व्याकरणमहाभाष्य खण्ड 02

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-१/२२) धातुग्रहणम् किमर्थम् ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-२/२२) इह मा भूत्॒ लूञ् लविता लवितुम् पूञ् पविता पवितुम् ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-३/२२) आर्धधातुके इति किमर्थम् ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-४/२२) त्रिधा बद्धः वृषभः रोरवीति ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-५/२२) किम् पुनः इदम् आर्धधातुकग्रहणम् लोपविशेषणम् ॒ आर्धधातुकनिमित्ते लोपे सति ये गुणवृद्धी प्राप्नुतः ते न भवतः इति , आहोस्वित् गुणवृद्धिविशेषणम् आर्धधातुकग्रहणम् ॒ धातुलोपे सति आर्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतः ते न भवतः इति ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-६/२२) किम् च अतः ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-७/२२) यदि लोपविशेषणम् उपेद्धः प्रेद्धः अत्र अपि प्राप्नोति ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-८/२२) अथ गुणवृद्धिविशेषणम् क्नोपयति इति अत्र अपि प्राप्नोति ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-९/२२) यथा इच्छसि तथा अस्तु ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-१०/२२) अस्तु लोपविशेषणम् ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-११/२२) कथम् उपेद्धः प्रेद्धः इति ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-१२/२२) बहिरङ्गः गुणः अन्तरङ्गः प्रतिषेधः ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-१३/२२) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-१४/२२) यदि एवम् न अर्थः धातुग्रहणेन ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-१५/२२) इह कस्मात् न भवति॒ लूञ् लविता लवितुम् ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-१६/२२) आर्धधातुकनिमित्ते लोपे प्रतिषेधः न च एषः आर्धधातुकनिमित्तः लोपः ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-१७/२२) अथ वा पुनः अस्तु गुणवृद्धिविशेषणम् ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-१८/२२) ननु च उक्तम् क्नोपयति इति अत्र अपि प्राप्नोति इति ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-१९/२२) न एषः दोषः ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-२०/२२) निपातनात् सिद्धम् ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-२१/२२) किम् निपातनम् ।

(पा-१,१.४.१; अकि-१,५१.२-१३; रो-१,१६४-१६६; भा-२२/२२) चेले क्नोपेः इति

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-१/४७) परिगणनम् कर्तव्यम् ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-२/४७) यङ्यक्क्यवलोपे प्रतिषेधः ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-३/४७) यङ्यक्क्यवलोपे प्रतिषेधः वक्तव्यः ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-४/४७) यङ्॒ बेभिदिता मरीमृजः ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-५/४७) यक्॒ कुषुभिता मगधकः ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-६/४७) क्य॒ समिधिता दृषदकः ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-७/४७) वलोपे ॒ जीरदानुः ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-८/४७) किम् प्रयोजनम् ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-९/४७) नुम्लोपस्रिव्यनुबन्धलोपे अप्रतिषेधार्थम् ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-१०/४७) नुम्लोपे स्रिव्यनुबन्धलोपे च प्रतिषेधः मा भूत् इति ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-११/४७) नुम्लोपे॒ अभाजि रागः उपबर्हणम् ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-१२/४७) स्रिवेः ॒ आस्रेमाणम् ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-१३/४७) अनुबन्धलोपे ॒ लूञ् लविता लवितुम् ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-१४/४७) यदि परिगणनम् क्रियते स्यदः, प्रश्रथः, हिमश्रथः इति अत्र अपि प्राप्नोति ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-१५/४७) वक्ष्यति एतत् निपातनात् स्यदादिषु इति ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-१६/४७) तत् तर्हि परिगणनम् कर्तव्यम् ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-१७/४७) न कर्तव्यम् ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-१८/४७) नुम्लोपे कस्मात् न भवति ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-१९/४७) इक्प्रकरणात् नुम्लोपे वृद्धिः ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-२०/४७) इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-२१/४७) यदि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः स्यदः, प्रश्रथः, हिमश्रथः इति अत्र न प्राप्नोति ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-२२/४७) इह च प्राप्नोति॒ अवोदः, एधः, ओद्मः इति ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-२३/४७) निपातनात् स्यदादिषु । निपातनात् स्यदादिषु प्रतिषेधः भविष्यति न च भविष्यति ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-२४/४७) यदि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः स्रिव्यनुबन्धलोपे कथम् स्रिवेः आस्रेमाणम् लूञ् लविता ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-२५/४७) प्रत्ययाश्रयत्वात् अन्यत्र सिद्धम् ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-२६/४७) आर्धधातुकनिमित्ते लोपे प्रतिषेधः न च एषः आर्धधातुकनिमित्तः लोपः ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-२७/४७) यदि आर्धधातुकनिमित्ते लोपे प्रतिषेधः जीरदानुः अत्र न प्राप्नोति ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-२८/४७) रकि ज्यः प्रसारणम् । न एतत् जीवेः रूपम् ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-२९/४७) रकि एतत् ज्यः प्रसारणम् ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-३०/४७) यावता च इदानीम् रकि जीवेः अपि सिद्धम् भवति ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-३१/४७) कथम् उपबर्हणम् ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-३२/४७) बृहिः प्रकृत्यन्तरम् ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-३३/४७) कथम् ज्ञायते बृहिः प्रकृत्यन्तरम् इति ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-३४/४७) अचि इति हि लोपः उच्यते अनजादौ अपि दृश्यते॒ निबृह्यते ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-३५/४७) अनिटि इति च उच्यते ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-३६/४७) इडादौ अपि दृश्यते॒ निबर्हिता निबर्हितुम् इति ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-३७/४७) अजादौ अपि न दृश्यते॒ बृंहयति बृंहकः ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-३८/४७) तस्मात् न अर्थः परिगणनेन ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-३९/४७) यदि परिगणनम् न क्रियते भेद्यते छेद्यते अत्र अपि प्राप्नोति ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-४०/४७) न एषः दोषः ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-४१/४७) धातुलोपे इति न एवम् विज्ञायते॒ धातोः लोपः धातुलोपः, धातुलोपे इति ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-४२/४७) कथम् तर्हि ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-४३/४७) धातोः लोपः अस्मिन् तत् इदम् धातुलोपम्, धातुलोपे इति ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-४४/४७) तस्मात् इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-४५/४७) यदि तर्हि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः पापचकः, पापठकः, मगधकः, दृषदकः अत्र न प्राप्नोति ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-४६/४७) अल्लोपस्य स्थानिवत्वात् ।

(पा-१,१.४.२; अकि-१,५१.१४-५२.२०; रो-१,१६६-१६९; भा-४७/४७) अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-१/४१) अनारम्भः वा ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-२/४१) अनारम्भः वा पुनः अस्य योगस्य न्याय्यः ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-३/४१) कथम् बेभिदिता, मरीमृजकः, कुषुभिता समिधिता इति ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-४/४१) अत्र अपि अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-५/४१) यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-६/४१) क्व च स्थानिवद्भावः न अस्ति ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-७/४१) यत्र हलचोः आदेशः॒ लोलुवः पोपुवः मरीमृजः सरीसृपः इति ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-८/४१) अत्र अपि अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-९/४१) लुकि कृते न प्राप्नोति ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-१०/४१) इदम् इह सम्प्रधार्यम्॒ लुक् क्रियताम् अल्लोपः इति किम् अत्र कर्तव्यम् ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-११/४१) परत्वात् अल्लोपः ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-१२/४१) नित्यः लुक् ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-१३/४१) कृते अपि अल्लोपे प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-१४/४१) लुक् अपि अनित्यः ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-१५/४१) कथम् ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-१६/४१) अन्यस्य कृते अल्लोपे प्राप्नोति अन्यस्य अकृते ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-१७/४१) शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-१८/४१) अनवकाशः तर्हि लुक्. सावकाशः लुक् ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-१९/४१) कः अवकाशः ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-२०/४१) अवशिष्टः ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-२१/४१) अथम् कथम् चित् अनवकाशः लुक् स्यात् एवम् अपि न दोषः ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-२२/४१) अल्लोपे योगविभागः करिष्यते ॒ अतः लोपः ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-२३/४१) ततः यस्य ॒ यस्य च लोपः भवति ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-२४/४१) अतः इति एव ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-२५/४१) किमर्थम् इदम् ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-२६/४१) लुकम् वक्ष्यति तद्बाधनार्थम् ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-२७/४१) ततो हलः ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-२८/४१) हलः उत्तरस्य च यस्य लोपः भवति इति ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-२९/४१) इह अपि परत्वात् योगविभागात् व लोपः लुकम् बाधेत॒ कृष्णः नोनाव वृषभः यदि इदम् ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-३०/४१) नोनूयतेः नोनाव ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-३१/४१) समानाश्रयः लुक् लोपेन बाध्यते ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-३२/४१) कः च समानाश्रयः ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-३३/४१) यः प्रत्ययाश्रयः ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-३४/४१) अत्र च प्राक् एव प्रत्ययोत्पत्तेः लुक् भवति ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-३५/४१) कथम् स्यदः, प्रश्रथः, हिमश्रथः, जीरदानुः, निकुचितः इति ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-३६/४१) उक्तम् शेषे ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-३७/४१) किम् उक्तम् ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-३८/४१) निपातनात् स्यदादिषु ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-३९/४१) प्रत्ययाश्रत्वात् अन्यत्र सिद्धम् ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-४०/४१) रकि ज्यः प्रसारणम् इति ।

(पा-१,१.४.३; अकि-१,५२.२१-५३.१५; रो-१,१६९-१७१; भा-४१/४१) निकुचिते अपि उक्तम् सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-१/३४) क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-२/३४) क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् कर्तव्यम् ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-३/३४) क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतः ते न भवतः इति वक्तव्यम् ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-४/३४) किम् प्रयोजनम् ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-५/३४) उपधारोरवीत्यर्थम् । उपधार्थम् रोरवीत्यर्थम् च ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-६/३४) उपधार्थम् तावत् ॒ भिन्नः , भिन्नवान् इति ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-७/३४) किम् पुनः कारणम् न सिध्यति ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-८/३४) क्ङिति इति उच्यते ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-९/३४) तेन यत्र क्ङिति अनन्तरः गुणभावी अस्ति तत्र एव स्यात्॒ चितम् स्तुतम् ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-१०/३४) इह तु न स्यात्॒ भिन्नः , भिन्नवान् इति ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-११/३४) ननु च यस्य गुणः उच्यते तत् क्ङित्परत्वेन विशेषयिष्यामः ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-१२/३४) पुगन्तलघूपधस्य च गुणः उच्यते तत् च अत्र क्ङित्परम् ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-१३/३४) पुगन्तलघूपधस्य इति न एवम् विज्ञायते ॒ पुगन्तस्य अङ्गस्य लघूपधस्य च इति ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-१४/३४) कथम् तर्हि ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-१५/३४) पुकि अन्तः पुगन्तः , लघ्वी उपधा लघूपधा , पुगन्तः च लघूपधा च पुगन्तलघूपधम् , पुगन्तलघूपधस्य इति ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-१६/३४) अवश्यम् च एतत् एवम् विज्ञेयम् ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-१७/३४) अङ्गविशेषणे हि सति इह प्रसज्येत ॒ भिनत्ति छिनत्ति इति ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-१८/३४) रोरवीत्यर्थम् च ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-१९/३४) त्रिधा बद्धः वृषभः रोरवीति इति ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-२०/३४) यदि तन्निमित्तग्रहणम् क्रियते शचङन्ते दोषः ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-२१/३४) रियति पियति धियति ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-२२/३४) प्रादुद्रुवत् प्रासुस्रुवत् ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-२३/३४) अत्र प्राप्नोति ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-२४/३४) शचङन्तस्य अन्तरङ्गलक्षणत्वात् ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-२५/३४) अन्तरङ्गलक्षणत्वात् अत्र इयङुवङोः कृतयोः अनुपधात्वात् गुणः न भविष्यति ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-२६/३४) एवम् क्रियते च इदम् तन्निमित्तग्रहणम् न च कः चित् दोषः भवति ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-२७/३४) इमानि च भूयः तन्निमित्तग्रहणस्य प्रयोजनानि ॒ हतः , हथः , उपोयते , औयत , लौयमानिः , पौयमानिः , नेनिक्ते इति ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-२८/३४) न एतानि सन्ति प्रयोजनानि ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-२९/३४) इह तावत् हतः , हथः इति ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-३०/३४) प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् अत्र च धातूपदेशावस्थायाम् एव अकारः ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-३१/३४) इह च उपोयते , औयत , लौयमानिः , पौयमानिः इति ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-३२/३४) बहिरङ्गे गुणवृद्धी अन्तरङ्गः प्रतिषेधः ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-३३/३४) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-१,१.५.१; अकि-१,५३.१७-५४.१३; रो-१,१७१-१७४; भा-३४/३४) नेनिक्ते इति परेण रूपेण व्यवहितत्वात् न भविष्यति ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-१/४२) उपधार्थेन तावत् न अर्थः ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-२/४२) धातोः इति वर्तते ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-३/४२) धातुम् क्ङित्परत्वेन विशेषयिष्यामः ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-४/४२) यदि धातुः विशेष्यते विकरणस्य न प्राप्नोति ॒ चिनुतः , सुनुतः , लुनीतः , पुनीतः इति ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-५/४२) न एषः दोषः ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-६/४२) विहितविशेषणम् धातुग्रहणम् ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-७/४२) धातोः यः विहितः इति ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-८/४२) धातोः एव तर्हि न प्राप्नोति ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-९/४२) न एवम् विज्ञायते धातोः विहितस्य क्ङिति इति ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-१०/४२) कथम् तर्हि ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-११/४२) धातोः विहिते क्ङिति इति ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-१२/४२) अथ वा कार्यकालम् हि सञ्ज्ञापरिभाषम् ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-१३/४२) यत्र कार्यम् तत्र द्रष्टव्यम् ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-१४/४२) पुगन्तलघूपधस्य गुणः भवति इति उपस्थितम् इदम् भवति क्ङिति न इति ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-१५/४२) अथ वा यत् एतस्मिन् योगे क्ङिद्ग्रहणम् तद् अनवकाशम् ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-१६/४२) तस्य अनवकाशत्वात् गुणवृद्धी न भविष्यतः ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-१७/४२) अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति उपधालक्षणस्य गुणस्य प्रतिषेधः इति यत् अयम् त्रसिगृधिधृषिक्षिपेः क्नुः इकः झल् हलन्तात् च इति क्नुसनौ कितौ करोति ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-१८/४२) कथम् कृत्वा ज्ञापकम् ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-१९/४२) कित्करणे एतत् प्रयोजनम् गुणः कथम् न स्यात् इति ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-२०/४२) यदि च अत्र गुणप्रतिषेधः न स्यात् कित्करणम् अनर्थकम् स्यात् ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-२१/४२) पश्यति तु आचार्यः भवति उपधालक्षणस्य गुणस्य प्रतिषेधः इति ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-२२/४२) ततः क्नुसनौ कितौ करोति ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-२३/४२) रोरवीत्यर्थेन अपि न अर्थः ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-२४/४२) क्ङिति इति उच्यते ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-२५/४२) न च अत्र क्ङितम् पश्यामः ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-२६/४२) प्रत्ययलक्षणेन प्राप्नोति ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-२७/४२) न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-२८/४२) अथ अपि न लुमता अङ्गस्य इति उच्यते एवम् अपि न दोषः ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-२९/४२) कथम् ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-३०/४२) न लुमता लुप्ते अङ्गाधिकारः प्रतिनिर्दिश्यते ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-३१/४२) किम् तर्हि ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-३२/४२) यः असौ लुमता लुप्यते तस्मिन् यत् अङ्गम् तस्य यत् कार्यम् तत् न भवति इति ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-३३/४२) अथ अपि आङ्गाधिकारः प्रतिनिर्दिश्यते एवम् अपि न दोषः ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-३४/४२) कथम् ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-३५/४२) कार्यकालम् हि सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-३६/४२) सार्वधातुकार्धधातुकयोः गुणः भवति इति उपस्थितम् इदम् भवति क्ङिति न इति ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-३७/४२) अथ वा छान्दसम् एतत् ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-३८/४२) दृष्टानुविधिः च छन्दसि भवति ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-३९/४२) अथ वा बहिरङ्गः गुणः अन्तरङ्गः प्रतिषेधः ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-४०/४२) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-४१/४२) अथ वा पूर्वस्मिन् योगे यद् आर्धधातुकग्रहणम् तत् अनवकाशम् ।

(पा-१,१.५.२; अकि-१,५४.१३-५५.५; रो-१,१७५-१७७; भा-४२/४२) तस्य अनवकाशत्वात् गुणः भविष्यति ।

(पा-१,१.५.३; अकि-१,५५.६-१८; रो-१,१७७-१८०; भा-१/१४) इह कस्मात् न भवति ॒ लैगवायनः , कामयते ।

(पा-१,१.५.३; अकि-१,५५.६-१८; रो-१,१७७-१८०; भा-२/१४) तद्धितकाम्योः इक्प्रकरणात् ।

(पा-१,१.५.३; अकि-१,५५.६-१८; रो-१,१७७-१८०; भा-३/१४) इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एते इग्लक्षणे ।

(पा-१,१.५.३; अकि-१,५५.६-१८; रो-१,१७७-१८०; भा-४/१४) लकारस्य ङित्त्वात् आदेशेषु स्थानिवद्भावप्रसङ्गः ।

(पा-१,१.५.३; अकि-१,५५.६-१८; रो-१,१७७-१८०; भा-५/१४) लकारस्य ङित्त्वात् आदेशेषु स्थानिवद्भावः प्राप्नोति ॒ अचिनवम् असुनवम् अकरवम् ।

(पा-१,१.५.३; अकि-१,५५.६-१८; रो-१,१७७-१८०; भा-६/१४) लकारस्य ङित्त्वात् आदेशेषु स्थानिवद्भावप्रसङ्गः इति चेत् यासुटः ङिद्वचनात् सिद्धम् । यत् अयम् यासुटः ङिद्वचनम् शास्ति तत् ज्ञापयति आचार्यः न ङिदादेशाः ङितः भवन्ति इति ।

(पा-१,१.५.३; अकि-१,५५.६-१८; रो-१,१७७-१८०; भा-७/१४) यदि एतत् ज्ञाप्यते कथम् नित्यम् ङितः इतः च इति ।

(पा-१,१.५.३; अकि-१,५५.६-१८; रो-१,१७७-१८०; भा-८/१४) ङितः यत् कार्यम् तत् भवति ङिति यत् कार्यम् तत् न भवति इति ।

(पा-१,१.५.३; अकि-१,५५.६-१८; रो-१,१७७-१८०; भा-९/१४) किम् वक्तव्यम् एतत् ।

(पा-१,१.५.३; अकि-१,५५.६-१८; रो-१,१७७-१८०; भा-१०/१४) न हि ।

(पा-१,१.५.३; अकि-१,५५.६-१८; रो-१,१७७-१८०; भा-११/१४) कथम् अनुच्यमानम् गंस्यते ।

(पा-१,१.५.३; अकि-१,५५.६-१८; रो-१,१७७-१८०; भा-१२/१४) यासुटः एव ङिद्वचनात् ।

(पा-१,१.५.३; अकि-१,५५.६-१८; रो-१,१७७-१८०; भा-१३/१४) अपर्याप्तः च एव हि यासुट् समुदायस्य ङित्त्वे ङितम् च एनम् करोति ।

(पा-१,१.५.३; अकि-१,५५.६-१८; रो-१,१७७-१८०; भा-१४/१४) तस्य एतत् प्रयोजनम् ङितः यत् कार्यम् तत् यथा स्यात् ङिति यत् कार्यम् तत् मा भूत् इति ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-१/४०) किमर्थम् इदम् उद्यते ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-२/४०) गुणवृद्धी मा भूताम् इति ॒ आदीध्यनम् आदीध्यकः , आवेव्यनम् आवेव्यकः इति ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-३/४०) अयम् योगः शक्यः अकर्तुम् ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-४/४०) कथम् ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-५/४०) दीधीवेव्योः छन्दोविषयत्वात् दृष्टानुविधित्वात् च छन्दसः अदीधेत् अदीधयुः इति च गुणदर्शनात् अप्रतिषेधः ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-६/४०) दीधीवेव्योः छन्दोविषयत्वात् ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-७/४०) दीधीवेव्यौ छन्दोविषयौ ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-८/४०) दृष्टानुविधित्वात् च छन्दसः ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-९/४०) दृष्टानुविधिः च छन्दसि भवति ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-१०/४०) अदीधेत् , अदीधयुः इति च गुणदर्शनात् अप्रतिषेधः ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-११/४०) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-१२/४०) प्रजपतिः वै यत् किम् चन मनसा अदीधेत् ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-१३/४०) होत्रय वृतः कृपयन् अदीधेत् ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-१४/४०) अदीधयुः दाशराज्ञे वृतसः ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-१५/४०) भवेत् इदम् युक्तम् उदाहरणम् ॒ अदीधेत् इति ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-१६/४०) इदम् तु अयुक्तम् ॒ अदीधयुः इति ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-१७/४०) अयम् जुसि गुणः प्रतिषेधविषये [प्रतिषेधविषयः] आरभ्यते ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-१८/४०) सः यथा एव क्ङिति न इति एतम् प्रतिषेधम् बाधते एवम् इमम् अपि बाधते ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-१९/४०) न एषः दोषः ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-२०/४०) जुसि गुणः प्रतिषेधविषये आरभ्यमाणः तुल्यजातीयम् प्रतिषेधम् बाधते ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-२१/४०) कः च तुल्यजातीयः प्रतिषेधः ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-२२/४०) यः प्रत्ययाश्रयः ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-२३/४०) प्रकृत्याश्रयः च अयम् ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-२४/४०) अथ वा येन न अप्राप्ते तस्य बाधनम् भवति ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-२५/४०) न च अप्राप्ते क्ङिति न इति एतस्मिन् प्रतिषेधे जुसि गुणः आरभ्यते ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-२६/४०) अस्मिन् पुनः प्राप्ते च अप्राप्ते च ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-२७/४०) यदि तर्हि अयम् योगः न आरभ्यते कथम् दीध्यत् इति ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-२८/४०) दीध्यत् इति श्यन्व्यत्ययेन ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-२९/४०) दीध्यत् इति श्यन् एषः व्यत्ययेन भविष्यति ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-३०/४०) इटः च अपि ग्रहणम् शक्यम् अकर्तुम् ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-३१/४०) कथम् अकणिषम् अरणिषम् , कणिता श्वः , रणिता श्वः इति ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-३२/४०) आर्धधातुकस्य इट् वलादेः इति अत्र इट् इति वर्तमाने पुनः इड्ग्रहणस्य प्रयोजनम् इट् एव यथा स्यात् यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-३३/४०) किम् च अन्यत् प्राप्नोति ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-३४/४०) गुणः ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-३५/४०) यदि नियमः क्रियते पिपठिषतेः अप्रत्ययः पिपट्ःीः ॒ दीर्घत्वम् न प्राप्नोति ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-३६/४०) न एषः दोषः ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-३७/४०) आङ्गम् यत् कार्यम् तत् नियम्यते ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-३८/४०) न च एतत् आङ्गम् ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-३९/४०) अथ वा असिद्धम् दीर्घत्वम् ।

(पा-१,१.६; अकि-१,५५.२०-५६.१६; रो-१,१८०-१८२; भा-४०/४०) तस्य असिद्धत्वात् नियमः न भविष्यति

(पा-१,१.७.१; अकि-१,५६.१८-२३; रो-१,१८२-१८३; भा-१/१०) अनन्तराः इति कथम् इदम् विज्ञायते ॒ अविद्यमानम् अन्तरम् एषाम् इति आहोस्वित् अविद्यमानाः अन्तरा एषाम् इति ।

