व्याकरणमहाभाष्य खण्ड 03

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-१/८०) अज्झलोः प्रतिषेधे शकारप्रतिषेधः अज्झल्त्वात् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-२/८०) अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसञ्ज्ञायाः प्रतिषेधः प्राप्नोति ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-३/८०) किम् कारणम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-४/८०) अज्झल्त्वात् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-५/८०) अच् च एव हि शकारः हल् च ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-६/८०) कथम् तावत् अच्त्वम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-७/८०) इकारः सवर्णग्रहणेन शकारम् अपि गृह्णाति इति अच्त्वम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-८/८०) हल्षु उपदेशात् हल्त्वम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-९/८०) तत्र कः दोषः ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-१०/८०) तत्र सवर्णलोपे दोषः ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-११/८०) तत्र सवर्णलोपे दोषः भवति ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-१२/८०) परश्शतानि कार्याणि ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-१३/८०) झरः झरि सवर्णे इति लोपः न प्राप्नोति ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-१४/८०) सिद्धम् अनच्त्वात् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-१५/८०) सिद्धम् एतत् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-१६/८०) कथम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-१७/८०) अनच्त्वात् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-१८/८०) कथम् अनच्त्वम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-१९/८०) स्पृष्टम् स्पर्शानाम् करणम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-२०/८०) ईषत्स्पृष्टम् अन्तःस्थानाम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-२१/८०) विवृतम् ऊष्मणाम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-२२/८०) ईषत् इति अनुवर्तते ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-२३/८०) स्वराणाम् विवृतम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-२४/८०) ईषत् इति निवृत्तम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-२५/८०) वाक्यापरिसमाप्तेः वा ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-२६/८०) वाक्यापरिसमाप्तेः वा सिद्धम् एतत् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-२७/८०) किम् इदम् वाक्यापरिसमाप्तेः इति ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-२८/८०) वर्णानाम् उपदेशः तावत् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-२९/८०) उपदेशोत्तरकाला इत्सञ्ज्ञा ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-३०/८०) इत्सञ्ज्ञोत्तरकालः आदिः अन्त्येन सह इता इति प्रत्याहारः ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-३१/८०) प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-३२/८०) सवर्णसञ्ज्ञोत्तरकालम् अण् उदित् सवर्णस्य च अप्रत्ययः इति सवर्णग्रहणम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-३३/८०) एतेन सर्वेण समुदितेन वाक्येन अन्यत्र सवर्णानाम् ग्रहणम् भवति ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-३४/८०) च च अत्र इकारः शकारम् गृह्णाति ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-३५/८०) यथा एव तर्हि इकारः शकारम् न गृह्णाति एवम् ईकारम् अपि न गृह्णीयात् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-३६/८०) तत्र कः दोषः ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-३७/८०) कुमारी , ईहते कुमारीहते ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-३८/८०) अकः सवर्णदीर्घत्वम् न प्राप्नोति ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-३९/८०) न एषः दोषः ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-४०/८०) यत् एतत् अकः सवर्णे दीर्घः इति प्रत्याहारग्रहणम् तत इकारः ईकारम् गृह्णाति ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-४१/८०) शकारम् न गृह्णाति ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-४२/८०) अपरः आह ॒ अज्झलोः प्रतिषेधे शकारप्रतिषेधः अझल्त्वात् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-४३/८०) अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसञ्ज्ञायाः प्रतिषेधः प्राप्नोति ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-४४/८०) किम् कारणम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-४५/८०) अज्झल्त्वात् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-४६/८०) अच् च एव शकारः हल् च ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-४७/८०) कथम् तावत् अच्त्वम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-४८/८०) इकारः सवर्णग्रहणेन शकारम् अपि गृह्णाति इति अच्त्वम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-४९/८०) हल्षु उपदेशात् हल्त्वम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-५०/८०) तत्र कः दोषः ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-५१/८०) तत्र सवर्णलोपे दोषः ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-५२/८०) तत्र सवर्णलोपे दोषः भवति ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-५३/८०) परश्शतानि कार्याणि ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-५४/८०) झरः झरि सवर्णे इति लोपः न प्राप्नोति ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-५५/८०) सिद्धम् अनच्त्वात् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-५६/८०) सिद्धम् एतत् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-५७/८०) कथम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-५८/८०) अनच्त्वात् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-५९/८०) कथम् अनच्त्वम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-६०/८०) वाक्यापरिसमाप्तेः वा ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-६१/८०) उक्ता वाक्यापरिसमाप्तिः ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-६२/८०) अस्मिन् पक्षे वा इति एतत् असमर्थितम् भवति ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-६३/८०) एतत् च समर्थितम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-६४/८०) कथम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-६५/८०) अस्तु वा शकारस्य शकारेण सवर्णसञ्ज्ञा मा वा भूत् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-६६/८०) ननु च उक्तम् ॒ परश्शतानि कार्याणि ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-६७/८०) झरः झरि सवर्णे इति लोपः न प्राप्नोति इति ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-६८/८०) मा भूत् लोपः ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-६९/८०) ननु च भेदः भवति ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-७०/८०) सति लोपे द्विशकारम् असति लोपे त्रिशकारम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-७१/८०) न अस्ति भेदः ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-७२/८०) असति अपि लोपे द्विशकारम् एव ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-७३/८०) कथम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-७४/८०) विभाषा द्विर्वचनम् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-७५/८०) एवम् अपि भेदः ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-७६/८०) असति लोपे कदा चित् द्विशकारम् कदा चित् त्रिशकारम् सति लोपे द्विशकारम् एव ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-७७/८०) सः एषः कथम् भेदः न स्यात् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-७८/८०) यदि नित्यः लोपः स्यात् ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-७९/८०) विभाषा तु सः लोपः ।

(पा-१,१.१०; अकि-१,६३.२५-६५.६; रो-१,२०७-२११; भा-८०/८०) यथा अभेदः तथा अस्तु ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-१/५७) किमर्थम् ईदादीनाम् तपराणाम् प्रगृह्यसञ्ज्ञा उच्यते ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-२/५७) तपरः तत्कालस्य इति तत्कालानाम् सवर्णानाम् ग्रहणम् यथा स्यात् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-३/५७) केषाम् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-४/५७) उदात्तानुदात्तस्वरितानाम् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-५/५७) अस्ति प्रयोजनम् एतत् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-६/५७) किम् तर्हि इति ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-७/५७) प्लुतानाम् तु प्रगृह्यसञ्ज्ञा न प्राप्नोति ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-८/५७) किम् कारणम् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-९/५७) अतत्कालत्वात् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-१०/५७) न हि प्लुताः तत्कालाः ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-११/५७) असिद्धः प्लुतः ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-१२/५७) तस्यासिद्धत्वात् तत्कालाः एव भवन्ति ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-१३/५७) सिद्धः प्लुतः स्वरसन्धिषु ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-१४/५७) कथम् ज्ञायते सिद्धः प्लुतः स्वरसन्धिषु इति ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-१५/५७) यत् अयम् प्लुतप्रगृह्याः अचि इति प्लुतस्य प्रकृतिभावम् शास्ति ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-१६/५७) कथम् कृत्वा ज्ञापकम् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-१७/५७) सतः हि कार्यिणः कार्येण भवितव्यम् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-१८/५७) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-१९/५७) अप्लुतात् अप्लुते इति एतत् न वक्तव्यम् भवति ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-२०/५७) किम् अतः यत् सिद्धः प्लुतः स्वरसन्धिषु ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-२१/५७) सञ्ज्ञाविधौ असिद्धः ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-२२/५७) तस्य असिद्धत्वात् तत्कालाः एव भवन्ति ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-२३/५७) सञ्ज्ञाविधौ च सिद्धः ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-२४/५७) कथम् ।



