विप्रतिपत्तिजन्यसंशयस्य विचाराङ्गत्वम्…

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्र.- विप्रतिपत्तिजन्यसंशयस्य विचाराङ्गत्वम् अस्ति न वेति विषये चर्चां कुरुत।
उ.-विरुद्धार्थप्रतिपादकवाक्यद्वयं विप्रतिपत्ति:।यथा जगत्सत्यमिति जगन्मिथ्येति विरुद्धार्थकवाक्यद्वयम्।तत: संशयो जायते जगत्सत्यमथवा मिथ्या इति।अस्य संशयस्य विचाराङ्गत्वमस्ति अथवा नास्ति इति अस्मिन् विषये चर्चया ग्रन्थारम्भ: भवति।
अत्र विप्रतिपत्तिजन्यसंशयस्य विचाराङ्गत्वं नास्तीति पूर्वपक्ष:।यतो हि-
१ एक: वादी जगति सत्यत्वं साधयितुं प्रयतते, अपर: मिथ्यात्वं साधयितुं प्रयतते।तत्र जगत् इति पक्ष:।सिषाधयिषाविरहविशिष्टसाधकमानाभाव: पक्षता इति पक्षताया: लक्षणं विद्यते।अस्मिन् लक्षणे विप्रतिपत्तिजन्यसंशयस्य समावेश: नास्ति।अत: विप्रतिपत्तिजन्यसंशयस्य विचाराङ्गत्वम् नास्ति ।
२ ‘क: पक्ष: कस्य’ इति निश्चयार्थम् अपि संशयस्य आवश्यकता नास्ति।निश्चितौ हि वादं कुरुत: इति न्यायात् वादिन: स्वमतनिश्चय: अस्ति, प्रतिवादिन: स्वमतनिश्चय: अस्ति।मध्यस्थ: वादिनमेकमादिशति, ‘त्वया जगन्मिथ्यात्वं साधनीयम्’ अपरं च वादिनं ब्रूते, ‘त्वया जगन्मिथ्यात्वं दूषणीयम्’ तत: वाद: प्रवर्तते। संशयो विद्यते कुत्र? संशयाभावेऽपि विचार: प्रवर्तते।
३ ‘स्वयं संशयाभावेऽपि विचाराय वादिप्रतिवादिभ्यां संशय: आहार्य:’ इति अपि न युज्यते ।तथा सति आहार्यसंशय: अपि अनुमिते: अङ्गं भविष्यति। तेन अतिप्रसङ्ग: स्यात् ।
४ क्वचित् विप्रतिपत्तौ सत्याम् अपि संशयो न जायते।यतो हि स्वमतं निश्चितं विद्यते। अत: संशयविप्रतिपत्त्यो: कार्यकारणभाव: एव न सिद्ध्यति।
तस्मात् विप्रतिपत्तिजन्यसंशयस्य विचाराङ्गत्वम् नास्ति इति पूर्वपक्ष:।

उत्तरपक्ष:
विप्रतिपत्तिजन्यसंशयस्य विचाराङ्गत्वम् अस्ति इति उत्तरपक्ष:।
१ विप्रतिपत्तिजन्यसंशयस्य अनुमित्यङ्गत्वं नास्तीति मान्यं तथापि व्युदसनीयतया विचाराङ्गत्वम् अस्ति।व्युदसनीयता नाम विचारसाध्याभाव-प्रतियोगिता।विचारेण साध्य: य: अभाव: तस्य प्रतियोगिता संशये विद्यते।विचारेण संशय: नाशनीय: भवति इति नाश्यत्वेन संशयस्य विचाराङ्गत्वमस्ति इत्याशय:।
२ निश्चितौ हि वादं कुरुत: इति अत्र निश्चय: अभिमानजन्य: विवक्षित:। यतो हि क्वचित् परपक्षम् अवलम्ब्य अपि पण्डिता: वादं कुरुत:।तत्र तत्पक्षविषये निश्चयाभावेऽपि वाद: सम्भवति।
३ क्वचित् विप्रतिपत्तौ सत्याम् अपि निश्चितमतवत: संशयो न जायते तथापि संशयविप्रतिपत्त्यो: कार्यकारणभाव: अस्ति एव। तत्र विप्रतिपत्ते: स्वरूपयोग्यत्वरूपं कारणत्वम् अस्ति ।
तस्मात् विप्रतिपत्तिजन्यसंशयस्य विचाराङ्गत्वमस्तीति सिद्धम्।

अद्वैतसिद्धिप्रश्नोत्तरसङ्ग्रह: