वियद्व्यापी...

विकिपुस्तकानि तः

मूलम्
वियद्व्यापी तारा-गण-गुणित-फेनोद्गम-रुचिः।
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते।।
जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति।
अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः।। १७।।

पदच्छेदः-
वियद्व्यापी तारा-गण-गुणित-फेनोद्गम-रुचिः।प्रवाहः वारां यः पृषत-लघु दृष्टः शिरसि ते।।
जगद् द्वीपाकारं जलधिवलयं तेन कृतम् इति।अनेन एव उन्नेयं धृतमहिम दिव्यं तव वपुः।। १७।।

अन्वयः
वियद्व्यापी तारा-गण-गुणित-फेनोद्गम-रुचिः यः वारां प्रवाहः (सः) ते शिरसि पृषत-लघु दृष्टः ।तेन जगद् जलधिवलयं द्वीपाकारं कृतम् इति अनेन एव तव धृतमहिम दिव्यं वपुः उन्नेयम् ।। १७।।

सरलार्थः-
स्वर्गाद् अवरोहन्त्याः गङ्गायाः प्रवाहः वियद् व्याप्नोत्।तस्मिन् प्रवाहे तारकाणां गणेन फेनः वर्धितः।तेन सः प्रवाहः अशोभत।तादृशः जलप्रवाहः तव शिरसि बिन्दुतुल्यः ह्रस्वः दृष्टः।एतेन तव दिव्यदेहस्य महिमा अवगन्तव्यः।१७॥


 शिवस्तोत्राणि    शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=वियद्व्यापी...&oldid=6172" इत्यस्माद् प्रतिप्राप्तम्