वियदधिकरणम्

विकिपुस्तकानि तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

न वियदश्रुते:।२.३.१
पू.- न वियदुत्पद्यते, अश्रुते:।
सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्। तदैक्षत तत्तेजोऽसृजत्।(छा..६.२.१) अत्र वियदुत्पत्ति: न श्रूयते।तस्मान्नास्ति आकाशस्योत्पत्ति:।

अस्ति तु ।२.३.२
वे.- तुशब्देन पक्ष: परिवर्त्यते।वियत: उत्पत्ति: अस्ति इति सूत्रार्थ:।तस्माद्वैतस्मादात्मन: आकाश: सम्भूत:।(तै.२.१)

गौण्यसम्भवात् ।२.३.३
पू.- वियदुत्पत्तिवादिनी एषा श्रुति: गौणी भवितुमर्हति।
वे.-कस्मात्?
पू.- असम्भवात्।न हि निरवयवस्याकाशस्य उत्पत्ति: सम्भावयितुं शक्या।

शब्दाच्च ।२.३.४
पू.- शब्दाच्च आकाशस्य अजत्वं ज्ञायते।
१ वायुश्चान्तरिक्षं चैतदमृतम्।(बृ. २.३.३) न ह्यमृतस्योत्पत्ति: युज्यते।
२ आकाशवत्सर्वगतश्च नित्य:।(छा.३.१४)
३ स यथानन्तोऽयमाकाश एवमनन्त आत्मा वेदितव्य:।()
४ आकाशशरीरं ब्रह्म।(तै. १.६.२) न ह्याकाशस्योत्पत्तिमत्वे ब्रह्मणस्तेन विशेषणं सम्भवति।

स्याच्चैकस्य ब्रह्मशब्दवत् ।२.३.५
वे.- तस्माद्वैतस्मादात्मन: आकाश: सम्भूत:।(तै.२.१) इत्यत्र सम्भूतशब्दस्य गौणत्वम्।परेषु तेज:प्रभृतिषु अनुवर्तमानस्य तस्यैव सम्भूतशब्दस्य मुख्यत्वमिति कथम्?
पू.- स्याच्चैकस्यापि सम्भूतशब्दस्य विषयविशेषवशात् गौणो मुख्यश्च प्रयोग:, ब्रह्मशब्दवत्-
तपसा ब्रह्म विजिज्ञासस्व, तपो ब्रह्म।(तैत्ति. ३.३) अस्मिन् अधिकरणे ब्रह्मशब्दस्य अन्नादिषु प्रयोगो गौण:, आनन्दे प्रयोगो मुख्य:।
वे.-नभस: उत्पत्त्यङ्गीकारे एकमेवाद्वितीयम्(छा.६.२.१)इत्येषा प्रतिज्ञा पीड्यते।
पू.-एकमेवेति स्वकार्यापेक्षया उच्यते, न तु कारणान्तरापेक्षया।कुम्भकारगृहे अपरेद्यु: घटान् प्रेक्ष्य कश्चिद्वदति, ‘पूर्वेद्यु: मृदेव एकाकिनी आसीत्’ तत्र एकाकिनीशब्देन कार्यजातस्याभावोऽभिप्रेत:, न तु दण्डचक्रादीनाम्। अद्वितीयश्रुति:अधिष्ठित्रन्तरं निषेधति।यथा मृदोऽमत्रप्रकृते: कुम्भकारोऽ धिष्ठातास्ति, तथा जगत्प्रकृते: ब्रह्मण: कश्चिदन्योऽधिष्ठाता नास्ति इति ख्यापयितुम् एकमेवाद्वितीयं ब्रह्म इति उपदेश:।
वे.- ननु नभसा द्वितीयेन सद्वितीयं ब्रह्म भवति।
पू.- न भवति।लक्षणान्यत्वाभावात्।लक्षणान्यत्वनिमित्तं हि नानात्वम्।प्रागुत्पत्ते: ब्रह्मनभसो: लक्षणान्यत्वं नास्ति।जगदुत्पत्तिकाले तु ब्रह्म जगदुत्पादयति, आकाशं निष्क्रियं तिष्ठति।अतो द्वितीयेन नभसा ब्रह्मणोऽद्वितीयत्वं न नश्यति।
वे.-नभसोऽनादित्वे ‘एकविज्ञानेन सर्वविज्ञानम्’ इति प्रतिज्ञा हीयते।
पू. सर्वं जगदाकाशेनाव्यतिरिक्तदेशकालम्। सर्वं ब्रह्मणाव्यतिरिक्तदेशकालम्। आकाशं च ब्रह्मणाव्यतिरिक्तदेशकालम्।अतो ब्रह्मणि गृहीते आकाशं गृह्यते, जगदपि गृह्यते।अत: भाक्तम् (औपचारिकं) नभस: सम्भवश्रवणम्।

प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्य:।२.३.६
वे.- अहानि: अनुपरोध:।वेदान्तप्रतिज्ञाया: अहानि: स्याद् यदि ब्रह्मण: सकलाज्जगतोऽव्यतिरेक: अङ्गीक्रियते।
पू.- कस्या: प्रतिज्ञाया:?
वे.-
१ येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्।(छा.६.१.१)
२ आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम्।(बृ.४.५.६)
३ कस्मिन्नु खलु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति?(मु. १.१.३)
४ न काचन मद्बहिर्धा विद्यास्ति।
एवंविधा प्रतिज्ञा वेदान्ते अस्ति।अस्या: प्रतिज्ञाया: अहानि: स्याद् यदा कृत्स्नस्य वस्तुजातस्य विज्ञेयाद् ब्रह्मण: अव्यतिरेक: अभेद: स्यात्।व्यतिरेके सति एकविज्ञानेन सर्वविज्ञानमिति प्रतिज्ञा हीयते।अव्यतिरेक: तदा सिद्ध्यति यदा सकलं वस्तुजातमेकस्माद् ब्रह्मण: उत्पद्येत।
पू.- शब्देभ्य: प्रतिज्ञाया: अहानि: कथम्?
वे.- येनाश्रुतं श्रुतं भवतीति प्रतिज्ञा।तस्या: सिद्ध्यर्थं मृदादिदृष्टान्ता: कार्यकारणाभेदप्रतिपादन-परा:।तथा च प्रतिज्ञासाधनायैव उत्तरे शब्दा: - १ सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्।(छा.६.२.१)
२ तदैक्षत।तत्तेजोऽसृजत्।(छा.६.२.३)
३ ऐतदात्म्यमिदं सर्वम्।(छा.९.८.७)
प्रतिवेदान्तमपि ते ते शब्दा: इमां प्रतिज्ञां साधयन्ति-
१ इदं सर्वं यदयमात्मा।(बृ. २.४.९)
२ ब्रह्मैवेदममृतं पुरस्तात्।(मुण्ड. २.२.१)
अत: वह्न्यादिवद् वियदप्युत्पद्यते।
पू. – तत्तेजोऽसृजत् इति ब्रह्मण: प्रथमजत्वेन तेज: समाम्नातम्।तस्माद्वैतस्मादात्मन आकाश: सम्भूत:, आकाशाद्वायु:, वायोरग्नि: इत्यत्र प्रथमजत्वेन वियत्समाम्नातम् ।यद्यत्र वियदुत्पत्ति-श्रुति: गौणी नाङ्गीक्रियते, तर्हि श्रुतिवचनयो: विरोध आपतति।
वे.- न विरोध: स्यात्, यतो हि तत्तेजोऽसृजत् इत्यत्र क्रमवाचकं पदं न श्रूयते।अर्थापत्त्या तत्र क्रमोऽवगम्यते। तस्माद्वैतस्मादित्यत्र साक्षात् क्रमवाचक: प्रत्यय: श्रूयते- वायोरग्नि: इति।अत: क्रमविषये अर्थापत्त्यावगत: क्रम: श्रुत्युक्तक्रमेण बाध्यते।न श्रुतिविरोधप्रसङ्ग:।
पू.- क्षीरोदकन्यायेन एकविज्ञानेन सर्वविज्ञानं सम्भवति।
वे.- न च तत् श्रुतेरभिमतम्।श्रुतेस्तु प्रकृतिविकारन्यायेनैव अव्यतिरेकोऽभिमत:, मृदादिदृष्टान्त-प्रणयनात्।न च क्षीरोदकन्यायेन कल्प्यमानं सर्वविज्ञानं सम्यक् स्यात्।