(पा-१,१.७.१; अकि-१,५६.१८-२३; रो-१,१८२-१८३; भा-२/१०) किम् च अतः ।

(पा-१,१.७.१; अकि-१,५६.१८-२३; रो-१,१८२-१८३; भा-३/१०) यदि विज्ञायते अविद्यमानम् अन्तरम् एषाम् इति अवग्रहे संयोगसञ्ज्ञा न प्राप्नोति अप्सु इति अप्-सु इति ।

(पा-१,१.७.१; अकि-१,५६.१८-२३; रो-१,१८२-१८३; भा-४/१०) विद्यते हि अत्र अन्तरम् ।

(पा-१,१.७.१; अकि-१,५६.१८-२३; रो-१,१८२-१८३; भा-५/१०) अथ विज्ञायते अविद्यमानाः अन्तरा एषाम् इति न दोषः भवति ।

(पा-१,१.७.१; अकि-१,५६.१८-२३; रो-१,१८२-१८३; भा-६/१०) यथा न दोषः तथा अस्तु ।

(पा-१,१.७.१; अकि-१,५६.१८-२३; रो-१,१८२-१८३; भा-७/१०) अथ वा पुनः अस्तु अविद्यमानम् अन्तरम् एषाम् इति ।

(पा-१,१.७.१; अकि-१,५६.१८-२३; रो-१,१८२-१८३; भा-८/१०) ननु च उक्तम् अवग्रहे संयोगसञ्ज्ञा न प्राप्नोति अप्-सु इति अप्सु इति ।

(पा-१,१.७.१; अकि-१,५६.१८-२३; रो-१,१८२-१८३; भा-९/१०) विद्यते हि अत्र अन्तरम् इति ।

(पा-१,१.७.१; अकि-१,५६.१८-२३; रो-१,१८२-१८३; भा-१०/१०) न एव दोषः न प्रयोजनम् ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-१/४५) संयोगसञ्ज्ञायाम् सहवचनम् यथा अन्यत्र ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-२/४५) संयोगसञ्ज्ञायाम् सहवचनम् कर्तव्यम् ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-३/४५) हलः अनन्तराः संयोगः सह इति वक्तव्यम् ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-४/४५) किम् प्रयोजनम् ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-५/४५) सहभूतानाम् संयोगसञ्ज्ञा यथा स्यात् एकैकस्य मा भूत् इति ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-६/४५) यथा अन्यत्र ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-७/४५) तत् यथा अन्यत्र अपि यत्र इच्छति सहबूतानाम् कार्यम् करोति तत्र सहग्रहणम् ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-८/४५) तत् यथा ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-९/४५) सह सुपा ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-१०/४५) उभे अभ्यस्तम् सह इति ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-११/४५) किम् च स्यात् यदि एकैकस्य हलः संयोगसञ्ज्ञा स्यात् ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-१२/४५) इह निर्यायात् , निर्वायात् , वा अन्यस्य संयोगादेः इति एत्त्वम् प्रसज्येत ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-१३/४५) इह च संहृषीष्ट इति ऋतः च संयोगादेः इति इट् प्रसज्येत ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-१४/४५) इह च संह्रियते इति गुणः अर्तिसंयोगाद्योः इति गुणः प्रसज्येत ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-१५/४५) इह च दृषत् करोति समित् करोति इति संयोगान्तस्य लोपः प्रसज्येत ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-१६/४५) इह च शक्ता वस्ता इति स्कोः संयोगाद्योः इति लोपः प्रसज्येत ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-१७/४५) इह च निर्यातः , निर्वातः संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् प्रसज्येत ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-१८/४५) न एषः दोषः ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-१९/४५) यत् तावत् उच्यते इह तावत् निर्यायात् , निर्वायात् वा अन्यस्य संयोगादेः इति एत्त्वम् प्रसज्येत इति ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-२०/४५) न एवम् विज्ञायते संयोगः आदिः यस्य सः अयम् संयोगादिः , संयोगादेः इति ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-२१/४५) कथम् तर्हि ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-२२/४५) संयोगौ आदी यस्य सः अयम् संयोगादिः , संयोगादेः इति ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-२३/४५) एवम् तावत् सर्वम् आङ्गम् परिहृतम् ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-२४/४५) यत् अपि उच्यते इह च दृषत् करोति समित् करोति इति संयोगान्तस्य लोपः प्रसज्येत इति ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-२५/४५) न एवम् विज्ञायते संयोगः अन्तः यस्य तत् इदम् संयोगान्तम् , संयोगान्तस्य इति ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-२६/४५) कथम् तर्हि ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-२७/४५) संयोगौ अन्तौ अस्य तद् इदम् संयोगान्तम् , संयोगान्तस्य इति ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-२८/४५) यत् अपि उच्यते इह च शक्ता वस्ता इति स्कोः संयोगाद्योः इति लोपः प्रसज्येत इति ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-२९/४५) न एवम् विज्ञायते संयोगौ आदी संयोदादी संयोगाद्योः इति ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-३०/४५) कथम् तर्हि ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-३१/४५) संयोगयोः आदी संयोगादी संयोगाद्योः इति ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-३२/४५) यत् अपि उच्यते इह च निर्यातः , निर्वातः संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् प्रसज्येत इति ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-३३/४५) न एवम् विज्ञायते संयोगः आदिः यस्य सः अयम् संयोगादिः , संयोगादेः इति ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-३४/४५) कथम् तर्हि ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-३५/४५) संयोगौ आदी यस्य सः अयम् संयोगादिः , संयोगादेः इति ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-३६/४५) कथम् कृत्वा एकैकस्य संयोगसञ्ज्ञा प्राप्नोति ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-३७/४५) प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-३८/४५) तत् यथा ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-३९/४५) वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-४०/४५) ननु च अयम् अपि अस्ति दृष्टान्तः ॒ समुदाये वाक्यपरिसमाप्तिः इति ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-४१/४५) तत् यथा ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-४२/४५) गर्गाः शतम् दण्ड्यन्ताम् इति ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-४३/४५) अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-४४/४५) सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् ।

(पा-१,१.७.२; अकि-१,५६.२४-५७.२६; रो-१,१८३-१८६; भा-४५/४५) अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् वृद्धिगुणसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-१/४३) अथ यत्र बहूनाम् आनन्तर्यम् किम् तत्र द्वयोः द्वयोः संयोगस्ञ्ज्ञा भवति आहोस्वित् अविशेषेण ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-२/४३) कः च अत्र विशेषः ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-३/४३) समुदाये संयोगादिलोपः मस्जेः ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-४/४३) समुदाये संयोगादिलोपः मस्जेः न सिध्यति ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-५/४३) मङ्क्ता मङ्क्तुम् ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-६/४३) इह च निर्ग्लेयात् , निर्ग्लायात् , निर्म्लेयात् , निर्म्लायात् ॒ वा अन्यस्य संयोगादेः इति एत्त्वम् न प्राप्नोति ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-७/४३) इह च संस्वरिषीष्ट इति ऋतः च संयोगादेः इति इट् न प्राप्नोति ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-८/४३) इह च संस्वर्यते इति गुणः अर्तिसंयोगाद्योः इति गुणः न प्राप्नोति ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-९/४३) इह च गोमान् करोति यवमान् करोति इति संयोगान्तस्य लोपः इति लोपः न प्राप्नोति ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-१०/४३) इह च निर्ग्लानः , निर्म्लानः इति संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् न प्राप्नोति ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-११/४३) अस्तु तर्हि द्वयोः द्वयोः ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-१२/४३) द्वयोः हलोः संयोगः इति चेत् द्विर्वचनम् । द्वयोः हलोः संयोगः इति चेत् द्विर्वचनम् न सिध्यति ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-१३/४३) इन्द्रम् इच्छति इन्द्रीयति ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-१४/४३) इन्द्रीयतेः सन् ॒ इन्दिद्रीयिषति ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-१५/४३) न न्द्राः संयोगादयः इति दकारस्य द्विर्वचनम् न प्राप्नोति ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-१६/४३) न वा अज्विधेः ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-१७/४३) न वा एषः दोषः ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-१८/४३) किम् कारणम् ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-१९/४३) अज्विधेः ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-२०/४३) न्द्राः संयोगादयः न द्विः उच्यन्ते ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-२१/४३) अजादेः इति वर्तते ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-२२/४३) अथ यदि एव बहूनाम् संयोगस्ञ्ज्ञा अथ अपि द्वयोः द्वयोः किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-२३/४३) गतम् इति आह ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-२४/४३) कथम् ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-२५/४३) यद तावत् बहूनाम् संयोगस्ञ्ज्ञा तदा एवम् विग्रहः करिष्यते ॒ अविद्यमानम् अन्तरम् एषाम् इति ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-२६/४३) यदा द्वयोः द्वयोः तदा एवम् विग्रहः करिष्यते ॒ अविद्यमानाः अन्तरा एषाम् इति ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-२७/४३) द्वयोः च एव अन्तरा कः चित् विद्यते न वा ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-२८/४३) एवम् अपि बहूनाम् एव प्राप्नोति ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-२९/४३) यान् हि भवान् षष्ठ्या प्रतिनिर्दिशति एतेषाम् अन्येन व्यवाये न भवितव्यम् ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-३०/४३) अस्तु तर्हि समुदाये सञ्ज्ञा ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-३१/४३) ननु च उक्तम् समुदाये संयोगादिलोपः मस्जेः इति ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-३२/४३) न एषः दोषः ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-३३/४३) वक्ष्यति एतत् ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-३४/४३) अन्त्यात् पूर्वः मस्जेः मित् अनुषङ्गसंयोगादिलोपार्थम् इति ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-३५/४३) अथ वा अविशेषेण संयोगसञ्ज्ञा विज्ञास्यते द्वयोः अपि बहूनाम् अपि ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-३६/४३) तत्र द्वयोः या संयोगस्ञ्ज्ञा तदाश्रयः लोपः भविष्यति ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-३७/४३) यत् अपि उच्यते इह च निर्ग्लेयात् , निर्ग्लायात् , निर्म्लेयात् , निर्म्लायात् ॒ वा अन्यस्य संयोगादेः इति एत्त्वम् न प्राप्नोति इति अङ्गेन संयोगादिम् विशेषयिष्यामः ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-३८/४३) अङ्गस्य संयोगादेः इति ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-३९/४३) एवम् तावत् सर्वम् आङ्गम् परिहृतम् ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-४०/४३) यत् अपि उच्यते इह च गोमान् करोति यवमान् करोति इति संयोगान्तस्य लोपः इति लोपः न प्राप्नोति इति पदेन संयोगान्तम् विशेषयिष्यामः ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-४१/४३) पदस्य संयोगान्तस्य ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-४२/४३) यत् अपि उच्यते इह च निर्ग्लानः , निर्म्लानः इति संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् न प्राप्नोति इति धातुन संयोगादिम् विशेषयिष्यामः ।

(पा-१,१.७.३; अकि-१,५७.२७-५९.२; रो-१,१८६-१९०; भा-४३/४३) धातोः संयोगादेः इति

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-१/४२) स्वरानन्तर्हितवचनम् ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-२/४२) स्वरैः अनन्तर्हिताः हलः संयोगसञ्ज्ञाः भवन्ति इति वक्तव्यम् ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-३/४२) किम् प्रयोजनम् ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-४/४२) व्यवहितानाम् मा भूत् ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-५/४२) पचति पनसम् ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-६/४२) ननु च अनन्तराः इति उच्यते ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-७/४२) तेन व्यवहितानाम् न भविष्यति ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-८/४२) दृष्टम् आनन्तर्यम् व्यवहिते ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-९/४२) व्यवहिते अपि अनन्तरशब्दः दृश्यते ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-१०/४२) तत् यथा ॒ अनन्तरौ इमौ ग्रामौ इति उच्यते ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-११/४२) तयोः च एव अन्तरा नद्यः च पर्वताः च भवन्ति ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-१२/४२) यदि तर्हि व्यवहिते अपि अनन्तरशब्दः भवति आनन्तर्यवचनम् इदानीम् किमर्थम् स्यात् ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-१३/४२) आनन्तर्यवचनम् किमर्थम् इति चेत् एकप्रतिषेधार्थम् ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-१४/४२) एकस्य हलः संयोगसञ्ज्ञा मा भूत् इति ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-१५/४२) किम् च स्यात् यदि एकस्य हलः संयोगसञ्ज्ञा स्यात् ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-१६/४२) इयेष , उवोष ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-१७/४२) इजादेः च गुरुमतः अनृच्छः इति आम् प्रसज्येत ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-१८/४२) न वा अतज्जातीयव्यवायात् ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-१९/४२) न वा एषः दोषः ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-२०/४२) किम् कारणम् ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-२१/४२) अतज्जातीयस्य व्यवायात् ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-२२/४२) अतज्जातीयकम् हि लोके व्यवधायकम् भवति ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-२३/४२) कथम् पुनः ज्ञायते अतज्जातीयकम् लोके व्यवधायकम् भवति इति ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-२४/४२) एवम् हि कम् चित् कः चित् पृच्छति ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-२५/४२) अनन्तरे* एते ब्राह्मणकुले* इति ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-२६/४२) सः आह ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-२७/४२) न अनन्तरे ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-२८/४२) वृषलकुलम् अनयोः अन्तरा इति ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-२९/४२) किम् पुनः कारणम् क्व चित् अतज्जातीयकम् व्यवधायकम् भवति क्व चित् न ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-३०/४२) सर्वत्र एव हि अतज्जातीयकम् व्यवधायकम् भवति ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-३१/४२) कथम् अनन्तरौ इमौ ग्रामौ इति ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-३२/४२) ग्रामशब्दः अयम् बह्वर्थः ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-३३/४२) अस्ति एव शालासमुदाये वर्तते ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-३४/४२) तत् यथा ग्रामः दग्धः इति ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-३५/४२) अस्ति वाटपरिक्षेपे वर्तते ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-३६/४२) तत् यथा ग्रामम् प्रविष्टः ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-३७/४२) अस्ति मनुष्येषु वर्तते ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-३८/४२) तत् यथा ग्रामः गतः , ग्रामः आगतः इति ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-३९/४२) अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-४०/४२) तत् यथा ग्रामः लब्धः इति ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-४१/४२) तत् यः सारण्यके ससीमके सस्थण्डिलके वर्तते तम् अभिसमीक्ष्य एतत् प्रयुज्यते ॒ अनन्तरौ इमौ ग्रामौ इति ।

(पा-१,१.७.४; अकि-१,५९.३-२४; रो-१,१९०-१९२; भा-४२/४२) सर्वत्र एव हि अतज्जातीयकम् व्यवधायकम् भवति ।

(पा-१,१.८.१; अकि-१,५९.२६-६०.५; रो-१,१९२-१९३; भा-१/११) किम् इदम् मुखनासिकावचनः इति ।

(पा-१,१.८.१; अकि-१,५९.२६-६०.५; रो-१,१९२-१९३; भा-२/११) मुखम् च नासिका च मुखनासिकम् ।

(पा-१,१.८.१; अकि-१,५९.२६-६०.५; रो-१,१९२-१९३; भा-३/११) मुखनासिकम् वचनम् अस्य सः अयम् मुखनासिकावचनः ।

(पा-१,१.८.१; अकि-१,५९.२६-६०.५; रो-१,१९२-१९३; भा-४/११) यदि एवम् मुखनासिकवचनः इति प्राप्नोति ।

(पा-१,१.८.१; अकि-१,५९.२६-६०.५; रो-१,१९२-१९३; भा-५/११) निपातनात् दीर्घत्वम् भविष्यति ।

(पा-१,१.८.१; अकि-१,५९.२६-६०.५; रो-१,१९२-१९३; भा-६/११) अथ वा मुखनासिकम् आवचनम् अस्य सः अयम् मुखनासिकावचनः ।

(पा-१,१.८.१; अकि-१,५९.२६-६०.५; रो-१,१९२-१९३; भा-७/११) किम् इदम् आवचनम् इति ।

(पा-१,१.८.१; अकि-१,५९.२६-६०.५; रो-१,१९२-१९३; भा-८/११) ईषद्वचनम् आवचनम् ।

(पा-१,१.८.१; अकि-१,५९.२६-६०.५; रो-१,१९२-१९३; भा-९/११) किम् चित् मुखवचनम् किम् चित् नासिकावचनम् ।

(पा-१,१.८.१; अकि-१,५९.२६-६०.५; रो-१,१९२-१९३; भा-१०/११) मुखद्वितीया वा नासिका वचनम् अस्य सः अयम् मुखनासिकावचनः ।

(पा-१,१.८.१; अकि-१,५९.२६-६०.५; रो-१,१९२-१९३; भा-११/११) मुखोपसंहिता वा नासिका वचनम् अस्य सः अयम् मुखनासिकावचनः ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-१/२०) अथ मुखग्रहणम् किमर्थम् ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-२/२०) नासिकावचनः अनुनासिकः इति इयति उच्यमाने यमानुस्वाराणाम् एव प्रसज्येत ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-३/२०) मुखग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-४/२०) अथ नासिकाग्रहणम् किमर्थम् ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-५/२०) मुखवचनः अनुनासिकः इति इयति उच्यमाने कचटतपानाम् एव प्रसज्येत ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-६/२०) नासिकाग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-७/२०) मुखग्रहणम् शक्यम् अकर्तुम् ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-८/२०) केन इदानीम् उभयवचनानाम् भविष्यति ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-९/२०) प्रासादवासिन्यायेन ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-१०/२०) तत् यथा ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-११/२०) के चित् प्रासादवासिनः के चित् भूमिवासिनः के चित् उभयवासिनः ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-१२/२०) ये प्रासादवासिनः गृह्यन्ते ते प्रासादवासिग्रहणेन ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-१३/२०) ये भूमिवासिनः गृह्यन्ते ते भूमिवासिन्यायेन ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-१४/२०) ये उभयवासिनः गृह्यन्ते ते प्रासादवासिग्रहणेन भूमिवासिन्यायेन च ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-१५/२०) एवम् इह अपि के चित् मुखवचनाः के चित् नासिकावचनाः के चित् उभयवचनाः ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-१६/२०) तत्र ये मुखवचनाः गृह्यन्ते ते मुखग्रहणेन ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-१७/२०) ये नासिकावचनाः गृह्यन्ते ते नासिकाग्रहणेन ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-१८/२०) ये उभयवचनाः गृह्यन्ते एव ते मुखग्रहणेन नासिकाग्रहणेन च. भवेत् उभयवचनानाम् सिद्धम् ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-१९/२०) यमानुस्वाराणाम् अपि प्राप्नोति ।

(पा-१,१.८.२; अकि-१,६०.५-१६; रो-१,१९३-१९४; भा-२०/२०) न एव दोषः न प्रयोजनम् ।

(पा-१,१.८.३; अकि-१,६०.१७-२६; रो-१,१९४-१९५; भा-१/१८) इतरेतराश्रयम् तु भवति ।

(पा-१,१.८.३; अकि-१,६०.१७-२६; रो-१,१९४-१९५; भा-२/१८) का इतरेतराश्रयता ।

(पा-१,१.८.३; अकि-१,६०.१७-२६; रो-१,१९४-१९५; भा-३/१८) सतः अनुनासिकस्य सञ्ज्ञया भवितव्यम् सञ्ज्ञया च नाम अनुनासिकः भाव्यते ।

(पा-१,१.८.३; अकि-१,६०.१७-२६; रो-१,१९४-१९५; भा-४/१८) तत् इतरेतराश्रयम् भवति ।

(पा-१,१.८.३; अकि-१,६०.१७-२६; रो-१,१९४-१९५; भा-५/१८) इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ।

(पा-१,१.८.३; अकि-१,६०.१७-२६; रो-१,१९४-१९५; भा-६/१८) अनुनासिकसञ्ज्ञायाम् इतरेतराश्रये उक्तम् ।

(पा-१,१.८.३; अकि-१,६०.१७-२६; रो-१,१९४-१९५; भा-७/१८) सिद्धम् तु नित्यशब्दत्वात् इति ।

(पा-१,१.८.३; अकि-१,६०.१७-२६; रो-१,१९४-१९५; भा-८/१८) नित्याः शब्दाः ।

(पा-१,१.८.३; अकि-१,६०.१७-२६; रो-१,१९४-१९५; भा-९/१८) नित्येषु शब्देषु सतः अनुनासिकस्य सञ्ज्ञा क्रियते ।

(पा-१,१.८.३; अकि-१,६०.१७-२६; रो-१,१९४-१९५; भा-१०/१८) न सञ्ज्ञया अनुनासिकः भाव्यते ।

(पा-१,१.८.३; अकि-१,६०.१७-२६; रो-१,१९४-१९५; भा-११/१८) यदि तर्हि नित्याः शब्दाः किमर्थम् शास्त्रम् ।

(पा-१,१.८.३; अकि-१,६०.१७-२६; रो-१,१९४-१९५; भा-१२/१८) किमर्थम् शास्त्रम् इति चेत् निवर्तकत्वात् सिद्धम् ।

(पा-१,१.८.३; अकि-१,६०.१७-२६; रो-१,१९४-१९५; भा-१३/१८) निवर्तकम् शास्त्रम् ।

(पा-१,१.८.३; अकि-१,६०.१७-२६; रो-१,१९४-१९५; भा-१४/१८) कथम् ।

(पा-१,१.८.३; अकि-१,६०.१७-२६; रो-१,१९४-१९५; भा-१५/१८) आङ् अस्मै अविशेषेण उपदिष्टः अननुनासिकः ।

(पा-१,१.८.३; अकि-१,६०.१७-२६; रो-१,१९४-१९५; भा-१६/१८) तस्य सर्वत्र अननुनासिकबुद्धिः प्रसक्ता ।

(पा-१,१.८.३; अकि-१,६०.१७-२६; रो-१,१९४-१९५; भा-१७/१८) तत्र अनेन निवृत्तिः क्रियते ।

(पा-१,१.८.३; अकि-१,६०.१७-२६; रो-१,१९४-१९५; भा-१८/१८) छन्दसि अचि परतः आङः अननुनासिकस्य प्रसङ्गे अनुनासिकः साधुः भवति इति ।

(पा-१,१.९.१; अकि-१,६१.२-७; रो-१,१९५-१९७; भा-१/१४) तुलया सम्मितम् तुल्यम् ।

(पा-१,१.९.१; अकि-१,६१.२-७; रो-१,१९५-१९७; भा-२/१४) आस्यम् च प्रयत्नः च आस्यप्रयत्नम् ।

(पा-१,१.९.१; अकि-१,६१.२-७; रो-१,१९५-१९७; भा-३/१४) तुल्यास्यम् तुल्यप्रयत्नम् च सवर्णसञ्ज्ञम् भवति ।

(पा-१,१.९.१; अकि-१,६१.२-७; रो-१,१९५-१९७; भा-४/१४) किम् पुनः आस्यम् ।

(पा-१,१.९.१; अकि-१,६१.२-७; रो-१,१९५-१९७; भा-५/१४) लौकिकम् आस्यम् ओष्ठात् प्रभृति प्राक् काकलकात् ।

(पा-१,१.९.१; अकि-१,६१.२-७; रो-१,१९५-१९७; भा-६/१४) कथम् पुनः आस्यम् ।

(पा-१,१.९.१; अकि-१,६१.२-७; रो-१,१९५-१९७; भा-७/१४) अस्यन्ति अनेन वर्णान् इति आस्यम् ।

(पा-१,१.९.१; अकि-१,६१.२-७; रो-१,१९५-१९७; भा-८/१४) अन्नम् एतत् आस्यन्दते इति वा आस्यम् ।

(पा-१,१.९.१; अकि-१,६१.२-७; रो-१,१९५-१९७; भा-९/१४) अथ कः प्रयत्नः ।

(पा-१,१.९.१; अकि-१,६१.२-७; रो-१,१९५-१९७; भा-१०/१४) प्रयतनम् प्रयत्नः ।

(पा-१,१.९.१; अकि-१,६१.२-७; रो-१,१९५-१९७; भा-११/१४) प्रपूर्वात् यततेः भावसाधनः नङ्प्रत्ययः ।

