सामग्री पर जाएँ

विज्ञानभैरव

विकिपुस्तकानि तः

श्री देव्युवाच ।

श्रुतं देव मया सर्वं रुद्रयामलसम्भवम् ।
त्रिकभेदम् अशेषेण सारात् सारविभागशः ॥ १ ॥

अद्यापि न निवृत्तो मे संशयः परमेश्वर ।
किं रूपं तत्त्वतो देव शब्दराशिकलामयम् ॥ २ ॥

किं वा नवात्मभेदेन भैरवे भैरवाकृतौ ।
त्रिशिरोभेदभिन्नं वा किं वा शक्तित्रयात्मकम् ॥ ३ ॥

नादबिन्दुमयं वापि किं चन्द्रार्धनिरोधिकाः ।
चक्रारूढम् अनच्कं वा किं वा शक्तिस्वरूपकम् ॥ ४ ॥

परापरायाः सकलम् अपरायाश् च वा पुनः ।
पराया यदि तद्वत् स्यात् परत्वं तद् विरुध्यते ॥ ५ ॥

न हि वर्णविभेदेन देहभेदेन वा भवेत् ।
परत्वं निष्कलत्वेन सकलत्वे न तद् भवेत् ॥ ६ ॥

प्रसादं कुरु मे नाथ निःशेषं छिन्द्धि संशयम् ।

भैरव उवाच ।

साधु साधु त्वया पृष्टं तन्त्रसारम् इदम् प्रिये ॥ ७ ॥

गूहनीयतमम् भद्रे तथापि कथयामि ते ।
यत्किंचित् सकलं रूपं भैरवस्य प्रकीर्तितम् ॥ ८ ॥

तद् असारतया देवि विज्ञेयं शक्रजालवत् ।
मायास्वप्नोपमं चैव गन्धर्वनगरभ्रमम् ॥ ९ ॥

ध्यानार्थम् भ्रान्तबुद्धीनां क्रियाडम्बरवर्तिनाम् ।
केवलं वर्णितम् पुंसां विकल्पनिहतात्मनाम् ॥ १० ॥

तत्त्वतो न नवात्मासौ शब्दराशिर् न भैरवः ।
न चासौ त्रिशिरा देवो न च शक्तित्रयात्मकः ॥ ११ ॥

नादबिन्दुमयो वापि न चन्द्रार्धनिरोधिकाः ।
न चक्रक्रमसम्भिन्नो न च शक्तिस्वरूपकः ॥ १२ ॥

अप्रबुद्धमतीनां हि एता बलविभीषिकाः ।
मातृमोदकवत् सर्वं प्रवृत्त्यर्थं उदाहृतम् ॥ १३ ॥

दिक्कालकलनोन्मुक्ता देशोद्देशाविशेषिनी ।
व्यपदेष्टुम् अशक्यासाव् अकथ्या परमार्थतः ॥ १४ ॥

अन्तःस्वानुभवानन्दा विकल्पोन्मुक्तगोचरा ।
यावस्था भरिताकारा भैरवी भैरवात्मनः ॥ १५ ॥

तद् वपुस् तत्त्वतो ज्ञेयं विमलं विश्वपूरणम् ।
एवंविधे परे तत्त्वे कः पूज्यः कश् च तृप्यति ॥ १६ ॥

एवंविधा भैरवस्य यावस्था परिगीयते ।
सा परा पररूपेण परा देवी प्रकीर्तिता ॥ १७ ॥

शक्तिशक्तिमतोर् यद्वद् अभेदः सर्वदा स्थितः ।
अतस् तद्धर्मधर्मित्वात् परा शक्तिः परात्मनः ॥ १८ ॥

न वह्नेर् दाहिका शक्तिर् व्यतिरिक्ता विभाव्यते ।
केवलं ज्ञानसत्तायाम् प्रारम्भोऽयम् प्रवेशने ॥ १९ ॥

शक्त्यवस्थाप्रविष्टस्य निर्विभागेन भावना ।
तदासौ शिवरूपी स्यात् शैवी मुखम् इहोच्यते ॥ २० ॥

यथालोकेन दीपस्य किरणैर् भास्करस्य च ।
ज्ञायते दिग्विभागादि तद्वच् छक्त्या शिवः प्रिये ॥ २१ ॥

श्री देव्युवाच ।

देवदेव त्रिशूलाङ्क कपालकृतभूषण ।
दिग्देशकालशून्या च व्यपदेशविवर्जिता ॥ २२ ॥

यावस्था भरिताकारा भैरवस्योपलभ्यते ।
कैर् उपायैर् मुखं तस्य परा देवि कथम् भवेत् ।
यथा सम्यग् अहं वेद्मि तथा मे ब्रूहि भैरव ॥ २३ ॥

भैरव उवाच ।

ऊर्ध्वे प्राणो ह्य् अधो जीवो विसर्गात्मा परोच्चरेत् ।
उत्पत्तिद्वितयस्थाने भरणाद् भरिता स्थितिः ॥ २४ ॥

मरुतोऽन्तर् बहिर् वापि वियद्युग्मानिवर्तनात् ।
भैरव्या भैरवस्येत्थम् भैरवि व्यज्यते वपुः ॥ २५ ॥

न व्रजेन् न विशेच् छक्तिर् मरुद्रूपा विकासिते ।
निर्विकल्पतया मध्ये तया भैरवरूपता ॥ २६ ॥

कुम्भिता रेचिता वापि पूरिता वा यदा भवेत् ।
तदन्ते शान्तनामासौ शक्त्या शान्तः प्रकाशते ॥ २७ ॥

आमूलात् किरणाभासां सूक्ष्मात् सूक्ष्मतरात्मिकम् ।
चिन्तयेत् तां द्विषट्कान्ते श्याम्यन्तीम् भैरवोदयः ॥ २८ ॥

उद्गच्छन्तीं तडित्रूपाम् प्रतिचक्रं क्रमात् क्रमम् ।
ऊर्ध्वं मुष्टित्रयं यावत् तावद् अन्ते महोदयः ॥ २९ ॥

क्रमद्वादशकं सम्यग् द्वादशाक्षरभेदितम् ।
स्थूलसूक्ष्मपरस्थित्या मुक्त्वा मुक्त्वान्ततः शिवः ॥ ३० ॥

तयापूर्याशु मूर्धान्तं भङ्क्त्वा भ्रूक्षेपसेतुना ।
निर्विकल्पं मनः कृत्वा सर्वोर्ध्वे सर्वगोद्गमः ॥ ३१ ॥

शिखिपक्षैश् चित्ररूपैर् मण्डलैः शून्यपञ्चकम् ।
ध्यायतोऽनुत्तरे शून्ये प्रवेशो हृदये भवेत् ॥ ३२ ॥

ईदृशेन क्रमेणैव यत्र कुत्रापि चिन्तना ।
शून्ये कुड्ये परे पात्रे स्वयं लीना वरप्रदा ॥ ३३ ॥

कपालान्तर् मनो न्यस्य तिष्ठन् मीलितलोचनः ।
क्रमेण मनसो दार्ढ्यात् लक्षयेत् लष्यम् उत्तमम् ॥ ३४ ॥

मध्यनाडी मध्यसंस्था बिससूत्राभरूपया ।
ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते ॥ ३५ ॥

कररुद्धदृगस्त्रेण भ्रूभेदाद् द्वाररोधनात् ।
दृष्टे बिन्दौ क्रमाल् लीने तन्मध्ये परमा स्थितिः ॥ ३६ ॥

धामान्तःक्षोभसम्भूतसूक्ष्माग्नितिलकाकृतिम् ।
बिन्दुं शिखान्ते हृदये लयान्ते ध्यायतो लयः ॥ ३७ ॥

अनाहते पात्रकर्णेऽभग्नशब्दे सरिद्द्रुते ।
शब्दब्रह्मणि निष्णातः परम् ब्रह्माधिगच्छति ॥ ३८ ॥

प्रणवादिसमुच्चारात् प्लुतान्ते शून्यभावानात् ।
शून्यया परया शक्त्या शून्यताम् एति भैरवि ॥ ३९ ॥

यस्य कस्यापि वर्णस्य पूर्वान्ताव् अनुभावयेत् ।
शून्यया शून्यभूतोऽसौ शून्याकारः पुमान् भवेत् ॥ ४० ॥

