्मः।

लिट्यन्यतरस्याम्॥ (लसक_५५५ = पा_२,४.४०)
अदो घसॢ वा स्याल्लिटि। जघास। उपधालोपः॥

शासिवसिघसीनां च॥ (लसक_५५६ = पा_८,३.६०)
इण्कुभ्यां परस्यैषां सस्य षः स्यात्। घस्य चर्त्वम्॥ जक्षतुः। जक्षुः। जघसिथ। जक्षथुः। जक्ष। जघास, जघस। जक्षिव। जक्षिम। आद। आदतुः। आदुः॥

इडत्त्यर्तिव्ययतीनाम्॥ (लसक_५५७ = पा_७,२.६६)
अद् ऋ व्येञ् एभ्यस्थलो नित्यमिट् स्यात्। आदिथ। अत्ता। अत्स्यति। अत्तु। अत्तात्। अत्ताम्। अदन्तु॥

हुझल्भ्यो हेर्धिः॥ (लसक_५५८ = पा_६,४.१०१)
होर्झलन्तेभ्यश्च हेर्धिः स्यात्। अद्धि। अत्तात्। अत्तम्। अत्त। अदानि। अदाव। अदाम॥

अदः सर्वेषाम्॥ (लसक_५५९ = पा_७,३.१००)
अदः परस्यापृक्तसार्वधातुकस्य अट् स्यात्सर्वमतेन। आदत्। आत्ताम्। आदन्। आदः। आत्तम्। आत्त। आदम्। आद्व। आद्म। अद्यात्। अद्याताम्। अद्युः। अद्यात्। अद्यास्ताम्। अद्यासुः॥

लुङ्सनोर्घसॢ॥ (लसक_५६० = पा_२,४.३७)
अदो घसॢ स्याल्लुङि सनि च। ऌदित्वादङ्। अघसत्। आत्स्यत्॥ हन हिंसागत्योः॥ २॥ हन्ति॥

अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति॥ (लसक_५६१ = पा_६,४.३७)
अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ किति ङिति परे। यमिरमिनमिगमिहनिमन्यतयो ऽनुदात्तोपदेशाः। तनु क्षणु क्षिणु ऋणु तृणु घृणु वनु मनु तनोत्यादयः। हतः। घ्नन्ति। हंसि। हथः। हथ। हन्मि। हन्वः। हन्मः। जघान। जघ्नतुः। जघ्नुः॥

अभ्यासाच्च॥ (लसक_५६२ = पा_७,३.५५)
अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात्। जघनिथ, जघन्थ। जघ्नथुः। जघ्न। जघ्निव। जघ्निम। हन्ता। हनिष्यति। हन्तु, हतात्। हताम्। घ्नन्तु॥

हन्तेर्जः॥ (लसक_५६३ = पा_६,४.३६)
हौ परे॥

असिद्धवदत्राभात्॥ (लसक_५६४ = पा_६,४.२२)
इत उर्ध्वमापादसमाप्तेराभीयम्, समानाश्रये तस्मिन्कर्तव्ये तदसिद्धम्। इति जस्यासिद्धत्वान्न हेर्लुक्। जहि, हतात्। हतम्। हत। हनानि। हनाव। हनाम। अहन्। अहताम्। अघ्नन्। अहन्। अहतम्। अहत। अहनम्। अहन्व। अहन्म। हन्यात्। हन्याताम्। हन्युः॥

आर्धधातुके॥ (लसक_५६५ = पा_२,४.३५)
इत्यधिकृत्य॥

हनो वध लिङि॥ (लसक_५६६ = पा_२,४.४१)

लुङि च॥ (लसक_५६७ = पा_२,४,४३)
वधादेशो ऽदन्तः। अर्धधातुके इति विषयसप्तमी, तेन आर्धधातुकोपदेशे अकारान्तत्वादतो लोपः। वध्यात्। वध्यास्ताम्। आदेशस्यानेकाच्त्वादेकाच इतीण्निषेधाभावादिट्। ऽतो हलादेः&८२१७॑ इति वृद्धौ प्राप्तायाम् ---- .

अचः परस्मिन् पूर्वविधौ॥ (लसक_५६८ = पा_१,१.५७)
परनिमित्तो ऽजादेशः स्थानिवत्, स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये। इत्यल्लोपस्य स्थानिवत्त्वान्न वृद्धिः। अवधीत्। अहनिष्यत्॥ यु मिश्राणामिश्रणयोः॥ ३॥

उतो वृद्धिर्लुकि हलि॥ (लसक_५६९ = पा_७,३.८९)
लुग्विषये उतो वृद्धिः पिति हलादौ सार्वधातुके नत्वभ्यस्तस्य। यौति। युतः। युवन्ति। यौषि। युथः। युथ। यौमि। युवः। युमः। युयाव। यविता। यविष्यति। यौतु, युतात्। अयौत्। अयुताम्। अयुवन्। युयात्। इह उतो वृद्धिर्न, भाष्ये - ऽपिच्च ङिन्न ङिच्च पिन्न&८२१७॑ इति व्याख्यानात्। युयाताम्। युयुः। यूयात्। यूयास्ताम्। यूयासुः। अयावीत्। अयविष्यत्॥ या प्रापणे॥ ४॥ याति। यातः। यान्ति। ययौ। याता। यास्यति। यातु। अयात्। अयाताम्॥

लङः शाकटायनस्यैव॥ (लसक_५७० = पा_३,४.१११)
आदन्तात्परस्य लङो झेर्जुस् वा स्यात्। अयुः, अयान्। यायात्। यायाताम्। यायुः। यायात्। यायास्ताम्। यायासुः। अयासीत्। अयास्यत्। वा गतिगन्धनयोः॥ ५॥ भा दीप्तौ॥ ६॥ ष्णा शौचे॥ ७॥ श्रा पाके॥ ८॥ द्रा कुत्सायां गतौ॥ ९॥ प्सा भक्षणे॥ १०॥ रा दाने॥ ११॥ ला आदाने॥ १२॥ दाप् लवने॥ १३॥ पा रक्षणे॥ १४॥ ख्या प्रकथने॥ १५॥ अयं सार्वधातुके एव प्रयोक्तव्यः॥ विद ज्ञाने॥ १६॥

विदो लटो वा॥ (लसक_५७१ = पा_३,४.८३)
वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः। वेद। विदतुः। विदुः। वेत्थ। विदथुः। विद। वेद। विद्व। विद्म। पक्षे -- वेत्ति। वित्तः। विदन्ति॥

उषविदजागृभ्यो ऽन्यतरस्याम्॥ (लसक_५७२ = पा_३,१.३८)
एभ्यो लिटि आम्वा स्यात्। विदेरन्तत्वप्रतिज्ञानादामि न गुणः। विदाञ्चकार, विवेद। वेदिता। वेदिष्यति॥

विदाङ्कुर्वन्त्वित्यन्यतरस्याम्॥ (लसक_५७३ = पा_३,१.४१)
वेत्तेर्लोटि आम् गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते पुरुषवचने न विवक्षिते॥

तनादिकृञ्भ्य उः॥ (लसक_५७४ = पा_३,१.७९)
तनादेः कृञश्च उः प्रत्ययः स्यात्। शपो ऽपवादः। गुणौ। विदाङ्करोतु॥

अत उत्सार्वधातुके॥ (लसक_५७५ = पा_६,४.११०)
उत्प्रत्ययान्तस्य कृञो ऽत उत्सार्वधातुके क्ङिति। विदाङ्कुरुतात्। विदाङ्कुरुताम्। विदाङ्कुर्वन्तु। विदाङ्कुरु। विदाङ्करवाणि। अवेत्। अवित्ताम्। अविदुः॥

दश्च॥ (लसक_५७६ = पा_८,२.७५)
धातोर्दस्य पदान्तस्य सिपि रुर्वा। अवेः, अवेत्। विद्यात्। विद्याताम्। विद्युः। विद्यात्। विद्यास्ताम्। अवेदीत्। अवेदिष्यत्॥ अस् भुवि॥ १७॥ अस्ति॥

श्नसोरल्लोपः॥ (लसक_५७७ = पा_६,४.१११)
श्नस्यास्तेश्चातो लोपः सार्वधातुके क्ङिति। स्तः। सन्ति। असि। स्थः। स्थ। अस्मि। स्वः। स्मः।

उपसर्गप्रादुर्भ्यामस्तिर्यच्परः॥ (लसक_५७८ = पा_८,३.८७)
उपसर्गेणः प्रादुसश्चास्तेः सस्य षो यकारे ऽचि च परे। निष्यात्। प्रनिषन्ति, प्रादुः षन्ति। यच्परः किम् ?। अभिस्तः॥

अस्तेर्भूः॥ (लसक_५७९ = पा_२,४.५२)
आर्धधातुके। बभूव। भविता। भविष्यति। अस्तु, स्तात्। स्ताम्। सन्तु॥

घ्वसोरेद्धावभ्यासलोपश्च॥ (लसक_५८० = पा_६,४.११९)
घोरस्तेश्च एत्त्वं स्याद्धौ परे अभ्यासलोपश्च। एत्त्वस्यासिद्धत्वाद्धेर्धिः। श्नसोरित्यल्लोपः। तातङ्पक्षे एत्त्वं न, परेण तातङा बाधात्। एधि, स्तात्। स्तम्। स्त। असानि। असाव। असाम। आसीत्। आस्ताम्। आसन्। स्यात्। स्याताम्। स्युः। भूयात्। अभूत्। अभविष्यत्॥ इण् गतौ॥ १८॥ एति। इतः॥

इणो यण्॥ (लसक_५८१ = पा_६,४.८१)
अजादौ प्रत्यये परे। यन्ति॥

अभ्यासस्यासवर्णे॥ (लसक_५८२ = पा_६,४.७८)
अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तो ऽसवर्णे ऽचि। इयाय॥

दीर्घ इणः किति॥ (लसक_५८३ = पा_७,४.६९)
&न्ब्स्प्॑िणो ऽभ्यासस्य दीर्घः स्यात् किति लिटि। ईयतुः। ईयुः। इययिथ, इयेथ। एता। एष्यति। एतु। ऐत्। ऐताम्। आयन्। इयात्॥
एतेर्लिङि॥ (लसक_५८४ = पा_७,४.२४)
उपसर्गात्परस्य इणो ऽणो ह्रस्व आर्धधातुके किति लिङि। निरियात्। उभयत आश्रयणे नान्तादिवत्। अभीयात्। अणः किम् ? समेयात्॥

इणो गा लुङि॥ (लसक_५८५ = पा_२,४.४५)
गातिस्थेति सिचो लुक्। अगात्। ऐष्यत्॥ शीङ् स्वप्ने॥ १९॥

शीडः सार्वधातुके गुणः॥ (लसक_५८६ = पा_७,४.२१)
क्क्ङिति चेत्यस्यापवादः। शेते। शयाते॥

शीङो रुट्॥ (लसक_५८७ = पा_७,१.६)
शीडः परस्य झादेशस्यातो रुडागमः स्यात्। शेरते। शेषे। शयाथे। शेध्वे। शये। शेवहे। शेमहे। शिश्ये। शिश्याते। शिश्यिरे। शयिता। शयिष्यते। शेताम्। शयाताम्। अशेत। अशयाताम्। अशेरत। शयीत। शयीयाताम्। शयीरन्। शयिषीष्ट। अशयिष्ट। अशयिष्यत॥ इङ् अध्ययने॥ २०॥ इङिकावध्युपसर्गतो न व्यभिचारतः। अधीते। अधीयाते। अधीयते॥

गाङ् लिटि॥ (लसक_५८८ = पा_२,४.४९)
इङो गाङ् स्याल्लिटि। अधिजगे। अधिजगाते। अधिजगिरे। अध्येता। अध्येष्यते। अधीताम्। अधीयाताम्। अधीयताम्। अधीष्व। अधीयाथाम्। अधीध्वम्। अध्ययै। अध्ययावहै। अध्ययामहै। अध्यैत। अध्यैयाताम्। अध्यैयत। अध्यैथाः। अध्यैयाथाम्। अध्यैध्वम्। अध्यैयि। अध्यैवहि। अध्यैमहि। अधीयीत। अधीयीयाताम्। अधीयीरन्। अध्येषीष्ट॥

विभाषा लुङॢङोः॥ (लसक_५८९ = पा_२,४.५०)
इङो गाङ् वा स्यात्॥

गाङ्कुटादिभ्यो ऽञ्णिन्ङित्॥ (लसक_५९० = पा_१,२.१)
गाङादेशात्कृटादिभ्यश्च परे ऽञ्णितः प्रत्यया ङितः स्युः॥

धुमास्थागापाजहातिसां हलि॥ (लसक_५९१ = पा_६,४.६६)
एषामात ईत्स्याद्धलादौ क्ङित्यार्धधातुके। अध्यगीष्ट, अध्यैष्ट। अध्यगीष्यत, अध्यैष्यत॥ दुह प्रपूरणे॥ २१॥ दोग्धि। दुग्धः। दुहन्ति। धोक्षि। दुग्धे। दुहाते। दुहते। धुक्षे। दुहाथे। धुग्ध्वे। दुहे। दुह्वहे। दुह्महे। दुदोह, दुदुहे। दोग्धासि, दोग्धासे। धोक्ष्यति, धोक्ष्यते। दोग्धु, दुग्धात्। दुग्धाम्। दुहन्तु। दुग्धि, दुग्धात्। दुग्धम्। दुग्ध। दोहानि। दोहाव। दोहाम। दुग्धाम्। दुहाताम्। दुहताम्। धुक्ष्व। दुहाथाम्। धुग्घ्वम्। दोहै। दोहावहै। दोहामहै। अधोक्। अदुग्धाम्। अदुहन्। अदोहम्। अदुग्ध। अदुहाताम्। अदुहत। अधुग्ध्वम्। दुह्यात्, दुहीत॥

लिङ्सिचावात्मनेपदेषु॥ (लसक_५९२ = पा_१,२.११)
इक्समीपाद्धलः परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। धुक्षीष्ट॥

शल इगुपधादनिटः क्सः॥ (लसक_५९३ = पा_३,१.४५)
इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात्। अधुक्षत्॥

लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये॥ (लसक_५९४ = पा_७,३.७३)
एषां क्सस्य लुग्वा स्याद्दन्त्ये तङि। अदुग्ध, अधुक्षत॥

क्सस्याचि॥ (लसक_५९५ = पा_७,३.७२)
&न्ब्स्प्॑जादौ तङि क्सस्य लोपः। अधुक्षाताम्। अधुक्षन्त। अदुग्धाः, अधुक्षथाः। अधुक्षाथाम्। अधुग्ध्वम्, अधुक्षध्वम्। अधुक्षि। अदुह्वहि, अधुक्षावहि। अधुक्षामहि। अधोक्ष्यत॥ एवं दिह उपचये॥ २२॥ लिह आस्वादने॥ २३॥ लेढि। लीढः। लिहन्ति। लेक्षि। लीढे। लिहाते। लिहते। लिक्षे। लिहाथे। लीढ्वे। लिलेह, लिलिहे। लेढासि, लेढासे। लेक्ष्यति, लेक्ष्यते। लेढु। लीढाम्। लिहन्तु। लीढि। लेहानि। लीढाम्। अलेट्, अलेड्। अलिक्षत्, अलीढ, अलिक्षत। अलेक्ष्यत्, अलेक्ष्यत॥ ब्रूञ् व्यक्तायां वाचि॥ २४॥

ब्रुवः पञ्चानामादित आहो ब्रुवः॥ (लसक_५९६ = पा_३,४.८४)
ब्रुवो लटस्तिबादीनां पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः। आह। आहतुः। आहुः॥

आहस्थः॥ (लसक_५९७ = पा_८,२.३५)
झलि परे। चर्त्वम्। आत्थ। आहथुः॥

ब्रुव ईट्॥ (लसक_५९८ = पा_७,३.९३)
ब्रुवः परस्य हलादेः पित ईट् स्यात्। ब्रवीति। ब्रूतः। ब्रुवन्ति। ब्रूते। ब्रुवाते। ब्रुवते॥

ब्रुवो वचिः॥ (लसक_५९९ = पा_२,४.५३)
आर्धधातुके। उवाच। ऊचतुः। ऊचुः। उवचिथ, उवक्थ। ऊचे। वक्तासि, वक्तासे। वक्ष्यति, वक्ष्यते। ब्रवीतु, ब्रूतात्। ब्रुवन्तु। ब्रूहि। ब्रवाणि। ब्रूताम्। ब्रवै। अब्रवीत्, अब्रूत। ब्रूयात्, ब्रुवीत। उच्यात्, वक्षीष्ट॥

अस्यतिवक्तिख्यातिभ्यो ऽङ्॥ (लसक_६०० = पा_३,१.५२)
एभ्यश्चलेरङ् स्यात्॥

वच उम्॥ (लसक_६०१ = पा_७,४.२०)
अङि परे। अवोचत्, अवोचत। अवक्ष्यत्, अवक्ष्यत। (ग. सू.) चर्करीतं च। चर्करीतमिति यङ्लुगन्तस्य संज्ञा, तददादौ बोध्यम्॥ ऊर्णुञ् आच्छादने॥ २५॥

ऊर्णोतेर्विभाषा॥ (लसक_६०२ = पा_७,३.९०)
वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके। ऊर्णौति, ऊर्णोति। ऊर्णुतः। ऊर्णुवन्ति। ऊर्णुते। ऊर्णुवाते। ऊर्णुवते। (ऊर्णोतेराम्नेति वाच्यम्)॥

न न्द्राः संयोगादयः॥ (लसक_६०३ = पा_६,१.३)
अचः पराः संयोगादयो नदरा द्विर्न भवन्ति। नुशब्दस्य द्वित्वम्। ऊर्णुनाव। ऊर्णुनुवतुः। ऊर्णुनुवुः॥

विभाषोर्णोः॥ (लसक_६०४ = पा_१,२.३)
इडादिप्रत्ययो वा ङित्स्यात्। ऊर्णुनुविथ, ऊर्णुनविथ। ऊर्णुविता, ऊर्णविता। ऊर्णुविष्यति, ऊर्णविष्यति। ऊर्णौतु, ऊर्णोतु। ऊर्णवानि। ऊर्णवै॥

गुणो ऽपृक्ते॥ (लसक_६०५ = पा_७,३.९१)
ऊर्णोतेर्गुणो ऽपृक्ते हलादौ पिति सार्वधातुके। वृद्ध्यपवादः। और्णोतु। और्णोः। ऊर्णुयात्। ऊर्णुयाः। ऊर्णुवीत। ऊर्णूयात्। ऊर्णुविषीष्ट, ऊर्णविषीष्ट॥

ऊर्णोतेर्विभाषा॥ (लसक_६०६ = पा_७,१.६)
इडादौ सिचि वा वृद्धिः परस्मैपदे परे। पक्षे गुणः। और्णावीत्, और्णुवीत्, और्णवीत्। और्णाविष्टाम्, और्णुविष्टाम्, और्णविष्टाम्। और्णुविष्ट, और्णविष्ट। और्णुविष्यत्, और्णविष्यत्। और्णुविष्यत, और्णविष्यत॥

इत्यदादयः॥ २॥

अथ जुहोत्यादयः

हु दानादनयोः॥ १॥

जुहोत्यादिभ्यः श्लुः॥ (लसक_६०७ = पा_२,४.७५)
शपः श्लुः स्यात्॥

श्लौ॥ (लसक_६०८ = पा_६,१.१०)
धातोर्द्वे स्तः। जुहोति। जुहुतः।

अदभ्यस्तात्॥ (लसक_६०९ = पा_७,१.४)
झस्यात्स्यात्। हुश्नुवोरिति यण्। जुह्वति॥

भीह्रीभृहुवां श्लुवच्च॥ (लसक_६१० = पा_३,१.३९)
एभ्यो लिटि आम् वा स्यादामि श्लाविव कार्यं च। जुहवाञ्चकार, जुहाव। होता। होष्यति। जुहोतु, जुहुतात्। जुहुताम्। जुह्वतु। जुहुधि। जुहवानि। अजुहोत्। अजुहुताम्॥

जुसि च॥ (लसक_६११ = पा_७,३.८३)
इगन्ताङ्गस्य गुणो ऽजादौ जुसि। अजुहवुः। जुहुयात्। हूयात्। अहौषीत्। अहोष्यत्॥ ञिभी भये॥ २॥ बिभेति॥

भियो ऽन्यतरस्याम्॥ (लसक_६१२ = पा_६,४.११५)
इकारो वा स्याद्धलादौ क्ङिति सार्वधातुके। बिभितः, बिभीतः। बिभ्यति। बिभयाञ्चकार, बिभाय। भेता। भेष्यति। बिभेतु, बिभितात्, बिभीतात्। अबिभेत्। बिभीयात्। भीयात्। अभैषीत्। अभेष्यत्॥ ह्री लज्जायाम्॥ ३॥ जिह्रेति। जिह्रीतः। जिह्रियति। जिह्रयाञ्चकार, जिह्राय। ह्रेता। ह्रेष्यति। जिह्रेतु। अजिह्रेत्। जिह्रियात्। ह्रीयात्। अह्रैषीत्। अह्रेष्यत्॥ पॄ पालन पूरणयोः॥ ४॥

अर्तिपिपर्त्योश्च॥ (लसक_६१३ = पा_७,४.७७)
अभ्यासस्य इकारो ऽन्तादेशः स्यात् श्लौ। पिपर्ति॥

उदोष्ठ्यपूर्वस्य॥ (लसक_६१४ = पा_७,१.१०२)
अङ्गावयवौष्ठ्यपूर्वो य ॠत् तदन्तस्याङ्गस्य उत् स्यात्॥

हलि च॥ (लसक_६१५ = पा_८,२.७७)
रेफवान्तस्य धातेरुपधाया इको दीर्घो हलि। पिपूर्तः। पिपुरति। पपार॥

शॄदॄप्रां ह्रस्वो वा॥ (लसक_६१६ = पा_७,४.१२)
एषां लिटि ह्रस्वो वा स्यात्। पप्रतुः॥

ऋच्छत्यॄताम्॥ (लसक_६१७ = पा_७,४.११)
तौदादिक ऋच्छेर् ऋधातोर् ॠतां च गुणो लिटि। पपरतुः। पपरुः॥

वॄतो वा॥ (लसक_६१८ = पा_७,२.३८)
वृङ्वृञ्भ्यामॄदन्ताच्चेटो दीर्घो वा स्यान्न तु लिटि। परिता, परीता। परीष्यति, परिष्यति। पिपर्तु। अपिपः। अपिपूर्ताम्। अपिपरुः। पिपूर्यात्। पूर्यात्। अपारीत्॥

सिचि च परस्मैपदेषु॥ (लसक_६१९ = पा_७,२.४०)
अत्र इटो न दीर्घः। अपारिष्टाम्। अपरिष्यत्, अपरीष्यत्॥ ओहाक् त्यागे॥ ५॥ जहाति॥

जहातेश्च॥ (लसक_६२० = पा_६,४.११६)
इद्वा स्याद्धलादौ क्ङिति सार्वधातुके। जहितः॥

ई हल्यघोः॥ (लसक_६२१ = पा_६,४.११३)
श्नाभ्यस्तयोरात ईत् स्यात् सार्वधातुके क्ङिति हलादौ न तु घोः। जहीतः॥

श्नाभ्यस्तयोरातः॥ (लसक_६२२ = पा_६,४.११२)
अनयोरातो लोपः क्ङिति सार्वधातुके। जहति। जहौ। हाता। हास्यति। जहातु, जहितात्, जहीतात्॥

आ च हौ॥ (लसक_६२३ = पा_६,४.११७)
जहातेर्है परे आ स्याच्चादिदीतौ। जहाहि, जहिहि, जहीहि। अजहात्। अजहुः॥

लोपो यि॥ (लसक_६२४ = पा_६,४.११८)
जहातेरालोपो यादौ सार्वधातुके। जह्यात्। एर्लिङि। हेयात्। अहासीत्। अहास्यत्॥ माङ् माने शब्दे च॥ ६॥

भृञामित्॥ (लसक_६२५ = पा_७,४.७६)
भृञ् माङ् ओहाङ् एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ। मिमीते। मिमाते। मिमते। ममे। माता। मास्यते। मिमीताम्। अमिमीत। मिमीत। मासीष्ट। अमास्त। अमास्यत॥ ओहाङ् गतौ॥ ७॥ जिहीते। जिहाते। जिहते। जहे। हाता। हास्यते। जिहीताम्। अजिहीत। जिहीत। हासीष्ट। अहास्त। अहास्यत॥ डु भृञ् धारणपोषणयोः॥ ८॥ बिभर्ति। बिभृतः। बिभ्रति। बिभृते। बिभ्राते। बिभ्रते। विभराञ्चकार, बभार। बभर्थ। बभृव। बिभराञ्चक्रे, बभ्रे। भर्तासि, भर्तासे। भरिष्यति, भरिष्यते। बिभर्तु। बिभराणि। बिभृताम्। अबिभः। अबिभृताम्। अबिभरुः। अबिभृत। बिभृयात्, बिभ्रीत। भ्रियात्, भृषीष्ट। अभार्षीत्, अभृत। अभरिष्यत्, अभरिष्यत॥ डु दाञ् दाने॥ ९॥ ददाति। दत्तः। ददति। दत्ते। ददाते। ददते। ददौ, ददे। दातासि, दातासे। दास्यति, दास्यते। ददातु॥

दाधा घ्वदाप्॥ (लसक_६२६ = पा_१,१.२०)
दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना। घ्वसोरित्येत्त्वम्। देहि। दत्तम्। अददात्, अदत्त। दद्यात्, ददीत। देयात्, दासीष्ट। अदात्। अदाताम्। अदुः॥

स्थाघ्वोरिच्च॥ (लसक_६२७ = पा_१,२.१७)
अनयोरिदन्तादेशः सिच्च कित्स्यादात्मनेपदे। अदित। अदास्यत्, अदास्यत॥ डु धाञ् धारणपोषणयोः॥ १०॥ दधाति॥

दधस्तथोश्च॥ (लसक_६२८ = पा_८,२.३८)
द्विरुक्तस्य झषन्तस्य धाञो बशो भष् स्यात्तयोः स्ध्वोश्च परतः। धत्तः। दधति। दधासि। धत्थः। धत्थ। धत्ते। दधाते। दधते। धत्से। धद्ध्वे। घ्वसोरेद्धावभ्यास लोपश्च। धेहि। अदधात्, अधत्त। दध्यात्, दधीत। धेयात्, धासीष्ट। अधात्, अधित। अधास्यत्। अधास्यत॥ णिजिर् शौचपोषणयोः॥ ११॥ (इर इत्संज्ञा वाच्या)॥

णिजां त्रयाणां गुणः श्लौ॥ (लसक_६२९ = पा_७,४.५७)
णिज्विज्विषामभ्यासस्य गुणः स्यात् श्लौ। नेनेक्ति। नेनिक्तः। नेनिजति। नेनिक्ते। निनेज, निनिजे। नेक्ता। नेक्ष्यति, नेक्ष्यते। नेनेक्तु। नेनिग्धि॥

नाभ्यस्तस्याचि पिति सार्वधातुके॥ (लसक_६३० = पा_७,३.८७)
लघूपधगुणो न स्यात्। नेनिजानि। नेनिक्ताम्। अनेनेक्। अनेनिक्ताम्। अनेनिजुः। अनेनिजम्। अनेनिक्त। नेनिज्यात्। नेनिजीत। निज्यात्, निक्षीष्ट॥

इरितो वा॥ (लसक_६३१ = पा_३,२.५७)
इरितो धातोश्च्लेरङ् वा परस्मै पदेषु। अनिजत्, अनैक्षीत्, अनिक्त। अनेक्ष्यत्, अनेक्ष्यत॥

इति जुहोत्यादयः॥ ३॥

अथ दिवादयः

दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु॥ १॥

दिवादिभ्यः श्यन्॥ (लसक_६३२ = पा_३,१.६९)
शपो ऽपवादः। हलि चेति दीर्घः। दीव्यति। दिदेव। देविता। देविष्यति। दीव्यतु। अदीव्यत्। दीव्येत्। दीव्यात्। अदेवीत्। अदेविष्यत्॥ एवं षिवु तन्तुसन्ताने॥ २॥ नृती गात्रविक्षेपे॥ ३॥ नृत्यति। ननर्त। नर्तिता॥

से ऽसिचि कृतचृतच्छृदतृदनृतः॥ (लसक_६३३ = पा_७,२.५७)
एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्येड्वा। नर्तिष्यति, नर्त्स्यति। नृत्यतु। अनृत्यत्। नृत्येत्। नृत्यात्। अनर्तीत्। अनर्तिष्यत्, अनर्त्स्यत्॥ त्रसी उद्वेगे॥ ४॥ वा भ्राशेति श्यन्वा। त्रस्यति, त्रसति। तत्रास॥

वा जॄभ्रमुत्रसाम्॥ (लसक_६३४ = पा_६,४.१२४)
एषां किति लिटि सेटि थलि च एत्वाभ्यासलोपौ वा। त्रेसतुः, तत्रसतुः। त्रेसिथ, तत्रसिथ। त्रसिता॥ शो तनूकरणे॥ ५॥

ओतः श्यनि॥ (लसक_६३५ = पा_७,३.७१)
लोपः स्यात्। श्यति। श्यतः। श्यन्ति। शशौ। शशतुः। शाता। शास्यति॥

विभाषा घ्राधेट्शाच्छासः॥ (लसक_६३६ = पा_२,४.७८)
&न्ब्स्प्॑ेभ्यस्सिचो लुग्वा स्यात्परस्मैपदे परे। अशात्। अशाताम्। अशुः। इट्सकौ। अशासीत्। अशासिष्टाम्॥ छो छेदने॥ ६॥ छ्यति॥ षो ऽन्तकर्मणि॥ ७॥ स्यति। ससौ॥ दो ऽवखण्डने॥ ८॥ द्यति। ददौ। देयात्। अदात्॥ व्यध ताडने॥ ९॥

ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृञ्जतीनां ङिति च॥ (लसक_६३७ = पा_६,१.१६)
एषां सम्प्रसारणं स्यात्किति ङिति च। विध्यति। विव्याध। विविधतुः। विविधुः। विव्यधिथ, विव्यद्ध। व्यद्धा। व्यत्स्यति। विध्येत्। विध्यात्। अव्यात्सीत्॥ पुष पुष्टौ॥ १०॥ पुष्यति। पुपोष। पुपोषिथ। पोष्टा। पोक्ष्यति। पुषादीत्यङ्। अपुषत्॥ शुष शोषणे॥ ११॥ शुष्यति। शुशोष। अशुषत्॥ णश अदर्शने॥ १२॥ नश्यति। ननाश। नेशतुः॥

रधादिभ्यश्च॥ (लसक_६३८ = पा_७,२.४५)
रध् नश् तृप् दृप् द्रुह् मुह् ष्णुह् ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात्। नेशिथ॥

मस्जिनशोर्झलि॥ (लसक_६३९ = पा_७,१.६०)
नुम् स्यात्। ननंष्ठ। नेशिव, नेश्व। नेशिम, नेश्म। नशिता, नंष्टा। नशिष्यति, नङ्क्ष्यति। नश्यतु। अनश्यत्। नश्येत्। नश्यात्। अनशत्॥ षूङ् प्राणिप्रसवे॥ १३॥ सूयते। सुषुवे। क्रादिनियमादिट्। सुषुविषे। सुषुविवहे। सुषुविमहे। सविता सोता॥ दूङ् परितापे॥ १४॥ दूयते॥ दीङ् क्षये॥ १५॥ दीयते॥

दीङो युडचि क्ङिति॥ (लसक_६४० = पा_६,४.६३)
दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट्। (वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ)। दिदीये॥

मीनातिमिनोतिदीङां ल्यपि च॥ (लसक_६४१ = पा_६,१.५०)
एषामात्वं स्याल्ल्यपि चादशित्येज्निमित्ते। दाता। दास्यति। (स्थाघ्वोरित्त्वे दीङः प्रतिषेधः)। अदास्त॥ डीङ् विहायसा गतौ॥ १६॥ डीयते। डिड्ये। डयिता॥ पीङ् पाने॥ १७॥ पीयते। पेता। अपेष्ट॥ माङ् माने॥ १८॥ मायते। ममे॥ जनी प्रादुर्भावे॥ १९॥

ज्ञाजनोर्जा॥ (लसक_६४२ = पा_७,३.७९)
अनयोर्जादेशः स्याच्छिति। जायते। जज्ञे। जनिता। जनिष्यते॥

दीपजनबुधपूरितायिप्यायिभ्यो ऽन्यरतस्याम्॥ (लसक_६४३ = पा_३,१.६१)
एभ्यश्च्लेश्चिण् वा स्यादेकवचने तशब्दे परे॥

चिणो लुक्॥ (लसक_६४४ = पा_६,४.१०४)
चिणः परस्य लुक् स्यात्॥

जनिवध्योश्च॥ (लसक_६४५ = पा_७,३.३५)
अनयोरुपधाया वृद्धिर्न स्याच्चिणि ञ्णिति कृति च। अजनि, अजनिष्ट॥ दीपी दीप्तौ॥ २०// दीप्यते। दिदीपे। अदीपि, अदीपिष्ट॥ पद गतौ॥ २१॥ पद्यते। पेदे। पत्ता। पत्सीष्ट॥

चिण् ते पदः॥ (लसक_६४६ = पा_३,१.६०)
पदश्च्लेश्चिण् स्यात्तशब्दे परे। अपादि। अपत्साताम्। अपत्सत॥ विद सत्तायाम्॥ २२॥ विद्यते। वेत्ता। अवित्त॥ बुध अवगमने॥ २३॥ बुध्यते। बोद्धा। भोत्स्यते। भुत्सीष्ट। अबोधि, अबुद्ध। अभुत्साताम्॥ युध संप्रहारे॥ २४॥ युध्यते। युयुधे। योद्धा। अयुद्ध॥ सृज विसर्गे॥ २५॥ सृज्यते। ससृजे। ससृजिषे॥

सृजिदृशोर्झल्यमकिति॥ (लसक_६४७ = पा_६,१.५८)
अनयोरमागमः स्याज्झलादावकिति। स्रष्टा। स्रक्ष्यति। सृक्षीष्ट। असृष्ट। असृक्षाताम्॥ मृष तितिक्षायाम्॥ २६॥ मृष्यति, मृष्यते॥ ममर्ष। ममर्षिथ। ममृषिषे। मर्षितासि। मर्षिष्यति, मर्षिष्यते॥ णह बन्धने॥ २७॥ नह्यति, नह्यते। ननाह। नेहिथ, ननद्ध। नेहे। नद्धा। नत्स्यति। अनात्सीत्, अनद्ध॥

इति दिवादयः॥ ४॥

अथ स्वादयः

षुञ् अभिषवे॥ १॥

स्वादिभ्यः श्नुः॥ (लसक_६४८ = पा_३,१.७३)
शपो ऽपवादः। सुनोति। सुनुतः। हुश्नुवोरिति यण्। सुन्वन्ति। सुन्वः, सुनुवः। सुनुते। सुन्वाते। सुन्वते। सुन्वहे, सुनुवहे। सुषाव, सुषुवे। सोता। सुनु। सुनवानि। सुनवै। सुनुयात्। सूयात्॥

स्तुसुधूञ्भ्यः परस्मैपदेषु॥ (लसक_६४९ = पा_७,२.७२)
एभ्यस्सिच इट् स्यात्परस्मैपदेषु। असावीत्, असोष्ट॥ चिञ् चयने॥ २॥ चिनोति, चिनुते॥

विभाषा चेः॥ (लसक_६५० = पा_७,३.५८)
अभ्यासात्परस्य कुत्वं वा स्यात्सनि लिटि च। चिकाय, चिचाय॑ चिक्ये, चिच्ये। अचैषीत्, अचेष्ट॥ स्तृञ् आच्छादने॥ ३॥ स्तृणोति, स्तृणुते॥

शर्पूर्वाः खयः॥ (लसक_६५१ = पा_७,४.६१)
अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते ऽन्ये हलो लुप्यन्ते। तस्तार। तस्तरतुः। तस्तरे। गुणोर्ऽतीति गुणः। स्तर्यात्॥

ऋतश्च संयोगादेः॥ (लसक_६५२ = पा_७,२.४३)
ऋदन्तात्संयोगादेः परयोः लिङ्सिचोरिड्वा स्यात्तङि। स्तरिषीष्ट, स्तृषीष्ट। अस्तरिष्ट, अस्तृत॥ धूञ् कम्पने॥ ४॥ धूनोति, धूनुते। दुधाव। स्वरतीति वेट्। दुधविथ, दुधोथ॥

श्र्युकः किति॥ (लसक_६५३ = पा_७,२.११)
श्रिञ एकाच उगन्ताच्च गित्कितोरिण् न। परमपि स्वरत्यादिविकल्पं बाधित्वा पुरस्तात्प्रतिषेध काण्डारम्भ सामर्थ्यादनेन निषेधे प्राप्ते क्रादिनियमान्नित्यमिट्। दुधुविव। दुधुवे। अधावीत्, अधविष्ट, अधोष्ट। अधविष्यत्, अधोष्यत्। अधविष्यताम्, अधोष्यताम्। अधविष्यत, अधोष्यत॥

इति स्वादयः॥ ५॥

अथ तुदादयः
तुद व्यथने॥ १॥

तुदादिभ्यः शः॥ (लसक_६५४ = पा_३,१.७७)
शपो ऽपवादः। तुदति, तुदते। तुतोद। तुतोदिथ। तुतुदे। तोत्ता। अतौत्सीत्, अतुत॥ णुद प्रेरणे॥ २॥ नुदति, नुदते। नुनोद। नोत्ता। भ्रस्ज पाके॥ ३॥ ग्रहिज्येति सम्प्रसारणम्। सस्य श्चुत्वेन शः। शस्य जश्त्वेन जः। भृज्जति, भृज्जते॥

भ्रस्जो रोपधयो रमन्यतरस्याम्॥ (लसक_६५५ = पा_६,४.४७)
भ्रस्जो रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके। मित्वादन्त्यादचः परः। स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः। बभर्ज। बभर्जतुः। बभर्जिथ, बभर्ष्ठ। बभ्रज्ज। बभ्रज्जतुः। बभ्रज्जिथ। स्कोरिति सलोपः। व्रश्चेति षः। बभ्रष्ठ। बभर्जे, बभ्रज्जे। भर्ष्टा, भ्रष्टा। भर्क्ष्यति, भ्रक्ष्यति। क्ङिति रमागमं बाधित्वा सम्प्रसारणं पूर्वविप्रतिषेधेन। भृज्ज्यात्। भृज्ज्यास्ताम्। भृज्ज्यासुः। भर्क्षीष्ट, भ्रक्षीष्ट। अभार्क्षीत्, अभ्राक्षीत्। अभर्ष्ट, अभ्रष्ट॥ कृष विलेखने॥ ४॥ कृषति कृषते। चकर्ष, चकृषे॥

अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्॥ (लसक_६५६ = पा_६,१.५९)
उपदेशे ऽनुदात्तो य ऋदुपधस्तस्याम्वा स्याज्झलादावकिति। क्रष्टा, कर्ष्टा। कृक्षीष्ट। (स्पृशमृशकृषतृपदृपां च्लेः सिज्वा वक्तव्यः)। अक्राक्षीत्, अकार्क्षीत्, अकृक्षत्। अकृष्ट। अकृक्षाताम्। अकृक्षत। क्सपक्षे अकृक्षत। अकृक्षाताम्। अकृक्षन्त॥ मिल संगमे॥ ५॥ मिलति, मिलते, मिमेल। मेलिता। अमेलीत्॥ मुचॢ मोचने॥ ६॥

शे मुचादीनाम्॥ (लसक_६५७ = पा_७,१.५९)
मुच् लिप् विद् लुप् सिच् कृत् खिद् पिशां नुम् स्यात् शे परे। मुञ्चति, मुञ्चते। मोक्ता। मुच्यात्। मुक्षीष्ट। अमुचत्, अमुक्त। अमुक्षाताम्। लुपॢ छेदने॥ ७॥ लुम्पति, लुम्पते। लोप्ता। अलुपत्। अलुप्त। विदॢ लाभे॥ ८॥ विन्दति, विन्दते। विवेद, विवेदे। व्याघ्रभूतिमते सेट्। वेदिता। भाष्यमते ऽनिट्। परिवेत्ता॥ षिच क्षरणे॥ ९॥ सिञ्चति, सिञ्चते॥

लिपिसिचिह्वश्च॥ (लसक_६५८ = पा_३,१.५३)
एभ्यश्च्लेरङ् स्यात्। असिचत्॥

आत्मनेपदेष्वन्यतरस्याम्॥ (लसक_६५९ = पा_३,१.५४)
लिपिसिचिह्वः परस्य च्लेरङ् वा। असिचत, असिक्त॥ लिप उपदेहे॥ १०॥ उपदेहो वृद्धिः। लिम्पति, लिम्पते। लेप्ता। अलिपत्, अलिपत, अलिप्त//
इत्युभयपदिनः।
कृती छेदने॥ ११॥ कृन्तति। चकर्त। कर्तिता। कर्तिष्यति, कर्त्स्यति। अकर्तीत्॥ खिद परिघाते॥ १२॥ खिन्दति। चिखेद। खेत्ता॥ पिश अवयवे॥ १३॥ पिंशति। पेशिता॥ ओव्रश्चू छेदने॥ १४॥ वृश्चति। वव्रश्च। वव्रश्चिथ, वव्रष्ठ। व्रश्चिता, व्रष्टा। व्रश्चिष्यति, व्रक्ष्यति। वृश्च्यात्। अव्रश्चीत्, अव्राक्षीत्॥ व्यच व्याजीकरणे॥ १५॥ विचति। विव्याच। विविचतुः। व्यचिता। व्यचिष्यति। विच्यात्। अव्याचीत्, अव्यचीत्। व्यचेः कुटादित्वमनसीति तु नेह प्रवर्तते, अनसीति पर्युदासेन कृन्मात्रविषयत्वात्॥ उछि उञ्छे॥ १६॥ उञ्छति। &न्ब्स्प्॑ऽुञ्छः कणश आदानं कणिशाद्यर्जनं शिलम्।&८२१७॑ इति यादवः॥ ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु॥ १७॥ ऋच्छति। ऋच्छत्यॄतामिति गुणः। द्विहल् ग्रहणस्य अनेक हलुपसक्षणत्वान्नुट्। आनर्च्छ। आनर्च्छतुः। ऋच्छिता॥ उज्झ उत्सर्गे॥ १८॥ उज्झति॥ लुभ विमोहने॥ १९॥ लुभति॥

तीषसहलुभरुषरिषः॥ (लसक_६६० = पा_७,२.४८)
इच्छत्यादेः परस्य तादेरार्धधातुकस्येड्वा स्यात्। लोभिता, लोब्धा। लोभिष्यति॥ तृप तृम्फ तृप्तौ॥ २०-२१॥ तृपति। ततर्प। तर्पिता। अतर्पीत्। तृम्फति। (शे तृम्फादीनां नुम् वाच्यः)। आदिशब्दः प्रकारे, तेन ये ऽत्र नकारानुषक्तास्ते तृम्फादयः। ततृम्फ। तृफ्यात्॥ मृड पृड सुखने॥ २२-२३॥ मृडति। पृडति। शुन गतौ॥ २४॥ शुनति॥ इषु इच्छायाम्॥ २५॥ इच्छति। एषिता, एष्टा। एषिष्यति। इष्यात्। ऐषीत्॥ कुट कौटिल्ये॥ २६॥ गाङ्कुटादीति ङित्त्वम्॥ चुकुटिथ। चुकोट, चुकुट। कुटिता॥ पुट संश्लेषणे॥ २७॥ पुटति। पुटिता। स्फुट विकसने॥ २८॥ स्पुटति। स्पुटिता॥ स्फुर स्फुल संचलने॥ २९-३०॥ स्फुरति। स्फुलति॥

स्फुरतिस्फुलत्योर्निर्निविभ्यः॥ (लसक_६६१ = पा_८,३.७६)
षत्वं वा स्यात्। निःष्फुरति, निःस्फुरति। णू स्तवने॥ ३१॥ परिणूतगुणोदयः। नुवति। नुनाव। नुविता॥ टुमस्जो शुद्धौ॥ ३२॥ मज्जति। ममज्ज। ममज्जिथ। मस्जिनशोरिति नुम्। (मस्जेरन्त्यात्पूर्वो नुम्वाच्यः)। संयेगादिलोपः। ममङ्क्थ। मङ्क्ता। मङ्क्ष्यति। अमाङ्क्षीत्। अमाङ्क्ताम्। अमाङ्क्षुः॥ रुजो भङ्गे॥ ३३॥ रुजति। रोक्ता। रोक्ष्यति। अरौक्षीत्॥ भुजो कौटिल्ये॥ ३४॥ रुजिवत्॥ विश प्रवेशने॥ ३५॥ विशति॥ मृश आमर्शने॥ ३६॥ आमर्शनं स्पर्शः॥ अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्॥ अम्राक्षीत्, अमार्क्षीत्, अमृक्षत्॥ षदॢ विशरणगत्यवसादनेषु॥ ३७॥ सीदतीत्यादि॥ शदॢ शातने॥ ३८॥

शदेः शितः॥ (लसक_६६२ = पा_१,३.६०)
शिद्भाविनो ऽस्मात्तङानौ स्तः। शीयते। शीयताम्। अशीयत। शीयेत। शशाद। शत्ता। शत्स्यति। अशदत्। अशत्स्यत्॥ कॄ विक्षेपे॥ ३९॥

ॠत इद्धातोः॥ (लसक_६६३ = पा_७,१.१००)
ॠदन्तस्य धातोरङ्गस्य इत्स्यात्। किरति। चकार। चकरतुः। चकरुः। करीता, करिता। कीर्यात्॥

किरतौ लवने॥ (लसक_६६४ = पा_६,१.१४०)
उपात्किरतेः सुट् छेदने/ उपस्किरति। (अडभ्यासव्यवाये ऽपि सुट्कात् पूर्व इति वक्तव्यम्)। उपास्किरत्। उपचस्कार॥

हिंसायां प्रतेश्च॥ (लसक_६६५ = पा_६,१.१४१)
उपात्प्रतेश्च किरतेः सुट् स्यात् हिंसायाम्। उपस्किरति। प्रतिस्किरति॥ गॄ निगरणे॥ ४०॥

अचि विभाषा॥ (लसक_६६६ = पा_८,२.२१)
गिरते रेफस्य लो वाजादौ प्रत्यये। गिरति, गिलति। जगार, जगाल। जगरिथ, जगलिथ। गरीता, गरिता, गलीता, गलिता॥ प्रच्छ ज्ञीप्सायाम्॥ ४२॥ ग्रहिज्येति सम्प्रसारणम्। पृच्छति। पप्रच्छ। पप्रच्छतुः। प्रष्टा। प्रक्ष्यति। अप्राक्षीत्॥ मृङ् प्राणत्यागे॥ ४२॥

म्रियतेर्लुङ्लिङोश्च॥ (लसक_६६७ = पा_१,३.६१)
लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र। रिङ्। इयङ्। म्रियते। ममार। मर्ता। मरिष्यति। मृषीष्ट। अमृत॥ पृङ् व्यायामे॥ ४३॥ प्रायेणायं व्याङ्पूर्वः। व्याप्रियते। व्यापप्रे। व्यापप्राते। व्यापरिष्यते। व्यापृत। व्यापृषाताम्॥ जुषी प्रीतिसेवनयोः॥ ४४॥ जुषते। जुजुषे॥ ओविजी भयचलनयोः॥ ४५॥ प्रायेणायमुत्पूर्वः। उद्विजते॥

विज इट्॥ (लसक_६६८ = पा_१,२.२)
विजेः पर इडादिप्रत्ययो ङिद्वत्। उद्विजिता॥

इति तुदादयः॥ ६॥

अथ रुधादयः

रुधिर् आवरणे॥ १॥

रुधादिभ्यः श्नम्॥ (लसक_६६९ = पा_३,१.७८)
शपो ऽपवादः। रुणद्धि। श्नसोरल्लोपः। रुन्धः। रुन्धन्ति। रुणत्सि। रुन्धः। रुन्ध। रुणध्मि। रुन्ध्वः। रुन्ध्मः। रुन्धे। रुन्धाते। रुन्धते। रुन्त्से। रुन्धाथे। रुन्ध्वे। रुन्धे। रुन्ध्वहे। रुन्ध्महे। रुरोध, रुरुधे। रोद्धासि, रोद्धासे। रोत्स्यसि, रोत्स्यसे। रोत्स्यति, रोत्स्यते। रुणद्धु, रुन्धात्। रुन्धाम्। रुन्धन्तु। रुन्धि। रुणधानि। रुणधाव। रुणधाम। रुन्धाम्। रुन्धाताम्। रुन्धताम्। रुन्त्स्व। रुणधै। रुणधावहै। रुणधामहै। अरुणत्, अरुणद्। अरुन्धताम्। अरुन्धन्। अरुणः, अरुणत्, अरुणद्। अरुन्ध। अरुन्धाताम्। अरुन्धत। अरुन्धाः। रुन्ध्यात्। रुन्धीत। रुध्यात्, रुत्सीष्ट। अरुधत्, अरौत्सीत्। अरुद्ध। अरुत्साताम्। अरुत्सत। अरोत्स्यत्, अरौत्सीत्। अरुद्ध। अरुत्साताम्। अरुत्सत। अरोत्स्यत्, अरोत्स्यत॥ भिदिर् विदारणे॥ २॥ छिदिर् द्वैधीकरणे॥ ३॥ युजिर् योगे॥ ४॥ रिचिर् विरेचने॥ ५॥ रिणक्ति, रिङ्क्ते। रिरेच। रेक्ता रेक्ष्यति अरिणक्। अरिचत्, अरैक्षीत्, अरिक्त॥ विचिर् पृथग्भावे॥ ६॥ विनक्ति विङ्क्ते॥ क्षुदिर् संपेषणे॥ ७॥ क्षुणत्ति, क्षुन्ते। क्षोत्ता॥ अक्षुदत्, अक्षौत्सीत्, अक्षुत्त। उच्छृदिर् दीप्तिदेवनयोः॥ ८॥ छृणत्ति छृन्ते। चच्छर्द। से ऽसिचीति वेट्। चच्छृदिषे, चच्छृत्से। छर्दिता। छर्दिष्यति, छर्त्स्यति। अच्छृदत्, अच्छर्दीत्, अच्छर्दिष्ट॥ उत्तृदिर् हिंसानादरयोः॥ ९॥ तृणत्ति, तृन्ते॥ कृती वेष्टने॥ १०॥ कृणत्ति॥ तृह हिसि हिंसायाम्॥ ११-१२//

तृणह इम्॥ (लसक_६७० = पा_७,३.९२)
तृहः श्नमि कृते इमागमो हलादौ पिति सार्वधातुके। तृणेढि। तृण्ढः। ततर्ह। तर्हिता। अतृणेट्॥

श्नान्नलोपः॥ (लसक_६७१ = पा_६,४.२३)
श्नमः परस्य नस्य लोपः स्यात्। हिनस्ति। जिहिंस। हिंसिता॥

तिप्यनस्तेः॥ (लसक_६७२ = पा_८,२.७३)
पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः। ससजुषोरुरित्यस्यापवादः। अहिनत्, अहिनद्। अहिंस्ताम्। अहिंसन्॥

सिपि धातो रुर्वा॥ (लसक_६७३ = पा_८,२.७४)
पदान्तस्य धातोः सस्य रुः स्याद्वा, पक्षे दः। अहिनः, अहिनत्, अहिनद्॥ उन्दी क्लेदने॥ १३॥ उनत्ति। उन्तः। उन्दन्ति। उन्दाञ्चकार। औनत्, औनद्। औन्ताम्। औन्दन्। औनः, औनत्, औनद्। औनदम्॥ अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु॥ १४॥ अनक्ति। अङ्क्तः। अञ्जन्ति। आनञ्ज। आनञ्जिथ, आनङ्क्थ। अञ्जिता, अङ्क्ता। अङ्ग्धि। अनजानि। आनक्॥

अञ्जेः सिचि॥ (लसक_६७४ = पा_७,२.७१)
अञ्जेः सिचो नित्यमिट् स्यात्। आञ्जीत्॥ तञ्चू संकोचने॥ १५॥ तनक्ति। तञ्चिता, तङ्क्ता। ओविजी भयचलनयोः॥ १६॥ विनक्ति॥ विङ्क्तः। विज इडिति ङित्त्वम्। विविजिथ। विजिता। अविनक्। अविजीत्॥ शिषॢ विशेषणे॥ १७॥ शिनष्टि। शिं शिंष्टः। शिंषन्ति। शिनक्षि। शिशेष। शिशेषिथ। शेष्टा। शेक्ष्यति। हेर्धिः। शिण्ड्ढि। शिनषाणि। अशिनट्। शिंष्यात्। शिष्यात्। अशिषत्॥ एवं पिषॢ संचूर्णने॥ १८॥ भञ्जो आमर्दने॥ १९॥ श्नान्नलोपः। भनक्ति। बभञ्जिथ, बभङ्क्थ। भङ्क्ता। भङ्ग्धि। अभाङ्क्षीत्॥ भुज पालनाभ्यवहारयोः॥ २०॥ भुनक्ति। भोक्ता। भोक्ष्यति। अभुनक्॥

भुजो ऽनवने॥ (लसक_६७५ = पा_१,३.६६)
तङानौ स्तः। ओदनं भुङ्क्ते। अनवने किम्? महीं भुनक्ति॥ ञिइन्धी दीप्तौ॥ २१॥ इन्द्धे। इन्धाते। इन्धाताम्। इनधै। ऐन्ध। ऐन्धताम्। ऐन्धाः। विद विचारणे॥ २२॥ विन्ते। वेत्ता॥

इति रुधादयः॥ ७॥

अथ तनादयः

तनु विस्तारे॥ १॥

तनादिकृञ्भ्य उः॥ (लसक_६७६ = पा_६,१.७९)
शपो ऽपवादः। तनोति, तनुते। ततान, तेने। तनितासि, तनितासे। तनोतु। तनुताम्। अतनोत्, अतनुत। तनुयात्, तन्वीत। तन्यात्, तनिषीष्ट। अतानीत्, अतनीत्॥

तनादिभ्यस्तथासोः॥ (लसक_६७७ = पा_२,४.७९)
तनादेः सिचो वा लुक् स्यात्तथासोः। अतत, अतनिष्ट। अतथाः, अतनिष्टाः। अतनिष्यत्, अतनिष्यत॥ षणु दाने॥ २॥ सनोति, सनुते॥


ये विभाषा॥ (लसक_६७८ = पा_६,४.४३)
जनसनखनामात्वं वा यादौ क्ङिति। सायात्, सन्यात्॥

जनसनखनां सञ्झलोः॥ (लसक_६७९ = पा_६,४.४२)
एषामाकारे ऽन्तादेशः स्यात् सनि झलादौ क्ङिति। असात, असनिष्ट॥ क्षणु हिंसायाम्॥ ३॥ क्षणोति, क्षणुते॥ ह्म्यन्तेति न वृद्धिः। अक्षणीत्, अक्षत, अक्षणिष्ट। अक्षथाः, अक्षणिष्ठाः॥ क्षिणु च॥ ४॥ अप्रत्यये लघूपधस्य गुणो वा। क्षेणोति, क्षिणोति। क्षेणिता। अक्षेणीत्, अक्षित, अक्षेणिष्ट॥ तृणु अदने॥ ५॥ तृणोति, तर्णोति॑ तृणुते, तर्णुते॥ डुकृञ् करणे॥ ६॥ करोति॥

अत उत्सार्वधातुके॥ (लसक_६८० = पा_६,४.११०)
उप्रत्ययान्तस्य कृञो ऽकारस्य उः स्यात् सार्वधातुके क्ङिति। कुरुतः॥

न भकुर्छुराम्॥ (लसक_६८१ = पा_८,२.७९)
भस्य कुर्छुरोरुपधाया न दीर्घः। कुर्वन्ति॥

नित्यं करोतेः॥ (लसक_६८२ = पा_६,४.१०८)
करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः परयोः। कुर्वः। कुर्मः। कुरुते। चकार, चक्रे। कर्तासि, कर्तासे। करिष्यति, करिष्यते। करोतु। कुरुताम्। अकरोत्। अकुरुत॥

ये च॥ (लसक_६८३ = पा_६,४.१०९)
कृञ उलोपो यादौ प्रत्यये परे। कुर्यात्, कुर्वीत। क्रियात्, कृषीष्ट। अकार्षीत्, अकृत। अकरिष्यत्, अकरिष्यत॥

सम्परिभ्यां करोतौ भूषणे॥ (लसक_६८४ = पा_६,१.१३७)

समवाये च॥ (लसक_६८५ = पा_६,१.१३८)
सम्परिपूर्वस्य करोतेः सुट् स्याद् भूषणे संघाते चार्थे। संस्करोति। अलङ्करोतीत्यर्थः। संस्कुर्वन्ति। सङ्घीभवन्तीत्यर्थः। सम्पूर्वस्य क्वचिदभूषणे ऽपि सुट्। संस्कृतं भक्षा इति ज्ञापकात्॥

उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च॥ (लसक_६८६ = पा_६,१.१३९)
उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः। प्रतियत्नो गुणाधानम्। विकृतमेव वैकृतं विकारः। वाक्याध्याहार आकाङ्क्षितैकदेशपूरणम्। उपस्कृता कन्या। उपस्कृता ब्राह्मणाः। एधोदकस्योपस्करोति। उपस्कृतं भुङ्क्ते। उपस्कृतं ब्रूते॥ वनु याचने॥ ७॥ वनुते। ववने॥ मनु अवबोधने॥ ८॥ मनुते। मेने। मनिष्यते। मनुताम्। अमनुत। मन्वीत। मनिषीष्ट। अमत, अमनिष्ट। अमनिष्यत॥

इति तनादयः॥ ८॥

अथ क्र्यादयः

डुक्रीञ् द्रव्यविनिमये॥ १॥

क्र्यादिभ्यः श्ना॥ (लसक_६८७ = पा_३,१.८१)
शपो ऽपवादः। क्रीणाति। ई हल्यघोः। क्रीणीतः। श्नाभ्यस्तयोरातः। क्रीणन्ति। क्रीणासि। क्रीणीथः। क्रीणीथ। क्रीणामि। क्रीणीवः। क्रीणीमः। क्रीणीते। क्रीणाते। क्रीणते। क्रीणीषे। क्रीणाथे। क्रीणीध्वे। क्रीणे। क्रीणीवहे। क्रीणीमहे। चिक्राय। चिक्रियतुः। चिक्रियुः। चिक्रयिथ, चिक्रेथ। चिक्रिय। चिक्रिये। क्रेता। क्रेष्यति, क्रेष्यते। क्रीणातु, क्रीणीतात्। क्रीणीताम्। अक्रीणात्, अक्रीणीत। क्रीणीयात्, क्रीणीत। क्रीयात्, क्रेषीष्ट। अक्रैषीत्, अक्रेष्यत॥ प्रीञ् तर्पणे कान्तौ च॥ २॥ प्रीणाति, प्रीणीते॥ श्रीञ् पाके॥ ३॥ श्रीणाति, श्रीणीते॥ मीञ् हिंसायाम्॥ ४॥

हिनुमीना॥ (लसक_६८८ = पा_८,४.१५)
उपसर्गस्थान्निमित्तात्परस्यैतयोर्नस्य णः स्यात्। प्रमीणाति, प्रमीणीते। मीनातीत्यात्वम्। ममौ। मिम्यतुः। ममिथ, ममाथ। मिम्ये। माता। मास्यति। मीयात्, मासीष्ट। अमासीत्। अमासिष्टाम्। अमास्त॥ षिञ् बन्धने॥ ५॥ सिनाति, सिनीते। सिषाय, सिष्ये। सेता॥ स्कुञ् आप्लवने॥ ६॥

स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च॥ (लसक_६८९ = पा_३,१.८२)
चात् श्ना। स्कुनोति, स्कुनाति। स्कुनुते, स्कुनीते। चुस्काव, चुस्कुवे। स्कोता। अस्कौषीत्, अस्कोष्ट॥ स्तन्भ्वादयश्चत्वारः सौत्राः। सर्वे रोधनार्थाः परस्मैपदिनः॥

हलः श्नः शानज्झौ॥ (लसक_६९० = पा_३,१.८३)
हलः परस्य श्नः शानजादेशः स्याद्धौ परे। स्तभान॥

जॄस्तन्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च॥ (लसक_६९१ = पा_३,१.५८)
च्लेरङ् वा स्यात्॥

स्तन्भेः॥ (लसक_६९२ = पा_८,३.६७)
स्तन्भेः सौत्रस्य सस्य षः स्यात्। व्यष्टभत्। अस्तम्भीत्॥ युञ् बन्धने॥ ७॥ युनाति, युनीते। योता॥ क्नूञ् शब्दे॥ ८॥ क्नूनाति, क्नूनीते॥ द्रूञ् हिंसायाम्॥ ९॥ द्रूणाति, द्रूणीते॥ दॄ विदारणे॥ १०॥ दृणाति, दृणीते॥ पूञ् पवने॥ ११॥

प्वादीनां ह्रस्वः॥ (लसक_६९३ = पा_७,३.८०)
पूञ् लूञ् स्तॄञ् कॄञ् वॄञ् धूञ् शॄ पॄ वॄ भॄ मॄ दॄ जॄ झॄ धॄ नॄ कॄ ॠ गॄ ज्या री ली व्ली प्लीनां चतुर्विंशतेः शिति ह्रस्वः। पुनाति, पुनीते। पविता॥ लूञ् छेदने॥ १२॥ लुनाति, लुनीते॥ स्तॄञ् आच्छादने॥ १३॥ स्तृणाति। शर्पूर्वाः खयः। तस्तार। तस्तरतुः। तस्तरे। स्तरीता। स्तरिता। स्तृणीयात्, स्तृणीत। स्तीर्यात्॥

लिङ्सिचोरात्मनेपदेषु॥ (लसक_६९४ = पा_७,२.४२)
वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड् वा स्यात्तङि॥

न लिङि॥ (लसक_६९५ = पा_७,२.३९)
वॄत इटो लिङि न दीर्घः। स्तरिषीष्ट। उश्चेति कित्त्वम्। स्तीर्षीष्ट। सिचि च परस्मैपदेषु। अस्तारीत्। अस्तारिष्टाम्। अस्तारिषुः। अस्तरीष्ट, अस्तरिष्ट, अस्तीर्ष्ट॥ कृञ् हिंसायाम्॥ १४॥ कृणाति, कृणीते। चकार, चकरे॥ वृञ् वरणे॥ १५॥ वृणाति, वृणीते। ववार, ववरे। वरिता, वरीता। उदोष्ठ्येत्युत्त्वम्। वूर्यात्। वरिषीष्ट, वूर्षीष्ट। अवारीत्। अवारिष्टाम्। अवरिष्ट, अवरीष्ट, अवूर्ष्ट॥ धूञ् कम्पने॥ १६॥ धुनाति, धुनीते। धविता, धोता। अधावीत्। अधविष्ट, अधोष्ट॥ ग्रह उपादाने॥ १७॥ गृह्णाति, गृह्णीते। जग्राह, जगृहे॥

ग्रहो ऽलिटि दीर्घः॥ (लसक_६९६ = पा_७,२.३७)
एकाचो ग्रहेर्विहितस्येटो दीर्घो न तु लिटि। ग्रहीता। गृह्णातु। हलः श्नः शानज्झाविति श्नः शानजादेशः। गृहाण। गृह्यात्, ग्रहीषीष्ट। ह्म्यन्तेति न वृद्धिः। अग्रहीत्। अग्रहीष्टाम्। अग्रहीष्ट। अग्रहीषाताम्॥ कुष्अ निष्कर्षे॥ १८॥ कुष्णाति। कोषिता॥ अश भोजने॥ १९॥ अश्नाति। आश। अशिता। अशिष्यति। अश्नातु। अशान॥ मुष स्तेये॥ २०॥ मोषिता। मुषाण॥ ज्ञा अवबोधने॥ २१॥ जज्ञौ॥ वृङ् संभक्तौ॥ २२॥ वृणीते। ववृषे॥ ववृढ्वे। वरिता, वरीता। अवरीष्ट, अवरिष्ट, अवृत॥

इति क्र्यादयः॥ ९॥

अथ चुरादयः

चुर स्तेये॥ १॥

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्ण चुरादिभ्यो णिच्॥ (लसक_६९७ = पा_२,१.२५)
एभ्यो णिच् स्यात्। चूर्णान्तेभ्यः ऽप्रातिपदिकाद्धात्वर्थे&८२१७॑ इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम्। चुरादिभ्यस्तु स्वार्थे। पुगन्तेति गुणः। सनाद्यन्ता इति धातुत्वम्। तिप्शबादि। गुणायादेशौ। चोरयति॥

णिचश्च॥ (लसक_६९८ = पा_१,३.७४)
णिजन्तादात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले। चोरयते। चोरयामास। चोरयिता। चोर्यात्, चोरयिषीष्ट। णिश्रीति चङ्। णौ चङीति ह्रस्वः। चङीति द्वित्वम्। हलादिः शेषः। दीर्घो लघोरित्यभ्यासस्य दीर्घः। अचूचुरत्, अचूचुरत॥ कथ वाक्यप्रबन्धे॥ २॥ अल्लोपः॥

अचः परस्मिन्पूर्वविधौ॥ (लसक_६९९ = पा_१,१.५७)
अल्विध्यर्थमिदम्। परनिमित्तो ऽजादेशः स्थानिवत् स्यात्स्थानि भूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये। इति स्थानिवत्वान्नोपधावृद्धिः। कथयति। अग्लोपित्वाद्दीर्घसन्वद्भावौ न। अचकथत्॥ गण संख्याने॥ ३॥ गणयति॥

ई च गणः॥ (लसक_७०० = पा_७,४.९७)
गणयतेरभ्यासस्य ई स्याच्चङ्परे णौ चादत्। अजीगणत्, अजगणत्॥

इति चुरादयः॥

अथ ण्यन्तप्रक्रिया

स्वतन्त्रः कर्ता॥ (लसक_७०१ = पा_१,४.५४)
क्रियायां स्वातन्त्र्येण विवक्षितोर्ऽथः कर्ता स्यात्॥

तत्प्रयोजको हेतुश्च॥ (लसक_७०२ = पा_१,४.५५)
कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात्॥

हेतुमति च॥ (लसक_७०३ = पा_३,१.२६)
प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात्। भवन्तं प्रेरयति भावयति॥

ओः पुयण्ज्यपरे॥ (लसक_७०४ = पा_७,४.८०)
सनि परे यदङ्गं तदवयवाभ्यासोकारस्य इत्स्यात् पवर्गयण्जकारेष्ववर्णपरेषु परतः॥ अबीभवत्॥ ष्ठा गतिनिवृत्तौ॥

अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ् णौ॥ (लसक_७०५ = पा_७,३.३६)
स्थापयति॥

तिष्ठतेरित्॥ (लसक_७०६ = पा_७,४.५)
उपधाया इदादेशः स्याच्चङ्परे णौ। अतिष्ठिपत्॥ घट चेष्टायाम्॥

मितां ह्रस्वः॥ (लसक_७०७ = पा_६,४.९२)
घटादीनां ज्ञपादीनां चोपधाया ह्रस्वः स्याण्णौ। घटयति॥ ज्ञप ज्ञाने ज्ञापने च॥ ज्ञपयति। अजिज्ञपत्॥

इति ण्यन्तप्रक्रिया

अथ सन्नन्तप्रक्रिया

धातोः कर्मणः समानकर्तृकादिच्छायां वा॥ (लसक_७०८ = पा_३,१.७)
इषिकर्मण इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम्॥ पठ व्यक्तायां वाचि॥

सन्यङोः॥ (लसक_७०९ = पा_६,१.९)
सन्नन्तस्य यङन्तस्य च धातोरनभ्यासस्य प्रथमस्यैकाचो द्वे स्तो ऽजादेस्तु द्वितीयस्य। सन्यतः। पठितुमिच्छति पिपठिषति। कर्मणः किम् ? गमनेनेच्छति। समान कर्तृकात् किम् ? शिष्याः पठन्त्वितीच्छति गुरुः। वा ग्रहणाद्वाक्यमपि॥ लुङ्सनोर्घसॢ॥

सः स्यार्धधातुके॥ (लसक_७१० = पा_७,४.४९)
सस्य तः स्यात्सादावार्धधातुके। अत्तुमिच्छति जिघत्सति। एकाच इति नेट्॥

अज्झनगमां सनि॥ (लसक_७११ = पा_६,४.१६)
अजन्तानां हन्तेरजादेशगमेश्च दीर्घो झलादौ सनि॥

इको झल्॥ (लसक_७१२ = पा_१,२.९)
इगन्ताज्झलादिः सन् कित् स्यात्। ॠत इद्धातोः। कर्तुमिच्छति चिकीर्षति॥

सनि ग्रहगुहोश्च॥ (लसक_७१३ = पा_७,२.१२)
ग्रहेर्गुहेरुगन्ताच्च सन इण् न स्यात्। बुभूषति॥

इति सन्नन्तप्रक्रिया॥

अथ यङन्तप्रक्रिया

धातोरेकाचो हलादेः क्रियासमभिहारे यङ्॥ (लसक_७१४ = पा_३,१.२२)
पौनःपुन्ये भृशार्थे च द्योत्ये धातोरेकाचो हलादेर्यङ् स्यात्॥

गुणो यङ्लुकोः॥ (लसक_७१५ = पा_७,४.८२)
अभ्यासस्य गुणो यङि यङ्लुकि च परतः। ङिदन्तत्वादात्मनेपदम्। पुनः पुनरतिशयेन वा भवति बोभूयते। बोभूयाञ्चक्रे। अबोभूयिष्ट॥

नित्यं कौटिल्ये गतौ॥ (लसक_७१६ = पा_३,१.२३)
गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे॥

दीर्घो ऽकितः॥ (लसक_७१७ = पा_७,४.८३)
अकितो ऽभ्यासस्य दीर्घो यङ्यङ्लुकोः। कुटिलं व्रजति वाव्रज्यते॥

यस्य हलः॥ (लसक_७१८ = पा_६,४.४९)
यस्येति संघातग्रहणम्। हलः परस्य यशब्दस्य लोप आर्धधातुके। आदेः परस्य। अतो लोपः। वाव्रजाञ्चक्रे। वाव्रजिता॥

रीगृदुपधस्य च॥ (लसक_७१९ = पा_७,४.९०)
ऋदुपधस्य धातोरभ्यासस्य रीगागमो यङ्यङ्लुकोः। वरीवृत्यते। वरीवृताञ्चक्रे। वरीवर्तिता॥

क्षुभ्नादिषु च॥ (लसक_७२० = पा_८,४.३९)
णत्वं न। नरीनृत्यते। जरीगृह्यते॥

इति यङन्त प्रक्रिया॥

अथ यङ्लुक् प्रक्रिया

यङोऽचि च॥ (लसक_७२१ = पा_२,४.७४)
यङोऽचि प्रत्यये लुक् स्यात्, चकारात्तं विनापि क्वचित्। अनैमित्तिको ऽय मन्तरङ्गत्वादादौ भवति। ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम्। अभ्यासकार्यम्। धातुत्वाल्लडादयः। शेषात्कर्तरीति परस्मैपदम्। चर्करीतं चेत्यदादौ पाठाच्छपो लुक्॥

यङो वा॥ (लसक_७२२ = पा_७,३.९४)
यङ्लुगन्तात्परस्य हलादेः पितः सार्वधातुकस्येड् वा स्यात्। भूसुवोरिति गुणनिषेधो यङ्लुकि भाषायां न, बोभोतु, तेतिक्ते इति छन्दसि निपातनात्। बोभवीति, बोभोति। बोभूतः। अदभ्यस्तात्। बोभुवति। बोभवाञ्चकार, बोभवामास। बोभविता। बोभविष्यति। बोभवीतु, बोभोतु, बोभूतात्। बोभूताम्। बोभुवतु। बोभूहि। बोभवानि। अबोभवीत्, अबोभोत्। अबोभूताम्। अबोभवुः। बोभूयात्। बोभूयाताम्। बोभूयुः। बोभूयात्। बोभूयास्ताम्। बोभूयासुः। गातिस्थेति सिचो लुक्। यङो वेतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वुक्। अबोभूवीत्, अबोभोत्। अबोभूताम्। अबोभूवुः। अबोभविष्यत्॥ &न्ब्स्प्॑.

इति यङ्लुक् प्रक्रिया॥

अथ नामधातवः

सुप आत्मनः क्यच्॥ (लसक_७२३ = पा_३,१.८)
इषिकर्मण एषितुः संबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात्॥

सुपो धातुप्रातिपदिकयोः॥ (लसक_७२४ = पा_२,४.७१)
एतयोरवयवस्य सुपो लुक्॥

क्यचि च॥ (लसक_७२५ = पा_७,४.३३)
अवर्णस्य ईः। आत्मनः पुत्रमिच्छति पुत्रीयति॥

नः क्ये॥ (लसक_७२६ = पा_१,४.१५)
क्यचि क्यङि च नान्तमेव पदं नान्यत्। नलोपः। राजीयति। नान्तमेवेति किम्? वाच्यति। हलि च। गीर्यति। पूर्यति। धातोरित्येव। नेह - दिवमिच्छति दिव्यति॥

क्यस्य विभाषा॥ (लसक_७२७ = पा_६,४.५०)
हलः परयोः क्यच्क्यङारेलोपो वार्धधातुके। आदेः परस्य। अतो लोपः। तस्य स्थानिवत्त्वाल्लघूपधगुणो न। समिधिता, समिध्यिता॥

काम्यच्च॥ (लसक_७२८ = पा_३,१.९)
उक्तविषये काम्यच् स्यात्। पुत्रमात्मन इच्छति पुत्रकाम्यति। पुत्रकाम्यिता॥

उपमानादाचारे॥ (लसक_७२९ = पा_३,१.१०)
उपमानात्कर्मणः सुबन्तादाचारेर्ऽथे क्यच्। पुत्रमिवाचरति पुत्रीयति छात्रम्। विष्णूयति द्विजम्॥ (सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः)। अतो गुणे। कृष्ण इवाचरति कृष्णति। स्व इवाचरति स्वति। सस्वौ॥

अनुनासिकस्य क्विझलोः क्ङिति॥ (लसक_७३० = पा_६,४.१५)
अनुनासिकान्तस्योपधाया दीर्घः स्यात्क्वौ झलादौ च क्ङिति। इदमिवाचरति इदामति। राजेव राजानति। पन्था इव पथीनति॥

कष्टाय क्रमणे॥ (लसक_७३१ = पा_२,१.१४)
चतुर्थ्यन्तात् कष्टशब्दादुत्साहेर्ऽथे क्यङ् स्यात्। कष्टाय क्रमते कष्टायते। पापं कर्तुमुत्सहत इत्यर्थः॥

शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे॥ (लसक_७३२ = पा_३,१.१७)
एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात्। शब्दं करोति शब्दायते॥ (ग.सू) तत्करोति तदाचष्टे॑ इति णिच्॥ (ग.सू) प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च। प्रातिपदिकाद्धात्वर्थे णिच् स्यात्, इष्ठे यथा प्रातिपदिकस्य पुंवद्भाव-रभाव-टिलोप- विन्मतुब्लोप-यणादिलोप-प्रस्थस्फाद्यादेश-भसंज्ञास्तद्वण्णावपि स्युः। इत्यल्लोपः। घटं करोत्याचष्टे वा घटयति॥

इति नामधातवः

अथ कण्ड्वादयः॥

कण्ड्वादिभ्यो यक्॥ (लसक_७३३ = पा_३,१.२७)
एभ्यो धातुभ्यो नित्यं यक् स्यात्स्वार्थे। कण्डूञ् गात्रविघर्षणे॥ १॥ कण्डूयति। कण्डूयत इत्यादि॥

इति कण्ड्वादयः॥

अथात्मनेपदप्रक्रिया

कर्तरि कर्मव्यतिहारे॥ (लसक_७३४ = पा_१,३.१४)
क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदम्। व्यतिलुनीते। अन्यस्य योग्यं लवनं करोतीत्यर्थः॥

न गतिहिंसार्थेभ्यः॥ (लसक_७३५ = पा_१,३.१५)
व्यतिगच्छन्ति। व्यतिघ्नन्ति॥

नेर्विशः॥ (लसक_७३६ = पा_१,३.१७)
निविशते॥

परिव्यवेभ्यः क्रियः॥ (लसक_७३७ = पा_१,३.१८)
परिक्रीणीते। विक्रीणीते। अवक्रीणीते॥

विपराभ्यां जेः॥ (लसक_७३८ = पा_१,३.१९)
विजयते। पराजयते॥

समवप्रविभ्यः स्थः॥ (लसक_७३९ = पा_१,३.२२)
संतिष्ठते। अवतिष्ठते। प्रतिष्ठते। वितिष्ठते॥

अपह्नवे ज्ञः॥ (लसक_७४० = पा_१,३.४४)
शतमपजानीते। अपलपतीत्यर्थः॥

अकर्मकाच्च॥ (लसक_७४१ = पा_१,३.४५)
सर्पिषो जानीते। सर्पिषोपायेन प्रवर्तत इत्यर्थः॥

उदश्चरः सकर्मकात्॥ (लसक_७४२ = पा_१,३.५३)
धर्ममुच्चरते। उल्लङ्घ्य गच्छतीत्यर्थः॥

समस्तृतीयायुक्तात्॥ (लसक_७४३ = पा_१,३.५४)
रथेन सञ्चरते॥

दाणश्च सा चेच्चतुर्थ्यर्थे॥ (लसक_७४४ = पा_१,३.५५)
सम्पूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे। दास्या संयच्छते कामी॥

पूर्ववत्सनः॥ (लसक_७४५ = पा_१,२.६२)
सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात्। एदिधिष्यते॥

हलन्ताच्च॥ (लसक_७४६ = पा_१,२.१०)
इक्समीपाद्धलः परो झलादिः सन् कित्। निविविक्षते॥

गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु॥ (लसक_७४७ = पा_१,३.३२॥ कृञः
गन्धनं सूचनम्। उत्कुरुते। सूचयतीत्यर्थः। अवक्षेपणं भर्त्सनम्। श्येनो वर्तिकामुत्कुरुते। भर्त्सयतीत्यर्थः। हरिमुपकुरुते। सेवत इत्यर्थः। परदारान् प्रकुरुते। तेषु सहसा प्रवर्तते। एधोदकस्योपस्कुरुते। गुणमाधत्ते। कथाः प्रकुरुते। प्रकथयतीत्यर्थः। शतं प्रकुरुते। धर्मार्थं विनियुङ्क्ते। एषु किम् ? कटं करोति॥

भुजो ऽनवने॥ (लसक_७४८ = पा_१,३.६६)
ओदनं भुङ्क्ते। अनवने किम् ? महीं भुनक्ति॥

इत्यात्मनेपदप्रक्रिया॥

अथ परस्मैपदप्रक्रिया

अनुपराभ्यां कृञः॥ (लसक_७४८अ = पा_१,३.७९)
कर्तृगे च फले गन्धनादौ च परस्मैपदं स्यात्। अनुकरोति। पराकरोति॥

अभिप्रत्यतिभ्यः क्षिपः॥ (लसक_७४९ = पा_१,३.८०)
क्षिप प्रेरणे स्वरितेत्। अभिक्षिपति॥

प्राद्वहः॥ (लसक_७५० = पा_१,३.८१)
प्रवहति॥

परेर्मृषः॥ (लसक_७५१ = पा_१,३.८२)
परिमृष्यति॥

व्याङ्परिभ्यो रमः॥ (लसक_७५२ = पा_१,३.८३)
रमु क्रीडायाम्॥ विरमति॥

उपाच्च॥ (लसक_७५३ = पा_१,३.८४)
यज्ञदत्तमुपरमति। उपरमयतीत्यर्थः। अन्तर्भावितण्यर्थो ऽयम्॥

इति परस्मैपदप्रक्रिया॥
इति पदव्यवस्था॥

अथ भावकर्मप्रक्रिया

भावकर्मणोः॥ (लसक_७५४ = पा_१,३.१३)
लस्यात्मनेपदम्॥

सार्वधातुके यक्॥ (लसक_७५५ = पा_३,१.६७)
धातोर्यक् भावकर्मवाचिनि सार्वधातुके। भावः क्रिया। सा च भावार्थकलकारेणानूद्यते। युष्मदस्मद्भ्यां सामानाधिकरण्याभावात्प्रथमः पुरुषः। तिङ्वाच्यक्रियाया अद्रव्य रूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि किंत्वेकवचनमेवोत्सर्गतः।
त्वया मया अन्यैश्च भूयते। बभूवे॥

स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशे ऽज्झनग्रहदृशां वा चिण्वदिट् च॥ (लसक_७५६ = पा_६,४.६२)
उपदेशे यो ऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च। चिण्वद्भावपक्षे ऽयमिट्। चिण्वद्भावाद् वृद्धिः। भाविता, भविता। भाविष्यते, भविष्यते। भूयताम्। अभूयत। भाविषीष्ट, भविषीष्ट॥

चिण् भावकर्मणोः॥ (लसक_७५७ = पा_३,१.६६)
च्लेश्चिण्स्याद्भावकर्मवाचिनि तशब्दे परे। अभावि। अभाविष्यत, अभविष्यत। अकर्मको ऽप्युपसर्गवशात्सकर्मकः। अनुभूयते आनन्दश्चैत्रेण त्वया मया च। अनुभूयेते। अनुभूयन्ते। त्वमनुभूयसे। अहमनुभूये। अन्वभावि। अन्वभाविषाताम्, अन्वभविषाताम्। णिलोपः। भाव्यते। भावयाञ्चक्रे, भावयाम्बभूवे, भावयामासे। चिण्वदिट्। आभीयत्वेना सिद्धत्वाण्णिलोपः। भाविता, भावयिता। भाविष्यते, भावयिष्यते। अभाव्यत। भाव्येत। भाविषीष्ट, भावयिषीष्ट। अभावि। अभाविषाताम्, अभावयिषाताम्॥ बुभूष्यते॥ अकृत्सार्वधातुकयोर्दीर्घः। स्तूयते विष्णुः। स्ताविता, स्तोता। स्ताविष्यते, स्तोष्यते। अस्तावि। अस्ताविषाताम्, अस्तोषाताम्॥ गतौ। गुणोर्ऽतीति गुणः। अर्यते॥ स्मृ स्मरणे। स्मर्यते। सस्मरे। उपदेशग्रहणाच्चिण्वदिट्। आरिता, अर्ता। स्मारिता, स्मर्ता। अनिदितामिति नलोपः। त्रस्यते। इदितस्तु नन्द्यते। संप्रसारणम्। इज्यते॥

तनोतेर्यकि॥ (लसक_७५८ = पा_६,४.४४)
आकारो ऽन्तादेशो वा स्यात्। तायते, तन्यते॥

तपो ऽनुतापे च॥ (लसक_७५९ = पा_३,१.६५)
तपश्च्लेश्चिण् न स्यात् कर्मकर्तर्यनुतापे च। अन्वतप्त पापेन। घुमास्थेतीत्त्वम्। दीयते। धीयते। ददे॥

आतो युक् चिण्कृतोः॥ (लसक_७६० = पा_७,३.३३)
आदन्तानां युगागमः स्याच्चिणि ञ्णिति कृति च। दायिता, दाता। दायिषीष्ट, दासीष्ट। अदायि। अदायिषाताम्॥ भज्यते॥

भञ्जेश्च चिणि॥ (लसक_७६१ = पा_६,४.३३)
नलोपो वा स्यात्। अभाजि, अभञ्जि॥ लभ्यते॥

विभाषा चिण्णमुलोः॥ (लसक_७६२ = पा_७,१.६९)
लभेर्नुमागमो वा स्यात्। अलम्भि, अलाभि॥

इति भावप्रक्रिया॥

अथ कर्मकर्तृप्रक्रिया

यदा कर्मैव कर्तृत्वेन विवक्षितं तदा सकर्मकाणामप्यकर्मकत्वात्कर्तरि भावे च लकारः॥

कर्मवत्कर्मणा तुल्यक्रियः॥ (लसक_७६३ = पा_३,१.८७)
कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात्। कार्यातिदेशो ऽयम्। तेन यगात्मनेपदचिण्वदिटः स्युः। पच्यते फलम्। भिद्यते काष्ठम्। अभेदि। भावे, भिद्यते काष्ठेन॥

इति कर्मकर्तृप्रक्रिया॥

अथ लकारार्थप्रक्रिया

अभिज्ञावचने ऌट्॥ (लसक_७६४ = पा_३,१.११२)
स्मृतिबोधिन्युपपदे भूतानद्यतने धातोरॢट्। लङोऽपवादः॥ वस निवासे॥ स्मरसि कृष्ण गोकुले वत्स्यामः। एवं बुध्यसे, चेतयसे, इत्यादिप्रयोगे ऽपि॥

न यदि॥ (लसक_७६५ = पा_३,१.११३)
यद्योगे उक्तं न। अभिजानासि कृष्ण यद्वने अभुञ्ज्महि॥

लट् स्मे॥ (लसक_७६६ = पा_३,२.११८)
लिटो ऽपवादः। यजति स्म युधिष्ठिरः॥

वर्तमानसमीप्ये वर्तमानवद्वा॥ (लसक_७६७ = पा_३,३.१३१)
वर्तमाने ये प्रत्यया उक्तास्ते वर्तमानसामीप्ये भूते भविष्यति च वा स्युः। कदागतो ऽसि। अयमागच्छामि, अयमागमं वा। कदा गमिष्यसि। एष गच्छामि, गमिष्यामि वा॥

हेतुहेतुमतोर्लिङ्॥ (लसक_७६८ = पा_३,३.१५६)
वा स्यात्। कृष्णं नमेच्चेत्सुखं यायात्। कृष्णं नंस्यति चेत्सुखं यास्यति। (भविष्यत्येवेष्यते)। नेह। हन्तीति पलायते॥ विधिनिमन्त्रणेति लिङ्। विधिः प्रेरणं भृत्यादेर्निकृष्टस्य प्रवर्तनम्। यजेत॥ निमन्त्रणं नियोगकरणम्, आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम्। इह भुञ्जीत॥ आमन्त्रणं कामचारानुज्ञा। इहासीत॥ अधीष्टं सत्कारपूर्वको व्यापारः। पुत्रमध्यापयेद् भवान्॥ संप्रश्नः संप्रधारणम्। किं भो वेदमधीयीय उत तर्कम्॥ प्रार्थनं याच्ञा। भो भोजनं लभेय। एवं लोट्॥

इति लकारार्थप्रक्रिया॥
इति तिङन्तं समाप्तम्॥

अथ कृदन्ते कृत्प्रक्रिया

धातोः॥ (लसक_७६९ = पा_३,१.९१)
आतृतीयाध्यायसमाप्तेर्ये प्रत्ययास्ते धातोः परे स्युः। कृदतिङिति कृत्संज्ञा॥

वासरूपो ऽस्त्रियाम्॥ (लसक_७७० = पा_३,१.९४)
अस्मिन्धात्वधिकारे ऽसरूपो ऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना॥

कृत्याः॥ (लसक_७७१ = पा_३,१.९५)
ण्वुल्तृचावित्यतः प्राक् कृत्यसंज्ञाः स्युः॥

कर्तरि कृत्॥ (लसक_७७२ = पा_३,४.६७)
कृत्प्रत्ययः कर्तरि स्यात्। इति प्राप्ते --.

तयोरेव कृत्यक्तखलर्थाः॥ (लसक_७७३ = पा_३,४.७०)
एते भावकर्मणोरेव स्युः॥

तव्यत्तव्यानीयरः॥ (लसक_७७४ = पा_३,१.९३)
धातोरेते प्रत्ययाः स्युः। एधितव्यम्, एधनीयं त्वया। भावे औत्सर्गिकमेकवचनं क्लीबत्वं च। चेतव्यश्चयनीयो वा धर्मस्त्वया (केलिमर उपसंख्यानम्) पचेलिमा माषाः। पक्तव्या इत्यर्थः। भिदेलिमाः सरलाः। भेत्तव्या इत्यर्थः। कर्मणि प्रत्ययः॥

कृत्यल्युटो बहुलम्॥ (लसक_७७५ = पा_३,३.११३)
क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव।
विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति॥ १॥
स्नात्यनेनेति स्नानीयं चूर्णम्। दीयते ऽस्मै दानीयो विप्रः॥

अचो यत्॥ (लसक_७७६ = पा_३,१.९७)
अजन्ताद्धातोर्यत् स्यात्। चेयम्॥

ईद्यति॥ (लसक_७७७ = पा_६,४.६५)
यति परे आत ईत्स्यात्। देयम्। ग्लेयम्॥

पोरदुपधात्॥ (लसक_७७८ = पा_३,१.९८)
पवर्गान्ताददुपधाद्यत्स्यात्। ण्यतो ऽपवादः। शप्यम्। लभ्यम्॥

एतिस्तुशास्वृदृजुषः क्यप्॥ (लसक_७७९ = पा_३,१.१०९)
एभ्यः क्यप् स्यात्॥

ह्रस्वस्य पिति कृति तुक्॥ (लसक_७८० = पा_६,१.७१)
इत्यः। स्तुत्यः। शासु अनुशिष्टौ॥

शास इदङ्हलोः॥ (लसक_७८१ = पा_६,४.३४)
शास उपधाया इत्स्यादङि हलादौ क्ङिति। शिष्यः। वृत्यः। आदृत्यः। जुष्यः॥

मृजेर्विभाषा॥ (लसक_७८२ = पा_३,१.११३)
मृजेः क्यब्वा। मृज्यः॥

ऋहलोर्ण्यत्॥ (लसक_७८३ = पा_३,१.१२४)
ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्। कार्यम्। हार्यम्। धार्यम्॥

चजोः कु घिण्ण्यतोः॥ (लसक_७८४ = पा_७,३.५२)
चजोः कुत्वं स्यात् घिति ण्यति च परे॥

मृजेर्वृद्धिः॥ (लसक_७८५ = पा_७,२.११४)
मृजेरिको वृद्धिः सार्वधातुकार्धधातुकयोः। मार्ग्यः॥

भोज्यं भक्ष्ये॥ (लसक_७८६ = पा_७,६.६९)
भोग्यमन्यत्॥

इति कृत्यप्रक्रिया॥

अथ पूर्वकृदन्तम्

ण्वुल्तृचौ॥ (लसक_७८७ = पा_३,१.१३३)
धातोरेतौ स्तः। कर्तरि कृदिति कर्त्रर्थे॥

युवोरनाकौ॥ (लसक_७८८ = पा_७,१.१)
यु वु एतयोरनाकौ स्तः। कारकः। कर्ता॥

नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः॥ (लसक_७८९ = पा_३,१.१३४)
नन्द्यादेर्ल्युः, ग्रह्यादेर्णिनिः, पचादेरच् स्यात्। नन्दयतीति नन्दनः। जनमर्दयतीति जनार्दनः। लवणः। ग्राही। स्थायी। मन्त्री। पचादिराकृतिगणः॥

इगुपधज्ञाप्रीकिरः कः॥ (लसक_७९० = पा_३,१.१३५)
एभ्यः कः स्यात्। बुधः। कृशः। ज्ञः। प्रियः। किरः॥

आतश्चोपसर्गे॥ (लसक_७९१ = पा_३,१.१३६)
प्रज्ञः। सुग्लः॥

गेहे कः॥ (लसक_७९२ = पा_३,१.१४४)
गेहे कर्तरि ग्रहेः कः स्यात्। गृहम्॥

कर्मण्यण्॥ (लसक_७९३ = पा_३,२.१)
कर्मण्युपपदे धातोरण् प्रत्ययः स्यात्। कुम्भं करोतीति कुम्भकारः॥

आतो ऽनुपसर्गे कः॥ (लसक_७९४ = पा_३,२.३)
आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात्। अणो ऽपवादः। आतो लोप इटि च। गोदः। धनदः। कम्बलदः। अनुपसर्गे किम् ? गोसन्दायः। (वा.) मूलविभुजादिभ्यः कः। मूलानि विभुजति मूलविभुजो रथः। आकृतिगणो ऽयम्। महीध्रः। कुध्रः॥

चरेष्टः॥ (लसक_७९५ = पा_३,२.१६)
अधिकरणे उपपदे। कुरुचरः॥

भिक्षा सेनादायेषु च॥ (लसक_७९६ = पा_३,२.१७)
&न्ब्स्प्॑भिक्षाचारः। सेनाचारः। आदायेति ल्यबन्तम्। आदायचरः॥

कृञो हेतुताच्छील्यानुलोम्येषु॥ (लसक_७९७ = पा_३,२.२०)
एषु द्योत्येषु करोतेष्टः स्यात्॥

अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य॥ (लसक_७९८ = पा_८,३.४६)
आदुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सादेशः करोत्यादिषु परेषु। यशस्करी विद्या। श्राद्धकरः। वचनकरः॥

एजेः खश्॥ (लसक_७९९ = पा_३,२.२८)
ण्यन्तादेजेः खश् स्यात्॥

अरुर्द्विषदजन्तस्य मुम्॥ (लसक_८०० = पा_६,३.६७)
अरुषो द्विषतो ऽजन्तस्य च मुमागमः स्यात्खिदन्ते परे न त्वव्ययस्य। शित्त्वाच्छबादिः। जनमेजयतीति जनमेजयः॥

प्रियवशे वदः खच्॥ (लसक_८०१ = पा_३,२.३८)
प्रियंवदः। वशंवदः॥

अन्येभ्यो ऽपि दृश्यन्ते॥ (लसक_८०२ = पा_३,२.७५)
मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः॥

नेड्वशि कृति॥ (लसक_८०३ = पा_७,२.८)
वशादेः कृत इण् न स्यात्॥ शॄ हिंसायाम्॥ सुशर्मा प्रातरित्वा॥

विड्वनोरनुनासिकस्याऽत्॥ (लसक_८०४ = पा_६,४.४१)
अनुनासिकस्याऽत्स्यात्। विजायत इति विजावा॥ ओणृ अपनयने॥ अवावा। विच्॥ रुष रिष हिंसायाम्॥ रोट्। रेट्। सुगण्॥

क्विप् च॥ (लसक_८०५ = पा_३,२.७६)
अयमपि दृश्यते। उखास्रत्। पर्णध्वत्। बाहभ्रट्॥

सुप्यजातौ णिनिस्ताच्छील्ये॥ (लसक_८०६ = पा_३,२.७८)
अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये। उष्णभोजी॥

मनः॥ (लसक_८०७ = पा_३,२.८२)
सुपि मन्यतेर्णिनिः स्यात्। दर्शनीयमानी॥

आत्ममाने खश्च॥ (लसक_८०८ = पा_३,२.८३)
स्वकर्मके मनने वर्त्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः। पण्डितमात्मानं मन्यते पण्डितंमन्यः। पण्डितमानी॥

खित्यनव्ययस्य॥ (लसक_८०९ = पा_६,३.६६)
खिदन्ते परे पूर्वपदस्य ह्रस्वः। ततो मुम्। कालिम्मन्या॥

करणे यजः॥ (लसक_८१० = पा_३,२.८५)
करणे उपपदे भूतार्थे यजेर्णिनिः कर्तरि। सोमेनेष्टवान् सोमयाजी। अग्निष्टोमयाजी॥

दृशेः क्वनिप्॥ (लसक_८११ = पा_३,२.९४)
कर्मणि भूते। पारं दृष्टवान् पारदृश्वा॥

राजनि युधि कृञ॥ (लसक_८१२ = पा_३,२.९५)
क्वनिप्स्यात्। युधिरन्तर्भावितण्यर्थः। राजानं योधितवान् राजयुध्वा। राजकृत्वा॥

सहे च॥ (लसक_८१३ = पा_३,२.९६)
कर्मणीति निवृत्तम्। सह योधितवान् सहयुध्वा। सहकृत्वा॥

सप्तम्यां जनेर्डः॥ (लसक_८१४ = पा_३,२.९७)

तत्पुरुषे कृति बहुलम्॥ (लसक_८१५ = पा_६,३.१४)
ङेरलुक्। सरसिजम्, सरोजम्॥

उपसर्गे च संज्ञायाम्॥ (लसक_८१६ = पा_३,२.९९)
प्रजा स्यात्संततौ जने॥

क्तक्तवतू निष्ठा॥ (लसक_८१७ = पा_१,१.२६)
एतौ निष्ठासंज्ञौ स्तः॥

निष्ठा॥ (लसक_८१८ = पा_३,२.१०२)
भूतार्थवृत्तेर्धातोर्निष्ठा स्यात्। तत्र तयोरेवेति भावकर्मणोः क्तः। कर्तरि कृदिति कर्तरि क्तवतुः। उकावितौ। स्नातं मया। स्तुतस्त्वया विष्णुः। विश्वं कृतवान् विष्णुः॥

रदाभ्यां निष्ठातो नः पूर्वस्य च दः॥ (लसक_८१९ = पा_८,२.४२)
&न्ब्स्प्॑रदाभ्यां परस्य निष्ठातस्य नः स्यात् निष्ठापेक्षया पूर्वस्य धातोर्दस्य च॥ शृ हिंसायाम्॥ ऋत इत्। रपरः। णत्वम्। शीर्णः। भिन्नः। छिन्नः॥

संयोगादेरातो धातोर्यण्वतः॥ (लसक_८२० = पा_८,२.४३)
निष्ठातस्य नः स्यात्। द्राणः। ग्लानः॥

ल्वादिभ्यः॥ (लसक_८२१ = पा_८,२.४४)
एकविंशतेर्लूञादिभ्यः प्राग्वत्। लूनः॥ ज्या धातुः॥ ग्रहिज्येति संप्रसारणम्॥

हलः॥ (लसक_८२२ = पा_६,४.२)
अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्तस्य दीर्घः। जीनः॥

ओदितश्च॥ (लसक_८२३ = पा_८,२.४५)
भुजो भुग्नः। टुओश्वि, उच्छूनः॥

शुषः कः॥ (लसक_८२४ = पा_८,२.५१)
निष्ठातस्य कः॥ शुष्कः॥

पचो वः॥ (लसक_८२५ = पा_८,२.५२)
पक्वः॥ क्षै क्षये॥

क्षायो मः॥ (लसक_८२६ = पा_८,२.५३)
क्षामः॥

निष्ठायां सेटि॥ (लसक_८२७ = पा_६,४.५२)
णेर्लोपः। भावितः। भावितवान्। दृह हिंसायाम्॥

दृढः स्थूलबलयोः॥ (लसक_८२८ = पा_७,२.२०)
स्थूले बलवति च निपात्यते॥

दधातेर्हिः॥ (लसक_८२९ = पा_७,४.४२)
&न्ब्स्प्॑तादौ किति। हितम्॥

दो दद् घोः॥ (लसक_८३० = पा_७,४.४६)
घुसंज्ञकस्य दा इत्यस्य दथ् स्यात् तादौ किति। चर्त्वंम्। दत्तः॥

लिटः कानज्वा॥ (लसक_८३१ = पा_३,२.१०६)

क्वसुश्च॥ (लसक_८३२ = पा_३,२.१०७)
लिटः कानच् क्वसुश्च वा स्तः। तङानावात्मनेपदम्। चक्राणः॥

म्वोश्च॥ (लसक_८३३ = पा_८,२.६५)
मान्तस्य धातोर्नत्वं म्वोः परतः। जगन्वान्॥

लटः शतृशानचावप्रथमासमानाधिकरणे॥ (लसक_८३४ = पा_३,२.१२४)
अप्रथमान्तेन समानाधिकरणे लट एतौ वा स्तः। शबादि। पचन्तं चैत्रं पश्य॥

आने मुक्॥ (लसक_८३५ = पा_७,२.८२)
अदन्ताङ्गस्य मुगागमः स्यादाने परे। पचमानं चैत्रं पश्य। लडित्यनुवर्तमाने पुनर्लड्ग्रहणात् प्रथमासामानाधिकरण्ये ऽपि क्वचित्। सन् द्विजः॥

विदेः शतुर्वसुः॥ (लसक_८३६ = पा_७,१.३६)
वेत्तेः परस्य शतुर्वसुरादेशो वा। विदन्। विद्वान्॥

तौ सत्॥ (लसक_८३७ = पा_३,२.१२७)
तौ शतृशानचौ सत्संज्ञौ स्तः॥

ऌटः सद्वा॥ (लसक_८३८ = पा_३,३.१४)
व्यवस्थितविभाषेयम्। तेनाप्रथमासामानाधिकरण्ये प्रत्योत्तरपदयोः संबोधने लक्षणहेत्वोश्च नित्यम्। करिष्यन्तं करिष्यमाणं पश्य॥

आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॥ (लसक_८३९ = पा_३,२.१३४)
क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलादिषु कर्तृषु बोध्याः॥

तृन्॥ (लसक_८४० = पा_३,२.१३४)
कर्ता कटान्॥

जल्पभिक्षकुट्टलुण्टवृङः षाकन्॥ (लसक_८४१ = पा_३,२.१५५)

षः प्रत्ययस्य॥ (लसक_८४२ = पा_१,३.६)
प्रत्ययस्यादिः ष इत्संज्ञः स्यात्। जल्पाकः। भिक्षाकः। कुट्टाकः। लुण्टाकः। वराकः। वराकी॥

सनाशंसभिक्ष उः॥ (लसक_८४३ = पा_३,२.१६८)
चिकीर्षुः। आशंसुः। भिक्षुः॥

भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्॥ (लसक_८४४ = पा_३,२.१७७)
विभ्राट्। भाः॥

राल्लोपः॥ (लसक_८४५ = पा_६,४.२१)
रेफाच्छ्वोर्लोपः क्वौ झलादौ क्ङिति। धूः। विद्युत्। ऊर्क। पूः। दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः। जूः। ग्रावस्तुत्। (क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घो ऽसम्प्रसारणं च)। वक्तीति वाक्॥

च्छ्वोः शूडनुनासिके च॥ (लसक_८४६ = पा_६,४.१९)
सतुक्कस्य छस्य वस्य च क्रामात् श् ऊठ् इत्यादेशौ स्तो ऽनुनासिके क्वौ झलादौ च क्ङिति। पृच्छतीति प्राट्। आयतं स्तौतीति आयतस्तूः। कटं प्रवते कटप्रूः। जूरुक्तः। श्रयति हरिं श्रीः॥

दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे॥ (लसक_८४७ = पा_३,२.१८२)
दाबादेः ष्ट्रन् स्यात्करणेर्ऽथे। दात्यनेन दात्रम्। नेत्रम्॥

तितुत्रतथसिसुसरकसेषु च॥ (लसक_८४८ = पा_७,२.९)
एषां दशानां कृत्प्रत्ययानामिण् न/ शस्त्रम्। योत्रम्। योक्त्रम्। स्तोत्रम्। तोत्त्रम्। सेत्रम्। सेक्त्रम्। मेढ्रम्। पत्रम्। दंष्ट्रा। नद्ध्री॥

अर्तिलूधूसूखनसहचर इत्रः॥ (लसक_८४९ = पा_६,२.१८४)
अरित्रम्। लवित्रम्। धुवित्रम्। सवित्रम्। खनित्रम्। सहित्रम्। चरित्रम्॥

पुवः संज्ञायाम्॥ (लसक_८५० = पा_३,२.१८५॥ ॡEईट्Eऋ ष्. १३९
पवित्रम्॥

इति पूर्वकृदन्तम्॥


अथोणादयः

कृवापाजिमिस्वदिसाध्यशूभ्य उण्॥ १॥
करोतीति कारुः। वातीति वायुः। पायुर्गुदम्। जायुरौषधम्। मायुः पित्तम्। स्वादुः। साध्नोति परकार्यमिति साधुः। आशु शीघ्रम्॥

उणादयो बहुलम्॥ (लसक_८५१ = पा_३,३.१)
&न्ब्स्प्॑ेते वर्तमाने संज्ञायाम् च बहुलं स्युः। केचिदविहिता अप्यूह्याः॥
&न्ब्स्प्॑संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे।
&न्ब्स्प्॑कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु॥

इत्युणादयः॥

अथोत्तरकृदन्तम्

तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्॥ (लसक_८५२ = पा_३,३.१०)
क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः। मान्तत्वादव्ययत्वम्। कृष्णं द्रष्टुं याति। कृष्णं दर्शको याति॥

कालसमयवेलासु तुमुन्॥ (लसक_८५३ = पा_३,३.१६७)
कालार्थेषूपपदेषु तुमुन्। कालः समयो वेला वा भोक्तुम्॥

भावे॥ (लसक_८५४ = पा_३,३.१८)
सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ्। पाकः॥

अकर्तरि च कारके संज्ञायाम्॥ (लसक_८५५ = पा_३,३.१९)
कर्तृभिन्ने कारके घञ् स्यात्॥

घञि च भावकरणयोः॥ (लसक_८५६ = पा_६,४.२७)
रञ्जेर्नलोपः स्यात्। रागः। अनयोः किम्? रज्यत्यस्मिन्निति रङ्गः॥

निवासचितिशरीरोपसमाधानेष्वादेश्च कः॥ (लसक_८५७ = पा_३,३.४१)
एषु चिनोतेर्घञ् आदेश्च ककारः। उपसमाधानं राशीकरणम्। निकायः। कायः/ गोमयनिकायः॥

एरच्॥ (लसक_८५८ = पा_३,३.४६)
इवर्णान्तादच्। चयः। जयः॥

ॠदोरप्॥ (लसक_८५९ = पा_३,३.५७)
ॠवर्णान्तादुवर्णान्ताच्चाप्। करः। गरः। यवः। लवः। स्तवः। पवः। (घञर्थे कविधानम्)। प्रस्थः। विघ्नः॥

ड्वितः क्त्रिः॥ (लसक_८६० = पा_३,३.८८)

क्त्रेर्मम्नित्यम्॥ (लसक_८६१ = पा_४,४.२०)
क्त्रिप्रत्ययान्तात्मप् निर्वृत्तेर्ऽथे। पाकेन निर्वृत्तं पक्त्रिमम्। डुवप् उप्त्रिमम्॥

ट्वितो ऽथुच्॥ (लसक_८६२ = पा_३,३.८९)
टुवेपृ कम्पने, वेपथुः॥

यजयाचयतविच्छप्रच्छरक्षो नङ्॥ (लसक_८६३ = पा_३,३.९०)
यज्ञः। याच्ञा। यत्नः। विश्नः। प्रश्नः। रक्ष्णः॥

स्वपो नन्॥ (लसक_८६४ = पा_३,३.९१)
स्वप्नः॥

उपसर्गे घोः किः॥ (लसक_८६५ = पा_३,३.९२)
प्रधिः। उपधिः॥

स्त्रियां क्तिन्॥ (लसक_८६६ = पा_३,३.९४)
स्त्रीलिङ्गे भावे क्तिन् स्यात्। घञो ऽपवादः। कृतिः। स्तुतिः। (ॠल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः)। तेन नत्वम्। कीर्णिः। लूनिः। धूनिः। पूनिः। (संपदादिभ्यः क्विप्)। संपत्। विपत्। आपत्। (क्तिन्नपीष्यते)। संपत्तिः। विपत्तिः। आपत्तिः॥

ऊतियूतिजूतिसातिहेतिकीर्तयश्च॥ (लसक_८६७ = पा_३,३.९७)
एते निपात्यन्ते॥/

ज्वरत्वरस्रिव्यविमवामुपधायाश्च॥ (लसक_८६८ = पा_६,४.२०)
एषामुपधावकारयोरूठ् अनुनासिके क्वौ झलादौ क्ङिति॥ अतः क्विप्। जूः। तूः। स्रूः। ऊः। मूः॥

इच्छा॥ (लसक_८६९ = पा_३,३.१०१)
इषेर्निपातो ऽयम्॥

अ प्रत्ययात्॥ (लसक_८७० = पा_३,३.१०२)
प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारः प्रत्ययः स्यात्। चिकीर्षा। पुत्रकाम्या॥

गुरोश्च हलः॥ (लसक_८७१ = पा_३,३.१०३)
गुरुमतो हलन्तात्स्त्रियामकारः प्रत्ययः स्यात्। ईहा॥

ण्यासश्रन्थो युच्॥ (लसक_८७२ = पा_३,३.१०७)
अकारस्यापवादः। कारणा। हारणा॥

नपुंसके भावे क्तः॥ (लसक_८७३ = पा_३,३.११)

ल्युट् च॥ (लसक_८७४ = पा_३,३.११५)
हसितम्, हसनम्॥

पुंसि संज्ञायां घः प्रायेण॥ (लसक_८७५ = पा_३,३.१८८)

छादेर्घे ऽद्व्युपसर्गस्य॥ (लसक_८७६ = पा_६,४.९६)
द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वो घे परे। दन्ताश्छाद्यन्ते ऽनेनेति दन्तच्छदः। आकुर्वन्त्यस्मिन्नित्याकरः॥

अवे तॄस्त्रोर्घञ्॥ (लसक_८७७ = पा_३,३.१२०)
अवतारः कूपादेः। अवस्तारो जवनिका॥

हलश्च॥ (लसक_८७८ = पा_३,३.१२१)
हलन्ताद्घञ्। घापवादः। रमन्ते योगिनो ऽस्मिन्निति रामः। अपमृज्यते ऽनेन व्याध्यादिरित्यपामार्गः॥

ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्॥ (लसक_८७९ = पा_३,३.१२६)
करणाधिकरणयोरिति निवृत्तम्। एषु दुःखसुखार्थेषूपपदेषु खल् तयोरेवेति भावे कर्मणि च। कृच्छ्रे - दुष्करः कटो भवता। अकृच्छ्रे - ईषत्करः। सुकरः॥

आतो युच्॥ (लसक_८८० = पा_३,३.१२८)
खलो ऽपवादः। ईषत्पानः सोमो भवता। दुष्पानः। सुपानः॥

अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा॥ (लसक_८८१ = पा_३,४.१८)
प्रतिषेधार्थेयोरलंखल्वोरुपपदयोः क्त्वा स्यात्। प्राचां ग्रहणं पूजार्थम्। अमैवाव्ययेनेति नियमान्नोपपदसमासः। दो दद्घोः। अलं दत्त्वा। घुमास्थेतीत्त्वम्। पीत्वा खलु। अलंखल्वोः किम्? मा कार्षीत्। प्रतिषेधयोः किम्? अलंकारः॥

समानकर्तृकयोः पूर्वकाले॥ (लसक_८८२ = पा_३,४.२१)
समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात्। भुक्त्वा व्रजति। द्वित्वमतन्त्रम्। भुक्त्वा पीत्वा व्रजति॥

न क्त्वा सेट्॥ (लसक_८८३ = पा_१,२.१८)
सेट् क्त्वा किन्न स्यात्। शयित्वा। सेट् किम् ? कृत्वा॥

रलो व्युपधाद्धलादेः संश्च॥ (लसक_८८४ = पा_२,२.२६)
इवर्णोवर्णोपधाद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः। द्युतित्वा, द्योतित्वा। लिखित्वा, लेखित्वा। व्युपधात्किम् ? वर्तित्वा। रलः किम् ? एषित्वा। सेट् किम् ? भुक्त्वा॥

उदितो वा॥ (लसक_८८५ = पा_७,२.५६)
उदितः परस्य क्तव इड्वा। शमित्वा, शान्त्वा। देवित्वा, द्यूत्वा। दधातेर्हिः। हित्वा॥

जहातेश्च क्त्वि॥ (लसक_८८६ = पा_७,४.४३)
हित्वा। हाङस्तु - हात्वा॥

समासे ऽनञ्पूर्वे क्त्वो ल्यप्॥ (लसक_८८७ = पा_७,१.३७)
अव्ययपूर्वपदे ऽनञ्समासे क्त्वो ल्यबादेशः स्यात्। तुक्। प्रकृत्य। अनञ् किम् ? अकृत्वा॥

आभीक्ष्ण्ये णमुल् च॥ (लसक_८८८ = पा_३,४.२२)
आभीक्ष्ण्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च॥

नित्यवीप्सयोः॥ (लसक_८८९ = पा_८,१.४)
आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात्। आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञकेषु च कृदन्तेषु च। स्मारंस्मारं नमति शिवम्। स्मृत्वास्मृत्वा। पायम्पायम्। भोजम्भोजम्। श्रावंश्रावम्॥

अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्॥ (लसक_८९० = पा_३,४.२७)
एषु कृञो णमुल् स्यात्। सिद्धो ऽप्रयोगो ऽस्य एवम्भूतश्चेत् कृञ्। व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः। अन्यथाकारम्। एवङ्कारम्। कथङ्कारम्। इत्थङ्कारं भुङ्क्ते। सिद्धेति किम् ? शिरो ऽन्यथा कृत्वा भुङ्क्ते॥

इत्युत्तरकृदन्तम्॥
इति कृदन्तम्॥


अथ विभक्तयर्थाः


प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा॥ (लसक_८९१ = पा_२,३.४६)
नियतोपस्थितिकः प्रातिपदिकार्थः। मात्रशब्दस्य प्रत्येकं योगः। प्रातिपदिकार्थमात्रे लिङ्गमात्राद्याधिक्ये परिमाणमात्रे संख्यामात्रे च प्रथमा स्यात्। प्रातिपदिकार्थमात्रे - उच्चैः। नीचैः। कृष्णः। श्रीः। ज्ञानम्। लिङ्गमात्रे - तटः, तटी, तटम्। परिमाणमात्रे - द्रोणो व्रीहिः। वचनं संख्या। एकः, द्वौ, बहवः॥

सम्बोधने च॥ (लसक_८९२ = पा_२,३.४७)
प्रथमा स्यात्। हे राम।
&न्ब्स्प्॑&न्ब्स्प्॑&न्ब्स्प्॑िति प्रथमा।

कर्तुरीप्सिततमं कर्म॥ (लसक_८९३ = पा_१,४.४९)
कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात्॥

कर्मणि द्वितीया॥ (लसक_८९४ = पा_२,३.२)
अनुक्ते कर्मणि द्वितीया स्यात्। हरिं भजति। अभिहिते तु कर्मादौ प्रथमा - हरिः सेव्यते। लक्ष्म्या सेवितः॥

अकथितं च॥ (लसक_८९५ = पा_१,४.५१)
अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात्।
&न्ब्स्प्॑दुह्याच्पच्दण्ड् रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम्।
&न्ब्स्प्॑कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम्॥ १॥
गां दोग्धि पयः। बलिं याचते वसुधाम्। तण्डुलानोदनं पचति। गर्गान् शतं दण्डयति। व्रजमवरुणद्धि गाम्। माणवकं पन्थानं पृच्छति। वृक्षमवचिनोति फलानि। माणवकं धर्मं ब्रूते शास्ति वा। शतं जयति देवदत्तम्। सुधां क्षीरनिधिं मथ्नाति। देवदत्तं शतं मुष्णाति। ग्राममजां नयति हरति कर्षति वहति वा। अर्थनिबन्धनेयं संज्ञा। बलिं भिक्षते वसुधाम्। माणवकं धर्मं भाषते अभिवत्ते वक्तीत्यादि॥
&न्ब्स्प्॑&न्ब्स्प्॑&न्ब्स्प्॑िति द्वितीया।

स्वतन्त्रः कर्ता॥ (लसक_८९६ = पा_१,४.५४)
क्रियायां स्वातन्त्र्येण विवक्षितोर्ऽथः कर्ता स्यात्॥

साधकतमं करणम्॥ (लसक_८९७ = पा_१,४.४२)
क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात्॥

कर्तृकरणयोस्तृतीया॥ (लसक_८९८ = पा_२,३.२८)
अनभिहिते कर्तरि करणे च तृतीया स्यात्। रामेण बाणेन हतो वाली//
&न्ब्स्प्॑&न्ब्स्प्॑&न्ब्स्प्॑िति तृतीया।

कर्मणा यमभिप्रैति स सम्प्रदानम्॥ (लसक_८९९ = पा_१,४.३२)
दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात्॥

चतुर्थी सम्प्रदाने॥ (लसक_९०० = पा_२,३.१३)
विप्राय गां ददाति॥

नमस्स्वस्तिस्वाहास्वधालंवषड्योगाच्च॥ (लसक_९०१ = पा_२,३.१६)
एभिर्योगे चतुर्थी। हरये नमः। प्रजाभ्यः स्वस्ति। अग्नये स्वाहा। पितृभ्यः स्वधा। अलमिति पर्याप्त्यर्थग्रहणम्। तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि॥
&न्ब्स्प्॑&न्ब्स्प्॑&न्ब्स्प्॑िति चतुर्थी।

ध्रुवमपाये ऽपादानम्॥ (लसक_९०२ = पा_१,४.२४)
अपायो विश्लेषस्तस्मिन्साध्ये यद् ध्रुवमवधिभूतं कारकं तदपादानं स्यात्॥

अपादाने पञ्चमी॥ (लसक_९०३ = पा_२,३.२८)
ग्रामादायाति। धावतो ऽश्वात्पततीत्यादि॥
&न्ब्स्प्॑&न्ब्स्प्॑&न्ब्स्प्॑िति पञ्चमी।

षष्ठी शेषे॥ (लसक_९०४ = पा_२,३.५०)
कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिः संबन्धः शेषस्तत्र षष्ठी। राज्ञः पुरुषः। कर्मादीनापि संबन्धमात्रविवक्षायां षष्ठ्येव। सतां गतम्। सर्पिषो जानीते। मातुः स्मरति। एधोदकस्योपस्कुरुते। भजे शम्भोश्चरणयोः॥
&न्ब्स्प्॑&न्ब्स्प्॑&न्ब्स्प्॑िति षष्ठी।

आधारो ऽधिकरणम्॥ (लसक_९०५ = पा_१,४.४५)
कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणं स्यात्॥

सप्तम्यधिकरणे च॥ (लसक_९०६ = पा_२,३.३६)
अधिकरणे सप्तमी स्यात्, चकाराद्दूरान्तिकार्थेभ्यः। औपश्लेषिको वैषयिको &८२१७॑ भिव्यापकश्चेत्याधारस्त्रिधा। कटे आस्ते। स्थाल्यां पचति। मोक्षे इच्छास्ति। सर्वस्मिन्नात्मास्ति। वनस्य दूरे अन्तिके वा॥
&न्ब्स्प्॑&न्ब्स्प्॑&न्ब्स्प्॑िति सप्तमी।
इति विभक्त्यर्थाः॥

अथ समासाः

तत्रादौ केवलसमासः। समासः पञ्चधा। तत्र समसनं समासः। स च विशेषसंज्ञा विनिर्मुक्तः केवलसमासः प्रथमः॥ १॥ प्रायेण पूर्वपदार्थप्रधानो ऽव्ययीभावो द्वितीयः॥ २॥ प्रायेणोत्तरपदार्थप्रधानस्तत्पुरुषस्तृतीयः॥ तत्पुरुषभेदः कर्मधारयः। कर्मधारयभेदो द्विगुः॥ ३॥ प्रायेणान्यपदार्थप्रधानो बहुव्रीहिश्चतुर्थः॥ ४॥ प्रायेणोभयपदार्थप्रधानो द्वन्द्वः पञ्चमः॥ ५॥

समर्थः पदविधिः॥ (लसक_९०७ = पा_२,१.१)
पदसंबन्धी यो विधिः स समर्थाश्रितो बोध्यः॥

प्राक्कडारात्समासः॥ (लसक_९०८ = पा_२,१.३)
कडाराः कर्मधारय इत्यतः प्राक् समास इत्यधिक्रियते॥

सह सुपा॥ (लसक_९०९ = पा_२,१.४)
सुप् सुपा सह वा समस्यते॥ समासत्वात्प्रातिपदिकत्वेन सुपो लुक्। परार्थाभिधानं वृत्तिः। कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः। वृत्त्यर्थावबोधकं वाक्यं विग्रहः। सच लौकिको ऽलौकिकश्चेति द्विधा। तत्र पूर्वं भूत इति लौकिकः "पूर्व अम् भूत सु&८२१७॑ इत्यलौकिकः। भूतपूर्वः। भूतपूर्वे चरडिति निर्देशात्पूर्वनिपातः। (इवेन समासो विभक्त्यलोपश्च)। वागर्थौ इव वागर्थाविव॥

इति केवलसमासः॥ १॥

अथाव्ययीभावः

अव्ययीभावः॥ (लसक_९१० = पा_२,१.५)
अधिकारो ऽयं प्राक् तत्पुरुषात्॥

अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्त वचनेषु॥ (लसक_९११ = पा_२,१.६)
विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह नित्यं समस्यते सो ऽव्ययीभावः। प्रायेणाविग्रहो नित्यसमासः, प्रायेणास्वपदविग्रहो वा। विभक्तौ, हरि ङि अधि इति स्थिते॥

प्रथमानिर्दिष्टं समास उपसर्जनम्॥ (लसक_९१२ = पा_१,२.४३)
समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात्॥

उपसर्जनं पूर्वम्॥ (लसक_९१३ = पा_२,२.३०)
समासे उपसर्जनं प्राक्प्रयोज्यम्। इत्यधेः प्राक् प्रयोगः। सुपो लुक्। एकदेशविकृतस्यानन्यत्वात्प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिः। अव्ययीभावश्चेत्य व्ययत्वात्सुपो लुक्। अधिहरि॥

अव्ययीभावश्च॥ (लसक_९१४ = पा_२,४.१८)
अयं नपुंसकं स्यात्॥

नाव्ययीभावादतो ऽम्त्वपञ्चम्याः॥ (लसक_९१५ = पा_२,४.८३)
अदन्तादव्ययीभावात्सुपो न लुक्, तस्य पञ्चमी विना अमादेशश्च स्यात्॥ गाः पातीति गोपास्तस्मिन्नित्यधिगोपम्॥

तृतीयासप्तम्योर्बहुलम्॥ (लसक_९१६ = पा_२,४.५४)
अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलमम्भावः स्यात्। अधिगोपम्, अधिगोपेन, अधिगोपे वा। कृष्णस्य समीपम् उपकृष्णम्। मद्राणां समृद्धिः सुमद्रम्। यवनानां व्यृद्धिर्दुर्यवनम्। मक्षिकाणामभावो निर्मक्षिकम्। हिमस्यात्ययो ऽतिहिमम्। निद्रा संप्रति न युज्यत इत्यतिनिद्रम्। हरिशब्दस्य प्रकाश इतिहरि। विष्णोः पश्चादनुविष्णु। योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः। रूपस्य योग्यमनुरूपम्। अर्थमर्थं प्रति प्रर्त्षथम्। शक्तिमनतिक्रम्य यथाशक्ति॥

अव्ययीभावे चाकाले॥ (लसक_९१७ = पा_६,३.८१)
सहस्य सः स्यादव्ययीभावे न तु काले। हरेः सादृश्यं सहरि। ज्येष्ठस्यानु पूर्व्येणेत्यनुज्येष्ठम्। चक्रेण युगपत् सचक्रम्। सदृशः सख्या ससखि। क्षत्राणां संपत्तिः सक्षत्रम्। तृणमप्यपरित्यज्य सतृणमत्ति। अग्निग्रन्थपर्यन्तमधीते साग्नि॥

नदीभिश्च॥ (लसक_९१८ = पा_२,१.२०)
नदीभिः सह संख्या समस्यते। (समाहारे चायमिष्यते)। पञ्चगङ्गम्। द्वियमुनम्॥

तद्धिताः॥ (लसक_९१९ = पा_४,१.७६)
आपञ्चमसमाप्तेरधिकारो ऽयम्॥

अव्ययीभावे शरत्प्रभृतिभ्यः॥ (लसक_९२० = पा_५,४.१०७)
शरदादिभ्यष्टच् स्यात्समासान्तो ऽव्ययीभावे। शरदः समीपमुपशरदम्। प्रतिविपाशम्। (जराया जरश्च)। उपजरसमित्यादि॥

अनश्च॥ (लसक_९२१ = पा_५,४.१०८)
अन्नन्तादव्ययीभावाट्टच् स्यात्॥

नस्तद्धिते॥ (लसक_९२२ = पा_६,४.१४४)
नान्तस्य भस्य टेर्लोपस्तद्धिते। उपराजम्। अध्यात्मम्॥

नपुंसकादन्यतरस्याम्॥ (लसक_९२३ = पा_५,४.१०९)
अन्नन्तं यत् क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात्। उपचर्मम्। उपचर्म॥

झयः॥ (लसक_९२४ = पा_५,४.१११)
झयन्तादव्ययीभावाट्टज्वा&न्ब्स्प्॑स्यात्। उपसमिधम्। उपसमित्॥

इत्यव्ययीभावः॥ २॥

अथ तत्पुरुषः

तत्पुरुषः॥ (लसक_९२५ = पा_२,१.२२)
अधिकारो ऽयं प्राग्बहुव्रीहेः॥

द्विगुश्च॥ (लसक_९२६ = पा_२,१.२३)
द्विगुरपि तत्पुरुषसंज्ञकः स्यात्॥

द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः॥ (लसक_९२७ = पा_२,१.२४)
द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स च तत्पुरुषः। कृष्णं श्रितः कृष्णश्रित इत्यादि॥

तृतीया तत्कृतार्थेन गुणवचनेन॥ (लसक_९२८ = पा_२,१.३०)
तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थेन च सह वा प्राग्वत्। शङ्कुलया खण्डः। धान्येनार्थो धान्यार्थः। तत्कृतेति किम् ? अक्ष्णा काणः॥

कर्तृकरणे कृता बहुलम्॥ (लसक_९२९ = पा_२,१.३२)
कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत्। हरिणा त्रातो हरित्रातः। नखैर्भिन्नः नखभिन्नः। (प.) कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्। नखनिर्भिन्नः॥

चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः॥ (लसक_९३० = पा_२,१.३६)
चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यंन्तं वा प्राग्वत्। यूपाय दारु यूपदारु। (तदर्थेन प्रकृतिविकृतिभाव एवेष्टः)। तेनेह न - रन्धनाय स्थाली। (अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्)। द्विजार्थः सूपः। द्विजार्था यवागूः। द्विजार्थं पयः। भूतबलिः। गोहितम्। गोसुखम्। गोरक्षितम्॥

पञ्चमी भयेन॥ (लसक_९३१ = पा_२,१.३७)
चोराद्भयं चोरभयम्॥

स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन॥ (लसक_९३२ = पा_२,१.३९)

पञ्चम्याः स्तोकादिभ्यः॥ (लसक_९३३ = पा_६,३.२)
अलुगुत्तरपदे। स्तोकान्मुक्तः। अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। कृच्छ्रादागतः॥

षष्ठी॥ (लसक_९३४ = पा_२,२.८)
सुबन्तेन प्राग्वत्। राजपुरुषः॥

पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे॥ (लसक_९३५ = पा_२,२.१)
अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी। षष्ठीसमासापवादः। पूर्वं कायस्य पूर्वकायः। अपरकायः। एकाधिकरणे किम् ? पूर्वश्छात्राणाम्॥

अर्धं नपुंसकम्॥ (लसक_९३६ = पा_२,२.२)
समांशवाच्यर्धशब्दो नित्यं क्लीबे, स प्राग्वत्। अर्धं पिप्पल्याः अर्धपिप्पली।

सप्तमी शौण्डैः॥ (लसक_९३७ = पा_२,१.४०)
सप्तम्यन्तं शौण्डादिभिः प्राग्वत्। अक्षेषु शौण्डः अक्षशोण्ड इत्यादि। द्वितीयातृतीयेत्यादियोगविभागादन्यत्रापि तृतीयादिविभक्तीनां प्रयोगवशात्समासो ज्ञेयः॥

दिक्संख्ये संज्ञायाम्॥ (लसक_९३८ = पा_२,१.५०)
संज्ञायामेवेति नियमार्थं सूत्रम्। पूर्वेषुकामशमी। सप्तर्षयः। तेनेह न - उत्तरा वृक्षाः। पञ्च ब्राह्मणाः॥

तद्धितार्थोत्तरपदसमाहारे च॥ (लसक_९३९ = पा_२,१.५१)
तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वत्। पूर्वस्यां शालायां भवः - पूर्वा शाला इति समासे जाते (सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः)॥

दिक्पूर्वपदादसंज्ञायां ञः॥ (लसक_९४० = पा_४,२.१०७)
अस्माद्भवाद्यर्थे ञः स्यादसंज्ञायाम्॥

तद्धितेष्वचामादेः॥ (लसक_९४१ = पा_७,२.११७)
ञिति णिति च तद्धितेष्वचामादेरचो वृद्धिः स्यात्। यस्येति च। पौर्वशालः। पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहौ। (द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्य समासवचनम्)॥

गोरतद्धितलुकि॥ (लसक_९४२ = पा_५,४.९२)
गो ऽन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तु तद्धितलुकि। पञ्चगवधनः॥

तत्पुरुषः समानाधिकरणः कर्मधारयः॥ (लसक_९४३ = पा_१,२.४२)

संख्यापूर्वो द्विगुः॥ (लसक_९४४ = पा_२,१.५२)
तद्धितार्थेत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगुसंज्ञः स्यात्॥

द्विगुरेकवचनम्॥ (लसक_९४५ = पा_२,४.१)
द्विग्वर्थः समाहार एकवत्स्यात्॥

स नपुंसकम्॥ (लसक_९४६ = पा_२,४.१७)
समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात्। पञ्चानां गवां समाहारः पञ्चगवम्।

विशेषणं विशेष्येण बहुलम्॥ (लसक_९४७ = पा_२,१.५७)
भेदकं भेद्येन समानाधिकरणेन बहुलं प्राग्वत्। नीलमुत्पलं नीलोत्पलम्। बहुलग्रहणात्क्वचिन्नित्यम् - कृष्णसर्पः। क्वचिन्न - रामो जामदग्न्यः॥

उपमानानि सामान्यवचनैः॥ (लसक_९४८ = पा_२,१.५५)
घन इव श्यामो घनश्यामः। (शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्)। शाकप्रियः पार्थिवः शाकपार्थिवः। देवपूजको ब्राह्मणो देवब्राह्मणः॥

नञ्॥ (लसक_९४९ = पा_२,१.६)
नञ् सुपा सह समस्यते॥

नलोपो नञः॥ (लसक_९५० = पा_६,३.७३)
नञो नस्य लोप उत्तरपदे। न ब्राह्मणः अब्राह्मणः॥

तस्मान्नुडचि॥ (लसक_९५१ = पा_६,३.७४)
लुप्तनकारान्नञ उत्तरपदस्याजादेर्नुडागमः स्यात्। अनश्वः। नैकधेत्यादौ तु नशब्देन सह सुप्सुपेति समासः॥

कुगतिप्रादयः॥ (लसक_९५२ = पा_२,२.१८)
एते समर्थेन नित्यं समस्यन्ते। कुत्सितः पुरुषः कुपुरुषः॥

ऊर्यादिच्विडाचश्च॥ (लसक_९५३ = पा_१,४.६१)
ऊर्यादयश्च्व्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञाः स्युः। ऊरीकृत्य। शुक्लीकृत्य। पटपटाकृत्य। सुपुरुषः॥ (प्रादयो गताद्यर्थे प्रथमया)। प्रगत आचार्यः प्राचार्यः। (अत्यादयः क्रान्ताद्यर्थे द्वितीयया)। अतिक्रान्तो मालामिति विग्रहे - .

एकविभक्ति चापूर्वनिपाते॥ (लसक_९५४ = पा_१,२.४४)
विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यान्न तु तस्य पूर्वनिपातः॥

गोस्त्रियोरुपसर्जनस्य॥ (लसक_९५५ = पा_१,२.४८)
उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात्। अतिमालः। (अवादयः क्रुष्टाद्यर्थे तृतीयया)। अवक्रुष्टः कोकिलया - अवकोकिलः। (पर्यादयो ग्लानाद्यर्थे चतुर्थ्या)। परिग्लानो ऽध्ययनाय पर्यध्ययनः। (निरादयः क्रान्ताद्यर्थे पञ्चम्या)। निष्क्रान्तः कौशाम्ब्याः - निष्कौशाम्बिः॥

तत्रोपपदं सप्तमीस्थम्॥ (लसक_९५६ = पा_३,१.९२)
सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं यत्कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात्॥

उपपदमदिङ्॥ (लसक_९५७ = पा_२,२.१९)
उपपदं सुबन्तं समर्थेन नित्यं समस्यते। अतिङन्तश्चायं समासः। कुम्भम् करोति कुम्भकारः। अतिङ् किम् ? मा भवान् भूत्। माङि लुङिति सप्तमीनिर्देशान्माङुपपदम्। (प.) गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः। व्याघ्री। अश्वक्रीती। कच्छपीत्यादि॥

तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः॥ (लसक_९५८ = पा_५,४.८६)
संख्याव्ययादेरङ्गुल्यन्तस्य समासान्तो ऽच् स्यात्। द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलम्। निर्गतमङ्गुल्यो निरङ्गुलम्॥

अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः॥ (लसक_९५९ = पा_५,४.८७)
एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः। अहर्ग्रहणं द्वन्द्वार्थम्॥

रात्राह्नाहाः पुंसि॥ (लसक_९६० = पा_२,४.२९)
एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव। अहश्च रात्रिश्चाहोरात्रः। सर्वरात्रः। संख्यातरात्रः। (संख्यापूर्वं रात्रं क्लीबम्)। द्विरात्रम्। त्रिरात्रम्॥

राजाहः सखिभ्यष्टच्॥ (लसक_९६१ = पा_५,४.९१)
एतदन्तात्तत्पुरुषाट्टच् स्यात्। परमराजः॥

आन्महतः समानाधिकरणजातीययोः॥ (लसक_९६२ = पा_६,३.४६)
महत आकारो ऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे। महाराजः। प्रकारवचने जातीयर्। महाप्रकारो महाजातीयः॥

द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः॥ (लसक_९६३ = पा_६,३.४७)
आत्स्यात्। द्वौ च दश च द्वादश। अष्टाविंशतिः॥

त्रेस्त्रयः॥ (लसक_९६४ = पा_६,३.४८)
त्रयोदश। त्रयोविंशतिः। त्रयस्त्रिंशत्॥

परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः॥ (लसक_९६५ = पा_२,४.२६)
एतयोः परपदस्येव लिङ्गं स्यात्। कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ। (द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः)। पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः॥

प्राप्तापन्ने च द्वितीयया॥ (लसक_९६६ = पा_२,२.४)
समस्येते। अकारश्चानयोरन्तादेशः। प्राप्तो जीविकां प्राप्तजीविकः। आपन्नजीविकः। अलं कुमार्यै - अलंकुमारिः। अत एव ज्ञापकात्समासः। निष्कौशाम्बिः॥

अर्धर्चाः पुंसि च॥ (लसक_९६७ = पा_२,४.३१)
&न्ब्स्प्॑र्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः। अर्धर्चः। अर्धर्चम्। एवं ध्वजतीर्थशरीरमण्डपयूपदेहाङ्कुशपात्रसूत्रादयः। सामान्ये नपुंसकम्। मृदु पचति। प्रातः कमनीयम्॥

इति तत्पुरुषः॥ ३॥

अथ बहुव्रीहिः

शेषो बहुव्रीहिः॥ (लसक_९६८ = पा_२,२.२३)
अधिकारो ऽयं प्राग्द्वन्द्वात्॥

अनेकमन्यपदार्थे॥ (लसक_९६९ = पा_२,२.२४)
अनेकं प्रथमान्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते स बहुव्रीहिः॥

सप्तमीविशेषणे बहुव्रीहौ॥ (लसक_९७० = पा_२,२.३५)
सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं स्यात्। अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः॥

हलन्तात्सप्तम्याः संज्ञायाम्॥ (लसक_९७१ = पा_६,३.९)
हलन्ताददन्ताच्च सप्तम्या अलुक्। कण्ठेकालः। प्राप्तमुदकं यं स प्राप्तोदको ग्रामः। ऊढरथो ऽनड्वान्। उपहृतपशू रुद्रः। उद्धृतौदना स्थाली। पीताम्बरो हरिः। वीरपुरुषको ग्रामः। (प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः)। प्रपतितपर्णः, प्रपर्णः। (नञो ऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः) अविद्यमानपुत्रः, अपुत्रः॥

स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्समानाधिकरणे स्त्रियामपूरणीप्रियादिषु॥ (लसक_९७२ = पा_६,३.३४)
उक्तपुंस्कादनूङ् ऊङोऽभावो ऽस्यामिति बहुव्रीहिः। निपातनात्पञ्चम्या अलुक् षष्ठ्याश्च लुक्। तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः। गोस्त्रियोरिति ह्रस्वः। चित्रगुः। रूपवद्भार्यः। अनूङ् किम् ? वामोरूभार्यः॥ पूरण्यां तु - .

अप्पूरणीप्रमाण्योः॥ (लसक_९७३ = पा_५,४.११६)
पूरणार्थप्रत्ययान्तं यत्स्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहे रप्स्यात्। कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणी पञ्चमा रात्रयः। स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः। अप्रियादिषु किम् ? कल्याणीप्रिय इत्यादि॥

बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्॥ (लसक_९७४ = पा_५,४.११३)
स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात्। दीर्घसक्थः। जलजाक्षी। स्वाङ्गात्किम् ? दीर्घसक्थि शकटम्। स्थूलाक्षा वेणुयष्टिः। अक्ष्णो ऽदर्शनादिति वक्ष्यमाणो ऽच्॥

द्वित्रिभ्यां ष मूर्ध्नः॥ (लसक_९७५ = पा_५,४.११५)
आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ। द्विमूर्धः। त्रिमूर्धः॥

अन्तर्बहिभ्यां च लोम्नः॥ (लसक_९७६ = पा_५,४.११७)
आभ्यां लोम्नो ऽप्स्याद्बहुव्रीहौ। अन्तर्लोमः। बहिर्लोमः॥

पादस्य लोपो ऽहस्त्यादिभ्यः॥ (लसक_९७७ = पा_५,४.१३८)
हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ। व्याघ्रस्येव पादावस्य व्याघ्रपात्। अहस्त्यादिभ्यः किम् ? हस्तिपादः। कुसूलपादः॥

संख्यासुपूर्वस्य॥ (लसक_९७८ = पा_५,४.१४०)
पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ। द्विपात्। सुपात्॥

उद्विभ्यां काकुदस्य॥ (लसक_९७९ = पा_५,४.१४८)
लोपः स्यात्। उत्काकुत्। विकाकुत्॥

पूर्णाद्विभाषा॥ (लसक_९८० = पा_५,४.१४९)
पूर्णकाकुत्। पूर्णकाकुदः॥

सुहृद्दुर्हृदौ मित्रामित्रयोः॥ (लसक_९८१ = पा_५,४.१५०)
सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते। सुहृन्मित्रम्। दुर्हृदमित्रः॥

उरः प्रभृतिभ्यः कप्॥ (लसक_९८२ = पा_५,४.१५१)

सो ऽपदादौ॥ (लसक_९८३ = पा_८,३.३८)
पाशकल्पककाम्येषु विसर्गस्य सः॥

कस्कादिषु च॥ (लसक_९८४ = पा_८,३.४८)
एष्विण उत्तरस्य विसर्गस्य षो ऽन्यस्य तु सः। इति सः। व्यूढोरस्कः॥

इणः षः॥ (लसक_९८५ = पा_८,३.३९)
इण उत्तरस्य विसर्गस्य षः पाशकल्पककाम्येषु परेषु। प्रियसर्पिष्कः॥

निष्ठा॥ (लसक_९८६ = पा_२,२.३६)
निष्ठान्तं बहुव्रीहौ पूर्वं स्यात्। युक्तयोगः॥

शेषाद्विभाषा॥ (लसक_९८७ = पा_५,४.१५४)
अनुक्तसमासान्ताद्बहुव्रीहेः कब्वा। महायशस्कः, महायशाः॥

इति बहुव्रीहिः॥ ४॥

अथ द्वन्द्वः

चार्थे द्वन्द्वः॥ (लसक_९८८ = पा_२,२.२९)
अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः। समुच्चयान्वाचयेत रेतरयोगसमाहाराश्चार्थाः। तत्र "ईश्वरं गुरुं च भजस्व&८२१७॑ इति परस्परनिरपेक्षस्यानेक स्यैकस्मिन्नन्वयः समुच्चयः। "भिक्षामट गां चानय&८२१७॑ इत्यन्यतरस्यानुषङ्गिकत्वेन अन्वयो ऽन्वाचयः। अनयोरसामर्थ्यात्समासो न। "धवखदिरौ छिन्धि&८२१७॑ इति मिलितानामन्वय इतरेतरयोगः। "संज्ञापरिभाषम्&८२१७॑ इति समूहः समाहारः॥

राजदन्तादिषु परम्॥ (लसक_९८९ = पा_२,२.३१)
एषु पूर्वप्रयोगार्हं परं स्यात्। दन्तानां राजानो राजदन्ताः। (धर्मादिष्वनियमः)। अर्थधर्मौ। धर्मार्थावित्यादि॥

द्वन्द्वे घि॥ (लसक_९९० = पा_२,२.३२)
द्वन्द्वे घिसंज्ञं पूर्वं स्यात्। हरिश्च हरश्च हरिहरौ॥

अजाद्यदन्तम्॥ (लसक_९९१ = पा_२,२.३३)
द्वन्द्वे पूर्वं स्यात्। ईशकृष्णौ॥

अल्पाच्तरम्॥ (लसक_९९२ = पा_२,२.३४)
शिवकेशवौ॥

पिता मात्रा॥ (लसक_९९३ = पा_१,२.७०)
मात्रा सहोक्तौ पिता वा शिष्यते। माता च पिता च पितरौ, मातापितरौ वा॥

द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्॥ (लसक_९९४ = पा_२,४.२)
एषां द्वन्द्व एकवत्। पाणिपादम्। मार्दङ्गिकवैणविकम्। रथिकाश्वारोहम्॥

द्वन्द्वाच्चुदषहान्तात्समाहारे॥ (लसक_९९५ = पा_५,४.१०६)
चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच् स्यात्समाहारे। वाक् च त्वक् च वाक्त्वचम्। त्वक्स्रजम्। शमीदृषदम्। वाक्त्विषम्। छत्रोपानहम्। समाहारे किम् ? प्रावृट्शरदौ॥

इति द्वन्द्वः॥ ५॥

अथ समासान्ताः

ऋक्पूरब्धूःपथामानक्षे॥ (लसक_९९६ = पा_५,४.७४)
अ अनक्षे इतिच्छेदः। ऋगाद्यन्तस्य समासस्य अप्रत्ययो ऽन्तावयवो ऽक्षे या धूस्तदन्तस्य तु न। अर्धर्चः। विष्णुपुरम्। विमलापं सरः। राजधुरा। अक्षे तु अक्षधूः। दृढधूरक्षः। सखिपथः। रम्यपथो देशः॥

अक्ष्णो ऽदर्शनात्॥ (लसक_९९७ = पा_५,४.७६)
अचक्षुःपर्यायादक्ष्णो ऽच् स्यात्समासान्तः। "गवामक्षीव गवाक्षः&८२१७॑॥

उपसर्गादध्वनः॥ (लसक_९९८ = पा_५,४.८५)
प्रगतो ऽध्वानं प्राध्वो रथः॥

न पूजनात्॥ (लसक_९९९ = पा_५,४.६९)
पूजनार्थात्परेभ्यः समासान्ता न स्युः। सुराजा। अतिराजा॥

इति समासान्ताः॥

अथ तद्धिताः, तत्रादौ साधारणप्रत्ययाः

समर्थानां प्रथमाद्वा॥ (लसक_१००० = पा_४,१.८२)
इदं पदत्रयमधिक्रियते प्राग्दिश इति यावत्॥

अश्वपत्यादिभ्यश्च॥ (लसक_१००१ = पा_४,१.८४)
एभ्यो ऽण् स्यात्प्राग्दीव्यतीयेष्वर्थेषु। अश्वपतेरपत्यादि आश्वपतम्। गाणपतम्॥

दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः॥ (लसक_१००२ = पा_७,२.११७)
दित्यादिभ्यः पत्युततरपदाच्च प्राग्दीव्यतियेष्वर्थेषु ण्यः स्यात्। अणो ऽपवादः। दितेरपत्यं दैत्यः। अदितेरादित्यस्य वा॥

हलो यमां यमि लोपः॥ (लसक_१००३ = पा_४,१.८५)
हलः परस्य यमो लोपः स्याद् वा यमि। इति यलोपः। आदित्यः। प्राजापत्यः। (देवाद्यञञौ)। दैव्यम्/ दैवम्। (बहिषष्टिलोपो यञ्च)। बाह्यः (ईकक्च)॥

किति च॥ (लसक_१००४ = पा_७,२.११८)
किति तद्धिते चाचामादेरचो वृद्धिः स्यात्। वाहीकः। (गोरजादिप्रसङ्गे यत्)। गोरपत्यादि गव्यम्॥

उत्सादिभ्यो ऽञ्॥ (लसक_१००५ = पा_४,१.८६)
औत्सः॥

इत्यपत्यादिविकारान्तार्थ साधारणप्रत्ययाः॥ १॥

अथापत्याधिकारः

स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्॥ (लसक_१००६ = पा_४,१.८७)
धान्यानां भवन इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः। स्त्रैणः। पैंस्नः॥

तस्यापत्यम्॥ (लसक_१००७ = पा_४,१.९२)
षष्ठ्यन्तात्कृतसन्धेः समर्थादपत्येर्ऽथे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः॥

ओर्गुणः॥ (लसक_१००८ = पा_६,४.१४६)
उवर्णान्तस्य भस्य गुणस्तद्धिते। उपगोरपत्यमौपगवः। आश्वपतः। दैत्यः। औत्सः। स्त्रैणः। पैंस्नः॥

अपत्यं पौत्रप्रभृति गोत्रम्॥ (लसक_१००९ = पा_४,१.१६२)
अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात्॥

एको गोत्रे॥ (लसक_१०१० = पा_४,१.९३)
गोत्रे एक एवापत्यप्रत्ययः स्यात्। उपगोर्गोत्रापत्यमौपगवः॥

गर्गादिभ्यो यञ्॥ (लसक_१०११ = पा_४,१.१०५)
गोत्रापत्ये। गर्गस्य गोत्रापत्यं गार्ग्यः। वात्स्यः॥

यञञोश्च॥ (लसक_१०१२ = पा_२,४.६४)
गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक् स्यात्तत्कृते बहुत्वे न तु स्त्रियाम्। गर्गाः। वत्साः॥

जीवति तु वंश्ये युवा॥ (लसक_१०१३ = पा_४,१.१६३)
वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यात्॥

गोत्राद्यून्यस्त्रियाम्॥ (लसक_१०१४ = पा_४,१.९४)
यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा॥

यञिञोश्च॥ (लसक_१०१५ = पा_४,१.१०१)
गोत्रे यौ यञिञौ तदन्तात्फक् स्यात्॥

आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्॥ (लसक_१०१६ = पा_७,१.२)
प्रत्ययादेः फस्य आयन्, ढस्य एय्, खस्य ईन्, छस्य ईय्, घस्य इय् एते स्युः/ गर्गस्य युवापत्यं गार्ग्यायणः। दाक्षायणः॥

अत इञ्॥ (लसक_१०१७ = पा_४,१.९५)
अपत्येर्ऽथे। दाक्षिः॥

बाह्वादिभ्यश्च॥ (लसक_१०१८ = पा_४,१.९६)
बाहविः। औडुलोमिः। (लोम्नो ऽपत्येषु बहुष्वकारो वक्तव्यः)। उडुलोमाः। आकृतिगणो ऽयम्॥

अनृष्यानन्तर्ये बिदादिभ्यो ऽञ्॥ (लसक_१०१९ = पा_४,१.१०४)
एभ्यो ऽञ् गोत्रे। ये त्वत्रानृषयस्तेभ्यो ऽपत्ये ऽन्यत्र तु गोत्रे। बिदस्य गोत्रं बैदः। बैदौ। बिदाः। पुत्रस्यापत्यं पौत्रः। पौत्रौ। पौत्राः। एवं दौहित्रादयः॥

शिवादिभ्यो ऽण्॥ (लसक_१०२० = पा_४,१.११२)
अपत्ये। शैवः। गाङ्गः॥

ऋष्यन्धकवृष्णिकुरुभ्यश्च॥ (लसक_१०२१ = पा_४,१.११४)
ऋषिभ्यः - वासिष्ठः। वैश्वामित्रः। अन्धकेभ्यः - श्वाफल्कः। वृष्णिभ्यः - वासुदेवः। कुरुभ्यः - नाकुलः। साहदेवः॥

मातुरुत्संख्यासंभद्रपूर्वायाः॥ (लसक_१०२२ = पा_४,१.११५)
संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण् प्रत्ययश्च। द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः॥

स्त्रीभ्यो ढक्॥ (लसक_१०२३ = पा_४,१.१२०)
स्त्रीप्रत्ययान्तेभ्यो ढक्। वैनतेयः॥

कन्यायाः कनीन च॥ (लसक_१०२४ = पा_४,१.११६)
चादण्। कानीनो व्यासः कर्णश्च॥

राजश्वशुराद्यत्॥ (लसक_१०२५ = पा_४,१.१३७)
(राज्ञो जातावेवेति वाच्यम्)॥

ये चाभावकर्मणोः॥ (लसक_१०२६ = पा_६,४.१६८)
यादौ तद्धिते परे ऽन् प्रकृत्या स्यान्न तु भावकर्मणोः। राजन्यः। जातावेवेति किम् ? - .

अन्॥ (लसक_१०२७ = पा_६,४.१६७)
अन् प्रकृत्या स्यादणि परे। राजनः। श्वशुर्यः॥

क्षत्त्राद् घः॥ (लसक_१०२८ = पा_४,१.१३८)
क्षत्त्रियः। जातावित्येव/ क्षात्त्रिरन्यत्र॥

रेवत्यादिभ्यष्ठक्॥ (लसक_१०२९ = पा_४,१.१४६)

ठस्येकः॥ (लसक_१०३० = पा_७,३.५०)
अङ्गात्परस्य ठस्येकादेशः स्यात्। रैवतिकः॥

जनपदशब्दात्क्षत्त्रियादञ्॥ (लसक_१०३१ = पा_४,१.१६८)
जनपदक्षत्त्रियवाचकाच्छब्दादञ् स्यादपत्ये। पाञ्चालः। (क्षत्त्रियसमान शब्दाज्जनपदात्तस्य राजन्यपत्यवत्)। पञ्चालानां राजा पाञ्चालः। (पूरोरण् वक्तव्यः)। पौरवः। (पाण्डोर्ड्यण्)। पाण्ड्यः॥

कुरुनादिभ्यो ण्यः॥ (लसक_१०३२ = पा_४,१.१७२)
कौरव्यः। नैषध्यः॥

ते तद्राजाः॥ (लसक_१०३३ = पा_४,१.१७४)
अञादयस्तद्राजसंज्ञाः स्युः॥

तद्राजस्य बहुषु तेनैवास्त्रियाम्॥ (लसक_१०३४ = पा_२,४.६२)
बहुष्वर्थेषु तद्राजस्य लुक् तदर्थकृते बहुत्वे न तु स्त्रियाम्। इक्ष्वाकवः। पञ्चालाः इत्यादि॥

कम्बोजाल्लुक्॥ (लसक_१०३५ = पा_४,१.१७५)
अस्मात्तद्राजस्य लुक्। कम्बोजः। कम्बोजौ। (कम्बोजादिभ्य इति वक्तव्यम्)। चोलः। शकः। केरलः। यवनः॥

इत्यपत्याधिकारः॥ २॥

अथ रक्ताद्यर्थकाः

तेन रक्तं रागात्॥ (लसक_१०३६ = पा_४,२.१)
अण् स्यात्। रज्यते ऽनेनेति रागः। काषायेण रक्तं वस्त्रं काषायम्॥

नक्षत्रेण युक्तः कालः॥ (लसक_१०३७ = पा_४,२.३)
अण् स्यात्। (तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम्)। पुष्येण युक्तं पौषमहः॥

लुबविशेषे॥ (लसक_१०३८ = पा_४,२.४)
पूर्वेण विहितस्य लुप् स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते। अद्य पुष्यः॥

दृष्टं साम॥ (लसक_१०३९ = पा_४,२.७)
तेनेत्येव। वसिष्ठेन दृष्टं वासिष्ठं साम॥

वामदेवाड्ड्यड्ड्यौ॥ (लसक_१०४० = पा_४,२.९)
वामदेवेन दृष्टं साम वामदेव्यम्॥

परिवृतो रथः॥ (लसक_१०४१ = पा_४,२.१०)
अस्मिन्नर्थे ऽण् प्रत्ययो भवति। वस्त्रेण परिवृतो वास्त्रो रथः॥

तत्रोद्धृतममत्रेभ्यः॥ (लसक_१०४२ = पा_४,२.१४)
शरावे उद्धृतः शाराव ओदनः॥

संस्कृतं भक्षाः॥ (लसक_१०४३ = पा_४,२.१६)
सप्तम्यन्तादण् स्यात्संस्कृतेर्ऽथे यत्संस्कृतं भक्षाश्चेत्ते स्युः। भ्राष्ट्रेषु संस्कृता भ्राष्ट्रा यवाः॥

सास्य देवता॥ (लसक_१०४४ = पा_४,२.२४)
इन्द्रो देवतास्येति ऐन्द्रं हविः। पाशुपतम्। बार्हस्पत्यम्॥

शुक्राद्घन्॥ (लसक_१०४५ = पा_४,२.२६)
शुक्रियम्॥

सोमाट्ट्यण्॥ (लसक_१०४६ = पा_४,२.३०)
सौम्यम्॥

वाय्वृतुपित्रुषसो यत्॥ (लसक_१०४७ = पा_४,२.३१)
वायव्यम्। ऋतव्यम्॥

रीङ् ऋतः॥ (लसक_१०४८ = पा_७,४.२७)
अकृद्यकारे असार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः। यस्येति च। पित्र्यम्। उषस्यम्॥

पितृव्यमातुलमातामहपितामहाः॥ (लसक_१०४९ = पा_४,२.३६)
एते निपात्यन्ते। पितुर्भ्राता पितृव्यः। मातुर्भ्राता मातुलः। मातुः पिता मातामहः। पितुः पिता पितामहः॥

तस्य समूहः॥ (लसक_१०५० = पा_४,२.३७)
काकानां समूहः काकम्॥

भिक्षादिभ्यो ऽण्॥ (लसक_१०५१ = पा_६,४.१४६)
भिक्षाणां समूहो भैक्षम्। गर्भिणीनां समूहो गार्भिणम्। इह (भस्याढे तद्धिते)। इति पुंवद्भावे कृते - .

इनण्यनपत्ये॥ (लसक_१०५२ = पा_४,२.३७)
अनपत्यार्थे ऽणि परे इन् प्रकृत्या स्यात्। तेन नस्तद्धित इति टिलोपो न। युवतीनां समूहो यौवनम्॥

ग्रामजनबन्धुभ्यस्तल्॥ (लसक_१०५३ = पा_४,२.४३)
तलन्तं स्त्रियाम्। ग्रमता। जनता। बन्धुता। (गजसहायाभ्यां चेति वक्तव्यम्)। गजता। सहायता। (अह्नः खः क्रतौ)। अहीनः॥

अचित्तहस्तिधेनोष्ठक्॥ (लसक_१०५४ = पा_४,२.४७)

इसुसुक्तान्तात्कः॥ (लसक_१०५५ = पा_७,३.५१)
इस् उस् उक्तान्तात्परस्य ठस्य कः। साक्तुकम्। हास्तिकम्। धैनुकम्॥

तदधीते तद्वेद॥ (लसक_१०५६ = पा_४,२.५९)

न य्वाभ्याम् पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्॥ (लसक_१०५७ = पा_७,३.३)
पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः किंतु ताभ्यां पूर्वौ क्रमादैजावागमौ स्तः/ व्याकरणमधीते वेद वा वैयाकरणः॥

क्रमादिभ्यो वुन्॥ (लसक_१०५८ = पा_४,२.६१)
क्रमकः। पदकः। शिक्षकः। मीमांसकः॥

इति रक्ताद्यर्थकाः॥ ३॥

अथ चातुरर्थिकाः

तदस्मिन्नस्तीति देशे तन्नाम्नि॥ (लसक_१०५९ = पा_४,२.६७)
उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरो देशः॥

तेन निर्वृत्तम्॥ (लसक_१०६० = पा_४,२.६८)
कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी॥

तस्य निवासः॥ (लसक_१०६१ = पा_४,२.६९)
शिबीनां निवासो देशः शैबः॥

अदूरभवश्च॥ (लसक_१०६२ = पा_४,२.७०)
विदिशाया अदूरभवं नगरं वैदिशम्॥

जनपदे लुप्॥ (लसक_१०६३ = पा_१,२.५१)
जनपदे वाच्ये चातुरर्थिकस्य लुप्॥

लुपि युक्तवद्व्यक्तिवचने॥ (लसक_१०६४ = पा_१,२.५१)
लुपि सति प्रकृतिवल्लिङ्गवचने स्तः। पञ्चालानां निवासो जनपदः पञ्चालाः/ कुरवः। अङ्गाः/ वङ्गाः। कलिङ्गाः॥

वरणादिभ्यश्च॥ (लसक_१०६५ = पा_४,२.८२)
अजनपदार्थ आरम्भः। वरणानामदूरभवं नगरं वरणाः॥

कुमुदनडवेतसेभ्यो ड्मतुप्॥ (लसक_१०६६ = पा_४,२.८७)

झयः॥ (लसक_१०६७ = पा_८,२.१०)
झयन्तान्मतोर्मस्य वः। कुमुद्वान्। नड्वान्॥

मादुपधायाश्च मतोर्वो ऽयवादिभ्यः॥ (लसक_१०६८ = पा_८,२.९)
मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः। वेतस्वान्॥

नडशादाड्ड्वलच्॥ (लसक_१०६९ = पा_४,२.८८)
नड्वलः। शाद्वलः॥

शिखाया वलच्॥ (लसक_१०७० = पा_४,२.८९)
शिखावलः॥

इति चातुरर्थिकाः॥ ४॥

अथ शैषिकाः

शेषे॥ (लसक_१०७१ = पा_४,१.९२)
अपत्यादिचतुरर्थ्यन्तादन्योर्ऽथः शेषस्तत्राणादयः स्युः। चक्षुषा गृह्यते चाक्षुषं रूपम्। श्रावणः शब्दः। औपनिषदः पुरुषः। दृषदि पिष्टा दार्षदाः सक्तवः। चतुर्भिरुह्यं चातुरं शकटम्। चतुर्दश्यां दृश्यते चातुर्दशं रक्षः। "तस्य विकारः&८२१७॑ इत्यतः प्राक् शेषाधिकारः॥

राष्ट्रावारपाराद्घखौ॥ (लसक_१०७२ = पा_४,२.९३)
आभ्यां क्रमाद् घखौ स्तः शेषे। राष्ट्रे जातादिः राष्ट्रियः/ अवारपारीणः/ (अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम्)। अवारीणः/ पारीणः/ पारावारीणः/ इह प्रकृतिविशेषाद् घादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोर्ऽथविशेषाः समर्थ विभक्तयश्च वक्ष्यन्ते॥

ग्रामाद्यखञौ॥ (लसक_१०७३ = पा_४,२.९४)
ग्राम्यः। ग्रामीणः॥

नद्यादिभ्यो ढक्॥ (लसक_१०७४ = पा_४,२.९७)
नादेयम्। माहेयम्। वाराणसेयम्॥

दक्षिणापश्चात्पुरसस्त्यक्॥ (लसक_१०७५ = पा_४,२.९८)
दाक्षिणात्यः। पाश्चात्यः। पौरस्त्यः॥

द्युप्रागपागुदक्प्रतीचो यत्॥ (लसक_१०७६ = पा_४,२.१०१)
दिव्यम्। प्राच्यम्। अपाच्यम्। उदीच्यम्। प्रतीच्यम्॥

अव्ययात्त्यप्॥ (लसक_१०७७ = पा_४,२.१०४)
(अमेहक्वतसित्रेभ्य एव)। अमात्यः। इहत्यः। क्वत्यः। ततस्त्यः। तत्रत्यः। (त्यब्नेर्ध्रुव इति वक्तव्यम्)। नित्यः॥

वृद्धिर्यस्याचामादिस्तद्वृद्धम्॥ (लसक_१०७८ = पा_१,१.७३)
यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात्॥

त्यदादीनि च॥ (लसक_१०७९ = पा_१,१.७४)
वृद्धसंज्ञानि स्युः॥

वृद्धाच्छः॥ (लसक_१०८० = पा_४,२.११४)
शालीयः। मालीयः। तदीयः। (वा नामधेयस्य वृद्धसंज्ञा वक्तव्या)। देवदत्तीयः, दैवदत्तः॥

गहादिभ्यश्च॥ (लसक_१०८१ = पा_४,२.१३८)
गहीयः॥

युष्मदस्मदोरन्यतरस्यां खञ् च॥ (लसक_१०८२ = पा_४,३.१)
चाच्छः। पक्षे ऽण्। युवयोर्युष्माकं युष्मदीयः, अस्मदीयः॥

तस्मिन्नणि च युष्माकास्माकौ॥ (लसक_१०८३ = पा_४,३.२)
युष्मदस्मदोरेतावादेशौ स्तः खञ्यणि च। यौष्माकीणः। आस्माकीनः। यौष्माकः। आस्माकः॥

तवकममकावेकवचने॥ (लसक_१०८४ = पा_४,३.३)
एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञि अणि च। तावकीनः। तावकः। मामकीनः। मामकः। छे तु - .

प्रत्ययोत्तरपदयोश्च ॥ (लसक_१०८५ = पा_७,२.९८)
मपर्यन्तयोरेतयोरेकार्थवाचिनोस्त्वमौ स्तः प्रत्यये उत्तरपदे च परतः। त्वदीयः। मदीयः। त्वत्पुत्रः। मत्पुत्रः॥

मध्यान्मः॥ (लसक_१०८६ = पा_४,३.८)
मध्यमः॥

कालाट्ठञ्॥ (लसक_१०८७ = पा_४,३.११)
कालवाचिभ्यष्ठञ् स्यात्। कालिकम्। मासिकम्। सांवत्सरिकम्। (अव्ययानां भमात्रे टिलोपः)। सायम्प्रातिकः। पौनः पुनिकः॥

प्रावृष एण्यः॥ (लसक_१०८८ = पा_४,३.१७)
प्रावृषेण्यः॥

सायञ्चिरम्प्राह्णेप्रगे ऽव्ययेभ्यष्ट्युट्युलौ तुट् च॥ (लसक_१०८९ = पा_४,३.२३)
सायमित्यादिभ्यश्चतुर्भ्यो ऽव्ययेभ्यश्च कालवाचिभ्यष्ट्युट्युलौ स्तस्तयोस्तुट् च। सायन्तनम्। चिरन्तनम्। प्राह्णे प्रगे अनयोरेदन्तत्वं निपात्यते। प्राह्णेतनम्। प्रगेतनम्। दोषातनम्॥

तत्र जातः॥ (लसक_१०९० = पा_४,३.२५)
सप्तमीसमर्थाज्जात इत्यर्थे ऽणादयो घादयश्च स्युः। स्रुग्घ्ने जातः स्रौग्घ्नः। उत्से जात औत्सः। राष्ट्रे जातो राष्ट्रियः। अवारपारे जातः अवारपारीणः, इत्यादि//

प्रावृषष्ठप्॥ (लसक_१०९१ = पा_४,३.२६)
एण्यापवादः। प्रावृषिकः॥

प्रायभवः॥ (लसक_१०९२ = पा_४,३.३९)
तत्रेत्येव। स्रुग्घ्ने प्रायेण बाहुल्येन भवति स्रौग्घ्नः॥

सम्भूते॥ (लसक_१०९३ = पा_४,३.४१)
स्रुग्घ्ने संभवति स्रौग्घ्नः॥

कोशाड्ढञ्॥ (लसक_१०९४ = पा_४,३.४२)
कौशेयम् वस्त्रम्॥

तत्र भवः॥ (लसक_१०९५ = पा_४,३.५३)
स्रुग्घ्ने भवः स्रौग्घ्नः। औत्सः। राष्ट्रियः॥

दिगादिभ्यो यत्॥ (लसक_१०९६ = पा_४,३.५४)
दिश्यम्। वर्ग्यम्॥

शरीरावयवाच्च॥ (लसक_१०९७ = पा_४,३.५५)
दन्त्यम्। कण्ठ्यम्। (अध्यात्मादेष्ठञिष्यते) अध्यात्मं भवमाध्यात्मिकम्॥

अनुशतिकादीनां च॥ (लसक_१०९८ = पा_७,३.२०)
एषामुभयपदवृद्धिर्ञिति णिति किति च/ आधिदैविकम्/ आधिभौतिकम्/ ऐहलौकिकम्/ पारलोकिकम्/ आकृतिगणो ऽयम्॥

जिह्वामूलाङ्गुलेश्छः॥ (लसक_१०९९ = पा_४,३.६२)
जिह्वामूलीयम्। अङ्गुलीयम्॥

वर्गान्ताच्च॥ (लसक_११०० = पा_४,३.६३)
कवर्गीयम्॥

तत आगतः॥ (लसक_११०१ = पा_४,३.७४)
स्रुग्घ्नादागतः स्रौग्घ्नः॥

ठगायस्थानेभ्यः॥ (लसक_११०२ = पा_४,३.७५)
शुल्कशालाया आगतः शौल्कशालिकः॥

विद्यायोनिसंबन्धेभ्यो वुञ्॥ (लसक_११०३ = पा_४,३.७७)
औपाध्यायकः। पैतामहकः॥

हेतुमनुष्येभ्यो ऽन्यतरस्यां रूप्यः॥ (लसक_११०४ = पा_४,३.८१)
समादागतं समरूप्यम्। पक्षे - गहादित्वाच्छः। समीयम्। विषमीयम्। देवदत्तरूप्यम्। दैवदत्तम्॥

मयट् च॥ (लसक_११०५ = पा_४,३.८२)
सममयम्। देवदत्तमयम्॥

प्रभवति॥ (लसक_११०६ = पा_४,३.८३)
हिमवतः प्रभवति हैमवती गङ्गा॥

तद्गच्छति पथिदूतयोः॥ (लसक_११०७ = पा_४,३.८५)
स्रुग्घ्नं गच्छति स्रौग्ध्नः पन्था दूतो वा॥

अभिनिष्क्रामति द्वारम्॥ (लसक_११०८ = पा_४,३.८६)
स्रुग्घ्नमभिनिष्क्रामति स्रौग्घ्नं कान्यकुब्जद्वारम्॥

अधिकृत्य कृते ग्रन्थे॥ (लसक_११०९ = पा_४,३.८७)
शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीयः॥

सो ऽस्य निवासः॥ (लसक_१११० = पा_४,३.८९)
स्रुग्घ्नो निवासो ऽस्य स्रौग्घ्नः॥

तेन प्रोक्तम्॥ (लसक_११११ = पा_४,३.१०१)
पाणिनिना प्रोक्तं पाणिनीयम्॥

तस्येदम्॥ (लसक_१११२ = पा_४,३.१२०)
उपगोरिदम् औपगवम्॥

इति शैषिकाः॥ ५॥

अथ विकारार्थकाः

तस्य विकारः॥ (लसक_१११३ = पा_४,३.१३४)
(अश्मनो विकारे टिलोपो वक्तव्यः)। अश्मनो विकारः आश्मः। भास्मनः। मार्त्तिकः॥

अवयवे च प्राण्योषधिवृक्षेभ्यः॥ (लसक_१११४ = पा_४,३.१३५)
चाद्विकारे। मयूरस्यावयवो विकारो वा मायूरः। मौर्वं काण्डं भस्म वा। पैप्पलम्॥

मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः॥ (लसक_१११५ = पा_४,३.१४३)
प्रकृतिमात्रान्मयड्वा स्यात् विकारावयवयोः/ अश्ममयम्, आश्मनम्/ अभक्ष्येत्यादि किम्? मौद्गः सूपः/ कार्पासमाच्छादनम्॥

नित्यं वृद्धशरादिभ्यः॥ (लसक_१११६ = पा_४,३.१४४)
आम्रमयम्। शरमयम्॥

गोश्च पुरीषे॥ (लसक_१११७ = पा_४,३.१४५)
गोः पुरीषं गोमयम्॥

गोपयसोर्यत्॥ (लसक_१११८ = पा_४,३.१६०)
गव्यम्। पयस्यम्॥

इति विकारार्थाः। (प्राग्दीव्यतीयाः)॥ ६॥

अथ ठगधिकारः

प्राग्वहतेष्ठक्॥ (लसक_१११९ = पा_४,४.१)
तद्वहतीत्यतः प्राक् ठगधिक्रियते॥

तेन दीव्यति खनति जयति जितम्॥ (लसक_११२० = पा_४,४.२)
अक्षैर्दीव्यति खनति जयति जितो वा आक्षिकः॥

संस्कृतम्॥ (लसक_११२१ = पा_४,४.३)
दध्ना संस्कृतम् दाधिकम्। मारीचिकम्॥

तरति॥ (लसक_११२२ = पा_४,४.५)
तेनेत्येव। उडुपेन तरति औडुपिकः॥

चरति॥ (लसक_११२३ = पा_४,४.८)
तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात्। हस्तिना चरति हास्तिकः। दध्ना चरति दाधिकः॥

संसृष्टे॥ (लसक_११२४ = पा_४,४.२२)
दध्ना संसृष्टं दाधिकम्॥

उञ्छति॥ (लसक_११२५ = पा_४,४.३२)
बदराण्युञ्छति बादरिकः॥

रक्षति॥ (लसक_११२६ = पा_४,४.३३)
समाजं रक्षति सामाजिकः॥

शब्ददर्दुरं करोति॥ (लसक_११२७ = पा_४,४.३४)
शब्दं करोति शाब्दिकः। दर्दुरं करोति दार्दुरिकः॥

धर्मं चरति॥ (लसक_११२८ = पा_४,४.४१)
धार्मिकः (अधर्माच्चेति वक्तव्यम्)। आधर्मिकः॥

शिल्पम्॥ (लसक_११२९ = पा_४,४.५५)
मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः॥

प्रहरणम्॥ (लसक_११३० = पा_४,४.५७)
तदस्येत्येव। असिः प्रहरणमस्य आसिकः। धानुष्कः॥

शीलम्॥ (लसक_११३१ = पा_४,४.६१)
अपूपभक्षणं शीलमस्य आपूपिकः॥

निकटे वसति॥ (लसक_११३२ = पा_४,४.७३)
नैकटिको भिक्षुकः॥

इति ठगधिकारः। (प्राग्वहतीयाः)॥ ७॥

अथ यदधिकारः

प्राग्घिताद्यत्॥ (लसक_११३३ = पा_४,४.७५)
तस्मै हितमित्यतः प्राग् यदधिक्रियते॥

तद्वहति रथयुगप्रासङ्गम्॥ (लसक_११३४ = पा_४,४.७६)
रथं वहति रथ्यः। युग्यः। प्रासङ्ग्यः॥

धुरो यड्ढकौ॥ (लसक_११३५ = पा_४,४.७७)
हलि चेति दीर्घे प्राप्ते - .

न भकुर्छुराम्॥ (लसक_११३६ = पा_८,२.७९)
भस्य कुर्छुरोश्चोपधाया इको दीर्घो न स्यात्। धुर्यः। धौरेयः॥

नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु॥ (लसक_११३७ = पा_४,४.९१)
नावा तार्यं नाव्यं जलम्। वयसा तुल्यो वयस्यः। धर्मेण प्राप्यं धर्म्यम्। विषेण वध्यो विष्यः। मूलेन आनाम्यं मूल्यम्। मूलेन समो मूल्यः। सीतया समितं सीत्यं क्षेत्रम्। तुलया संमितम् तुल्यम्॥

तत्र साधुः॥ (लसक_११३७ = पा_४,४.९८)
अग्रे साधुः - अग्र्यः। सामसु साधुः सामन्यः। ये चाभावकर्मणोरिति प्रकृति भावः। कर्मण्यः। शरण्यः॥

सभाया यः॥ (लसक_११३९ = पा_४,४.१०५)
सभ्यः॥

इति यतो ऽवधिः। (प्राग्घितीयाः)॥ ८॥

अथ छयतोरधिकारः

प्राक् क्रीताच्छः॥ (लसक_११४० = पा_५,१.१)
तेन क्रीतमित्यतः प्राक् छो ऽधिक्रियते॥

उगवादिभ्यो यत्॥ (लसक_११४१ = पा_५,१.२)
प्राक् क्रीतादित्येव। उवर्णान्ताद्गवादिभ्यश्च यत् स्यात्। छस्यापवादः। शङ्कवे हितं शङ्कव्यं दारु। गव्यम्। (नाभि नभं च)। नभ्यो ऽक्षः। नभ्यमञ्जनम्॥
तस्मै हितम्॥ (लसक_११४२ = पा_५,१.५)
वत्सेभ्यो हितो वत्सीयो गोधुक्॥

शरीरावयवाद्यत्॥ (लसक_११४३ = पा_५,१.६)
दन्त्यम्। कण्ठ्यम्। नस्यम्॥

आत्मन्विश्वजनभोगोत्तरपदात्खः॥ (लसक_११४४ = पा_५,१.९)

आत्माध्वानौ खे॥ (लसक_११४५ = पा_६,४.१६९)
एतौ खे प्रकृत्या स्तः। आत्मने हितम् आत्मनीनम्। विश्वजनीनम्। मातृभोगीणः॥

इति छयतोरवधिः। (प्राक्क्रीतीयाः)॥ ९॥

अथ ठञधिकारः

प्राग्वतेष्ठञ्॥ (लसक_११४६ = पा_५,१.१८)
तेन तुल्यमिति वतिं वक्ष्यति, ततः प्राक् ठञधिक्रियते॥

तेन क्रीतम्॥ (लसक_११४७ = पा_५,१.३७)
सप्तत्या क्रीतं साप्ततिकम्। प्रास्थिकम्॥

सर्वभूमिपृथिवीभ्यामणञौ॥ (लसक_११४८ = पा_५,१.४१)

तस्येश्वरः॥ (लसक_११४९ = पा_५,१.४२)
सर्वभूमिपृथिवीभ्यामणञौ स्तः। अनुशतिकादीनां च। सर्वभूमेरीश्वरः सार्वभौमः। पार्थिवः॥

पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्॥ (लसक_११५० = पा_५,१.५९)
एते रूढिशब्दा निपात्यन्ते॥

तदर्हति॥ (लसक_११५१ = पा_५,१.६३)
लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः। श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः॥

दण्डादिभ्यो यत्॥ (लसक_११५२ = पा_५,१.६६)
एभ्यो यत् स्यात्। दण्डमर्हति दण्ड्यः। अर्घ्यः। वध्यः॥

तेन निर्वृत्तम्॥ (लसक_११५३ = पा_५,१.७९)
अह्ना निर्वृत्तम् आह्निकम्॥

इति ठञो ऽवधिः। (प्राग्वतीयाः)॥ १०॥

अथ त्वतलोरधिकारः

तेन तुल्यं क्रिया चेद्वतिः॥ (लसक_११५४ = पा_५,१.११५)
ब्राह्मणेन तुल्यं ब्राह्मणवत् अधीते। क्रिया चेदिति किम् ? गुणतुल्ये मा भूत्। पुत्रेण तुल्यः स्थूलः॥

तत्र तस्येव॥ (लसक_११५५ = पा_५,१.११६)
मथुरायामिव मथुरावत् स्रुग्ध्ने प्रकारः। चैत्रस्येव चैत्रवन्मैत्रस्य गावः॥

तस्य भावस्त्वतलौ॥ (लसक_११५६ = पा_५,१.११९)
प्रकृतिजन्यबोधे प्रकारो भावः। गोर्भावो गोत्वम्। गोता। त्वान्तं क्लीबम्॥

आ च त्वात्॥ (लसक_११५७ = पा_५,१.१२०)
ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते। अपवादैः सह समावेशार्थमिदम्। चकारो नञ्स्नञ्भ्यामपि समावेशार्थः। स्त्रिया भावः - स्त्रैणम्। स्त्रीत्वम्। स्त्रीता। पौस्नम्। पुंस्त्वम्। पुंस्ता॥

पृथ्वादिभ्य इमनिज्वा॥ (लसक_११५८ = पा_५,१.१२२)
वावचनमणादिसमावेशार्थम्॥

र ऋतो हलादेर्लघोः॥ (लसक_११५९ = पा_६,४.१६१)
हलादेर्लघोरृकारस्य रः स्यादिष्ठेयस्सु परतः। पृथुमृदुभृशकृशदृढपरिवृढा नामेव रत्वम्॥

टेः॥ (लसक_११६० = पा_६,४.१५५)
भस्य टेर्लोप इष्ठेमेयस्सु। पृथोर्भावः प्रथिमा - .

इगन्ताच्च लघुपूर्वात्॥ (लसक_११६१ = पा_५,१.१३१)
इगन्ताल्लघुपूर्वात् प्रातिपदिकाद्भावे ऽण् प्रत्ययः। पार्थवम्। म्रदिमा, मार्दवम्॥

वर्णदृढादिभ्यः ष्यञ्च॥ (लसक_११६२ = पा_५,१.१२३)
चादिमनिच्। शौक्ल्यम्। शुक्लिमा। दार्ढ्यम्। द्रढिमा॥

गुणवचनब्राह्मणादिभ्यः कर्मणि च॥ (लसक_११६३ = पा_५,१.१२४)
चाद्भावे। जडस्य भावः कर्म वा जाड्यम्। मूढस्य भावः कर्म वा मौढ्यम्। ब्राह्मण्यम्। आकृतिगणो ऽयम्॥

सख्युर्यः॥ (लसक_११६४ = पा_५,१.१२६)
सख्युर्भावः कर्म वा सख्यम्॥

कपिज्ञात्योर्ढक्॥ (लसक_११६५ = पा_५,१.१२७)
कापेयम्। ज्ञातेयम्।

पत्यन्तपुरोहितादिभ्यो यक्॥ (लसक_११६६ = पा_५,१.१२८)
सैनापत्यम्। पौरोहित्यम्॥

इति त्वतलोरधिकारः॥ ११॥

अथ भवनाद्यर्थकाः

धान्यानां भवने क्षेत्रे खञ्॥ (लसक_११६७ = पा_५,२.१)
भवत्यस्मिन्निति भवनम्। मुद्गानां भवनं क्षेत्रं मौद्गीनम्॥

व्रीहिशाल्योर्ढक्॥ (लसक_११६८ = पा_५,२.२)
व्रैहेयम्। शालेयम्॥

हैयङ्गवीनं संज्ञायाम्॥ (लसक_११६९ = पा_५,२.२३)
ह्योगोदोहशब्दस्य हियङ्गुरादेशः विकारार्थे खञ्च निपात्यते। दुह्यत इति दोहः क्षीरम्। ह्योगोदोहस्य विकारः - हैयङ्गवीनं नवनीतम्॥

तदस्य संजातं तारकादिभ्य इतच्॥ (लसक_११७० = पा_५,२.३६)
तारकाः संजाता अस्य तारकितं नभः। पण्डितः। आकृतिगणो ऽयम्॥

प्रमाणे द्वयसज्दघ्नञ्मात्रचः॥ (लसक_११७१ = पा_५,२.३७)
तदस्येत्यनुवर्तते। ऊरू प्रमाणमस्य - ऊरुद्वयसम्। ऊरुदघ्नम्। ऊरुमात्रम्॥

यत्तदेतेभ्यः परिमाणे वतुप्॥ (लसक_११७२ = पा_५,२.३९)
यत्परिमाणमस्य यावान्। तावान्। एतावान्॥

किमिदंभ्यां वो घः॥ (लसक_११७३ = पा_५,२.४०)
आभ्यां वतुप् स्याद् वकारस्य घश्च॥

इदंकिमोरीश्की॥ (लसक_११७४ = पा_६,३.९०)
दृग्दृशवतुषु इदम ईश् किमः किः। कियान्। इयान्॥

संख्याया अवयवे तयप्॥ (लसक_११७५ = पा_५,२.३९)
पञ्च अवयवा अस्य पञ्चतयम्॥

द्वित्रिभ्यां तयस्यायज्वा॥ (लसक_११७६ = पा_५,२.४३)
द्वयम्। द्वितयम्। त्रयम्। त्रितयम्॥

उभादुदात्तो नित्यम्॥ (लसक_११७७ = पा_५,२.४४)
उभशब्दात्तयपो ऽयच् स्यात् स चाद्युदात्तः। उभयम्॥

तस्य पूरणे डट्॥ (लसक_११७८ = पा_५,२.४८)
एकादशानां पूरणः एकादशः॥

नान्तादसंख्यादेर्मट्॥ (लसक_११७९ = पा_५,२.४९)
डटो मडागमः। पञ्चानां पूरणः पञ्चमः। नान्तात्किम् ? .