(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-२५/५७) कार्यकालम् सञ्ज्ञापरिभाषम् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-२६/५७) यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-२७/५७) प्रगृह्यः प्रकृत्या इति उपस्थितम् इदम् भवति ईदूदेत् द्विवचनम् प्रगृह्यम् इति ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-२८/५७) किम् पुनः प्लुतस्य प्रगृह्यसञ्ज्ञावचने प्रयोजनम् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-२९/५७) प्रगृह्याश्रयः प्रकृतिभावः यथा स्यात् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-३०/५७) मा भूत् एवम् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-३१/५७) प्लुतः प्रकृत्या इति एवम् भविष्यति ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-३२/५७) न एवम् शक्यम् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-३३/५७) उपस्थिते हि दोषः स्यात् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-३४/५७) अप्लुतवत् उपस्थिथे इति अत्र पठिष्यति हि आचार्यः ॒ वद्वचनम् प्लुतकार्यप्रतिषेधार्थम् , प्लुतप्रतिषेधे हि प्रगृह्य्प्लुतप्रतिषेधप्रसङ्गः अन्येन विहितत्वात् इति ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-३५/५७) तस्मात् प्लुतस्य प्रगृह्यसञ्ज्ञा एषितव्या प्रगृह्याश्रयः प्रकृतिभावः यथा स्यात् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-३६/५७) यदि पुनः दीर्घाणाम् अतपराणाम् प्रगृह्यसञ्ज्ञा उच्येत ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-३७/५७) एवम् अपि एकारः एव एकः सवर्णान् गृह्णीयात् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-३८/५७) ईकारोकारौ न गृह्णीयाताम् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-३९/५७) किम् कारणम् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-४०/५७) अनण्त्वात् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-४१/५७) यदि पुनः ह्रस्वानाम् अतपराणाम् प्रगृह्यसञ्ज्ञा उच्येत ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-४२/५७) न एवम् शक्यम् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-४३/५७) इह अपि प्रसज्येत ॒ अकुर्वहि , अत्र अकुर्वहि अत्र इति ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-४४/५७) तस्मात् दीर्घाणाम् एव तपराणाम् प्रगृह्यसञ्ज्ञा वक्तव्या ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-४५/५७) दीर्घाणाम् च उच्यमाना प्लुतानाम् न प्राप्नोति ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-४६/५७) एवम् तर्हि किम् नः एतेन यत्नेन यत् सिद्धः प्लुतः स्वरसन्धिषु इति ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-४७/५७) असिद्धः प्लुतः ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-४८/५७) तस्य असिद्धत्वात् तत्कालाः एव भवन्ति इति ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-४९/५७) कथम् यत् तत् ज्ञापकम् उक्तम् प्लुतप्रगृह्याः अचि इति. प्लुतभावी प्रकृत्या इति एवम् एतत् विज्ञायते ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-५०/५७) कथम् यत् तत् प्रयोजनम् उक्तम् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-५१/५७) क्रियते तत् न्यासे एव अप्लुतात् अप्लुते इति ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-५२/५७) एवम् अपि यत् सिद्धे प्रगृह्यकार्यम् तत् प्लुतस्य न प्राप्नोति ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-५३/५७) अणः अप्रगृह्यस्य अनुनासिकः इति ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-५४/५७) एवम् तर्हि किम् नः एतेन कार्यकालम् सञ्ज्ञापरिभाषम् इति ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-५५/५७) यथोद्देशम् एव सञ्ज्ञापरिभाषम् ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-५६/५७) तत्र च असौ असिद्धः ।

(पा-१,१.११.१; अकि-१,६६.२-६७.२; रो-१,२१३-२१७; भा-५७/५७) तस्यासिद्धत्वात् तत्कालाः एव भवन्ति ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-१/४७) कथम् पुनः इदम् विज्ञायते ॒ ईदादयः यत् द्विवचनम् इति आहोस्वित् ईदाद्यन्तम् यत् द्विवचनम् इति ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-२/४७) कः च अत्र विशेषः ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-३/४७) ईदादयः द्विवचनम् प्रगृह्याः इति चेत् अन्त्यस्य विधिः ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-४/४७) ईदादयः द्विवचनम् प्रगृह्याः इति चेत् अन्त्यस्य प्रगृह्यसञ्ज्ञा विधेया ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-५/४७) पचेते* इति , पचेथे* इति ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-६/४७) वचनात् भविष्यति ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-७/४७) अस्ति वचने प्रयोजनम् ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-८/४७) किम् ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-९/४७) खट्वे* इति , माले* इति ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-१०/४७) अस्तु तर्हि ईदाद्यन्तम् यत् द्विवचनम् इति ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-११/४७) ईदाद्यन्तम् इति चेत् एकस्य विधिः ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-१२/४७) ईदाद्यन्तम् इति चेत् एकस्य प्रगृह्यसञ्ज्ञा विधेया ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-१३/४७) खट्वे* इति , माले* इति ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-१४/४७) न वा आद्यन्तत्वात् ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-१५/४७) न वा एषः दोषः ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-१६/४७) किम् कारणम् ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-१७/४७) आद्यन्तत्वात् ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-१८/४७) आद्यन्तवत् एकस्मिन् इति एकस्य अपि भविष्यति ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-१९/४७) अथ वा एवम् वक्ष्यामि ॒ ईदाद्यन्तम् यत् द्विवचनान्तम् इति ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-२०/४७) ईदाद्यन्तम् द्विवचनान्तम् इति चेत् लुकि प्रतिषेधः ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-२१/४७) ईदाद्यन्तम् द्विवचनान्तम् इति चेत् लुकि प्रतिषेधः वक्तव्यः ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-२२/४७) कुमार्योः अगारम् , कुमार्यगारम् वध्वोः अगारम् , वध्वगारम् ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-२३/४७) एतत् हि ईदाद्यन्तम् च श्रूयते द्विवचनान्तम् च भवति प्रत्ययलक्षणेन ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-२४/४७) सप्तम्याम् अर्थग्रहणम् ज्ञापकम् प्रत्ययलक्षणप्रतिषेधस्य ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-२५/४७) यत् अयम् ईदूतौ च सप्तम्यर्थे इति अर्थग्रहणम् करोति तत् ज्ञापयति आचार्यः न प्रगृह्यसञ्ज्ञायाम् प्रत्ययलक्षणम् भवति इति ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-२६/४७) तत् तर्हि ज्ञाप्कार्थम् अर्थग्रहणम् कर्तव्यम् ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-२७/४७) न कर्तव्यम् ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-२८/४७) ईदादिभिः द्विवचनम् विशेषयिष्यामः ईदादिविशिष्टेन च द्विवचनेन तदन्तविधिः भविष्यति ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-२९/४७) ईदाद्यन्तम् यत् द्विवचनम् तदन्तम् ईदाद्यन्तम् इति ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-३०/४७) एवम् अपि अशुक्ले वस्त्रे शुक्ले सम्पद्येताम् , शुक्ली आस्ताम् वस्त्रे* इति अत्र प्राप्नोति ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-३१/४७) अत्र हि ईदादि द्विवचनम् तदन्तम् च भवति प्रत्ययलक्षणेन ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-३२/४७) अत्र अपि अकृते शीभावे लुक् भविष्यति ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-३३/४७) इदम् इह सम्प्रधार्यम् ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-३४/४७) लुक् क्रियताम् शीभावः इति किम् अत्र कर्तव्यम् ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-३५/४७) परत्वात् शीभावः ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-३६/४७) नित्यः लुक् ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-३७/४७) कृते अपि शीभावे प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-३८/४७) अनित्यः लुक् ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-३९/४७) अन्यस्य कृते शीभावे प्राप्नोति अन्यस्य अकृते ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-४०/४७) शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।शीभावः अपि अनित्यः ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-४१/४७) न हि कृते लुकि प्राप्नोति ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-४२/४७) उभयोः अनित्ययोः परत्वात् शीभावः शीभावे कृते लुक् ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-४३/४७) अथ अपि कथम् चित् नित्यः लुक् स्यात् एवम् अपि दोषः ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-४४/४७) वक्ष्यति एतत् ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-४५/४७) पदसञ्ज्ञायाम् अन्तवचनम् अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् इति. इदम् च अपि प्रत्ययग्रहणम् अयम् च अपि सञ्ज्ञाविधिः ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-४६/४७) अवश्यम् खलु एतस्मिन् अपि पक्षे आद्यन्तवद्भावः एषितव्यः ।