यावद्विकारं तु विभागो लोकवत्।२.३.७
वे.- तुशब्द: वियदुत्पत्तिशङ्काव्यावृत्तये।आकाशोत्पत्तौ असम्भवाशङ्का न कार्या इत्यर्थ:।यावत् किञ्चिद् विकारजातं दृश्यते, तावानेव विभागो लोके दृश्यते।विकाररहितस्य विभक्ति: न भवति।आकाशस्य विभागस्तु पृथिव्यादिभ्य: उपलभ्यते।अत: आकाशमपि विकारभूतम्।

आकाशं विकाररूपं, विभक्तत्वात्, घटादिवत्।
पू.- ननु आत्मापि आकाशादिभ्य: विभक्त:।अत: तस्यापि कार्यत्वम्।घटादिवत्।
वे.- न ।यतो हि
१ आत्मन: आकाश: सम्भूत: (तै.२.१) इति श्रुति: विद्यते।
२ यदि आत्मा विकाररूपोऽङ्गीकृत:, तर्हि तस्मान्निरात्मकात् आकाशादीनामुत्पत्ति: मन्तव्या। यतो हि आत्मन: परं न किञ्चिदपि श्रुतम्।एवं च सति सर्व: प्रपञ्च: निरात्मक: स्यात्। शून्यवादप्रसक्ति: स्यात्।
३ न ह्यात्मा आत्मना निराकर्तुं शक्यते।स्वरूपभूतत्वात्।
आत्मा निराकर्तुमशक्य:, निराकर्तु: स्वरूपभूतत्वात्।यद् यद् निराकर्तु: स्वरूपभूतं तत्तद् निराकर्तुमशक्यं यथा वह्ने: औष्ण्यम्। ४ आत्मा न निराकरणार्ह:, प्रमाणानामविषयत्वात्, यन्नैवं तन्नैवं यथा आकाशादि।
आत्मा सर्वथा वर्तमान:।तस्य उच्छेदो न सम्भवति।अत: आत्मन: कार्यत्वं नास्ति।आकाशस्य कार्यत्वम् अस्ति।
पू.- आकाशस्योत्पत्त्यङ्गीकारे न पूर्वोत्तरकालयो: विशेषो वक्तुं शक्यते।
वे.- शक्यते।येन (शब्दाश्रयत्वरूपेण) विशेषेण नभ: पृथिव्यादिभ्य: व्यतिरिच्यमानं स्वरूपवदुपलभ्यते, स: विशेष: प्रागुत्पत्ते: नासीत्। ब्रह्म अनाकाशम् (बृ.३.८.८) इति श्रुते: प्रागुत्पत्ते: ब्रह्म अनाकाशम् इति गम्यते।
पू.-उत्पत्त्यसम्भवानुमानं दर्शितम्।
वे.- श्रुतिविरुद्धमनुमानम् आभासमात्रम्।तथा च वियदुत्पत्तिविषयेऽप्यनुमानं सम्भवति-
आकाशम् अनित्यम्, अनित्यगुणाश्रयत्वात्, घटादिवत्।
पू.- वियति अमृतत्वश्रुतिरुपलभ्यते।
वे.- अमृता दिवौकस: इतिवत् सा श्रुति: गौणी मन्तव्या।आकाशस्य उत्पत्तिप्रलययो: उपपादितत्वात्।
पू.- आकाशवत्सर्वगतश्च नित्य: अनया श्रुत्यापि आकाशस्य नित्यत्वमुच्यते।
वे.- अत्र महत्त्वेन आकाश उपमानं क्रियते।नात्र आकाशसमत्वमभिप्रेतम्।‘इषुरिव सविता धावति’ इत्यत्र सवितु: क्षिप्रगतित्वमेव विवक्षितं, न तु इषुतुल्यगतित्वम्।
ज्यायानाकाशात् इति श्रुत्या ब्रह्मणोऽपेक्षया आकाशस्य न्यूनं परिमाणमुक्तम्।
तपसि ब्रह्मशब्दवत् आकाशस्य उत्पत्तिश्रुतिर्गौणी मन्तव्या इति मतं निराकृतम्।
तस्माद् ब्रह्मकार्यं जगदिति सिद्धम्।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्  द्वितीयाध्याये तृतीय: पाद: 
"https://sa.wikibooks.org/w/index.php?title=वियदधिकरणम्&oldid=5618" इत्यस्माद् पुनः प्राप्तिः