वैषम्यनैर्घृण्याधिकरणम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

वैषम्यनैर्घृण्ये न , सापेक्षत्वात्तथा हि दर्शयति। २.१.३४
पू.- ईश्वरो जगत: कारणमिति नोपपद्यते,वैषम्यनैर्घृण्यदोषात्।ईश्वर: कांश्चन जीवान् सुखभाज: करोति, कांश्चन जीवान् दु:खभाज: करोति इति वैषम्यदोष:।जीवानां दु:खयोगविधानात्, सर्वजनसंहाराच्च नैर्घृण्यदोष:।
वे.- ईश्वरस्य वैषम्यनैर्घृण्यदोषौ न प्रसज्येते, सापेक्षत्वात्।जीवस्य धर्माधर्मौ अपेक्ष्य ईश्वरो विषमां सृष्टिं निर्माति।ईश्वर: पर्जन्यवत्साधारणं कारणम्।तत्तद्जीवगतकर्माणि व्रीहियवादिबीजवद् असाधारणानि कारणानि।अत: सापेक्षत्वाद् वैषम्यनैर्घृण्यदोषभ्यामीश्वरो न दुष्यति।
पू.- ईश्वर: कर्मापेक्ष: सन् सृष्टिं निर्माति इत्यत्र किं प्रमाणम्?
वे.- तथा हि दर्शयति श्रुति:।-एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते एष उ एव असाधु कर्म कारयति तं यमधो निनीषते।(कौ.आर. ३.८)
पुण्यो वै पुण्येन कर्मणा भवति, पाप: पापेन।(बृ.३.२.१३) इति च।
स्मृतिरप्यत्र प्रमाणम्- ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्। (भ.गी. ४.११)

न कर्मादिविभागादिति चेन्नानादित्वात्।२.१.३५
पू.- प्राक् सृष्टे: कर्मविभागो नासीत्।‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा.६.२.१) इति श्रुते:।अत: तुल्यैव आद्या सृष्टिरभवितुमर्हति।तथा च नास्ति।अत ईश्वर: कर्मापेक्ष: सन् विषमां सृष्टिं निरमातीति यदुच्यते, तदसत्।
वे.- नैष दोष:।अनादित्वात्संसारस्य।यदि संसार: सादि: स्यात्, तर्हि एष: दोष: अभविष्यत्। संसारस्त्वनादि:।
पू.- सृष्टेरूर्ध्वं कर्मविभाग:।कर्मापेक्षा च सृष्टि: इति इतरेतराश्रयदोष:।
वे.- बीजाङ्कुरवत् कर्मसर्गयो: प्रवृत्ति: अतो न विरुद्ध्यते।

उपपद्यते चाप्युपलभ्यते च।२.१.३६
वे.- संसारस्यानादित्वम् उपपद्यते च उपलभ्यते च। पू.- कथमुपपद्यते? वे.- एवमुपपद्यते- १ यदि संसार आदिमान् स्यात्, तर्हि मुक्तानामपि संसारोद्भूतिप्रसङ्ग: स्यात्, संसारस्याकस्माद् उद्भूते:। २ यदि संसार आदिमान् स्यात्, तर्हि अकृताभ्यागमप्रसङ्ग: स्यात्। ३ यदि संसार आदिमान् स्यात्, तर्हि सुखदु:खादिवैषम्यं निर्निमित्तं स्यात्।अस्य वैचित्र्यस्य हेतु: ईश्वरो नास्तीति पूर्वमेवोक्तम्। ४ संसारस्यानादित्वं तु बीजाङ्कुरन्यायेनोपपद्यते। पू.- उपलभ्यते कथम्? वे.-श्रुतिस्मृत्यो: उपलभ्यते।– १ ‘अनेन जीवेनात्मना ...’ (छा. ६.३.२)इति सर्गादौ आत्मन: जीवशब्देनाभिलाप:। प्राणधारणनिमित्तम् आत्मन: जीवत्वम्।पूर्वमात्मा अवधारितप्राणोऽस्तीति अत्र जीवशब्देनाभिलप्यते। पू.- ननु प्राणं धारयिष्यतीति स जीवशब्देनात्र अभिलप्यते? वे.- अनागताद्धि सम्बन्धादतीत: सम्बन्धो बलवान् भवति, अभिनिष्पन्नत्वात्।तथा १ धाता यथापूर्वमकल्पयत् (ऋ.सं. १०.१९०.३) इति मन्त्रवर्णात्पूर्वकल्पसद्भाव: ज्ञायते। २ स्मृतिश्चोपलभ्यते – नान्तो न चादि:... (भ.गी. १५.३) ३ पुराणेषु चातीतानागतकल्पानां परिमाणं नास्तीति प्रतिपादितम्।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   द्वितीयाध्याये प्रथम: पाद: