व्याकरणमहाभाष्य खण्ड 01

विकिपुस्तकानि तः



(पा-१,१.१.१; अकि-१,३७.२-७; रो-१,१२१-१२३; भा-१/१३) कुत्वम् कस्मात् न भवति चोः कुः पदस्य इति ।

(पा-१,१.१.१; अकि-१,३७.२-७; रो-१,१२१-१२३; भा-२/१३) भत्वात् ।

(पा-१,१.१.१; अकि-१,३७.२-७; रो-१,१२१-१२३; भा-३/१३) कथम् भसञ्ज्ञा ।

(पा-१,१.१.१; अकि-१,३७.२-७; रो-१,१२१-१२३; भा-४/१३) अयस्मयादीनि छन्दसि इति ।

(पा-१,१.१.१; अकि-१,३७.२-७; रो-१,१२१-१२३; भा-५/१३) छन्दसि इति उच्यते ।

(पा-१,१.१.१; अकि-१,३७.२-७; रो-१,१२१-१२३; भा-६/१३) न च इदम् छन्दः ।

(पा-१,१.१.१; अकि-१,३७.२-७; रो-१,१२१-१२३; भा-७/१३) छन्दोवत् सूत्राणि भवन्ति ।

(पा-१,१.१.१; अकि-१,३७.२-७; रो-१,१२१-१२३; भा-८/१३) यदि भसञ्ज्ञा वृद्धिः आद् ऐच् अत् एङ् गुणः इति जश्त्वम् अपि न प्राप्नोति ।

(पा-१,१.१.१; अकि-१,३७.२-७; रो-१,१२१-१२३; भा-९/१३) उभयसञ्ज्ञानि अपि छन्दांसि दृश्यन्ते ।

(पा-१,१.१.१; अकि-१,३७.२-७; रो-१,१२१-१२३; भा-१०/१३) तत् यथा ।

(पा-१,१.१.१; अकि-१,३७.२-७; रो-१,१२१-१२३; भा-११/१३) सः सुष्टुभा सः ऋक्वता गणेन ।

(पा-१,१.१.१; अकि-१,३७.२-७; रो-१,१२१-१२३; भा-१२/१३) पदत्वात् कुत्वम् भत्वात् जश्व्तम् न भवति ।

(पा-१,१.१.१; अकि-१,३७.२-७; रो-१,१२१-१२३; भा-१३/१३) एवम् इह अपि भत्वात् कुत्वम् न भविष्यति

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-१/२३) किम् पुनः इदम् तद्भावितग्रहणम् ॒ वृद्धिः इति एवम् ये आकारैकारौकाराः भाव्यन्ते तेषाम् ग्रहणम् आहोस्वित् आदैज्मात्रस्य ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-२/२३) किम् च अतः ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-३/२३) यदि तद्भावितग्रहणम् शालीयः मालीयः इति वृद्धलक्षणः छः न प्राप्नोति ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-४/२३) आम्रमयम् शालमयम् वृद्धलक्षणः मयट् न प्राप्नोति ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-५/२३) आम्रगुप्तायनिः शालगुप्तयनिः वृद्धलक्षणः फिञ् न प्राप्नोति ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-६/२३) अथ ऐज्मात्रस्य ग्रहणम् सर्वः भासः सर्वभासः इति उत्तरपदपदवृद्धौ सर्वम् च इति एषः विधिः प्राप्नोति ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-७/२३) इह च तावती भार्या अस्य तावद्भार्यः यावद्भार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः प्राप्नोति ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-८/२३) अस्तु तर्हि ऐज्मात्रस्य ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-९/२३) ननु च उक्तम् सर्वः भासः सर्वभासः इति उत्तरपदपदवृद्धौ सर्वम् च इति एषः विधिः प्राप्नोति ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-१०/२३) न एषः दोषः ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-११/२३) न एवम् विज्ञायते उत्तरपदस्य वृद्धिः उत्तरपदवृद्धिः उत्तरपदवृद्धौ इति ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-१२/२३) कथम् तर्हि ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-१३/२३) उत्तरपदस्य इति एवम् प्रकृत्य या वृद्धिः तद्वति उत्तरपदे इति एवम् एतत् विज्ञायते ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-१४/२३) अवश्यम् च एतत् एवम् विज्ञेयम् ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-१५/२३) तद्भावितग्रहणे सति अपि इह प्रसज्येत ॒ सर्वः कारकः सर्वकारकः इति ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-१६/२३) यद् अपि उच्यते इह तावती भार्या अस्य तावद्भार्यः यावद्भार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः प्राप्नोति इति न एषः दोषः ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-१७/२३) न एवम् विज्ञायते वृद्धेः निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तस्य इति ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-१८/२३) कथम् तर्हि ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-१९/२३) वृद्धेः निमित्तम् यस्मिन् सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तस्य इति ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-२०/२३) किम् च वृद्धेः निमित्तम्. यः असौ ककारः णकारः ञकारः वा ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-२१/२३) अथ वा यः कृत्स्नायाः वृद्धेः निमित्तम् ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-२२/२३) कः च कृत्स्नायाः वृद्धेः निमित्तम् ।