ति विंशतेर्डिति॥ (लसक_११८० = पा_६,४.१४२)
विंशतेर्भस्य तिशब्दस्य लोपो डिति परे। विंशः। असंख्यादेः किम् ? एकादशः॥

षट्कतिकतिपयचतुरां थुक्॥ (लसक_११८१ = पा_५,२.५१)
एषां थुगागमः स्याड्डटि/ षण्णां षष्ठः/ कतिथः/ कतिपयशब्दस्यासंख्यात्वे ऽप्यत एव ज्ञापकाड्डट्/ कतिपयथः/ चतुर्थः॥

द्वेस्तीयः॥ (लसक_११८२ = पा_५,२.५४)
डटो ऽपवादः। द्वयोः पूरणो द्वितीयः॥

त्रेः संप्रसारणं च॥ (लसक_११८३ = पा_५,२.५५)
तृतीयः॥

श्रोत्रियंश्छन्दो ऽधीते॥ (लसक_११८४ = पा_५,२.८४)
श्रोत्रियः। वेत्यनुवृत्तेश्छान्दसः॥

पूर्वादिनिः॥ (लसक_११८५ = पा_५,२.८६)
पूर्वं कृतमनेन पूर्वी॥

सपूर्वाच्च॥ (लसक_११८६ = पा_५,२.८७)
कृतपूर्वा॥

इष्टादिभ्यश्च॥ (लसक_११८७ = पा_५,२.८८)
इष्टमनेन इष्टी। अधीती॥

इति भवनाद्यर्थकाः॥ १२॥

अथ मत्वर्थीयाः

तदस्यास्त्यस्मिन्निति मतुप्॥ (लसक_११८८ = पा_५,२.९४)
गावो ऽस्यास्मिन्वा सन्ति गोमान्॥

तसौ मत्वर्थे॥ (लसक_११८९ = पा_१,४.१९)
तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे। गरुत्मान्। वसोः संप्रसारणं। विदुष्मान्। (गुणवचनेभ्यो मतुपो लुगिष्टः)। शुक्लो गुणो ऽस्यास्तीति शुक्लः पटः। कृष्णः॥

प्राणिस्थादातो लजन्यतरस्याम्॥ (लसक_११९० = पा_५,२.९६)
चूडालः। चूडावान्। प्राणिस्थात्किम् ? शिखावान्दीपः। प्राण्यङ्गादेव। मेधावान्॥

लोमादिपामादिपिच्छादिभ्यः शनेलचः॥ (लसक_११९१ = पा_५,२.१००)
लोमादिभ्यः शः। लोमशः। लोमवान्। रोमशः। रोमवान्। पामादिभ्यो नः। पामनः। (ग. सू.) अङ्गात्कल्याणे। अङ्गना। (ग. सू.) लक्ष्म्या अच्च। लक्ष्मणः। पिच्छादिभ्य इलच्। पिच्छिलः। पिच्छवान्॥

दन्त उन्नत उरच्॥ (लसक_११९२ = पा_५,२.१०६)
उन्नता दन्ताः सन्त्यस्य दन्तुरः॥

केशाद्वो ऽन्यतरस्याम्॥ (लसक_११९३ = पा_५,२.१०९)
केशवः। केशी। केशिकः। केशवान्। (अन्येभ्यो ऽपि दृश्यते)। मणिवः। (अर्णसो लोपश्च)। अर्णवः॥

अत इनिठनौ॥ (लसक_११९४ = पा_५,२.११५)
दण्डी। दण्डिकः॥

व्रीह्यादिभ्यश्च॥ (लसक_११९५ = पा_५,२.११६)
व्रीही। व्रीहिकः॥

अस्मायामेधास्रजो विनिः॥ (लसक_११९६ = पा_५,२.१२१)
यशस्वी। यशस्वान्। मायावी। मेधावी। स्रग्वी॥

वचो ग्मिनिः॥ (लसक_११९७ = पा_५,२.१२४)
वाग्ग्मी॥

अर्शआदिभ्यो ऽच्॥ (लसक_११९८ = पा_५,२.१२७)
अर्शो ऽस्य विद्यते अर्शसः। आकृतिगणो ऽयम्॥

अहंशुभमोर्युस्॥ (लसक_११९९ = पा_५,२.१४०)
अहंयुः अहङ्कारवान्। शुभंयुस्तु शुभान्वितः॥

इति मत्वर्थीयाः॥ १३॥

अथ प्राग्दिशीयाः

प्राग्दिशो विभक्तिः॥ (लसक_१२०० = पा_५,३.१)
दिक्छब्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः॥

किंसर्वनामबहुभ्यो ऽद्व्यादिभ्यः॥ (लसक_१२०१ = पा_५,३.२)
किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशो ऽधिक्रियते॥

पञ्चम्यास्तसिल्॥ (लसक_१२०२ = पा_५,३.७)
पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् वा स्यात्॥

कु तिहोः॥ (लसक_१२०३ = पा_७,२.१०४)
किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः। कुतः, कस्मात्॥

इदम इश्॥ (लसक_१२०४ = पा_५,३.२)
प्राग्दिशीये परे। इतः॥

अन्॥ (लसक_१२०५ = पा_६,४.१६७)
एतदः प्राग्दिशीये। अनेकाल्त्वात्सर्वादेशः। अतः। अमुतः। यतः। ततः। बहुतः। द्व्यादेस्तु द्वाभ्याम्॥

पर्यभिभ्यां च॥ (लसक_१२०६ = पा_५,३.९)
आभ्यां तसिल् स्यात्। परितः। सर्वत इत्यर्थः। अभितः। उभयत इत्यर्थः॥

सप्तम्यास्त्रल्॥ (लसक_१२०७ = पा_५,३.१०)
कुत्र। यत्र। तत्र। बहुत्र॥

इदमो हः॥ (लसक_१२०८ = पा_५,३.११)
त्रलो ऽपवादः। इह॥

किमो ऽत्॥ (लसक_१२०९ = पा_५,३.१२)
वाग्रहणमपकृष्यते। सप्तम्यन्तात्किमो ऽद्वा स्यात् पक्षे त्रल्॥

क्वाति॥ (लसक_१२१० = पा_७,२.१०५)
किमः क्वादेशः स्यादति। क्व। कुत्र॥

इतराभ्यो ऽपि दृश्यन्ते॥ (लसक_१२११ = पा_५,३.१४)
पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते। दृशिग्रहणाद्भवदादियोग एव। स भवान्। ततो भवान्। तत्र भवान्। तम्भवन्तम्। ततो भवन्तम्। तत्र भवन्तम्। एवं दीर्घायुः, देवानाम्प्रियः, आयुष्मान्॥

सर्वैकान्यकिंयत्तदः काले दा॥ (लसक_१२१२ = पा_५,३.१५)
सप्तम्यन्तेभ्यः कालार्थेभ्यः स्वार्थे दा स्यात्॥

सर्वस्य सो ऽन्यतरस्यां दि॥ (लसक_१२१३ = पा_५,३.६)
दादौ प्राग्दिशीये सर्वस्य सो वा स्यात्। सर्वस्मिन् काले सदा सर्वदा। अन्यदा। कदा। यदा। तदा। काले किम् ? सर्वत्र देशे॥

इदमो र्हिल्॥ (लसक_१२१४ = पा_५,३.१६)
सप्तम्यन्तात् काल इत्येव॥

एतेतौ रथोः॥ (लसक_१२१५ = पा_५,३.४)
इदम्शब्दस्य एत इत् इत्यादेशौ स्तौ रेफादौ थकारादौ च प्राग्दिशीये परे/ अस्मिन् काले एतर्हि/ काले किम्? इह देशे॥

अनद्यतने र्हिलन्यतरस्याम्॥ (लसक_१२१६ = पा_५,३.२१)
कर्हि, कदा। यर्हि, यदा। तर्हि, तदा॥

एतदः॥ (लसक_१२१७ = पा_५,३.५)
एत इत् एतौ स्तौ रेफादौ थादौ च प्राग्दिशीये। एतस्मिन् काले एतर्हि॥

प्रकारवचने थाल्॥ (लसक_१२१८ = पा_५,३.२३)
प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात् स्वार्थे। तेन प्रकारेण तथा। यथा॥

इदमस्थमुः॥ (लसक_१२१९ = पा_५,३.२४)
थालो ऽपवादः। (एतदो ऽपि वाच्यः)। अनेन एतेन वा प्रकारेण इत्थम्॥

किमश्च॥ (लसक_१२२० = पा_५,३.२५)
केन प्रकारेण कथम्॥

इति प्राग्दिशीयाः॥ १४॥

अथ प्रागिवीयाः

अतिशायने तमबिष्ठनौ॥ (लसक_१२२१ = पा_५,३.५५)
अतिशयविशिष्टार्थवृत्तेः स्वार्थ एतौ स्तः। अयमेषामतिशयेनाढ्यः आढ्यतमः। लघुतमः, लघिष्ठः॥

तिङश्च॥ (लसक_१२२२ = पा_५,३.५६)
तिङन्तादतिशये द्योत्ये तमप् स्यात्॥

तरप्तमपौ घः॥ (लसक_१२२३ = पा_१,१.२२)
एतौ घसंज्ञौ स्तः॥

किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे॥ (लसक_१२२४ = पा_५,४.११)
किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे। किन्तमाम्। प्राह्णेतमाम्। पचतिमाम्। उच्चैस्तमाम्। द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः॥

द्विवचनविभज्योपपदे तरबीयसुनौ॥ (लसक_१२२५ = पा_५,३.५७)
द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः। पूर्वयोरपवादः। अयमनयोरतिशयेन लघुः लघुतरो लघीयान्। उदीच्याः प्राच्येभ्यः पटुतराः पटीयांसः॥

प्रशस्यस्य श्रः॥ (लसक_१२२६ = पा_५,३.६०)
अस्य श्रादेशः स्यादजाद्योः परतः॥

प्रकृत्यैकाच्॥ (लसक_१२२७ = पा_६,४.१६३)
इष्ठादिष्वेकाच् प्रकृत्या स्यात्। श्रेष्ठः, श्रेयान्॥

ज्य च॥ (लसक_१२२८ = पा_५,३.६१)
प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः। ज्येष्ठः॥

ज्यादादीयसः॥ (लसक_१२२९ = पा_६,४.१६०)
आदेः परस्य। ज्यायान्॥

बहोर्लोपो भू च बहोः॥ (लसक_१२३० = पा_६,४.१५८)
बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः। भूमा। भूयान्॥

इष्ठस्य यिट् च॥ (लसक_१२३१ = पा_६,४.१५९)
बहोः परस्य इष्ठस्य लोपः स्याद् यिडागमश्च। भूयिष्ठः॥

विन्मतोर्लुक्॥ (लसक_१२३२ = पा_५,३.६५)
विनो मतुपश्च लुक् स्यादिष्ठेयसोः। अतिशयेन स्रग्वी स्रजिष्ठः। स्रजीयान्। अतिशयेन त्वग्वान् त्वचिष्ठः। त्वचीयान्॥

ईषदसमाप्तौ कल्पब्देश्यदेशीयरः॥ (लसक_१२३३ = पा_५,३.६७)
ईषदूनो विद्वान् विद्वत्कल्पः। विद्वद्देश्यः। विद्वद्देशीयः। पचतिकल्पम्॥

विभाषा सुपो बहुच् पुरस्तात्तु॥ (लसक_१२३४ = पा_५,३.६८)
ईषदसमाप्तिविशिष्टेर्ऽथे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव न तु परतः। ईषदूनः पटुर्बहुपटुः। पटुकल्पः। सुपः किम् ? जयति कल्पम्॥

प्रगिवात्कः॥ (लसक_१२३५ = पा_५,३.७०)
इवे प्रतिकृतावित्यतः प्राक्काधिकारः॥

अव्ययसर्वनाम्नामकच् प्राक् टेः॥ (लसक_१२३६ = पा_५,३.७१)
कापवादः। तिङश्चेत्यनुवर्तते॥

अज्ञाते॥ (लसक_१२३७ = पा_५,३.७३)
कस्यायमश्वो ऽश्वकः/ उच्चकैः/ नीचकैः/ सर्वके। (ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र सुबन्तस्य)/ युष्मकाभिः। युवकयोः। त्वयका॥

कुत्सिते॥ (लसक_१२३८ = पा_५,३.७४)
कुत्सितो ऽश्वो ऽश्वकः॥

किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच्॥ (लसक_१२३९ = पा_५,३.९२)
अनयोः कतरो वैष्णवः। यतरः। ततरः॥

वा बहूनां जातिपरिप्रश्ने डतमच्॥ (लसक_१२४० = पा_५,३.९३)
जातिपरिप्रश्न इति प्रत्याख्यातमाकरे। बहूनां मध्ये एकस्य निर्धारणे डतमज्वा स्यात्। कतमो भवतां कठः। यतमः। ततमः। वाग्रहणमकजर्थम्। यकः। सकः॥

इति प्रागिवीयाः॥ १५॥

अथ स्वार्थिकाः

इवे प्रतिकृतौ॥ (लसक_१२४१ = पा_५,३.९६)
कन् स्यात्। अश्व इव प्रतिकृतिरश्वकः। (सर्वप्रातिपदिकेभ्यः स्वार्थे कन्)। अश्वकः॥

तत्प्रकृतवचने मयट्॥ (लसक_१२४२ = पा_५,४.२१)
प्राचुर्येण प्रस्तुतं प्रकृतम्, तस्य वचनं प्रतिपादनम्। भावे अधिकरणे वा ल्युट्। आद्ये प्रकृतमन्नमन्नमयम्। अपूपमयम्। द्वितीये तु अन्नमयो यज्ञः। अपूपमयं पर्व॥

प्रज्ञादिभ्यश्च॥ (लसक_१२४३ = पा_५,४.३८)
अण् स्यात्। प्रज्ञ एव प्राज्ञः। प्राज्ञी स्त्री। दैवतः। बान्धवः॥

बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्॥ (लसक_१२४४ = पा_५,४.४२)
बहूनि ददाति बहुशः। अल्पशः। (आद्यादिभ्यस्तसेरुपसंख्यानम्)। आदौ आदितः। मध्यतः। अन्ततः। पृष्ठतः। पार्श्वतः। आकृतिगणो ऽयम्। स्वरेण, स्वरतः। वर्णतः॥

कृभ्वस्तियोगे संपद्यकर्तरि च्विः॥ (लसक_१२४५ = पा_५,४.५०)
(अभूततद्भाव इति वक्तव्यम्)/ विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात् स्वार्थे च्विर्वा स्यात्करोत्यादिभिर्योगे//

अस्य च्वौ॥ (लसक_१२४६ = पा_७,३.३२)
अवर्णस्य ईत्स्यात् च्वौ। वेर्लोपे च्व्यन्तत्वादव्ययत्वम्। अकृष्णः कृष्णः संपद्यते तं करोति कृष्णीकरोति। ब्रह्मीभवति। गङ्गीस्यात्। (अव्ययस्य च्वावीत्वं नेति वाच्यम्)। दोषाभूतमहः। दिवाभूता रात्रिः॥

विभाषा साति कार्त्स्न्ये॥ (लसक_१२४७ = पा_५,४,५२)
च्विविषये सातिर्वा स्यात्साकल्ये॥

सात्पदाद्योः॥ (लसक_१२४८ = पा_८,३.१११)
सस्य षत्वं न स्यात्। कृत्स्नं शस्त्रमग्निः संपद्यते ऽग्निसाद्भवति। दधि सिञ्चति॥

च्वौ च॥ (लसक_१२४९ = पा_७,४.२६)
च्वौ परे पूर्वस्य दीर्घः स्यात्। अग्नीभवति॥

अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्॥ (लसक_१२५० = पा_५,४.५७)
द्व्यजेवावरं न्यूनं न तु ततो न्यूनमनेकाजिति यावत्। तादृशमर्धं यस्य तस्माड्डाच् स्यात् कृभ्वस्तिभिर्योगे / (डाचि विवक्षिते द्वे बहुलम्)। इति डाचि विवक्षिते द्वित्वम्। (नित्यमाम्रेडिते डाचीति वक्तव्यम्)। डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात्। इति तकारपकारयोः पकारः। पटपटाकरोति। अव्यक्तानुकरणात्किम् ? ईषत्करोति। द्व्यजवरार्धात्किम् ? श्रत्करोति। अवरेति किम् ? खरटखरटाकरोति। अनितौ किम् ? पटिति करोति॥

इति स्वार्थिकाः॥ १६॥
// इति तद्धिताः॥

अथ स्त्रीप्रत्ययाः

स्त्रियाम्॥ (लसक_१२५१ = पा_४,१.३)
अधिकारो ऽयम्। समर्थानामिति यावत्॥

अजाद्यतष्टाप्॥ (लसक_१२५२ = पा_४,१.४)
अजादीनामकारान्तस्य च वाच्यं यत् स्त्रीत्वं तत्र द्योत्ये टाप् स्यात्। अजा। एडका। अश्वा। चटका। मूषिका। बाला। वत्सा। होडा। मन्दा। विलाता। इत्यादि॥ मेधा। गङ्गा। सर्वा॥

उगितश्य॥ (लसक_१२५३ = पा_४,१.६)
उगिदन्तात्प्रातिपदिकात्स्त्रियां ङीप्स्यात्। भवती। भवन्ती। पचन्ती। दीव्यन्ती॥

टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः॥ (लसक_१२५४ = पा_४,१.१५)
अनुपसर्दनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप्स्यात्। कुरुचरी। नदट् नदी। देवट् देवी। सौपर्णेयी। ऐन्द्री। औत्सी। ऊरुद्वयसी। ऊरुदघ्नी। ऊरुमात्री। पञ्चतयी। आक्षिकी। लावणिकी। यादृशी। इत्वरी। (नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम्)। स्त्रैणी। पैंस्नी। शाक्तीकी। याष्टीकी। आढ्यङ्करणी। तरुणी। तलुनी॥

यञश्च॥ (लसक_१२५५ = पा_४,१.१६)
यञन्तात् स्त्रियां ङीप्स्यात्। अकारलोपे कृते - .

हलस्तद्धितस्य॥ (लसक_१२५६ = पा_६,१.१५०)
हलः परस्य तद्धितयकारस्योपधाभूतस्य सोप ईति परे। गार्गी॥

प्राचां ष्फ तद्धितः॥ (लसक_१२५७ = पा_४,१.१७)
यञन्तात् ष्फो वा स्यात्स च तद्धितः॥

षिद्गौरादिभ्यश्च॥ (लसक_१२५८ = पा_४,१.४१)
षिद्भ्यो गौरादिभ्यश्च स्त्रियां ङीष् स्यात्। गार्ग्यायणी। नर्तकी। गौरी। अनुडुही। अनड्वाही। आकृतिगणो ऽयम्॥

वयसि प्रथमे॥ (लसक_१२५९ = पा_४,१.२०)
प्रथमवयोवाचिनो ऽदन्तात् स्त्रियां ङीप्स्यात्। कुमारी॥

द्विगोः॥ (लसक_१२६० = पा_४,१.४१)
अदन्ताद् द्विगोर्ङीप्स्यात्। त्रिलोकी। अजादित्वात्त्रिफला। त्र्यनीका सेना॥

वर्णादनुदात्तात्तोपधात्तो नः॥ (लसक_१२६१ = पा_४,१.३९)
वर्णवाची यो ऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् तकारस्य नकारादेशश्च। एनी, एता। रोहिणी, रोहिता॥

वोतो गुणवचनात्॥ (लसक_१२६२ = पा_४,१.४४)
उदन्ताद् गुणवाचिनो वा ङीष् स्यात्। मृद्वी, मृदुः॥

बह्वादिभ्यश्च॥ (लसक_१२६३ = पा_४,१.४५)
एभ्यो वा ङीष् स्यात्। बह्वी, बहुः। (कृदिकारादक्तिनः)/ रात्री, रात्रिः। (सर्वतो ऽक्तिन्नर्थादित्येके)/ शकटी। शकटिः॥

पुंयोगादाख्यायाम्॥ (लसक_१२६४ = पा_४,१.४८)
या पुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष्। गोपस्य स्त्री गोपी। (पालकान्तान्न) - .

प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः॥ (लसक_१२६५ = पा_७,३.४४)
प्रत्ययस्थात्कात्पूर्वस्याकारस्येकारः स्यादापि स आप्सुपः परो न चेत्। गोपालिका। अश्वपालिका। सर्विका। कारिका। अतः किम् ? नौका। प्रत्ययस्थात्किम् ? शक्नोतीति शका। असुपः किम् ? बहुपरिव्राजका नगरी। (सूर्याद्देवतायां चाब्वाच्यः)। सूर्यस्य स्त्री देवता सूर्या। देवतायां किम् ? (सूर्यागस्त्ययोश्छे च ङ्यां च)। यलोपः। सूरी - कुन्ती॑ मानुषीयम्॥

इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलचार्याणामानुक् लसक_१२६६ = पा_४,१.४९)
एषामानुगागमः स्यात् ङीष् च। इन्द्रस्य स्त्री - इन्द्राणी। वरुणानी। भवानी। शर्वाणी। रुद्राणी। मृडानी। (हिमारण्ययोर्महत्त्वे)। महद्धिमं हिमानी। महदरण्यमरण्यानी। (यवाद्दोषे)। दुष्टो यवो यवानी। (यवनाल्लिप्याम्)। यवनानां लिपिर्यवनानी। (मातुलोपाध्याययोरानुग्वा)। मातुलानी, मातुली। उपाध्यायानी, उपाध्यायी। (आचार्यादणत्वं च)। आचार्यस्य स्त्री आचार्यानी। (अर्यक्षत्रियाभ्यां वा स्वार्थे), अर्याणी, अर्या। क्षत्रियाणी, क्षत्रिया॥

क्रीतात्करणपूर्वात्॥ (लसक_१२६७ = पा_४,१.५०)
क्रीतान्ताददन्तात् करणादेः स्त्रियां ङीष्स्यात्। वस्त्रक्रीती। क्वचिन्न। धनक्रीता॥

स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्॥ (लसक_१२६८ = पा_४,१.५४)
असंयोगोपधमुपसर्जनं यत् स्वाङ्गं तदन्ताददन्तान् ङीष्वा स्यात्। केशानतिक्रान्ता - अतिकेशी, अतिकेशा। चन्द्रमुखी चन्द्रमुखा। असंयोगोपधात्किम् ? सुगुल्फा। उपसर्जनात्किम् ? शिखा॥

न क्रोडादिबह्वचः॥ (लसक_१२६९ = पा_४,१.५६)
क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष्। कल्याणक्रोडा। आकृतिगणो ऽयम्। सुजघना॥

नखमुखात्संज्ञायाम्॥ (लसक_१२७० = पा_४,१.५८)
न ङीष्॥

पूर्वपदात्संज्ञायामगः॥ (लसक_१२७१ = पा_८,४.३)
पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात् संज्ञायां न तु गकारव्यवधाने। शूर्पणखा। गौरमुखा। संज्ञायां किम् ? ताम्रमुखी कन्या॥

जातेरस्त्रीविषयादयोपधात्॥ (लसक_१२७२ = पा_४,१.६३)
जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात्। तटी। वृषली। कठी। बह्वृची। जातेः किम् ? मुण्डा। अस्त्रीविषयात्किम् ? बलाका। अयोपधात्किम् ? क्षत्रिया। (योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः)। हयी। गवयी। मुकयी। हलस्तद्धितस्येति यलोपः। मनुषी। (मत्स्यस्य ङ्याम्)। यलोपः। मत्सी॥

इतो मनुष्यजातेः॥ (लसक_१२७३ = पा_४,१.६५)
ङीष्। दाक्षी॥

ऊङुतः॥ (लसक_१२७४ = पा_४,१.६६)
उदन्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात्। कुरूः। अयोपधात्किम् ? अध्वर्युर्ब्राह्मणी॥

पङ्गोश्च॥ (लसक_१२७५ = पा_४,१.६८)
पङ्गूः। (श्वशुरस्योकाराकारलोपश्च)। श्वश्रूः॥

ऊरूत्तरपदादौपम्ये॥ (लसक_१२७६ = पा_४,१.६९)
उपमानवाची पूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात्। करभोरूः॥

संहिताशफलक्षणवामादेश्च॥ (लसक_१२७७ = पा_४,१.७०)
अनौपम्यार्थं सूत्रम्। संहितोरूः। शफोरूः। लक्षणोरूः। वामोरूः॥

शार्ङ्गरवाद्यञो ङीन्॥ (लसक_१२७८ = पा_४,१.७३)
शार्ङ्गरवादेरञो यो ऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात्/ शार्ङ्गरवी/ बैदी। ब्राह्मणी। (नृनरयोर्वृद्धिश्च)/ नारी॥

यूनस्तिः॥ (लसक_१२७९ = पा_४,१.७७)
युवञ्छब्दात् स्त्रियां तिः प्रत्ययः स्यात्। युवतिः॥

वाह्य सूत्राणि[सम्पाद्यताम्]

  • यहाँ से रोमन यूनिकोड में प्राप्त करके उसे DiCrunch की सहायता से देवनागरी में परिवर्तित करके यहाँ रखा।

श्रेणी:व्याकरण

"https://sa.wikibooks.org/w/index.php?title=लघुसिद्धान्तकौमुदी&oldid=5015" इत्यस्माद् पुनः प्राप्तिः