विकल्पाधिकरणम्...

विकिपुस्तकानि तः

विकल्पाधिकरणम्
विकल्पोऽविशिष्टफलत्वात्।(३.३.५९)
सङ्गति:-
विषय:
सर्वाणि सगुणब्रह्मोपासनापराणि वचनानि
विशय: -
एतासां विद्यानां नियमेन विकल्प: अथवा नियमेन समुच्चय:?
पूर्वपक्ष:-
यथाकामं समुच्चय:।
नियमेन विकल्प: न सम्भवति यतो हि एकस्या: अधिकारिण: अन्यविद्यायां प्रतिषेध: नास्ति।
नियमेन समुच्चय: न सम्भवति यतो हि नियमेन समुच्चयार्थं किमपि कारणं न दृश्यते। अग्निहोत्रदर्शपूर्णासादीनां समुच्चयोऽस्ति यत: नित्यताश्रुति: इति कारणं तत्र विद्यते। अत्र तथा किमपि कारणं नास्ति।समानफलेषु कर्मसु याथाकाम्यं दृश्यते यथा स्वर्गफलानि कर्माणि।एवम् इहापि याथाकाम्यं भवतु।
उत्तरपक्ष:-
विकल्प: एतासां विद्यानां मन्तव्य:, तासाम् अविशिष्टं फलमस्ति अत:। ईश्वरसाक्षात्कार: एव सर्वासां फलम्।एकया विद्याया तत् सिद्धं चेदपराया: अनुष्ठानं निरर्थकम्।
सर्वासाम् एककालिकानुष्ठाने चित्तविक्षेप:।तेन विघ्न: एव स्यात्।
निर्णय:
अविशिष्टफलानां विद्यानाम् अन्यतमामादाय तत्पर: स्याद्यावदुपास्यविषयसाक्षात्कार:।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=विकल्पाधिकरणम्...&oldid=5725" इत्यस्माद् प्रतिप्राप्तम्