(पा-१,१.९.१; अकि-१,६१.२-७; रो-१,१९५-१९७; भा-१२/१४) यदि लौकिकम् आस्यम् किम् आस्योपादाने प्रयोजनम् ।

(पा-१,१.९.१; अकि-१,६१.२-७; रो-१,१९५-१९७; भा-१३/१४) सर्वेषाम् हि तत् तुल्यम् भवति ।

(पा-१,१.९.१; अकि-१,६१.२-७; रो-१,१९५-१९७; भा-१४/१४) वक्ष्यति एतत् ॒ प्रयत्नविशेषणम् आस्योपादानम् इति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-१/६९) सवर्णसञ्ज्ञायाम् भिन्नदेशेषु अतिप्रसङ्गः प्रयत्नसामान्यात् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-२/६९) सवर्णसञ्ज्ञायाम् भिन्नदेशेषु अतिप्रसङ्गः भवति जबगडदशाम् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-३/६९) किम् कारणम् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-४/६९) प्रयत्नसामान्यात् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-५/६९) एतेषाम् हि समानः प्रयत्नः ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-६/६९) सिद्धम् तु आस्ये तुल्यदेशप्रयत्नम् सवर्णम् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-७/६९) सिद्धम् एतत्. कथम् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-८/६९) आस्ये येषाम् तुल्यः देशः यत्नः च ते सवर्णसञ्ज्ञाः भवन्ति इति वक्तव्यम् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-९/६९) एवम् अपि किम् आस्योपादाने प्रयोजनम् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-१०/६९) सर्वेषाम् हि तत् तुल्यम् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-११/६९) प्रयत्नविशेषणम् आस्योपादानम् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-१२/६९) सन्ति हि आस्यात् बाह्याः प्रयत्नाः ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-१३/६९) ते हापिताः भवन्ति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-१४/६९) तेषु सत्सु असत्सु अपि सवर्णसञ्ज्ञा सिध्यति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-१५/६९) के पुनः ते ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-१६/६९) विवारसंवारौ श्वासनादौ घोषवदघोषता अल्पप्राणता महाप्राणता इति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-१७/६९) तत्र वर्गाणाम् प्रथमद्वितीयाः विवृतकण्ठाः श्वासानुप्रदानाः अघोषाः ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-१८/६९) एके अल्पप्राणाः अपरे महाप्राणाः ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-१९/६९) तृतीयचतुर्थाः संवृतकण्ठाः नादानुप्रदानाः घोषवन्तः ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-२०/६९) एके अल्पप्राणाः अपरे महाप्राणाः ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-२१/६९) यथा तृतीयाः तथा पञ्चमाः आनुनासिक्यवर्जम् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-२२/६९) आनुनासिक्यम् तेषाम् अधिकः गुणः ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-२३/६९) एवम् अपि अवर्णस्य सवर्णसञ्ज्ञा न प्राप्नोति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-२४/६९) किम् कारणम् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-२५/६९) बाह्यम् हि आस्यात् स्थानम् अवर्णस्य ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-२६/६९) सर्वमुखस्थानम् अवर्णम् एके इच्छन्ति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-२७/६९) एवम् अपि व्यपदेशः न प्रकल्पते ॒ आस्ये येषाम् तुल्यः देशः इति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-२८/६९) व्यपदेशिवद्भावेन व्यपदेशः भविष्यति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-२९/६९) सिध्यति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-३०/६९) सूत्रम् तर्हि भिद्यते ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-३१/६९) यथान्यासम् एव अस्तु ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-३२/६९) ननु च उक्तम् सवर्णसञ्ज्ञयाम् भिन्नदेशेषु अतिप्रसङ्गः प्रयत्नसामान्यात् इति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-३३/६९) न एषः दोषः ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-३४/६९) न हि लौकिकम् आस्यम् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-३५/६९) किम् तर्हि ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-३६/६९) तद्धितान्तम् आस्यम् ॒ आस्ये भवम् आस्यम् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-३७/६९) शरीरावयवात् यत् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-३८/६९) किम् पुनः आस्ये भवम् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-३९/६९) स्थानम् करणम् च ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-४०/६९) एवम् अपि प्रयत्नः अविशेषितः भवति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-४१/६९) प्रयत्नः च विशेषितः ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-४२/६९) कथम् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-४३/६९) न हि प्रयतनम् प्रयत्नः ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-४४/६९) किम् तर्हि ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-४५/६९) प्रारम्भः यत्नस्य प्रयत्नः ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-४६/६९) यदि प्रारम्भः यत्नस्य प्रयत्नः एवम् अपि अवर्णस्य एङोः च सवर्णसञ्ज्ञा प्राप्नोति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-४७/६९) प्रश्लिष्टवर्णौ एतौ ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-४८/६९) अवर्णस्य तर्हि ऐचोः च सवर्णसञ्ज्ञा प्राप्नोति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-४९/६९) विवृततरावर्णौ एतौ ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-५०/६९) एतयोः एव तर्हि मिथः सवर्णसञ्ज्ञा प्राप्नोति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-५१/६९) न एतौ तुल्यस्थानौ ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-५२/६९) उदात्तादीनाम् तर्हि सवर्णसञ्ज्ञा न प्राप्नोति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-५३/६९) अभेदकाः उदात्तादयः ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-५४/६९) अथ वा किम् नः एतेन प्रारम्भः यत्नस्य प्रयत्नः इति ।प्रयतनम् एव प्रयत्नः ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-५५/६९) तत् एव च तद्धितान्तम् आस्यम् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-५६/६९) यत् समानम् तत् आश्रयिष्यामः ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-५७/६९) किम् सति भेदे ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-५८/६९) सति इति आह ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-५९/६९) सति एव हि भेदे सवर्णसञ्ज्ञया भवितव्यम् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-६०/६९) कुतः एतत् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-६१/६९) भेदाधिष्ठाना हि सवर्णसञ्ज्ञा ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-६२/६९) यदि हि यत्र सर्वम् समानम् तत्र स्यात् सवर्णसञ्ज्ञावचनम् अनर्थकम् स्यात् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-६३/६९) यदि तर्हि सति भेदे किम् चित् समानम् इति कृत्व सवर्णसञ्ज्ञा भविष्यति शकारछकारयोः षकारठकारहोः सकारथकारयोः सवर्णसञ्ज्ञा प्राप्नोति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-६४/६९) एतेषाम् हि सर्वम् अन्यत् समानम् करणवर्जम् ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-६५/६९) एवम् तर्हि प्रयतनम् एव प्रयत्नः तत् एव तद्धितान्तम् आस्यम् न तु अयम् द्वन्द्वः ॒ आस्यम् च प्रयत्नः च आस्यप्रयत्नम् इति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-६६/६९) किम् तर्हि ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-६७/६९) त्रिपदः बहुव्रीहिः ॒ तुल्यः आस्ये प्रयत्नः एषाम् इति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-६८/६९) अथ वा पूर्वः तत्पुरुषः ततः बहुव्रीहिः ॒ तुल्यः आस्ये तुल्यास्यः , तुल्यास्यः प्रयत्नः एषाम् इति ।

(पा-१,१.९.२) पा-. ई.६१.८-६२.१४; रो-१,१९७-२०२; भा-६९/६९) अथ वा परः तत्पुरुषः ततः बहुव्रीहिः ॒ आस्ये यत्नः आस्ययत्नः , तुल्यः आस्ययत्नः एषाम् इति ।

(पा-१,१.९.३; अकि-१,६२.१५-२६; रो-१,२०२-२०३; भा-१/१६) तस्य ।

(पा-१,१.९.३; अकि-१,६२.१५-२६; रो-१,२०२-२०३; भा-२/१६) तस्य इति तु वक्तव्यम् ।

(पा-१,१.९.३; अकि-१,६२.१५-२६; रो-१,२०२-२०३; भा-३/१६) किम् प्रयोजनम् ।

(पा-१,१.९.३; अकि-१,६२.१५-२६; रो-१,२०२-२०३; भा-४/१६) यः यस्य तुल्यास्यप्रयत्नः सः तस्य सवर्णसञ्ज्ञः यथा स्यात् ।

(पा-१,१.९.३; अकि-१,६२.१५-२६; रो-१,२०२-२०३; भा-५/१६) अन्यस्य तुल्यास्यप्रयत्नः अन्यस्य सवर्णसञ्ज्ञः मा भूत् ।

(पा-१,१.९.३; अकि-१,६२.१५-२६; रो-१,२०२-२०३; भा-६/१६) तस्य अवचनम् वचनप्रामाण्यात् ।

(पा-१,१.९.३; अकि-१,६२.१५-२६; रो-१,२०२-२०३; भा-७/१६) तस्य इति न वक्तव्यम् ।

(पा-१,१.९.३; अकि-१,६२.१५-२६; रो-१,२०२-२०३; भा-८/१६) अन्यस्य तुल्यास्यप्रयत्नः अन्यस्य सवर्णसञ्ज्ञः कस्मात् न भवति ।

(पा-१,१.९.३; अकि-१,६२.१५-२६; रो-१,२०२-२०३; भा-९/१६) वचनप्रामाण्यात् ॒ सवर्णसञ्ज्ञावचनसामर्थ्यात् ।

(पा-१,१.९.३; अकि-१,६२.१५-२६; रो-१,२०२-२०३; भा-१०/१६) यदि हि अन्यस्य तुल्यास्यप्रयत्नः सः अन्यस्य सवर्णसञ्ज्ञः स्यात् सवर्णसञ्ज्ञावचनम् अनर्थकम् स्यात् ।

(पा-१,१.९.३; अकि-१,६२.१५-२६; रो-१,२०२-२०३; भा-११/१६) सम्बन्धिशब्दैः वा तुल्यम् ।

(पा-१,१.९.३; अकि-१,६२.१५-२६; रो-१,२०२-२०३; भा-१२/१६) सम्बन्धिशब्दैः वा पुनः तुल्यम् एतत् ।

(पा-१,१.९.३; अकि-१,६२.१५-२६; रो-१,२०२-२०३; भा-१३/१६) तत् यथा सम्बन्धिशब्दाः ॒ मातरि वर्तितव्यम् , पितरि शुश्रूषितव्यम् इति ।

(पा-१,१.९.३; अकि-१,६२.१५-२६; रो-१,२०२-२०३; भा-१४/१६) न च उच्यते स्वस्याम् मातरि स्वस्मिन् वा पितरि इति सम्बन्धात् च एतत् गम्यते या यस्य माता यः च यस्य पिता इति ।

(पा-१,१.९.३; अकि-१,६२.१५-२६; रो-१,२०२-२०३; भा-१५/१६) एवम् इह अपि तुल्यास्यप्रयत्नम् सवर्णम् इति अत्र सम्बन्दिशब्दौ एतौ ।

(पा-१,१.९.३; अकि-१,६२.१५-२६; रो-१,२०२-२०३; भा-१६/१६) तत्र सम्बन्धात् एतत् गन्तव्यम् ॒ यत् प्रति यत् तुल्यास्यप्रयत्नम् तत् प्रति तत् सवर्णसञ्ज्ञम् भवति इति ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-१/३७) ऋकारल्̥कारयोः सवर्णविधिः ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-२/३७) ऋकारल्̥कारयोः सवर्णसञ्ज्ञा विधेया ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-३/३७) होतृ , ल्̥कारः , होतृ̄ल्̥कारः ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-४/३७) किम् प्रयोजनम् ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-५/३७) अकः सवर्णे दीर्घः इति दीर्घत्वम् यथा स्यात् ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-६/३७) न एतत् अस्ति प्रयोजनम् ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-७/३७) वक्ष्यति एतत् ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-८/३७) सवर्णदीर्घत्वे ऋति , रृवावचनम् ल्̥ति , ल्ल्̥वावचनम् इति ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-९/३७) तत् सवर्णे यथा स्यात् ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-१०/३७) इह मा भूत् ॒ दधि , ल्̥कारः , मधु , ल्̥कारः इति ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-११/३७) यत् एतत् सवर्णदीर्घत्वे ऋति इति एतत् ऋतः इति वक्ष्यामि ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-१२/३७) ततः ल्̥ति ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-१३/३७) ल्̥ति च वा ल्ल्̥ भवति ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-१४/३७) ऋतः इति एव ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-१५/३७) तत् न वक्तव्यम् भवति ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-१६/३७) अवश्यम् तत् वक्तव्यम् ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-१७/३७) ऊकालः अच् ह्रस्वर्दीर्घप्लुतसञ्ज्ञः भवति इति उच्यते ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-१८/३७) न च रृकारः ल्ल्̥कारः वा अच् अस्ति ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-१९/३७) रृकारस्य , ल्ल्̥कारस्य च अच्त्वम् वक्ष्यामि ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-२०/३७) तत् च अवश्यम् वक्तव्यम् प्लुतः यथा स्यात् ॒ होतृ , ऋकारः होतृ̄कारः , होतृ३कारः , होतृ , ल्̥कारः , होत्ल्̥कारः , होत्ल्̥३कारः ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-२१/३७) किम् पुनः अत्र ज्यायः ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-२२/३७) सवर्णसञ्ज्ञावचनम् एव ज्यायः ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-२३/३७) दीर्घत्वम् च एव हि सिद्धम् भवति. अपि च ऋकारग्रहणे ल्̥कारग्रहणम् सन्निहितम् भवति ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-२४/३७) यथा इह भवति ॒ ऋति अकः॒ खट्व ऋश्यः , माल ऋश्यः इदम् अपि सङ्गृहीतम् बहवति ॒ खट्व , ल्̥कारः, माल , ल्̥कारः इति ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-२५/३७) वा सुपि आपिशलेः ॒ उपर्कारीयति , उपार्कारीयति , इदम् अपि सिद्धम् भवति ॒ उपल्कारीयति, उपाल्कारीयति इति ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-२६/३७) यदि तर्हि ऋकारग्रहणे ल्̥कारग्रहणम् सन्निहितम् भवति उः अण् रपरः , ल्̥कारस्य अपि रपरत्वम् प्राप्नोति ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-२७/३७) ल्̥कारस्य लपरत्वम् वक्ष्यामि ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-२८/३७) तत् च अवश्यम् वक्तव्यम् असत्याम् सवर्णसञ्ज्ञायाम् विध्यर्थम् ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-२९/३७) तत् एव सत्याम् रेफबाधनार्थम् भविष्यति ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-३०/३७) इह तर्हि रषाभ्याम् नः णः समानपदे इति ऋकारग्रहणम् चोदितम् मातृ̄णाम् , पितृ̄णाम् इति एवमर्थम् ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-३१/३७) तत् इह अपि प्राप्नोति ॒ क्ल्̥प्यमानम् पश्य इति ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-३२/३७) अथ असत्याम् अपि सवर्णसञ्ज्ञायाम् इह कस्मात् न भवति ॒ प्रक्ल्̥प्यमानम् पश्य इति ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-३३/३७) चुटुतुलशर्व्यवाये न इति वक्ष्यामि ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-३४/३७) अपरः आह ॒ त्रिभिः च मध्यमैः वर्गैः लशसैः च व्यवाये न इति वक्ष्यामि इति ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-३५/३७) वर्णैकदेशाः च वर्णग्रहणेन गृह्यन्ते इति यः असौ ल्̥कारे लकारः तदाश्रयः प्रतिषेधः भविष्यति ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-३६/३७) यदि एवम् न अर्थः रषाभ्याम् णत्वे ऋकारग्रहणेन ।

(पा-१,१.९.४; अकि-१,६२.२७-६३.२३; रो-१,२०३-२०७; भा-३७/३७) वर्णैकदेशाः च वर्णग्रहणेन गृह्यन्ते इति यः असौ ऋकारे रेफः तदाश्रयम् णत्वम् भविष्यति ।