तन्त्र्यादिवाद्यशब्देषु दीर्घेषु क्रमसंस्थितेः ।
अनन्यचेताः प्रत्यन्ते परव्योमवपुर् भवेत् ॥ ४१ ॥

पिण्डमन्त्रस्य सर्वस्य स्थूलवर्णक्रमेण तु ।
अर्धेन्दुबिन्दुनादान्तः शून्योच्चाराद् भवेच् छिवः ॥ ४२ ॥

निजदेहे सर्वदिक्कं युगपद् भावयेद् वियत् ।
निर्विकल्पमनास् तस्य वियत् सर्वम् प्रवर्तते ॥ ४३ ॥

पृष्टशून्यं मूलशून्यं युगपद् भावयेच् च यः ।
शरीरनिरपेक्षिण्या शक्त्या शून्यमना भवेत् ॥ ४४ ॥

पृष्टशून्यं मूलशून्यं हृच्छून्यम् भावयेत् स्थिरम् ।
युगपन् निर्विकल्पत्वान् निर्विकल्पोदयस् ततः ॥ ४५ ॥

तनूदेशे शून्यतैव क्षणमात्रं विभावयेत् ।
निर्विकल्पं निर्विकल्पो निर्विकल्पस्वरूपभाक् ॥ ४६ ॥

सर्वं देहगतं द्रव्यं वियद्व्याप्तं मृगेक्षणे ।
विभावयेत् ततस् तस्य भावना सा स्थिरा भवेत् ॥ ४७ ॥

देहान्तरे त्वग्विभागम् भित्तिभूतं विचिन्तयेत् ।
न किंचिद् अन्तरे तस्य ध्यायन्न् अध्येयभाग् भवेत् ॥ ४८ ॥

हृद्याकाशे निलीनाक्षः पद्मसम्पुटमध्यगः ।
अनन्यचेताः सुभगे परं सौभाग्यम् आप्नुयात् ॥ ४९ ॥

सर्वतः स्वशरीरस्य द्वादशान्ते मनोलयात् ।
दृढबुद्धेर् दृढीभूतं तत्त्वलक्ष्यम् प्रवर्तते ॥ ५० ॥

यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् ॥

प्रतिक्षणं क्षीणवृत्तेर् वैलक्षण्यं दिनैर् भवेत् ॥ ५१ ॥

कालाग्निना कालपदाद् उत्थितेन स्वकम् पुरम् ।
प्लुष्टम् विचिन्तयेद् अन्ते शान्ताभासस् तदा भवेत् ॥ ५२ ॥

एवम् एव जगत् सर्वं दग्धं ध्यात्वा विकल्पतः ।
अनन्यचेतसः पुंसः पुम्भावः परमो भवेत् ॥ ५३ ॥

स्वदेहे जगतो वापि सूक्ष्मसूक्ष्मतराणि च ।
तत्त्वानि यानि निलयं ध्यात्वान्ते व्यज्यते परा ॥ ५४ ॥

पिनां च दुर्बलां शक्तिं ध्यात्वा द्वादशगोचरे ।
प्रविश्य हृदये ध्यायन् मुक्तः स्वातन्त्र्यम् आप्नुयात् ॥ ५५ ॥

भुवनाध्वादिरूपेण चिन्तयेत् क्रमशोऽखिलम् ।
स्थूलसूक्ष्मपरस्थित्या यावद् अन्ते मनोलयः ॥ ५६ ॥

अस्य सर्वस्य विश्वस्य पर्यन्तेषु समन्ततः ।
अध्वप्रक्रियया तत्त्वं शैवं ध्यत्वा महोदयः ॥ ५७ ॥

विश्वम् एतन् महादेवि शून्यभूतं विचिन्तयेत् ।
तत्रैव च मनो लीनं ततस् तल्लयभाजनम् ॥ ५८ ॥

घतादिभाजने दृष्टिम् भित्तिस् त्यक्त्वा विनिक्षिपेत् ।
तल्लयं तत्क्षणाद् गत्वा तल्लयात् तन्मयो भवेत् ॥ ५९ ॥

निर्वृक्षगिरिभित्त्यादिदेशे दृष्टिं विनिक्षिपेत् ।
विलीने मानसे भावे वृत्तिक्षिणः प्रजायते ॥ ६० ॥

उभयोर् भावयोर् ज्ञाने ध्यात्वा मध्यं समाश्रयेत् ।
युगपच् च द्वयं त्यक्त्वा मध्ये तत्त्वम् प्रकाशते ॥ ६१ ॥

भावे त्यक्ते निरुद्धा चिन् नैव भावान्तरं व्रजेत् ।
तदा तन्मध्यभावेन विकसत्यति भावना ॥ ६२ ॥

सर्वं देहं चिन्मयं हि जगद् वा परिभावयेत् ।
युगपन् निर्विकल्पेन मनसा परमोदयः ॥ ६३ ॥

वायुद्वयस्य संघट्टाद् अन्तर् वा बहिर् अन्ततः ।
योगी समत्वविज्ञानसमुद्गमनभाजनम् ॥ ६४ ॥

सर्वं जगत् स्वदेहं वा स्वानन्दभरितं स्मरेत् ।
युगपत् स्वामृतेनैव परानन्दमयो भवेत् ॥ ६५ ॥

कुहनेन प्रयोगेण सद्य एव मृगेक्षणे ।
समुदेति महानन्दो येन तत्त्वं प्रकाशते ॥ ६६ ॥

सर्वस्रोतोनिबन्धेन प्राणशक्त्योर्ध्वया शनैः ।
पिपीलस्पर्शवेलायाम् प्रथते परमं सुखम् ॥ ६७ ॥

वह्नेर् विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत् ।
केवलं वायुपूर्णं वा स्मरानन्देन युज्यते ॥ ६८ ॥

शक्तिसंगमसंक्षुब्धशक्त्यावेशावसानिकम् ।
यत् सुखम् ब्रह्मतत्त्वस्य तत् सुखं स्वाक्यम् उच्यते ॥ ६९ ॥

लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात् स्मृतेः ।
शक्त्यभावेऽपि देवेशि भवेद् आनन्दसम्प्लवः ॥ ७० ॥

आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात् ।
आनन्दम् उद्गतं ध्यात्वा तल्लयस् तन्मना भवेत् ॥ ७१ ॥

जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् ।
भावयेद् भरितावस्थां महानन्दस् ततो भवेत् ॥ ७२ ॥

गितादिविषयास्वादासमसौख्यैकतात्मनः ।
योगिनस् तन्मयत्वेन मनोरूढेस् तदात्मता ॥ ७३ ॥

यत्र यत्र मनस् तुष्टिर् मनस् तत्रैव धारयेत् ।
तत्र तत्र परानन्दस्वारूपं सम्प्रवर्तते ॥ ७४ ॥

अनागतायां निद्रायाम् प्रणष्टे बाह्यगोचरे ।
सावस्था मनसा गम्या परा देवी प्रकाशते ॥ ७५ ॥

तेजसा सूर्यदीपादेर् आकाशे शबलीकृते ।
दृष्टिर् निवेश्या तत्रैव स्वात्मरूपम् प्रकाशते ॥ ७६ ॥

करङ्किण्या क्रोधनया भैरव्या लेलिहानया ।
खेचर्या दृष्टिकाले च परावाप्तिः प्रकाशते ॥ ७७ ॥

मृद्वासने स्फिजैकेन हस्तपादौ निराश्रयम् ।
निधाय तत्प्रसङ्गेन परा पूर्णा मतिर् भवेत् ॥ ७८ ॥

उपविश्यासने सम्यग् बाहू कृत्वार्धकुञ्चितौ ।
कक्षव्योम्नि मनः कुर्वन् शमम् आयाति तल्लयात् ॥ ७९ ॥

स्थूलरूपस्य भावस्य स्तब्धां दृष्टिं निपात्य च ।
अचिरेण निराधारं मनः कृत्वा शिवं व्रजेत् ॥ ८० ॥

मध्यजिह्वे स्फारितास्ये मध्ये निक्षिप्य चेतनाम् ।
होच्चारं मनसा कुर्वंस् ततः शान्ते प्रलीयते ॥ ८१ ॥

आसने शयने स्थित्वा निराधारं विभावयन् ।
स्वदेहं मनसि क्षिणे क्षणात् क्षीणाशयो भवेत् ॥ ८२ ॥

चलासने स्थितस्याथ शनैर् वा देहचालनात् ।
प्रशान्ते मानसे भावे देवि दिव्यौघम् आप्नुयात् ॥ ८३ ॥

आकाशं विमलम् पश्यन् कृत्वा दृष्टिं निरन्तराम् ।
स्तब्धात्मा तत्क्षणाद् देवि भैरवं वपुर् आप्नुयात् ॥ ८४ ॥

लीनं मूर्ध्नि वियत् सर्वम् भैरवत्वेन भावयेत् ।
तत् सर्वम् भैरवाकारतेजस्तत्त्वं समाविशेत् ॥ ८५ ॥

किञ्चिज् ज्ञातं द्वैतदायि बाह्यालोकस् तमः पुनः ।
विश्वादि भैरवं रूपं ज्ञात्वानन्तप्रकाशभृत् ॥ ८६ ॥

एवम् एव दुर्निशायां कृष्णपक्षागमे चिरम् ।
तैमिरम् भावयन् रूपम् भैरवं रूपम् एष्यति ॥ ८७ ॥

एवम् एव निमील्यादौ नेत्रे कृष्णाभम् अग्रतः ।
प्रसार्य भैरवं रूपम् भावयंस् तन्मयो भवेत् ॥ ८८ ॥

यस्य कस्येन्द्रियस्यापि व्याघाताच् च निरोधतः ।
प्रविष्टस्याद्वये शून्ये तत्रैवात्मा प्रकाशते ॥ ८९ ॥

अबिन्दुम् अविसर्गं च अकारं जपतो महान् ।
उदेति देवि सहसा ज्ञानौघः परमेश्वरः ॥ ९० ॥

वर्णस्य सविसर्गस्य विसर्गान्तं चितिं कुरु ।
निराधारेण चित्तेन स्पृशेद् ब्रह्म सनातनम् ॥ ९१ ॥

व्योमाकारं स्वम् आत्मानं ध्यायेद् दिग्भिर् अनावृतम् ।
निराश्रया चितिः शक्तिः स्वरूपं दर्शयेत् तदा ॥ ९२ ॥

किंचिद् अङ्गं विभिद्यादौ तीक्ष्णसूच्यादिना ततः ।
तत्रैव चेतनां युक्त्वा भैरवे निर्मला गतिः ॥ ९३ ॥

चित्ताद्यन्तःकृतिर् नास्ति ममान्तर् भावयेद् इति ।
विकल्पानाम् अभावेन विकल्पैर् उज्झितो भवेत् ॥ ९४ ॥

माया विमोहिनी नाम कलायाः कलनं स्थितम् ।
इत्यादिधर्मं तत्त्वानां कलयन् न पृथग् भवेत् ॥ ९५ ॥

झगितीच्छां समुत्पन्नाम् अवलोक्य शमं नयेत् ।
यत एव समुद्भूता ततस् तत्रैव लीयते ॥ ९६ ॥

यदा ममेच्छा नोत्पन्ना ज्ञानं वा कस् तदास्मि वै ।
तत्त्वतोऽहं तथाभूतस् तल्लीनस् तन्मना भवेत् ॥ ९७ ॥

इच्छायाम् अथवा ज्ञाने जाते चित्तं निवेशयेत् ।
आत्मबुद्ध्यानन्यचेतास् ततस् तत्त्वार्थदर्शनम् ॥ ९८ ॥

निर्निमित्तम् भवेज् ज्ञानं निराधारम् भ्रमात्मकम् ।
तत्त्वतः कस्यचिन् नैतद् एवम्भावी शिवः प्रिये ॥ ९९ ॥

चिद्धर्मा सर्वदेहेषु विशेषो नास्ति कुत्रचित् ।
अतश् च तन्मयं सर्वम् भावयन् भवजिज् जनः ॥ १०० ॥

कामक्रोधलोभमोहमदमात्सर्यगोचरे ।
बुद्धिं निस्तिमितां कृत्वा तत् तत्त्वम् अवशिष्यते ॥ १०१ ॥

इन्द्रजालमयं विश्वं व्यस्तं वा चित्रकर्मवत् ।
भ्रमद् वा ध्यायतः सर्वम् पश्यतश् च सुखोद्गमः ॥ १०२ ॥

न चित्तं निक्षिपेद् दुःखे न सुखे वा परिक्षिपेत् ।
भैरवि ज्ञायतां मध्ये किं तत्त्वम् अवशिष्यते ॥ १०३ ॥

विहाय निजदेहस्थं सर्वत्रास्मीति भावयन् ।
दृढेन मनसा दृष्ट्या नान्येक्षिण्या सुखी भवेत् ॥ १०४ ॥

घटादौ यच् च विज्ञानम् इच्छाद्यं वा ममान्तरे ।
नैव सर्वगतं जातम् भावयन् इति सर्वगः ॥ १०५ ॥

ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् ।
योगिनां तु विशेषोऽस्ति सम्बन्धे सावधानता ॥ १०६ ॥

स्ववद् अन्यशरीरेऽपि संवित्तिम् अनुभावयेत् ।
अपेक्षां स्वशरीरस्य त्यक्त्वा व्यापी दिनैर् भवेत् ॥ १०७ ॥

निराधारं मनः कृत्वा विकल्पान् न विकल्पयेत् ।
तदात्मपरमात्मत्वे भैरवो मृगलोचने ॥ १०८ ॥

सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः ।
स एवाहं शैवधर्मा इति दार्ढ्याच् छिवो भवेत् ॥ १०९ ॥

जलस्येवोर्मयो वह्नेर् ज्वालाभङ्ग्यः प्रभा रवेः ।
ममैव भैरवस्यैता विश्वभङ्ग्यो विभेदिताः ॥ ११० ॥

भ्रान्त्वा भ्रान्त्वा शरीरेण त्वरितम् भुवि पातनात् ।
क्षोभशक्तिविरामेण परा संजायते दशा ॥ १११ ॥

आधारेष्व् अथवाऽशक्त्याऽज्ञानाच् चित्तलयेन वा ।
जातशक्तिसमावेशक्षोभान्ते भैरवं वपुः ॥ ११२ ॥

सम्प्रदायम् इमम् देवि शृणु सम्यग् वदाम्य् अहम् ।
कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः ॥ ११३ ॥

संकोचं कर्णयोः कृत्वा ह्य् अधोद्वारे तथैव च ।
अनच्कम् अहलं ध्यायन् विशेद् ब्रह्म सनातनम् ॥ ११४ ॥

कूपादिके महागर्ते स्थित्वोपरि निरीक्षणात् ।
अविकल्पमतेः सम्यक् सद्यस् चित्तलयः स्फुटम् ॥ ११५ ॥

यत्र यत्र मनो याति बाह्ये वाभ्यन्तरेऽपि वा ।
तत्र तत्र शिवावास्था व्यापकत्वात् क्व यास्यति ॥ ११६ ॥

यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते विभोः ।
तस्य तन्मात्रधर्मित्वाच् चिल्लयाद् भरितात्मता ॥ ११७ ॥

क्षुताद्यन्ते भये शोके गह्वरे वा रणाद् द्रुते ।
कुतूहलेक्षुधाद्यन्ते ब्रह्मसत्तामयी दशा ॥ ११८ ॥

वस्तुषु स्मर्यमाणेषु दृष्टे देशे मनस् त्यजेत् ।
स्वशरीरं निराधारं कृत्वा प्रसरति प्रभुः ॥ ११९ ॥

क्वचिद् वस्तुनि विन्यस्य शनैर् दृष्टिं निवर्तयेत् ।
तज् ज्ञानं चित्तसहितं देवि शून्यालायो भवेत् ॥१२० ॥

भक्त्युद्रेकाद् विरक्तस्य यादृशी जायते मतिः ।
सा शक्तिः शाङ्करी नित्यम् भवयेत् तां ततः शिवः ॥ १२१ ॥

वस्त्वन्तरे वेद्यमाने सर्ववस्तुषु शून्यता ।
ताम् एव मनसा ध्यात्वा विदितोऽपि प्रशाम्यति ॥ १२२ ॥

