लवणरसविज्ञानम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

॥ लवणरसविज्ञानम् ॥

पाञ्चभौतिकं सङ्घटनम् -
लवणद्रव्याणि पञ्चभ्यः महाभूतेभ्यः जायन्ते तथापि तेषु जलस्य तथा अग्नेः आधिक्यम् अस्ति। कारणस्य गुणाः कार्ये अपि भवन्ति। जलस्य स्निग्धता, जडता, स्यन्दनशीलता, मृदुता, द्रवता इति एते सर्वे गुणाः लवणद्रव्ये भवन्ति। अग्नेः उष्णता, तीक्ष्णता, सूक्ष्मता इति एते गुणाः लवणद्रव्ये भवन्ति।
लवणस्य ज्ञानम् -
लवणद्रव्यं यदा मुखे स्थापयामः तदा मुखे स्यन्दम् अनुभवामः। कपोलस्य अन्तर्भागे, कण्ठे च दाहम् अनुभवामः।
विपाकः वीर्यं च -
लवणरसस्य पचनोत्तरं मधुरविपाकः भवति। लवणरसस्य द्रव्याणि उष्णानि भवन्ति।
शरीरे परिणामाः -
शरीरं प्रविष्टः लवणरसः वातं शमयति, पित्तं वर्धयति, कफं द्रवीकरोति। सप्तधातुषु रक्तस्य किञ्चिदिव वृध्दिः लवणेन सम्भवति। अन्येषु धातुषु तु लवणस्य क्षयरुपं कार्यं भवति। लवणद्रव्यं तीक्ष्णम् उष्णं च वर्तते। तेन मांसस्य, मेदसः, मज्ज्ञः, शुक्रस्य च क्षयः भवति, यतो हि एते सर्वे सौम्याः धातवः। धातूनां सारभागः ओजः । यदा धातवः क्षीयन्ते तदा ओजः अपि न्यूनं जायते।मलानाम् उत्सारणे लवणस्य साहाय्यं भवति। लवणरसे विद्यमानं जलं धातुस्थं मलं स्यन्दयति, कोष्टम् आनयति। ततः मूत्ररुपेण तस्य विसर्गः भवति। अतः लवणरसेन मूत्रस्य मात्रा वर्धते। लवणरसः अपानम् अनुलोमयति। तेन मलोत्सर्गः अनायासं भवति।लवणरसः रुचिं जनयति। अतः एव निर्लवणः आहार रुचिहीनः भवति। लवणरसः अग्निं दीपयति अन्नं पचति च।लवणरसः स्नेहं जनयति। अतः स्नेहनोपचारे स्नेहस्य साहाय्यार्थं लवणरसः प्रयुज्यते।

स्नेहा लवणसंयुक्ताः स्नेहयन्त्यचिरात् नरम्।


लवणसंयुक्तः स्नेहः देहस्य स्नेहनम् अचिरात् करोति। लवणरसात्मकद्रव्यस्य स्निग्धता, गुरुता, सरणशीलता, सूक्ष्मस्रोतोगामिता, मृदुता, द्रवता, विद्रावणक्षमता इति एतैः धर्मेः सः स्नेहनकर्मणि साहाय्यकः भवति। एतैः गुणैः शरीरे प्रसृतं दोषसड्घातं द्रवीकृत्य कोष्ठं प्रति आनयति। ततः वमनेन विरेचनेन वा सः देहाद् बहिः क्षेप्तुं शक्यते।लवणरसः देहे झटिति प्रसरति। सः स्त्यानं कफं द्रवीकरोति। अतः श्वासरोगे यदा श्वासस्य वेगः भवति तदा लवणसंयुक्तेन तैलेन उरसि पृष्ठे च अभ्यङ्गः क्रियते। उरसि विबद्धः स्त्यानः कफः अनेन द्रवीभवति। श्वसनप्रक्रिया पुनः पूर्ववत् भवति। स्नेहने लवणस्य साहाय्यं भवति तथा स्वेदनोपचारे अपि लवणस्य साहाय्यं भवति। लवणयुक्तेन उष्णजलेन स्वेदनम्, उष्णे लवणजले आप्लुतेन वस्त्रेण स्वेदनम्, लवणपोट्टलीस्वेदः, लवणयुक्तः उपनाहः इति एते स्वेदनप्रकाराः विख्याताः। एतेषु लवणरसस्य प्रयोगः भवति। यदा वातेन अथवा वातकफाभ्याम् अवरोधः जायते, तदा लवणयुक्तस्यः स्वेदस्य लाभः भवति। वातस्य वा वातकफयोः वा विबन्धः लवणेन नश्यति।लवणरसः वमनक्रियायाम् अपि साहाय्यकः। सः आमाशयस्य क्षोभं जनयति। ततः ह्रल्लासः जायते। अनन्तरं छर्दिः भवति। अतः यदा कश्चिद् जनः विषं पिबति, तदा तस्य विषस्य शोधनार्थं लवणोदकं तस्मै पानार्थं दीयते। अनेन उपायेन वमनं भवति। आमाशयस्थं विषं बहिः निर्गच्छति। एवमेव विरेचने अपि लवणस्य साहाय्यं भवति।
अतियोगस्य परिणामाः -
लवणस्य अतिमात्रया भक्षणेन पित्तं वर्धते, रक्तं दुष्यति। ततः पित्तरक्तयोः संयोगात् नैके व्याधयः उद्भवन्ति। मांसं, मेदः इति एतद् धातुद्वयं शिथिलं भवति। बलं ह्रसति। केशाः स्खलन्ति। ततः खलतिः इन्द्रलुप्तं वा जायते। लवणातियोगेन शुक्रधातुः क्षीणः भवति। ओजः क्षीणं भवति। शुक्रम् ओजः च यदा क्षीणे भवतः तदा दृष्टिः मन्दीभवति। नेत्रे दाहः अभिष्यन्दः जायते। पित्तरक्तयोः संयोगात् विसर्पः, रक्तपित्तं, त्वग्रोगः इत्यादयो रोगाः उद्भवन्ति। त्वक् शिथिला भवति। तस्यां वलयः प्रादुर्भवन्ति। लवणरसेन ओजसः क्षयः भवति। ओजसि क्षीणे सति ह्रदयमपि दुर्बलं भवति। लवणस्य अतियोगेन धातुषु दाहः जायते। ततः तॄष्णा प्रवर्धते। उदरे, उरसि कण्ठे अपि दाहः भवति। मुहुर्मुहुः मुखपाकः भवति। अम्लपित्तविकारः उद्भवति।
आहारे लवणरसस्य अतियोगः भवति वा इति परीक्षणार्थं तस्य मात्रा गणनीया। तदा केवलं पात्रे परिवेषितं लवणं न गणनीयम्, भक्ष्येषु संस्कारार्थं मेलितं लवणमपि गणनीयम्।अन्नरक्षार्थं नैकेषु भक्ष्येषु लवणरसः दीयते यथा व्यञ्जनं पर्पटं मत्स्याः, भृष्टधान्यं, तलितद्रव्याणि।तदपि लवणं गणनीयम्।
लवणरसः सर्वरसप्रत्यनीकः अस्ति। कस्मिन्नपि रसे लवणरसः मेलित: चेत् तस्य रसस्य प्रतीतिः क्षीणा भवति।
सामुद्रलवण्ं, सैन्धवम्, औद्भिद-क्षारः, बिडलवणम् इति एतानि लवणरसस्य उदाहरणानि।
लवणरसापवादः -
प्रायशः लवणद्रव्याणि नेत्रपीडाकराणि सन्ति। सैन्धवं तु तथा नास्ति। अतः सैन्धवं लवणरसस्य अपवादभूतं द्रव्यम्।लवणरसः विदाहं कुरुते परं सैन्धवं लवणरसात्मकम् अपि विदाहं न जनयति।
ऋतुसम्बन्धः -
हेमन्ते, शिशिरे, वर्षासु च लवणरसः प्रशस्तः। हेमन्ते, शिशिरे च शरीरे रौक्ष्यं वर्धते। लवणरसः स्निग्धः अस्ति अतः सः तदा प्रशस्तः। लवणरसः उष्णः अस्ति। अतः अपि हेमन्तशिशिरयोः अवश्यम् उपयोज्यः। यतः हेमन्तशिशिरौ शीतौ ऋतु। वर्षासु अग्निः मन्दः भवति। उदरे वातस्य सञ्चयः जायते। लवणरसः अग्निं दीपयति, वातं च अनुलोमयति। अतः सः वर्षासु अपि शस्तः।
शरदि ऋतुवशात् पित्तप्रकोपः भवति।तदानीं लवणरसः आहारे न्यूनतरः भवेत्।यतो हि लवणरसः पित्तकरः विदाहकरः च।
भोजनसम्बन्धः -
भोजनस्य आदौ मधुररसः भवेत्। मध्ये लवणरसः भवेत्। भोजनान्ते लवणेन दन्तधावनं केचन जनाः कुर्वन्ति। शास्त्रविरुद्धं तत्। लवणरसः दन्तधावनार्थं सर्वथा त्याज्यः। भोजनान्ते च लवणरसः न प्रयोक्तव्य:।
प्रकृतिसम्बन्धः -
लवणरसः वातशामकः। अतः वातलाः जनाः लवणस्य सेवनं किञ्चिदिव अधिकं कुर्युः। पित्तलाः श्लेष्मलाः तु लवणस्य अल्पमात्रया एव भक्षणं कुर्युः, यतः लवणरसः कफं वर्धयति, पित्तमपि वर्धयति।


षड्रसविज्ञानम्
"https://sa.wikibooks.org/w/index.php?title=लवणरसविज्ञानम्&oldid=6232" इत्यस्माद् पुनः प्राप्तिः