(पा-१,१.१.२; अकि-१,३७.८-२४; रो-१,१२३-१२४; भा-२३/२३) यः त्रयाणाम् आकारैकारौकाराणाम् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१/१३९) सञ्ज्ञाधिकारः सञ्ज्ञासम्प्रत्ययार्थः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-२/१३९) अथ सञ्ज्ञा इति प्रकृत्य वृद्ध्यादयः शब्दाः पठितव्याः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-३/१३९) किम् प्रयोजनम् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-४/१३९) सञ्ज्ञासम्प्रत्ययार्थः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-५/१३९) वृद्ध्यादीनाम् शब्दानाम् सञ्ज्ञा इति एषः सम्प्रत्ययः यथा स्यात् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-६/१३९) इतरथा हि असम्प्रत्ययः यथा लोके ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-७/१३९) अक्रियमाणे हि सञ्ज्ञाधिकारे वृद्ध्यादीनाम् सञ्ज्ञा इति एषः सम्प्रत्ययः न स्यात् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-८/१३९) इदम् इदानीम् बहुसूत्रम् अनर्थकम् स्यात् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-९/१३९) अनर्थकम् इति आह ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१०/१३९) कथम् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-११/१३९) यथा लोके ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१२/१३९) लोके हि अर्थवन्ति च अनर्थकानि च वाक्यानि दृश्यन्ते ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१३/१३९) अर्थवन्ति तावत् ॒ देवदत्त गाम् अभ्याज शुक्लाम् दण्डेन ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१४/१३९) देवदत्त गाम् अभ्याज कृष्णाम् इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१५/१३९) अनर्थकानि च ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१६/१३९) दश दाडिमानि षट् अपूपाः कुण्डम् अजाजिनम् पललपिण्डः अधोरुकम् एतत् कुमार्याः स्फैयकृतस्य पिता प्रतिशीनः इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१७/१३९) सञ्ज्ञासञ्ज्ञ्यसन्देहः च ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१८/१३९) क्रियमाणे अपि सञ्ज्ञाधिकारे सञ्ज्ञासञ्ज्ञिनोः असन्देहः वक्तव्यः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१९/१३९) कुतः हि एतत् वृद्धिशब्दः सञ्ज्ञा आदैचः सञ्ज्ञिनः इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-२०/१३९) न पुनः आदैचः सञ्ज्ञा वृद्धिशब्दः सञ्ज्ञी इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-२१/१३९) यत् तावत् उच्यते सञ्ज्ञाधिकारः कर्तव्यः सञ्ज्ञासम्प्रत्ययार्थः इति न कर्तव्यः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-२२/१३९) आचार्याचारात् सञ्ज्ञासिद्धिः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-२३/१३९) आचार्याचारात् सञ्ज्ञासिद्धिः भविष्यति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-२४/१३९) किम् इदम् आचार्याचारात् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-२५/१३९) आचार्याणाम् उपचारात् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-२६/१३९) यथा लौकिकवैदिकेषु ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-२७/१३९) तत् यथा लौकिकेषु वैदिकेषु च कृतान्तेषु ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-२८/१३९) लोके तावत् ॒ मातापितरौ पुत्रस्य जातस्य संवृते अवकाशे नाम कुर्वाते देवदत्तः यज्ञदत्तः इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-२९/१३९) तयोः उपचारात् अन्ये अपि जानन्ति इयम् अस्य सञ्ज्ञा इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-३०/१३९) वेदे ॒ याज्ञिकाः सञ्ज्ञाम् कुर्वन्ति स्फ्यः यूपः चषालः इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-३१/१३९) तत्रभवताम् उपचारात् अन्ये अपि जानन्ति इयम् अस्य सञ्ज्ञा इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-३२/१३९) अपरे पुनः सिचि वृद्धिः इति उक्त्वा आकारैकारौकारान् उदाहरन्ति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-३३/१३९) ते मन्यामहे ॒ यया प्रत्याय्यन्ते सा सञ्ज्ञा ये प्रतीयन्ते ते सञ्ज्ञिनः इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-३४/१३९) यत् अपि उच्यते क्रियमाणे अपि सञ्ज्ञाधिकारे सञ्ज्ञासञ्ज्ञिनोः असन्देहः वक्तव्यः इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-३५/१३९) सञ्ज्ञासञ्ज्ञ्यसन्देहः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-३६/१३९) सञ्ज्ञासञ्ज्ञिनोः असन्देहः सिद्धः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-३७/१३९) कुतः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-३८/१३९) आचार्याचारात् एव ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-३९/१३९) उक्तः आचार्याचारः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-४०/१३९) अनाकृतिः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-४१/१३९) अथ वा अनाकृतिः सञ्ज्ञा ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-४२/१३९) आकृतिमन्तः सञ्ज्ञिनः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-४३/१३९) लोके अपि हि आक्र्तिमतः मांसपिण्डस्य देवदत्तः इति सञ्ज्ञा क्रियते ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-४४/१३९) लिङ्गेन वा ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-४५/१३९) अथ वा किम् चित् लिङ्गम् आसज्य वक्ष्यामि इत्थंलिङ्गा सञ्ज्ञा इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-४६/१३९) वृद्धिशब्दे च तत् लिङ्गम् करिष्यते न आदैच्छब्दे ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-४७/१३९) इदम् तावत् अयुक्तम् यत् उच्यते आचार्याचारात् इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-४८/१३९) किम् अत्र अयुक्तम् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-४९/१३९) तम् एव उपालभ्य अगमकम् ते सूत्रम् इति तस्य एव पुनः प्रमाणीकरणम् इति एतत् अयुक्तम् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-५०/१३९) अपरितुष्यन् खलु अपि भवान् अनेन परिहारेण आकृतिः लिङ्गेन वा इति आह ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-५१/१३९) तत् च अपि वक्तव्यम् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-५२/१३९) यदि अपि एतत् उच्यते अथ वा एतर्हि इत्सञ्ज्ञा न वक्तव्या लोपः च न वक्तव्यः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-५३/१३९) सञ्ज्ञालिङ्गम् अनुबन्धेषु करिष्यते ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-५४/१३९) न च सञ्ज्ञायाः निवृत्तिः उच्यते ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-५५/१३९) स्वभावतः सञ्ज्ञाः सञ्ज्ञिनः प्रत्याय्य निवर्तन्ते ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-५६/१३९) तेन अनुबन्धानाम् अपि निवृत्तिः भविष्यति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-५७/१३९) सिध्यति एवम् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-५८/१३९) अपाणिनीयम् तु भवति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-५९/१३९) यथान्यासम् एव अस्तु ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-६०/१३९) ननु च उक्तम् सञ्ज्ञाधिकारः सञ्ज्ञासम्प्रत्ययार्थः इतरथा हि असम्प्रत्ययः यथा लोके इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-६१/१३९) न यथा लोके तथा व्याकरणे ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-६२/१३९) प्रमाणभूतः आचार्यः दर्भपवित्रपाणिः शुचौ अवकाशे प्राङ्मुखः उपविश्य महता यत्नेन सूत्रम् प्रणयति स्म ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-६३/१३९) तत्र अशक्यम् वर्णेन अपि अनर्थकेन भवितुम् किम् पुनः इयता सूत्रेण ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-६४/१३९) किम् अतः यत् अशक्यम् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-६५/१३९) अतः सञ्ज्ञासञ्ज्ञिनौ एव ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-६६/१३९) कुतः नु खलु एतत् सञ्ज्ञासञ्ज्ञिनौ एव इति न पुनः साध्वनुशासने अस्मिन् शास्त्रे साधुत्वम् अनेन किर्यते ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-६७/१३९) कृतम् अनयोः साधुत्वम् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-६८/१३९) कथम् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-६९/१३९) वृधिः अस्मै अविशेषेण उपदिष्टः प्रकृतिपाठे ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-७०/१३९) तस्मात् क्तिन्प्रत्ययः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-७१/१३९) आदैचः अपि अक्षरसमाम्नाये उपदिष्टाः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-७२/१३९) प्रयोगनियमार्थम् तर्हि इदम् स्यात् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-७३/१३९) वृद्धिशब्दात् परः आदैचः प्रयोक्तव्याः इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-७४/१३९) न इह प्रयोगनियमः आरभ्यते ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-७५/१३९) किम् तर्हि ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-७६/१३९) संस्कृत्य संस्कृत्य पदानि उत्सृज्यन्ते ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-७७/१३९) तेषाम् यथेष्ठम् अभिसम्बन्धः भवति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-७८/१३९) तत् यथा ॒ आहर पात्रम् , पात्रम् आहर इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-७९/१३९) आदेशाः तर्हि इमे स्युः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-८०/१३९) वृद्धिशब्दस्य आदैचः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-८१/१३९) षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीम् पश्यामः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-८२/१३९) आगमाः तर्हि इमे स्युः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-८३/१३९) वृद्धिशब्दस्य आदैचः आगमाः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-८४/१३९) आगमाः अपि षष्ठीनिर्दिष्टस्य एव उच्यन्ते लिङ्गेन च ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-८५/१३९) न च अत्र षष्ठीम् न खलु अपि आगमलिङ्गम् पश्यामः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-८६/१३९) इदम् खलु अपि भूयः सामनाधिकरण्यम् एकविभक्तिकत्वम् च ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-८७/१३९) द्वयोः च एतत् भवति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-८८/१३९) कयोः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-८९/१३९) विशेषणविशेष्ययोः वा सञ्ज्ञासञ्ज्ञिनोः वा ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-९०/१३९) तत्र एतत् स्यात् विशेषणविशेष्ये इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-९१/१३९) तत् च न ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-९२/१३९) द्वयोः हि प्रतीत्पदार्थकयोः लोके विशेषणविशेष्यभावः भवति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-९३/१३९) न च आदैच्छब्दः प्रतीतपदार्थकः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-९४/१३९) तस्मात् सञ्ज्ञासञ्ज्ञिनौ एव ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-९५/१३९) तत्र तु एतावान् सन्देधः कः सञ्ज्ञी का सञ्ज्ञा इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-९६/१३९) सः च अपि क्व सन्देहः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-९७/१३९) यत्र उभे समानाक्षरे ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-९८/१३९) यत्र तु अन्यतरत् लघु यत् लघु सा सञ्ज्ञा ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-९९/१३९) कुतः एतत् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१००/१३९) लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१०१/१३९) तत्र अपि अयम् न अवश्यम् गुरुलघुताम् एव उपलक्षयितुम् अर्हति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१०२/१३९) किम् तर्हि ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१०३/१३९) अनाकृतिताम् अपि ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१०४/१३९) अनाकृतिः सञ्ज्ञा ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१०५/१३९) आकृतिमन्तः सञ्ज्ञिनः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१०६/१३९) लोके हि आकृतिमतः मांसपिण्डस्य देवदत्तः इति सञ्ज्ञा क्रियते ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१०७/१३९) अथ वा आवर्तिन्यः सञ्ज्ञाः भवन्ति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१०८/१३९) वृद्धिशब्दः च आवर्तते न आदैच्छब्दः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१०९/१३९) तत् यथा ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-११०/१३९) इतरत्र अपि देवदत्तशब्दः आवर्तते न मांसपिण्डः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१११/१३९) अथ वा पूर्वोच्चारितः सञ्ज्ञी परोच्चारिता सञ्ज्ञा ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-११२/१३९) कुतः एतत् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-११३/१३९) सतः हि कार्यिणः कार्येण भवितव्यम् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-११४/१३९) तत् यथा ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-११५/१३९) इतरत्र अपि सतः मांसपिण्डस्य देवदत्तः इति सञ्ज्ञा क्रियते ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-११६/१३९) कथम् वृद्धिः आत् ऐच् इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-११७/१३९) एतत् एकम् आचार्यस्य मङ्गलार्थम् मृष्यताम् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-११८/१३९) माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थम् वृद्धिशबम् आदितः प्रयुङ्क्ते ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-११९/१३९) मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति आयुष्मत्पुरुषकाणि च ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१२०/१३९) अध्येतारः च सिद्धार्थाः यथा स्युः इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१२१/१३९) सर्वत्र एव हि व्याकरणे पूर्वोच्चारितः सञ्ज्ञी परोच्चारिता सञ्ज्ञा ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१२२/१३९) अत् एङ् गुणः इति यथा ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१२३/१३९) दोषवान् खलु अपि सञ्ज्ञाधिकारः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१२४/१३९) अष्टमे अपि हि सञ्ज्ञा क्रियते तस्य परम् आम्रेडितम् इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१२५/१३९) तत्र अपि इदम् अनुवर्त्यम् स्यात् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१२६/१३९) अथ वा अस्थाने अयम् यत्नः क्रियते ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१२७/१३९) न हि इदम् लोकात् भिद्यते ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१२८/१३९) यदि इदम् लोकात् भिद्येत ततः यत्नार्हम् स्यात् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१२९/१३९) तत् यथा अगोज्ञाय कः चित् गाम् सक्थनि कर्णे वा गृहीत्वा उपदिशति अयम् गौः इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१३०/१३९) न च अस्मै आचष्टे इयम् अस्य सञ्ज्ञा इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१३१/१३९) भवति च अस्य सम्प्रत्ययः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१३२/१३९) तत्र एतत् स्यात् कृतः पूर्वैः अभिसम्बन्धः इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१३३/१३९) इह अपि कृतः पूर्वैः अभिसम्बन्धः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१३४/१३९) कैः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१३५/१३९) आचार्यैः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१३६/१३९) तत्र एतत् स्यात् ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१३७/१३९) यस्मै सम्प्रति उपदिशति तस्य अकृतः इति ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१३८/१३९) लोके अपि यस्मै सम्प्रति उपदिशति तस्य अकृतः ।