किंचिज्ज्ञैर् या स्मृता शुद्धिः सा शुद्धिः शम्भुदर्शने ।
न शुचिर् ह्य् अशुचिस् तस्मान् निर्विकल्पः सुखी भवेत् ॥ १२३ ॥

सर्वत्र भैरवो भावः सामान्येष्व् अपि गोचरः ।
न च तद्व्यतिरेक्तेण परोऽस्तीत्य् अद्वया गतिः ॥ १२४ ॥

समः शत्रौ च मित्रे च समो मानावमानयोः ॥

ब्रह्मणः परिपूर्णत्वात् इति ज्ञात्वा सुखी भवेत् ॥ १२५ ॥

न द्वेषम् भावयेत् क्वापि न रागम् भावयेत् क्वचित् ।
रागद्वेषविनिर्मुक्तौ मध्ये ब्रह्म प्रसर्पति ॥ १२६ ॥

यद् अवेद्यं यद् अग्राह्यं यच् छून्यं यद् अभावगम् ।
तत् सर्वम् भैरवम् भाव्यं तदन्ते बोधसम्भवः ॥ १२७ ॥

नित्ये निराश्रये शून्ये व्यापके कलनोज्झिते ।
बाह्याकाशे मनः कृत्वा निराकाशं समाविशेत् ॥ १२८ ॥

यत्र यत्र मनो याति तत् तत् तेनैव तत्क्षणम् ।
परित्यज्यानवस्थित्या निस्तरङ्गस् ततो भवेत् ॥ १२९ ॥

भया सर्वं रवयति सर्वदो व्यापकोऽखिले ।
इति भैरवशब्दस्य सन्ततोच्चारणाच् छिवः ॥ १३० ॥

अहं ममेदम् इत्यादि प्रतिपत्तिप्रसङ्गतः ।
निराधारे मनो याति तद्ध्यानप्रेरणाच् छमी ॥ १३१ ॥

नित्यो विभुर् निराधारो व्यापकश् चाखिलाधिपः ।
शब्दान् प्रतिक्षणं ध्यायन् कृतार्थोऽर्थानुरूपतः ॥ १३२ ॥

अतत्त्वम् इन्द्रजालाभम् इदं सर्वम् अवस्थितम् ।
किं तत्त्वम् इन्द्रजालस्य इति दार्ढ्याच् छमं व्रजेत् ॥ १३३ ॥

आत्मनो निर्विकारस्य क्व ज्ञानं क्व च वा क्रिया ।
ज्ञानायत्ता बहिर्भावा अतः शून्यम् इदं जगत् ॥ १३४ ॥

न मे बन्धो न मोक्षो मे भीतस्यैता विभीषिकाः ।
प्रतिबिम्बम् इदम् बुद्धेर् जलेष्व् इव विवस्वतः ॥ १३५ ॥

इन्द्रियद्वारकं सर्वं सुखदुःखादिसंगमम् ।
इतीन्द्रियाणि संत्यज्य स्वस्थः स्वात्मनि वर्तते ॥ १३६ ॥

ज्ञानप्रकाशकं सर्वं सर्वेणात्मा प्रकाशकः ।
एकम् एकस्वभावत्वात् ज्ञानं ज्ञेयं विभाव्यते ॥ १३७ ॥

मानसं चेतना शक्तिर् आत्मा चेति चतुष्टयम् ।
यदा प्रिये परिक्षीणं तदा तद् भैरवं वपुः ॥ १३८ ॥

निस्तरङ्गोपदेशानां शतम् उक्तं समासतः ।
द्वादशाभ्यधिकं देवि यज् ज्ञात्वा ज्ञानविज् जनः ॥ १३९ ॥

अत्र चैकतमे युक्तो जायते भैरवः स्वयम् ।
वाचा करोति कर्माणि शापानुग्रहकारकः ॥ १४० ॥

अजरामरताम् एति सोऽणिमादिगुणान्वितः ।
योगिनीनाम् प्रियो देवि सर्वमेलापकाधिपः ॥ १४१ ॥

जीवन्न् अपि विमुक्तोऽसौ कुर्वन्न् अपि न लिप्यते ।

श्री देवी उवाच ।

इदं यदि वपुर् देव परायाश् च महेश्वर ॥ १४२ ॥

एवमुक्तव्यवस्थायां जप्यते को जपश् च कः ।
ध्यायते को महानाथ पूज्यते कश् च तृप्यति ॥ १४३ ॥

हूयते कस्य वा होमो यागः कस्य च किं कथम् ।

श्री भैरव उवाच ।

एषात्र प्रक्रिया बाह्या स्थूलेष्व् एव मृगेक्षणे ॥ १४४ ॥

भूयो भूयः परे भावे भावना भाव्यते हि या ।
जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः ॥ १४५ ॥

ध्यानं हि निश्चला बुद्धिर् निराकारा निराश्रया ।
न तु ध्यानं शरीराक्षिमुखहस्तादिकल्पना ॥ १४६ ॥

पूजा नाम न पुष्पाद्यैर् या मतिः क्रियते दृढा ।
निर्विकल्पे महाव्योम्नि सा पूजा ह्य् आदराल् लयः ॥ १४७ ॥

अत्रैकतमयुक्तिस्थे योत्पद्येत दिनाद् दिनम् ।
भरिताकारता सात्र तृप्तिर् अत्यन्तपूर्णता ॥ १४८ ॥

महाशून्यालये वह्नौ भूताक्षविषयादिकम् ।
हूयते मनसा सार्धं स होमश् चेतनास्रुचा ॥ १४९ ॥

यागोऽत्र परमेशानि तुष्टिर् आनन्दलक्षणा ।
क्षपणात् सर्वपापानां त्राणात् सर्वस्य पार्वति ॥ १५० ॥

रुद्रशक्तिसमावेशस् तत् क्षेत्रम् भावना परा ।
अन्यथा तस्य तत्त्वस्य का पूजा काश् च तृप्यति ॥ १५१ ॥

स्वतन्त्रानन्दचिन्मात्रसारः स्वात्मा हि सर्वतः ।
आवेशनं तत्स्वरूपे स्वात्मनः स्नानम् ईरितम् ॥ १५२ ॥

यैर् एव पूज्यते द्रव्यैस् तर्प्यते वा परापरः ।
यश् चैव पूजकः सर्वः स एवैकः क्व पूजनम् ॥ १५३ ॥

व्रजेत् प्राणो विशेज् जीव इच्छया कुटिलाकृतिः ।
दीर्घात्मा सा महादेवी परक्षेत्रम् परापरा ॥ १५४ ॥

अस्याम् अनुचरन् तिष्ठन् महानन्दमयेऽध्वरे ।
तया देव्या समाविष्टः परम् भैरवम् आप्नुयात् ॥ १५५ ॥

षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः ।
जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो जडैः ॥ १५६ ॥

इत्य् एतत् कथितं देवि परमामृतम् उत्तमम् ।
एतच् च नैव कस्यापि प्रकाश्यं तु कदाचन ॥ १५७ ॥

परशिष्ये खले क्रूरे अभक्ते गुरुपादयोः ।
निर्विकल्पमतीनां तु वीराणाम् उन्नतात्मनाम् ॥ १५८ ॥

भक्तानां गुरुवर्गस्य दातव्यं निर्विशङ्कया ।
ग्रामो राज्यम् पुरं देशः पुत्रदारकुटुम्बकम् ॥ १५९ ॥

सर्वम् एतत् परित्यज्य ग्राह्यम् एतन् मृगेक्षणे ।
किम् एभिर् अस्थिरैर् देवि स्थिरम् परम् इदं धनम् ।
प्राणा अपि प्रदातव्या न देयं परमामृतम् ॥ १६० ॥

श्री देवी उवाच ।

देवदेव माहदेव परितृप्तास्मि शङ्कर ।
रुद्रयामलतन्त्रस्य सारम् अद्यावधारितम् ॥ १६१ ॥

सर्वशक्तिप्रभेदानां हृदयं ज्ञातम् अद्य च ।
इत्य् उक्त्वानन्दिता देवि कण्ठे लग्ना शिवस्य तु ॥ १६२ ॥

वाह्यसूत्राणि

[सम्पाद्यताम्]
"https://sa.wikibooks.org/w/index.php?title=विज्ञानभैरव&oldid=5611" इत्यस्माद् प्रतिप्राप्तम्