लिङ्गभूयस्त्वाधिकरणम् ...

विकिपुस्तकानि तः
Jump to navigation Jump to search

लिङ्गभूयस्त्वाधिकरणम् ।)(३.३.४४-५२)
सङ्गति:-
पूर्वस्मिन् अधिकरणे वायुप्राणयो: प्रयोगभेद उक्त: ।अत्र तथा न शक्यमिति मनश्चिदादीनां प्रयोगैक्यं मन्तव्यम् इति प्रत्युदाहरणसङ्गत्या तृतीयाध्याये तृतीयपादे इदम् अधिकरणम् आरब्धम्।
विषय:-
तत् षट्त्रिंशत्सहस्राण्यपश्यत् आत्मनोऽग्नीनर्कान् मनोमयान् मनश्चित:।(वाजसनेयम्)
विशय:- वाजसनेयके अग्निरहस्ये मनश्चिदादय: अग्नय: श्रुता:, ते कर्माङ्गभूता: अथवा स्वतन्त्रा:? पूर्वपक्ष:-
कर्माङ्गभूता:., कर्मप्रकरणबलात्।
१ ‘एकैक एव तावान् यावान्वै पूर्व:’ इति अतिदेश: विद्यते। एतेन वाक्येन इष्टिकाचिताग्निभि: सह सादृश्यं दर्शितम्।अत: क्रियारूपा: एव मनश्चिदादय:।अत्र दृष्टान्त: ‘मनोग्रहं गृह्णाति’ इति ग्रहणस्य।द्वादशाहक्रतौ एतद् मानसं ग्रहणं दशाहाङ्गभूतम्।
उत्तरपक्ष:-
स्वतन्त्रा: मनश्चिदादय:, न कर्माङ्गभूता:।
१ बहूनि लिङ्गानि स्वातन्त्र्यं दर्शयन्ति।
२ लिङ्गप्रमाणं प्रकरणाद् बलीय:।
३ ‘ते ह एते विद्याचित: एव’ इति एवकारेण निर्धारणं कृतम्।क्रियानुप्रवेशेऽयमेवकार: पीडित: स्यात्।
४ श्रुति:, लिङ्गं तथा वाक्यमिति एतानि प्रमाणानि प्रकरणाद् बलवत्तराणि।तै: प्रमाणै: मनश्चिदादीनां स्वातन्त्र्यम् एव निर्णीयते।तदेवम्-
अ) श्रुत्या - ते हैते विद्याचित: एव।
आ) लिङ्गेन - सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते
स्वपते जाग्रते चैवंविदे सर्वदा...इत्यनेन सातत्यदर्शनं मनश्चिदादीनाम्।कर्माङ्गत्वे तन्न शक्यम्।
इ) वाक्येन- विद्याया ह एवैते एवंविदश्चिता भवन्ति।अत्र पुरुषविशेषसम्बन्ध: वाक्याद् अवगम्यते।
५ अनुबन्धात्। अनुबन्ध: क्रियावयवसम्बन्ध:।तत्र मनसौवाधीयन्त, मनसैवाचीयन्त,मनसैव ग्रहा अगृह्यन्त, मनसाऽस्तुवन्मनसाऽशंसन् यत्किञ्च यज्ञे कर्म क्रियते यत्किञ्च यज्ञियं कर्म मनसैव तेषु तन्मयोमयेषु मनश्चित्सु मनोमयमेव क्रियते’सर्वमेतद् अङ्गजातं मानसम्।यदि कर्माङ्गभूता: मनश्चिदादय: तर्हि मानसाधानादिकं नावश्यकम्।
६ प्रज्ञान्तरं विद्यान्तरम्।यथा शाण्डिल्यविद्यादिकम्।तासां यथा स्वातन्त्र्यं तथात्रापि।
७ एवं कर्मप्रकरणाद् अकस्मादुत्कर्ष: अन्यत्रापि दृश्यते।राजसूय: क्षत्रियसम्पाद्यो याग:।तत्र विद्यमाना अवेष्टि: ब्राह्मणक्षत्रियवैश्यसम्पाद्या।तस्या: राजसूयप्रकरणाद् उत्कर्ष: क्रियते, तद्वदत्रापि मनश्चिदादीनां मानसत्वसाम्यात् कर्मशेषत्वं भवतु इत्यपि न योग्यम्।यतो हि पूर्वोक्तहेतुभ्य: तेषां स्वातनत्र्यस्य उपलब्धि: भवति।
८ यथा अग्नौ तथा आदित्यपुरुषे ‘मृत्यु:’ इति शब्दप्रयोग: समान: दृश्यते श्रुतौ। तथापि तावता तयो: अत्यन्तं साम्यं न कल्प्यते।
९ श्रुतौ लोकस्य कृते ‘अग्नि:’ इति उक्तम् अत: द्युलोक: साक्षाद् अग्नि: न भवति। तद्वदत्रापि।
१०) परेण पूर्वेण च ब्राह्मणेन स्वतन्त्रं विधानं कृतम् अत: मध्यवर्तिना अनेनापि ब्राह्मणेन स्वतन्त्रा विद्योक्ता इति मन्तव्यम्।
११) ‘स्वतन्त्रा चेत् कर्माग्निना सह किमर्थं पठिता?’ इति चेत् सम्पादनीयाङ्गानि मानसाग्निविद्यायां भूय: सन्ति, अत: तस्या: कर्मणा सहानुबन्ध: (सहपाठ:) कृत:।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह: