व्यतिहाराधिकरण...

विकिपुस्तकानि तः
Jump to navigation Jump to search

व्यतिहाराधिकरणमारचयत।(३.३.२७)
(जीवेश्वरयो: मिथो विशेषणविशेष्यभावो व्यतिहार:।)
अधिकरणसङ्गति: -
अभ्यास: आदरार्थ: अत: अभ्यासेऽपि विद्यैक्यम् इति पूर्वस्मिन् अधिकरणे उक्तम्।अत्रापि व्यतिहार: आदरार्थ: मन्तव्य: तेन मतिरेका भवतु इति दृष्टान्तसङ्गत्या तृतीयाध्याये तृतीयपादे इदमधिकरणमारब्धम्।
विषय:-
तद्योऽहं सोऽसौ, योऽसौ सोऽहम्। (ऐतरेय.)
विशय: -
अत्र मतिरेका मन्तव्या अथवा मतिद्वयम्?
पूर्वपक्ष:-
एका मति: मन्तव्या।
१ जीवेश्वरस्य ऐक्यम इत्येव उभयत्र चिन्तनविषय: अत:।
२ द्वैरूप्ये सति जीवस्य ईश्वरात्मत्वं मन्तव्यम् अथवा ईश्वरस्य जीवात्मत्वं मन्तव्यम्। तथा सति ईश्वरस्य अपकर्ष: भवति।
३ व्यतिहार: (विशेषणविशेष्यभाव:) एकत्वं दृढीकर्तुम्।
उत्तरपक्ष:-
मते: द्वैरूप्यमत्र मन्तव्यम्।
१ व्यतिहारोऽयमाध्यानाय।यथा इतरे सर्वात्मत्वप्रभृतय:।
२ विशेषणं व्यर्थं न भवेदिति द्वैरूप्यम् आवश्यकम् – ‘त्वमहमस्मि अहं च त्वम्’ इति।
३ एवं सति ईश्वरस्य अपकर्ष: भवतीति न सत्यम्।यतो हि ऐकात्म्यस्य एव अनेन अनुचिन्तनं विवक्षितम्।
४ वस्तुत: पूर्वपक्षस्यापि एतदेव फलमिष्टं तथापि वचनप्रामाण्यात् व्यतिहारेण द्विरूपा मति: कर्तव्या इति वयं मन्यामहे।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=व्यतिहाराधिकरण...&oldid=5710" इत्यस्माद् प्रतिप्राप्तम्