(पा-१,१.१.३; अकि-१,३७.२५-४०.१७; रो-१,१२५-१३३; भा-१३९/१३९) अथ तत्र कृतः इह अपि कृतः द्रष्टव्यः ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-१/३०) सतः वृद्ध्यादिषु सञ्ज्ञाभावात् तदाश्रये इतरेतराश्रयत्वात् असिद्धिः ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-२/३०) सतः सञ्ज्ञिनः सञ्ज्ञाभावात् सञ्ज्ञाश्रये सञ्ज्ञिनि वृद्ध्यादिषु इतरेतराश्रयत्वात् अप्रसिद्धिः ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-३/३०) का इतेरेतराश्रयता ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-४/३०) सताम् आदैचाम् सञ्ज्ञया भवितव्यम् सञ्ज्ञया च आदैचः भाव्यन्ते ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-५/३०) तत् इतरेतराश्रयम् भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-६/३०) तत् यथा ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-७/३०) नौः नावि बद्धा न इतरत्राणाय भवति. ननु च भोः इतरेतराश्रयाणि अपि कार्याणि दृश्यन्ते ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-८/३०) तत् यथा ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-९/३०) नौः शकटम् वहति शकटम् च नावम् वहति ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-१०/३०) अन्यत् अपि तत्र किम् चित् भवति जलम् स्थलम् वा ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-११/३०) स्थले शकटम् नावम् वहति ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-१२/३०) जले नौः शकटम् वहति ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-१३/३०) यथा तरि त्रिविष्टब्धकम् ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-१४/३०) तत्र अपि अन्ततः सूत्रकम् भवति ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-१५/३०) इदम् पुनः इतरेतराश्रयम् एव ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-१६/३०) सिद्धम् तु नित्यशब्दत्वात् ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-१७/३०) सिद्धम् एतत् ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-१८/३०) कथम् ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-१९/३०) नित्यशब्दत्वात् ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-२०/३०) नित्याः शब्दाः ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-२१/३०) नित्येषु शब्देषु सताम् आदैचाम् सञ्ज्ञा क्रियते ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-२२/३०) न सञ्ज्ञया आदैचः भाव्यन्ते ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-२३/३०) यदि तर्हि नित्याः शब्दाः किमर्थम् शास्त्रम् ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-२४/३०) किमर्थम् शास्त्रम् इति चेत् निवर्तकत्वात् सिद्धम् ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-२५/३०) निवर्तकम् शास्त्रम् ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-२६/३०) कथम् ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-२७/३०) मृजिः अस्मै अविशेषेण उपदिष्टः ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-२८/३०) तस्य सर्वत्र मृजिबुद्धिः प्रसक्ता ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-२९/३०) तत्र अनेन निवृत्तिः क्रियते ।

(पा-१,१.१.४; अकि-१,४०.१८-४१.४; रो-१,१३३-१३४; भा-३०/३०) मृजेः अक्ङित्सु प्रत्ययेषु मृजिप्रसङ्गे मार्जिः साधुः भवति इति ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-१/२१) प्रत्येकम् वृद्धिगुणसञ्ज्ञे भवतः इति वक्तव्यम् ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-२/२१) किम् प्रयोजनम् ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-३/२१) समुदाये मा भूताम् इति ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-४/२१) अन्यत्र सहवचनात् समुदाये सञ्ज्ञाप्रसङ्गः ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-५/२१) अन्यत्र सहवचनात् समुदाये वृद्धिगुणसञ्ज्ञयोः अप्रसङ्गः ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-६/२१) यत्र इच्छति सहभूतानाम् कार्यम् करोति तत्र सहग्रहणम् ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-७/२१) तत् यथा ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-८/२१) सह सुपा ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-९/२१) उभे अभ्यस्तम् सह इति ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-१०/२१) प्रत्यवयवम् च वाक्यपरिसमाप्तेः ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-११/२१) प्रत्यवयवम् च वाक्यपरिसमाप्तिः दृश्यते ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-१२/२१) तत् यथा ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-१३/२१) देवदत्तयज्ञदत्तविष्णुमित्राः भोज्यन्ताम् इति ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-१४/२१) न च उच्यते प्रत्येकम् इति ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-१५/२१) प्रत्येकम् च भुजिः परिसमाप्यते ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-१६/२१) ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-१७/२१) तत् यथा ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-१८/२१) गर्गाः शतम् दण्ड्यन्ताम् इति ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-१९/२१) अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-२०/२१) सति एतस्मिन् दृष्टान्ते यदि तत्र सहग्रहणम् क्रियते इह अपि प्रत्येकम् इति वक्तव्यम् ।

(पा-१,१.१.५; अकि-१,४१.५-१६; रो-१,१३४-१३६; भा-२१/२१) अथ तत्र अन्तरेण सहग्रहणम् सहभूतानाम् कार्यम् भवति इह अपि न अर्थः प्रत्येकम् इति वचनेन ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-१/६८) अथ किमर्थम् आकारः तपरः क्रियते ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-२/६८) आकारस्य तपरकरणम् सवर्णार्थम् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-३/६८) आकारस्य तपरकरणम् क्रियते ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-४/६८) किम् प्रयोजनम् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-५/६८) सवर्णार्थम् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-६/६८) तपरः तत्कालस्य इति तत्कालानाम् ग्रहणम् यथा स्यात् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-७/६८) केषाम् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-८/६८) उदात्तानुन्दात्तस्वरितानाम् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-९/६८) किम् च कारणम् न स्यात् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-१०/६८) भेदकत्वात् स्वरस्य ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-११/६८) भेदकाः उदात्तादयः ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-१२/६८) कथम् पुनः ज्ञायते भेदकाः उदात्तादयः इति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-१३/६८) एवम् हि दृश्यते लोके ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-१४/६८) यः उदात्ते कर्तव्ये अनुदात्तम् करोति खण्डिकोपाध्यायः तस्मै चपेटाम् ददाति अन्यत् त्वम् करोषि इति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-१५/६८) अस्ति प्रयोजनम् एतत् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-१६/६८) किम् तर्हि इति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-१७/६८) भेदकत्वात् गुणस्य इति वक्तव्यम् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-१८/६८) किम् प्रयोजनम् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-१९/६८) आनुनासिक्यम् नाम गुणः ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-२०/६८) तद्भिन्नस्य अपि यथा स्यात् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-२१/६८) किम् च कारणम् न स्यात् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-२२/६८) भेदकत्वात् गुणस्य ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-२३/६८) भेदकाः गुणाः ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-२४/६८) कथम् पुनः ज्ञायते भेदकाः गुणाः इति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-२५/६८) एवम् हि दृश्यते लोके ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-२६/६८) एकः अयम् आत्मा उदकम् नाम ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-२७/६८) तस्य गुणभेदात् अन्यत्वम् भवति ॒ अन्यत् इदम् शीतम् अन्यत् इदम् ऊष्णम् इति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-२८/६८) ननु च भोः अभेदकाः अपि गुणाः दृश्यन्ते ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-२९/६८) तत् यथा ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-३०/६८) देवदत्तः मुण्डी अपि जटी अपि शिखी अपि स्वाम् आख्याम् न जहाति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-३१/६८) तथा बालः युवा वृद्धः वत्सः दम्यः बलीवर्दः इति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-३२/६८) उभयम् इदम् गुणेषु उक्तम् भेदकाः अभेदकाः इति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-३३/६८) किम् पुनः अत्र न्याय्यम् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-३४/६८) अभेदकाः गुणाः इति एव न्याय्यम् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-३५/६८) कुतः एतत् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-३६/६८) यत् अयम् अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः इति उदात्तग्रहणम् करोति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-३७/६८) यदि भेदकाः गुणाः स्युः उदात्तम् एव उच्चारयेत् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-३८/६८) यदि तर्हि अभेदकाः गुणाः अनुदात्तादेः अन्तोदात्तात् च यत् उच्यते तत् स्वरितादेः स्वरितान्तात् च प्राप्नोति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-३९/६८) न एषः दोषः ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-४०/६८) आश्रीयमाणः गुणः भेदकः भवति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-४१/६८) तत् यथा ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-४२/६८) शुक्लम् आलभेत ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-४३/६८) कृष्णम् आलभेत ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-४४/६८) तत्र यः शुक्ले आलब्धव्ये कृष्णम् आलभेत न हि तेन यथोक्तम् कृतम् भवति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-४५/६८) असन्देहार्थः तर्हि तकारः ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-४६/६८) ऐच् इति उच्यमने सन्देहः स्यात् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-४७/६८) किम् इमौ ऐचौ एव आहोस्वित् आकारः अपि अत्र निर्दिश्यते इति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-४८/६८) सन्देहमात्रम् एतत् भवति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-४९/६८) सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-५०/६८) त्रयाणाम् ग्रहणम् इति व्याख्यास्यामः ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-५१/६८) अन्यत्र अपि हि अयम् एवञ्जातीयकेषु सन्देहेषु न कम् चिद् यत्नम् करोति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-५२/६८) तत् यथा ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-५३/६८) औतः अम्शसोः इति ।इदम् तर्हि प्रयोजनम् ॒ आन्तर्यतः त्रिमात्रचतुर्नात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः आदेशाः मा भूवन् इति ॒ खट्वा* इन्द्रः खट्वेन्द्रः , खट्वा* उदकम् खट्वोदकम् , खट्वा* ईषा खट्वेषा खट्वा* ऊढा खट्वोढा खट्वा* एलका खट्वैलका खट्वा* ओदनः , खट्वौदनः , खट्वा* ऐतिकायनः , खट्वैतिकायनः , खट्वा* औपगवः , खट्वौपगवः इति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-५४/६८) अथ क्रियमाणे अपि तकारे कस्मात् एव त्रिमात्रचतुर्नात्राणाम् स्थानिनम् त्रिमात्रचतुर्मात्राः आदेशाः न भवन्ति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-५५/६८) तपरः तत्कालस्य इति नियमात् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-५६/६८) ननु तः परः यस्मात् सः अयम् तपरः ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-५७/६८) न इति आह ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-५८/६८) तात् अपि परः तपरः इति ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-५९/६८) यदि तात् अपि परः तपरः ऋ̄दोः अप् इति इह एव स्यात् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-६०/६८) यवः स्तवः ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-६१/६८) लवः पवः इति अत्र न स्यात् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-६२/६८) न एषः तकारः ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-६३/६८) कः तर्हि ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-६४/६८) दकारः ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-६५/६८) किम् दकारे प्रयोजनम् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-६६/६८) अथ किम् तकारे प्रयोजनम् ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-६७/६८) यदि असन्देहार्थः तकारः दकारः अपि ।