(पा-१,१.११.२; अकि-१,६७.३-६८.७; रो-१,२१७-२२०; भा-४७/४७) तस्मात् अस्तु सः एव मध्यमः पक्षः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-१/८९) मात् प्रगृह्यसञ्ज्ञायाम् तस्य असिद्धत्वात् अयावेकादेशप्रतिषेधः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-२/८९) मात् प्रगृह्यसञ्ज्ञायाम् तस्य ईत्त्वस्य ऊत्त्वस्य च असिद्धत्वात् अयावेकादेशाः प्राप्नुवन्ति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-३/८९) तेषाम् प्रतिषेधः वक्तव्यः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-४/८९) अमी* अत्र , अमी* आसते , अमू* अत्र , अमू* आसाते ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-५/८९) ननु च प्रगृह्यसञ्ज्ञावचनसामर्थ्यात् अयादयः न भविष्यन्ति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-६/८९) वचनार्थः हि सिद्धे ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-७/८९) न इदम् वचनात् लभ्यम् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-८/८९) अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-९/८९) किम् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-१०/८९) यत् सिद्धे प्रगृह्यसञ्ज्ञाकार्यम् तदर्थम् एतत् स्यात् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-११/८९) अणः अप्रगृह्यस्य अनुनासिकः इति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-१२/८९) न एकम् प्रयोजनम् योगारम्भम् प्रयोजयति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-१३/८९) यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् अणः अप्रगृह्यस्य अनुनासिकः अदसः न इति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-१४/८९) विप्रतिषेधात् वा ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-१५/८९) अथ वा प्रगृह्यसञ्ज्ञा क्रियताम् अयादयः वा ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-१६/८९) प्रगृह्यसञ्ज्ञा भविष्यति विप्रतिषेधेन ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-१७/८९) न एषः युक्तः विप्रतिषेधः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-१८/८९) विप्रतिषेधे परम् इति उच्यते ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-१९/८९) पूर्वा च प्रगृह्यसञ्ज्ञा परे अयादयः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-२०/८९) परा प्रगृह्यसञ्ज्ञा करिष्यते ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-२१/८९) सूत्रविपर्यासः कृतः भवति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-२२/८९) एवम् तर्हि परा एव प्रगृह्यसञ्ज्ञा ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-२३/८९) कथम् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-२४/८९) कार्यकालम् हि सञ्ज्ञापरिभाषम् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-२५/८९) यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-२६/८९) प्रगृह्यः प्रकृत्या इति एतत् उपस्थितम् भवति अदसः मात् इति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-२७/८९) एवम् अपि अयुक्तः विप्रतिषेधः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-२८/८९) कथम् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-२९/८९) द्विकार्ययोगः हि विप्रतिषेधः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-३०/८९) न च अत्र एकः द्विकार्ययुक्तः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-३१/८९) एचाम् अयादयः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-३२/८९) ईदूतोः प्रगृह्यस्ञ्ज्ञा ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-३३/८९) न अवश्यम् द्विकार्ययोगः एव विप्रतिषेधः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-३४/८९) किम् तर्हि ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-३५/८९) असम्भवः अपि ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-३६/८९) सः च अस्ति अत्र असम्भवः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-३७/८९) कः असौ असम्भवः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-३८/८९) प्रगृह्यसञ्ज्ञा अभिनिर्वर्तमाना अयादीन् बाधते , अयादयः अभिनिर्वर्तमनाः प्रगृह्यसञ्ज्ञानिमित्तम् विघ्नन्ति इति एषः असम्भवः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-३९/८९) सति असम्भवे युक्तः विप्रतिषेधः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-४०/८९) एवम् अपि अयुक्तः विप्रतिषेधः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-४१/८९) सतोः हि विप्रतिषेधः भवति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-४२/८९) न च अत्र ईत्त्वोत्त्वे स्तः न अपि मकारः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-४३/८९) उभयम् असिद्धम् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-४४/८९) आश्रयात् सिद्धत्वम् च यथा रोः उत्त्वे । आश्रयात् सिद्धत्वम् भविष्यति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-४५/८९) तत् यथा रुः उत्त्वे आश्रयात् सिद्धः भवति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-४६/८९) किम् पुनः कारणम् रुः उत्त्वे आश्रयात् सिद्धः भवति न पुनः यत्र एव रुः सिद्धः तत्र एव उत्त्वम् अपि उच्यते ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-४७/८९) न एवम् शक्यम् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-४८/८९) असिद्धे हि उत्त्वे आद्गुणाप्रसिद्धिः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-४९/८९) असिद्धे हि उत्त्वे आद्गुणाप्रसिद्धिः स्यात् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-५०/८९) वृक्षः अत्र , प्लक्षः अत्र ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-५१/८९) तस्मात् तत्र आश्रयात् सिद्धत्वम् एषितव्यम् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-५२/८९) तत्र यथा आश्रयात् सिद्धम् भवति एवम् इह अपि भविष्यति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-५३/८९) अथ वा प्रगृह्यसञ्ज्ञावचनसामर्थ्यात् अयादयः आदेशाः न भविष्यन्ति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-५४/८९) अथ वा योगविभागः करिष्यते ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-५५/८९) अदसः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-५६/८९) अदसः ईदादयः प्रगृह्यसञ्ज्ञाः भवन्ति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-५७/८९) ततः मात् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-५८/८९) मात् च परे ईदादयः प्रगृह्यसञ्ज्ञाः भवन्ति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-५९/८९) अदसः इति एव ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-६०/८९) किमर्थः योगविभागः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-६१/८९) एकः यत् तत् सिद्धे प्रगृह्यकार्यम् तदर्थः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-६२/८९) अपरः यत् असिद्धे ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-६३/८९) इह अपि तर्हि प्राप्नोति ॒ अमुया , अमुयोः इति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-६४/८९) किम् च स्यात् यदि प्रगृह्यसञ्ज्ञा स्यात् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-६५/८९) प्रगृह्याश्रयः प्रकृतिभावः प्रसज्येत ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-६६/८९) न एषः दोषः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-६७/८९) पदान्तप्रकरणे प्रकृतिभावः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-६८/८९) न च एषः पदान्तः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-६९/८९) एवम् अपि अमुके अत्र अत्र अपि प्राप्नोति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-७०/८९) द्विवचनम् इति वर्तते ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-७१/८९) यदि द्विवचनम् इति वर्तते अमी* अत्र इति न प्राप्नोति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-७२/८९) एवम् तर्हि एदन्तम् इति निवृत्तम् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-७३/८९) अथ वा आह अयम् अदसः मात् इति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-७४/८९) न च ईत्त्वोत्त्वे स्तः न अपि मकारः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-७५/८९) ते एवम् विज्ञास्यामः मार्थात् ईदाद्यर्थानाम् इति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-७६/८९) उक्तम् वा ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-७७/८९) किम् उक्तम् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-७८/८९) अदसः ईत्त्वोत्त्वे स्वरे बहिष्पदलक्षणे प्रगृह्यसञ्जायाम् च सिद्धे वक्तव्ये इति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-७९/८९) तत्र सकि दोषः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-८०/८९) तत्र सककारे दोषः भवति ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-८१/८९) अमुके अत्र ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-८२/८९) न वा ग्रहणविशेषणत्वात् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-८३/८९) न वा एषः दोषः ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-८४/८९) किम् कारणम् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-८५/८९) ग्रहणविशेषणत्वात् ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-८६/८९) न माद्ग्रहणेन ईदाद्यन्तम् विशेष्यते ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-८७/८९) किम् तर्हि ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-८८/८९) ईदादयः विशेष्यन्ते ।

(पा-१,१.१२; अकि-१,६८. ९-७०.३; रो-१,२२०-२२६; भा-८९/८९) मात् परे ये ईदादयः इति ।

(पा-१,१.१३; अकि-१,७०.५-१०; रो-१,२२६-२२७; भा-१/१०) इह कस्मात् न भवति ॒ काशे कुशे वंशे इति ।

(पा-१,१.१३; अकि-१,७०.५-१०; रो-१,२२६-२२७; भा-२/१०) शे अर्थवद्ग्रहणात् ।

(पा-१,१.१३; अकि-१,७०.५-१०; रो-१,२२६-२२७; भा-३/१०) अर्थवतः शेशब्दस्य ग्रहणम् ।

(पा-१,१.१३; अकि-१,७०.५-१०; रो-१,२२६-२२७; भा-४/१०) न च अयम् अर्थवान् ।

(पा-१,१.१३; अकि-१,७०.५-१०; रो-१,२२६-२२७; भा-५/१०) एवम् अपि हरिशे बभ्रुशे इति अत्र प्राप्नोति ।

(पा-१,१.१३; अकि-१,७०.५-१०; रो-१,२२६-२२७; भा-६/१०) एवम् तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति ।

(पा-१,१.१३; अकि-१,७०.५-१०; रो-१,२२६-२२७; भा-७/१०) अथ वा पुनः अस्तु अर्थवद्ग्रहणे न अनर्थकस्य इति ।

(पा-१,१.१३; अकि-१,७०.५-१०; रो-१,२२६-२२७; भा-८/१०) कथम् हरिशे बभ्रुशे इति ।

(पा-१,१.१३; अकि-१,७०.५-१०; रो-१,२२६-२२७; भा-९/१०) एकः अत्र विभक्त्यर्थेन अर्थवान् अपरः तद्धितार्थेन ।

(पा-१,१.१३; अकि-१,७०.५-१०; रो-१,२२६-२२७; भा-१०/१०) समुदायः अनर्थकः ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-१/३२) निपातः इति किमर्थम् ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-२/३२) चकार अत्र , जहार अत्र ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-३/३२) एकाच् इति किमर्थम् ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-४/३२) प्र इदम् ब्रह्म , प्र इदम् क्षत्रम् ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-५/३२) एकाच् इति अपि उच्यमाने अत्र अपि प्राप्नोति ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-६/३२) एषः अपि हि एकाच् ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-७/३२) एकाच् इति न अयम् बहुव्रीहिः ॒ एकः अच् अस्मिन् सः अयम् एकाच् इति ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-८/३२) किम् तर्हि ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-९/३२) तत्पुरुषः अयम् समानाधिकरणः ॒ एकः अच् एकाच् ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-१०/३२) यदि तत्पुरुषः समानाधिकरणः न अर्थः एकग्रहणेन ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-११/३२) इह कस्मात् न भवति ॒ प्र इदम् ब्रह्म , प्र इदम् क्षत्रम् ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-१२/३२) अच् एव यः निपातः इति एवम् विज्ञास्यते ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-१३/३२) किम् वक्तव्यम् एतत् ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-१४/३२) न हि ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-१५/३२) कथम् अनुच्यमानम् गंस्यते ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-१६/३२) अज्ग्रहणसामर्थ्यात् ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-१७/३२) यदि हि यत् च अच् च अन्यत् च तत्र स्यात् अज्ग्रहणम् अनर्थकम् स्यात् ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-१८/३२) अस्ति अन्यत् अज्ग्रहणस्य प्रयोजनम् ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-१९/३२) किम्. अजन्तस्य यथा स्यात् ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-२०/३२) हलन्तस्य मा भूत् ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-२१/३२) न एव दोषः न प्रयोजनम् ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-२२/३२) एवम् अपि कुतः एतत् द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः आद्यन्तवत् एकस्मिन् इति च येन विधिः तदन्तस्य इति च इयम् इह परिभाषा भविष्यति आद्यन्तवत् एकस्मिन् इति इयम् न भविष्यति येन विधिः तदन्तस्य इति ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-२३/३२) आचार्यप्रवृत्तिः ज्ञापयति इयम् इह परिभाषा भवति आद्यन्तवत् एकस्मिन् इति इयम् न भवति येन विधिः तदन्तस्य इति यत् अयम् अनाङ् इति प्रतिषेधम् शास्ति ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-२४/३२) एवम् तर्हि सिद्धे सति यत् अज्ग्रहणे क्रियमाणे एकग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत्र वर्णग्रहणे जातिग्रहणम् भवति इति ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-२५/३२) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-२६/३२) दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् इति यत् उक्तम् तत् उपपन्नम् भवति ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-२७/३२) अनाङ् इति किमर्थम् ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-२८/३२) आ , उदकान्तात् ओदकान्तात् ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-२९/३२) इह कस्मात् न भवति॒ आ* एवम् नु मन्यसे , आ* एवम् किल तत् इति ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-३०/३२) सानुबन्धकस्य ग्रहणम् अननुबन्धकः च अत्र आकारः ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-३१/३२) क्व पुनः अयम् सानुबन्धकः क्व निरनुबन्धकः ।

(पा-१,१.१४; अकि-१,७०.१२-७१.७; रो-१,२२७-२३०; भा-३२/३२) ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः एतम् आतम् ङितम् विद्यात् वाक्यस्मरणयोः अङित्

(पा-१,१.१५.१; अकि-१,७१.९-१३; रो-१,२३०-२३१; भा-१/७) किम् उदाहरणम् ।

(पा-१,१.१५.१; अकि-१,७१.९-१३; रो-१,२३०-२३१; भा-२/७) आहो* इति , उताहो* इति ।

(पा-१,१.१५.१; अकि-१,७१.९-१३; रो-१,२३०-२३१; भा-३/७) न एतत् अस्ति प्रयोजनम् ।

(पा-१,१.१५.१; अकि-१,७१.९-१३; रो-१,२३०-२३१; भा-४/७) निपातसमाहारः अयम् ॒ आह , उ ॒ आहो* इति, उत , आह , उ ॒ उताहो* इति ।

(पा-१,१.१५.१; अकि-१,७१.९-१३; रो-१,२३०-२३१; भा-५/७) तत्र निपातः एकाच् अनाङ् इति एव सिद्धम् ।

(पा-१,१.१५.१; अकि-१,७१.९-१३; रो-१,२३०-२३१; भा-६/७) एवम् तर्हि एकनिपाताः इमे ।

(पा-१,१.१५.१; अकि-१,७१.९-१३; रो-१,२३०-२३१; भा-७/७) अथ वा प्रतिषिद्धार्थः अयम् आरम्भः ॒ ओ षु यातम् मरुतः , ओषु यातम् बृहती शक्वरी च , ओ चित् सखायम् सख्य ववृत्याम् ।