(पा-१,१.१.६; अकि-१,४१.१७-४२.२४; रो-१,१३६-१४०; भा-६८/६८) अथ मुखसुखार्थः तकारः दकारः अपि ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-१/८०) इग्ग्रहणम् किमर्थम् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-२/८०) इग्ग्रहणम् आत्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थम् । इग्ग्रहणम् क्रियते आकारनिवृत्त्यर्थम् सन्ध्यक्षरनिवृत्त्यर्थम् व्यञ्जननिवृत्त्यर्थम् च. आकारनिवृत्त्यर्थम् तावत् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-३/८०) याता वाता ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-४/८०) आकारस्य गुणः प्राप्नोति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-५/८०) इग्ग्रहणात् न भवति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-६/८०) सन्ध्यक्षरनिवृत्त्यर्थम् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-७/८०) ग्लायति म्लायति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-८/८०) सन्ध्यक्षरस्य गुणः प्राप्नोति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-९/८०) इग्ग्रहणात् न भवति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-१०/८०) व्यञ्जननिवृत्त्यर्थम् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-११/८०) उम्भिता , उम्भितुम् उम्भितव्यम् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-१२/८०) व्यञ्जनस्य गुणः प्राप्नोति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-१३/८०) इग्ग्रहणात् न भवति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-१४/८०) आकारनिवृत्त्यर्थेन तावत् नार्थः ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-१५/८०) आचार्यप्रवृत्तिः ज्ञापयति न आकारस्य गुणः भवति इति यत् अयम् आतः अनुपसर्गे कः इति ककारम् अनुबन्धम् करोति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-१६/८०) कथम् कृत्वा ज्ञापकम् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-१७/८०) कित्करणे एतत् प्रयोजनम् किति इति आकारलोपः यथा स्यात् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-१८/८०) यदि च आकारस्य गुणः स्यात् कित्करणम् अनर्थकम् स्यात् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-१९/८०) गुणे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् गोदः , कम्बलदः इति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-२०/८०) पश्यति तु आचार्यः न आकारस्य गुणः भवति इति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-२१/८०) ततः ककारम् अनुबन्धम् करोति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-२२/८०) सन्ध्यक्षरार्थेन अपि न अर्थः ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-२३/८०) उपदेशसामर्थ्यात् सन्ध्यक्षरस्य गुणः न भविष्यति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-२४/८०) व्यञ्जननिवृत्त्यर्थेन अपि न अर्थः ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-२५/८०) आचार्यप्रवृत्तिः ज्ञापयति न व्यञ्जनस्य गुणः भवति इति यत् अयम् जनेः डम् शास्ति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-२६/८०) कथम् कृत्वा ज्ञापकम् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-२७/८०) डित्करणे एतत् प्रयोजनम् डिति इति टिलोपः यथा स्यात् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-२८/८०) यदि व्यञ्जन्स्य गुणः स्यात् डित्करणम् अनर्थकम् स्यात् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-२९/८०) गुणे कृते त्रयाणाम् अकाराणाम् पररूपेण सिद्धम् रूपम् स्यात् ॒ उपसरजः , मन्दुरजः इति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-३०/८०) पश्यति तु आचार्यः न व्यञ्जनस्य गुणः भवति इति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-३१/८०) ततः जनेः डम् शास्ति. न एतानि सन्ति प्रयोजनानि ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-३२/८०) यत् तावत् उच्यते कित्करणम् ज्ञापकम् आकारस्य गुणः न भवति इति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-३३/८०) उत्तरार्थम् एतत् स्यात् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-३४/८०) तुन्दशोकयोः परिमृजापनुदोः इति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-३५/८०) यत् तर्हि गापोः ठक् इति अनन्यार्थम् ककारम् अनुबन्धम् करोति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-३६/८०) यत् अपि उच्यते उपदेशसामर्थ्यात् सन्ध्यक्षरस्य गुणः न भवति इति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-३७/८०) यदि यत् यत् सन्ध्यक्षरस्य प्राप्नोति तत् तत् उपदेशसामर्थ्यात् बाध्यते आयादयः अपि तर्हि न प्राप्नुवन्ति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-३८/८०) न एषः दोषः ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-३९/८०) यम् विधिम् प्रति उपदेशः अनर्थकः स विधिः बाध्यते ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-४०/८०) यस्य तु विधेः निमित्तम् एव न असौ बाध्यते ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-४१/८०) गुणम् च प्रति उपदेशः अनर्थकः आयादीनाम् पुनः निमित्तम् एव ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-४२/८०) यत् अपि उच्यते जनेः डवचनम् ज्ञापकम् न व्यञ्जनस्य गुणः भवति इति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-४३/८०) सिद्धे विधिः आरभ्यमाणः ज्ञापकार्थः भवति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-४४/८०) न च जनेः गुणेन सिध्यति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-४५/८०) कुतः हि एतत् जनेः गुणः उच्यमानः अकारः भवति न पुनः एकारः वा स्यात् ओकारः वा इति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-४६/८०) आन्तर्यतः अर्धमात्रिकस्य व्यञ्जनस्य मात्रिकः अकारः भविष्यति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-४७/८०) एवम् अपि अनुनासिकः प्राप्नोति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-४८/८०) पररूपेण शुद्धः भविष्यति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-४९/८०) एवम् तर्हि गमेः अपि अयम् डः वक्तव्यः ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-५०/८०) गमेः च गुणः उच्यमानः आन्तर्यतः ओकारः प्राप्नोति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-५१/८०) तस्मात् इग्ग्रहणम् कर्तव्यम् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-५२/८०) यदि इग्ग्रहणम् क्रियते द्यौः , पन्थाः , सः , इमम् इते एते अपि इकः प्राप्नुवन्ति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-५३/८०) सञ्ज्ञया विधाने नियमः ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-५४/८०) सञ्ज्ञया ये विधीयन्ते तेषु नियमः ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-५५/८०) किम् वक्तव्यम् एतत् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-५६/८०) न हि ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-५७/८०) कथम् अनुच्यमानम् गंस्यते ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-५८/८०) गुणवृद्धिग्रहणसामर्थ्यात् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-५९/८०) कथम् पुनः अन्तरेण गुणवृद्धिग्रहणम् इकः गुणवृद्धी स्याताम् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-६०/८०) प्रकृतम् गुणवृद्धिग्रहणम् अनुवर्तते ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-६१/८०) क्व प्रकृतम् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-६२/८०) वृद्धिः आत् ऐच् अत् एङ् गुणः इति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-६३/८०) यदि तत् अनुवर्तते अत् एङ् गुणः वृद्धिः च इति अदेङाम् अपि वृद्धिसञ्ज्ञा प्राप्नोति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-६४/८०) सम्बन्धम् अनुवर्तिष्यते ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-६५/८०) वृद्धिः आत् ऐच् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-६६/८०) अत् एङ् गुणः वृद्धिः आत् ऐच् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-६७/८०) ततः इकः गुणवृद्धी इति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-६८/८०) गुणवृद्धिग्रहणम् अनुवर्तते आदैज्ग्रहणम् निवृत्तम् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-६९/८०) अथ वा मण्डूकगतयः अधिकाराः ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-७०/८०) यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-७१/८०) अथ वा एकयोगः करिष्यते वृद्धिः आत् ऐच् अत् एङ् गुणः इति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-७२/८०) ततः इको गुणवृद्धी इति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-७३/८०) न च एकयोगे अनुवृत्तिः भवति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-७४/८०) अथ वा अन्यवचनात् चकाराकरणात् प्रकृतापवादः विज्ञायते यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-७५/८०) अन्यस्याः सञ्ज्ञायाः वचनात् चकारस्य अनुकर्षणार्थस्य अकरणात् प्रकृतायाः वृद्धिसञ्ज्ञायाः गुणसञ्ज्ञ बाधिका भविष्यति यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-७६/८०) अथ वा वक्ष्यति एतत् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-७७/८०) अनुवर्तन्ते च नाम विधयः न च अनुवर्तनात् एव भवन्ति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-७८/८०) किम् तर्हि यत्नात् भवन्ति ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-७९/८०) अथ वा उभयम् निवृत्तम् ।

(पा-१,१.३.१; अकि-१,४२.२६-४४.१४ ऋ १४०-१४६; भा-८०/८०) तत् अपेक्षिष्यामहे ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१/१२३) किम् पुनः अयम् अलोन्त्यशेषः आहोस्वित् अलोन्त्यापवादः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-२/१२३) कथम् च अयम् तच्छेषः स्यात् कथम् वा तदपवादः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-३/१२३) यदि एकम् वाक्यम् तत् च इदम् च अलः ॒ अन्त्यस्य विधयः भवन्ति इकः गुणवृद्धी* अलः अन्त्यस्य इति ततः अयम् तच्छेषः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-४/१२३) अथ नाना वाक्यम् ॒ अलः अन्त्यस्य विधयः भवन्ति , इकः गुणवृद्धी* अन्त्यस्य च अनन्त्यस्य च इति ततः अयम् तदपवादः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-५/१२३) कः च अत्र विशेषः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-६/१२३) वृद्धिगुणौ अलः अन्त्यस्य इति चेत् मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु इग्ग्रहणम् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-७/१२३) वृद्धिगुणौ अलः अन्त्यस्य इति चेत् मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु इग्ग्रहणम् कर्तव्यम् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-८/१२३) मिदेः गुणः इकः इति वक्तव्यम् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-९/१२३) अनन्त्यत्वात् हि न प्राप्नोति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१०/१२३) पुगन्तलघूपधस्य गुणः इकः इति वक्तव्यम् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-११/१२३) अनन्त्यत्वात् हि न प्राप्नोति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१२/१२३) ऋच्छेः लिटि गुणः इकः इति वक्तव्यम् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१३/१२३) अनन्त्यत्वात् हि न प्राप्नोति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१४/१२३) ऋदृसः अङि गुणः इकः इति वक्तव्यम् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१५/१२३) अनन्त्यत्वात् हि न प्राप्नोति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१६/१२३) क्षिप्रक्षुद्रयोः गुणः इकः इति वक्तव्यम् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१७/१२३) अनन्त्यत्वात् हि न प्राप्नोति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१८/१२३) सर्वादेशप्रसङ्गः च अनिगन्तस्य ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१९/१२३) सर्वादेशः च गुणः च अनिगन्तस्य प्राप्नोति ॒ याता वाता ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-२०/१२३) किम् कारणम् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-२१/१२३) अलः अन्त्यस्य इति षष्ठी च एव हि अन्त्यम् इकम् उपसङ्क्रान्ता , अङ्गस्य इति च स्थानषष्ठी ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-२२/१२३) तत् यत् इदानीम् अनिगन्तम् अङ्गम् तस्य गुणः सर्वादेशः प्राप्नोति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-२३/१२३) न एषः दोषः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-२४/१२३) यथा एव हि अलः अन्त्यस्य इति षष्ठी अन्त्यम् इकम् उपसङ्क्रान्ता एवम् अङ्गस्य इति अपि स्थानषष्ठी ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-२५/१२३) तत् यद् इदानीम् अनिगन्तम् अङ्गम् , तत्र षष्ठी एव न अस्ति कुतः गुणः कुतः सर्वादेशः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-२६/१२३) एवम् तर्हि न अयम् दोषसमुच्चयः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-२७/१२३) किम् तर्हि ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-२८/१२३) पूर्वापेक्षः अयम् दोषः , ह्यर्थे च अयम् चः पठितः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-२९/१२३) मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु इग्ग्रहणम् सर्वादेशप्रसङ्गः हि अनिगन्तस्य इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-३०/१२३) मिदेः गुणः इकः इति वचनात् अन्त्यस्य न ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-३१/१२३) अन्त्यस्य इति वचनात् इकः न ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-३२/१२३) उच्यते तु गुणः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-३३/१२३) सः सर्वादेशः प्राप्नोति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-३४/१२३) एवम् सर्वत्र ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-३५/१२३) अस्तु तर्हि तदपवादः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-३६/१२३) इग्मात्रस्य इति चेत् जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु अनन्त्यप्रतिषेधः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-३७/१२३) इग्मात्रस्य इति चेत् जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु अनन्त्यप्रतिषेधः वक्तव्यः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-३८/१२३) जुसि गुणः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-३९/१२३) सः यथा इह भवति ॒ अजुहवुः , अबिभयुः , एवम् अनेनिजुः , पर्यविविषुः , अत्र अपि प्राप्नोति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-४०/१२३) सार्वधातुकार्धधातुकयोः गुणः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-४१/१२३) सः यथा इह भवति ॒ कर्ता हर्ता नयति तरति भवति , एवम् ईहिता , ईहितुम् इति अत्र अपि प्राप्नोति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-४२/१२३) ह्रस्वस्य गुणः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-४३/१२३) सः यथा इह भवति ॒ हे अग्ने हे वायो , एवम् हे अग्निचित् , हे सोमसुत् इति अत्र अपि प्राप्नोति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-४४/१२३) जसि गुणः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-४५/१२३) सः यथा इह भवति अग्नयः , वायवः इति एवम् अग्निचितः , सोमसुतः इति अत्र अपि प्राप्नोति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-४६/१२३) ऋतो ङिसर्वनामस्थानयोः गुणः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-४७/१२३) सः यथा इह भवति कर्तरि कर्तारौ कर्तारः इति एवम् सुकृति सुकृतौ सुकृतः इति अत्र अपि प्राप्नोति ।घेः ङिति गुणः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-४८/१२३) सः यथा इह भवति अग्नये वायवे एवम् अग्निचिते सोमसुते इति अत्र अपि प्राप्नोति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-४९/१२३) ओः गुणः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-५०/१२३) सः यथा इह भवति बाभ्रव्यः , माण्डव्यः इति एवम् सुश्रुत् , सौश्रुतः इति अत्र अपि प्राप्नोति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-५१/१२३) न एषः दोषः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-५२/१२३) पुगन्तलघूपधग्रहणम् अनन्त्यनियमार्थम् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-५३/१२३) पुगन्तलघूपधग्रहणम् अनन्त्यनियमार्थम् भविष्यति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-५४/१२३) पुगन्तलघूपधस्य एव अनन्त्यस्य न अन्यस्य अनन्त्यस्य इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-५५/१२३) प्रकृतस्य एषः नियमः स्यात् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-५६/१२३) किम् च प्रकृतम् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-५७/१२३) सार्वधातुकार्धधातुकयोः इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-५८/१२३) तेन भवेत् इह नियमात् न स्यात् ईहिता , ईहितुम् , ईहितव्यम् इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-५९/१२३) ह्रस्वाद्योः गुणः तु अनियतः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-६०/१२३) सः अनन्त्यस्य अपि प्राप्नोति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-६१/१२३) अथ अपि एवम् नियमः स्यात् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-६२/१२३) पुगन्तलघूपधस्य सार्वधातुकार्धधातुकयोः एव इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-६३/१२३) एवम् अपि सार्वधातुकार्धधातुकयोः गुणः अनियतः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-६४/१२३) सः अनन्त्यस्य अपि प्राप्नोति ॒ ईहिता , ईहितुम् ईहितव्यम् इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-६५/१२३) अथ अपि उभयतः नियमः स्यात् ॒ पुगन्तलघूपधस्य एव सार्वधातुकार्धधातुकयोः , सार्वधातुकार्धधातुकयोः एव पुगन्तलघूपधस्य इति , एवम् अपि अयम् जुसि गुणः अनियतः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-६६/१२३) सः अनन्त्यस्य अपि प्राप्नोति ॒ अनेनिजुः , पर्यविविषुः इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-६७/१२३) एवम् तर्हि न अयम् तच्छेषः न अपि तदपवादः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-६८/१२३) अन्यत् एव इदम् परिभाषान्तरम् असम्बद्धम् अनया परिभाषया ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-६९/१२३) परिभाषान्तरम् इति च मत्वा क्रोष्ट्रीयाः पठन्ति ॒ नियमात् इकः गुणवृद्धी भवतः विप्रतिषेधेन इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-७०/१२३) यदि च अयम् तच्छेषः स्यात् तेन एव तस्य अयुक्तः विप्रतिषेधः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-७१/१२३) अथ अपि तदपवादः उत्सर्गापवादयोः अपि अयुक्तः विप्रतिषेधः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-७२/१२३) तत्र नियमस्य अवकाशः ॒ राज्ञः क च , राजकीयम् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-७३/१२३) इकः गुणवृद्धी* इति अस्य अवकाशः ॒ चयनम् , चायकः , लवनम् , लावकः इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-७४/१२३) इह उभयम् प्राप्नोति ॒ मेद्यति मार्ष्टि इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-७५/१२३) इकः गुणवृद्धी* इति एतत् भवति विप्रतिषेधेन ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-७६/१२३) न एषः युक्तः विप्रतिषेधः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-७७/१२३) विप्रतिषेधे हि परम् इति उच्यते , पूर्वः च अयम् योगः परः नियमः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-७८/१२३) इष्टवाची परशब्दः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-७९/१२३) विप्रतिषेधे परम् यत् इष्टम् तत् भवति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-८०/१२३) एवम् अपि अयुक्तः विप्रतिषेधः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-८१/१२३) द्विकार्ययोगः हि विप्रतिषेधः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-८२/१२३) न च अत्र एकः द्विकार्ययुक्तः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-८३/१२३) न अवश्यम् द्विकार्ययोगः एव विप्रतिषेधः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-८४/१२३) किम् तर्हि. असम्भवः अपि ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-८५/१२३) सः च अस्ति अत्र असम्भवः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-८६/१२३) कः असौ अस्म्भवः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-८७/१२३) इह तावत् ॒ वृक्षेभ्यः , प्लक्षेभ्यः इति एकः स्थानी द्वौ आदेशौ ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-८८/१२३) न च अस्ति सम्भवः यत् एकस्य स्थानिनः द्वौ आदेशौ स्याताम् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-८९/१२३) इह इदानीम् मेद्यति मेद्यतः मेद्यन्ति इति द्वौ स्थानिनौ एकः आदेशः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-९०/१२३) न च अस्ति सम्भवः यत् द्वयोः स्थानिनोः एकः आदेशः स्यात् इति एषः असम्भवः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-९१/१२३) सत्यम् एतस्मिन् असम्भवे युक्तः विप्रतिषेधः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-९२/१२३) एवम् अपि अयुक्तः विप्रतिषेधः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-९३/१२३) द्वयोः हि सावकाशयोः समवस्थितयोः विप्रतिषेधः भवति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-९४/१२३) अनवकाशः च अयम् योगः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-९५/१२३) ननु च इदानीम् एव अस्य अवकाशः प्रक्ल्̥प्तः ॒ चयनम् , चायकः , लवनम् , लावकः इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-९६/१२३) अत्र अपि नियमः प्राप्नोति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-९७/१२३) यावता न अप्राप्ते नियमे अयम् योगः आरभ्यते अतः तदपवादः अयम् योगः भवति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-९८/१२३) उत्सर्गापवादयोः च अयुक्तः विप्रतिषेधः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-९९/१२३) अथ अपि कथम् चित् इकः गुणवृद्धी* इति अस्य अवकाशः स्यात् , एवम् अपि यथा इह विप्रतिषेधात् इकः गुणः भवति ॒ मेद्यति मेद्यतः मेद्यन्ति , एवम् इह अपि स्यात् ॒ अनेनिजुः , पर्यवेविषुः इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१००/१२३) एवम् तर्हि वृद्धिः भवति गुणः भवति इति यत्र ब्रूयात् इकः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१०१/१२३) किम् कृतम् भवति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१०२/१२३) द्वितीया षष्ठी प्रादुः भाव्यते ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१०३/१२३) तत्र कामचारः ॒ गृह्यमाणेन वा इकम् विशेषयितुम् इका वा गृह्यमाणम् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१०४/१२३) यावता कामचारः इह तावत् ॒ मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु गृह्यमाणेन इकम् विशेषयिष्यामः ॒ एतेषाम् यः इक् इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१०५/१२३) इह इदानीम् ॒ जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु इका गृह्यमाणम् विशेषयिष्यामः ॒ एतेषाम् गुणः भवति इकः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१०६/१२३) इगन्तानाम् इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१०७/१२३) अथ वा सर्वत्र एव स्थानी निर्दिश्यते ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१०८/१२३) इह तावत् ॒ मिदेः इति , अविभक्तिकः निर्देशः ॒ मिद , एः , मिदेः , मिदेः इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१०९/१२३) अथ वा षष्ठीसमासः भविष्यति मिदः इः , मिदिः , मिदेः इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-११०/१२३) पुगन्तलघूपधस्य इति न एवम् विज्ञायते ॒ पुगन्तस्य अङ्गस्य लघूपधस्य च इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१११/१२३) कथम् तर्हि ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-११२/१२३) पुकि अन्तः पुगन्तः , लघ्वी उपधा लघूपधा , पुगन्तः च लघूपधा च पुगन्तलघूपधम् पुगन्तलघूपधस्य इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-११३/१२३) अवश्यम् च एतत् एवम् विज्ञेयम् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-११४/१२३) अङ्गविशेषणे हि सति इह प्रसज्येत ॒ भिनत्ति छिनत्ति इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-११५/१२३) ऋच्छेः अपि प्रश्लिष्टनिर्देशः अयम् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-११६/१२३) ऋच्छति , ऋ , ऋ , ऋ̄ताम् ऋच्छत्यृ̄ताम् इति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-११७/१२३) दृशेः अपि योगविभागः करिष्यते ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-११८/१२३) उः अङि गुणः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-११९/१२३) उः अङि गुणः भवति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१२०/१२३) ततः दृशेः ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१२१/१२३) दृशेः च अङि गुणः भवति ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१२२/१२३) उः इति एव. क्षिप्रक्षुद्रयोः अपि यणादिपरम् गुण इति इयता सिद्धम् ।

(पा-१,१.३.२; अकि-१,४४.१५-४७.१३; रो-१,१४६-१५५; भा-१२३/१२३) सः अयम् एवम् सिद्धे सति यत् पूर्वग्रहणम् करोति तस्य एतत् प्रयोजनम् इकः यथा स्यात् अनिकः मा भूत् इति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१/११८) अथ वृद्धिग्रहणम् किमर्थम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-२/११८) किम् विशेषेण वृद्धिग्रहणम् चोद्यते न पुनः गुणग्रहणम् अपि ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-३/११८) यदि किम् चित् गुणग्रहणस्य प्रयोजनम् अस्ति वृद्धिग्रहणस्य अपि तत् भवितुम् अर्हति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-४/११८) कः वा विशेषः ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-५/११८) अयम् अस्ति विशेषः ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-६/११८) गुणविधौ न क्व चित् स्थानी निर्दिश्यते ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-७/११८) तत्र अवश्यम् स्थानिनिर्देशार्थम् गुणग्रहणम् कर्तव्यम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-८/११८) वृद्धिविधौ पुनः सर्वत्र एव स्थानी निर्दिश्यते ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-९/११८) अचः ञ्णिति अतः उपधायाः तद्धितेषु अचाम् आदेः इति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१०/११८) अतः उत्तरम् पठति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-११/११८) वृद्धिग्रहणम् उत्तरार्थम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१२/११८) वृद्धिग्रहणम् क्रियते उत्तरार्थम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१३/११८) क्ङिति इति प्रतिषेधम् वक्ष्यति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१४/११८) सः वृद्धेः अपि यथा स्यात् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१५/११८) कः च इदानीम् क्ङित्प्रत्ययेषु वृद्धेः प्रसङ्गः यावता ञ्णिति इति उच्यते ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१६/११८) तत् च मृज्यर्थम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१७/११८) मृजेः वृद्धिः अविशेषेण उच्यते ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१८/११८) सा क्ङिति मा भूत् ॒ मृष्टः , मृष्टवान् इति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१९/११८) इहार्थम् च अपि मृज्यर्थम् वृद्धिग्रहणम् कर्तव्यम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-२०/११८) मृजेः वृद्धिः अविशेषेण उच्यते ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-२१/११८) सा इकः यथा स्यात् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-२२/११८) अनिकाः मा भूत् इति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-२३/११८) मृज्यर्थम् इति चेत् योगविभागात् सिद्धम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-२४/११८) मृज्यर्थम् इति चेत् योगविभागः करिष्यते ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-२५/११८) मृजेः वृद्धिः ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-२६/११८) ततः ञ्णिति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-२७/११८) ञिति णिति च वृद्धिः भवति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-२८/११८) अचः इति एव ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-२९/११८) यदि अचः वृद्धिः उच्यते न्यमार्ट् ॒ अटः अपि वृद्धिः प्राप्नोति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-३०/११८) अटि च उक्तम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-३१/११८) किम् उक्तम्. अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-३२/११८) वृद्धिप्रतिषेधानुपपत्तिः तु इक्प्रकरणात् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-३३/११८) वृद्धेः तु प्रतिषेधः न उपपद्यते ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-३४/११८) किम् कारणम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-३५/११८) इक्प्रकरणात् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-३६/११८) इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एवम् सति मृजेः इग्लक्षणा वृद्धिः भवति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-३७/११८) तस्मात् मृजेः इग्लक्षणा वृद्धिः एषितव्या ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-३८/११८) एवम् तर्हि इह अन्ये वैयाकरणाः मृजेः अजादौ सङ्क्रमे विभाषा वृद्धिम् आरभन्ते ॒ परिमृजन्ति परिमार्जन्ति परिमृजन्तु परिमार्जन्तु परिममृजतुः , परिममार्जतुः इत्याद्यर्थम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-३९/११८) तत् इह अपि साध्यम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-४०/११८) तस्मिन् साध्ये योगविभागः करिष्यते ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-४१/११८) मृजेः वृद्धिः अचः भवति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-४२/११८) ततः अचि क्ङिति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-४३/११८) अजादौ च क्ङिति मृजेः वृद्धिः भवति ॒ परिमार्जन्ति परिमार्जन्तु ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-४४/११८) किमर्थम् इदम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-४५/११८) नियमार्थम् ॒ अजादौ एव क्ङिति न अन्यत्र ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-४६/११८) क्व अन्यत्र मा भूत् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-४७/११८) मृष्टः , मृष्टवान् इति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-४८/११८) ततः वा ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-४९/११८) वा अचि क्ङिति मृजेः वृद्धिः भवति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-५०/११८) परिमृजन्ति , परिमार्जन्ति , परिममृजतुः , परिममार्जतुः इति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-५१/११८) इहार्थम् एव सिजर्थम् वृद्धिग्रहणम् कर्तव्यम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-५२/११८) सिचि वृद्धिः अविशेषेण उच्यते ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-५३/११८) सा इकः यथा स्यात् , अनिकः मा भूत् इति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-५४/११८) कस्य पुनः अनिकः प्राप्नोति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-५५/११८) अकारस्य ॒ अचिकीर्षीत् , अजिहीर्षीत् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-५६/११८) न एतत् अस्ति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-५७/११८) लोपः अत्र बाधकः भविष्यति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-५८/११८) आकारस्य तर्हि प्राप्नोति ॒ अयासीत् , अवासीत् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-५९/११८) न अस्ति अत्र विशेषः सत्याम् वृद्धौ असत्याम् वा ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-६०/११८) सन्ध्यक्षरस्य तर्हि प्राप्नोति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-६१/११८) न एव सन्ध्यक्षरम् अन्त्यम् अस्ति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-६२/११८) ननु च इदम् अस्ति ढलोपे कृते उदवोढाम् उदवोढम् उदवोढ इति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-६३/११८) न एतत् अस्ति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-६४/११८) असिद्धः ढलोपः ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-६५/११८) तस्य असिद्धत्वात् न एतत् अन्त्यम् भवति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-६६/११८) व्यञ्जनस्य तर्हि प्राप्नोति ॒ अभैत्सीत् , अच्छैत्सीत् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-६७/११८) हलन्तलक्षणा वृद्धिः बाधिका भविष्यति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-६८/११८) यत्र तर्हि सा प्रतिषिध्यते ॒ अकोषीत् , अमोषीत् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-६९/११८) सिचि वृद्धेः अपि एषः प्रतिषेधः ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-७०/११८) कथम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-७१/११८) लक्षणम् हि नाम ध्वनति भ्रमति मुहूर्तम् अपि न अवतिष्ठते ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-७२/११८) अथ वा सिचि वृद्धिः परस्मैपदेषु इति सिचि वृद्धिः प्राप्नोति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-७३/११८) तस्याः हलन्तलक्षणा वृद्धिः बाधिका ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-७४/११८) तस्याः अपि न इटि इति प्रतिषेधः ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-७५/११८) अस्ति पुनः क्व चिद् अन्यत्र अपि अपवादे प्रतिषिद्धे उत्सर्गः अपि न भवति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-७६/११८) अस्ति इति आह ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-७७/११८) सुजाते* अश्वसूनृते , अध्वर्यो* अद्रिभिः सुतम् , शुक्रम् ते* अन्यत् इति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-७८/११८) पूर्वरूपत्वे प्रतिषिद्धे अयादयः अपि न भवन्ति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-७९/११८) उत्तरार्थम् एव तर्हि सिजर्थम् वृद्धिग्रहणम् कर्तव्यम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-८०/११८) सिचि वृद्धिः अविशेषेण उच्यते ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-८१/११८) सा क्ङिति मा भूत् न्यनुवीत् , न्यधुवीत् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-८२/११८) न एतत् अस्ति प्रयोजनम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-८३/११८) अन्तरङ्गत्वात् अत्र उवङादेशे कृते अनन्त्यत्वात् वृद्धिः न भविष्यति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-८४/११८) यदि तर्हि सिचि अन्तरङ्गम् भवति , अकार्षीत् , अहार्षीत् ॒ गुणे कृते रपरत्वे च अनन्त्यत्वात् वृद्धिः न प्राप्नोति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-८५/११८) मा भूत् एवम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-८६/११८) हलन्तस्य इति एवम् भविष्यति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-८७/११८) इह तर्हि ॒ न्यस्तारीत् , व्यदारीत् ॒ गुणे रपरत्वे च अनन्त्यत्वात् वृद्धिः न प्राप्नोति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-८८/११८) हलन्तलक्षणायाः च न इटि इति प्रतिषेधः ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-८९/११८) मा भूत् एवम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-९०/११८) र्लान्तस्य इति एवम् भविष्यति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-९१/११८) इह तर्हि ॒ अलावीत् अपावीत् ॒ गुणे कृते अवादेशे च अनन्त्यत्वात् वृद्धिः न प्राप्नोति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-९२/११८) हलन्तलक्षणायाः च न इटि इति प्रतिषेधः ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-९३/११८) मा भूत् एवम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-९४/११८) र्लान्तस्य इति एवम् भविष्यति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-९५/११८) र्लान्तस्य इति उच्यते न च इदम् र्लान्तम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-९६/११८) र्लान्तस्य इति अत्र वकारः अपि निर्दिश्यते ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-९७/११८) किम् वकारः न श्रूयते ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-९८/११८) लुप्तनिर्दिष्तः वकारः ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-९९/११८) यदि एवम् मा भवान् मवीत् ॒ अत्र अपि प्राप्नोति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१००/११८) अविमव्योः इति वक्ष्यामि ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१०१/११८) तत् वक्तव्यम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१०२/११८) णिश्विभ्याम् तौ निमातव्यौ ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१०३/११८) यदि अपि एतत् उच्यते अथ वा एतर्हि णिश्व्योः प्रतिषेधः न वक्तव्यः भवति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१०४/११८) गुणे कृते अयादेशे च यान्तानम् न इति प्रतिषेधः भविष्यति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१०५/११८) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सिचि अन्तरङ्गम् भवति इति यत् अयम् अतः हलादेः लघोः इति अकारग्रहणम् करोति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१०६/११८) कथम् कृत्वा ज्ञापकम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१०७/११८) अकारग्रहणस्य एतत् प्रयोजनम् इह मा भूत् ॒ अकोषीत् , अमोषीत् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१०८/११८) यदि सिचि अन्तरङ्गम् स्यात् अकारग्रहणम् अनर्थकम् स्यात् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१०९/११८) गुणे कृते अलघुत्वात् वृद्धिः न भविष्यति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-११०/११८) पश्यति तु आचार्यः न सिचि अन्तरङ्गम् भवति इति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-१११/११८) ततः अकारग्रहणम् करोति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-११२/११८) न एतत् अस्ति ज्ञापकम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-११३/११८) अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-११४/११८) किम् ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-११५/११८) यत्र गुणः प्रतिषिध्यते तदर्थम् एतत् स्यात् ॒ न्यकुटीत् , न्यपुटीत् इति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-११६/११८) यत् तर्हि णिश्व्योः प्रतिषेधम् शास्ति तेन न इह अन्तरङ्गम् अस्ति इति दर्शयति ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-११७/११८) यत् च करोति अकारग्रहणम् लघोः इति कृते अपि ।

(पा-१,१.३.३; अकि-१,४७.१४-४९.२१; रो-१,१५५-१६१; भा-११८/११८) तस्मात् इग्लक्षणा वृद्धिः । तस्मात् इग्लक्षणा वृद्धिः आस्थेया ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-१/२६) षष्ठ्याः स्थानेयोगत्वात् इग्निवृत्तिः । षष्ठ्याः स्थानेयोगत्वात् सर्वेषाम् इकाम् निवृत्तिः प्राप्नोति ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-२/२६) अस्य अपि प्राप्नोति ॒ दधि मधु ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-३/२६) पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-४/२६) अन्यतरार्थम् पुनर्वचनम् ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-५/२६) अन्यतरार्थम् एतत् स्यात् ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-६/२६) सार्वधादुकार्धधातुकयोः गुणः एव इति ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-७/२६) प्रसारणे च ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-८/२६) प्रसारणे च सर्वेषम् यणाम् निवृत्तिः प्राप्नोति ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-९/२६) अस्य अपि प्राप्नोति ॒ याता वाता ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-१०/२६) पुनर्वचनम् इदानीम् किमर्थम् स्यात् ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-११/२६) विषयार्थम् पुनर्वचनम् । विषयार्थम् एतत् स्यात् ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-१२/२६) वचिस्वपियजादीनाम् किति एव इति ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-१३/२६) उः अण् रपरे च ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-१४/२६) उः अण् रपरे च सर्वर्काराणाम् निवृत्तिः प्राप्नोति ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-१५/२६) अस्य अपि प्राप्नोति कर्तृ हर्तृ ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-१६/२६) सिद्धम् तु षष्ठ्यधिकारे वचनात् ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-१७/२६) सिद्धम् एतत् ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-१८/२६) कथम् ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-१९/२६) षष्ठ्यधिकारे इमे योगाः कर्तव्याः ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-२०/२६) एकः तावत् क्रियते तत्र एव ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-२१/२६) इमौ अपि योगौ षष्ठधिकारम् अनुवर्तिष्येते ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-२२/२६) अथ वा षष्ठधिकारे इमौ योगौ अपेक्षिष्यामहे ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-२३/२६) अथ वा इदम् तावद् अयम् प्रष्टव्यः ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-२४/२६) सार्वधातुकार्धधातुकयोः गुणः भवति इति इह कस्मात् न भवति ॒ याता वाता ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-२५/२६) इदम् तत्र अपेक्षिष्यते इकः गुणवृद्धी* इति ।

(पा-१,१.३.४; अकि-१,४९.२४-५०.१६; रो-१,१६१-१६३; भा-२६/२६) यथा एव तर्हि इदम् तत्र अपेक्षिष्यते एवम् इह अपि तद् अपेक्षिष्यामहे सार्वधातुकार्धधातुकयोः इकः गुणवृद्धी* इति.