(पा-१,१.१५.२; अकि-१,७१.१४-२१; रो-१,२३१-२३३; भा-१/१३) ओतः च्विप्रतिषेधः ।

(पा-१,१.१५.२; अकि-१,७१.१४-२१; रो-१,२३१-२३३; भा-२/१३) ओदन्तः निपातः इति अत्र च्व्यन्तस्य प्रतिषेधः वक्तव्यः ।

(पा-१,१.१५.२; अकि-१,७१.१४-२१; रो-१,२३१-२३३; भा-३/१३) अनदः , अदः , अभवत् ॒ अदोभवत् , तिरोभवत् ।

(पा-१,१.१५.२; अकि-१,७१.१४-२१; रो-१,२३१-२३३; भा-४/१३) न वक्तव्यम् ।

(पा-१,१.१५.२; अकि-१,७१.१४-२१; रो-१,२३१-२३३; भा-५/१३) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति ।

(पा-१,१.१५.२; अकि-१,७१.१४-२१; रो-१,२३१-२३३; भा-६/१३) एवम् अपि अगौः गौः सम्पद्यते गोभवत् ॒ अत्र प्राप्नोति ।

(पा-१,१.१५.२; अकि-१,७१.१४-२१; रो-१,२३१-२३३; भा-७/१३) एवम् तर्हि गौणमुख्ययोः मुख्ये कार्यसम्प्रययः इति ।

(पा-१,१.१५.२; अकि-१,७१.१४-२१; रो-१,२३१-२३३; भा-८/१३) तत् यथा ॒ गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते ।

(पा-१,१.१५.२; अकि-१,७१.१४-२१; रो-१,२३१-२३३; भा-९/१३) कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः ॒ गौः तिष्थति ।

(पा-१,१.१५.२; अकि-१,७१.१४-२१; रो-१,२३१-२३३; भा-१०/१३) गाम् आनय इति ।

(पा-१,१.१५.२; अकि-१,७१.१४-२१; रो-१,२३१-२३३; भा-११/१३) अर्थाश्रये एतत् एवम् भवति ।

(पा-१,१.१५.२; अकि-१,७१.१४-२१; रो-१,२३१-२३३; भा-१२/१३) यत् हि शब्दाश्रयम् शब्दमात्रे तत् भवति ।

(पा-१,१.१५.२; अकि-१,७१.१४-२१; रो-१,२३१-२३३; भा-१३/१३) शब्दाश्रये च वृद्ध्यात्त्वे ।

(पा-१,१.१७-१८.१; अकि-१,७१.२३-७२.६; रो-१,२३३-२३४; भा-१/१३) इह कस्मात् न भवति ॒ आहो* इति , उताहो* इति ।

(पा-१,१.१७-१८.१; अकि-१,७१.२३-७२.६; रो-१,२३३-२३४; भा-२/१३) उञः इति उच्यते ।

(पा-१,१.१७-१८.१; अकि-१,७१.२३-७२.६; रो-१,२३३-२३४; भा-३/१३) न च अत्र उञम् पश्यामः ।

(पा-१,१.१७-१८.१; अकि-१,७१.२३-७२.६; रो-१,२३३-२३४; भा-४/१३) उञः अयम् अन्येन सह एकादेशः उञ्ग्रहणेन गृह्यते ।

(पा-१,१.१७-१८.१; अकि-१,७१.२३-७२.६; रो-१,२३३-२३४; भा-५/१३) आचार्यप्रवृत्तिः ज्ञापयति न उञेकादेशः उञ्ग्रहणेन गृह्यते इति यत् अयम् ओत् इति ओदन्तस्य निपातस्य प्रगृह्यसञ्ज्ञाम् शास्ति ।

(पा-१,१.१७-१८.१; अकि-१,७१.२३-७२.६; रो-१,२३३-२३४; भा-६/१३) न एतत् अस्ति ज्ञापकम् ।

(पा-१,१.१७-१८.१; अकि-१,७१.२३-७२.६; रो-१,२३३-२३४; भा-७/१३) उक्तम् एतत् प्रतिषिद्धार्थः अयम् आरम्भः ।

(पा-१,१.१७-१८.१; अकि-१,७१.२३-७२.६; रो-१,२३३-२३४; भा-८/१३) दोषः खलु अपि स्यात् यदि उञेकादेशः उञ्ग्रहणेन न गृह्येत ॒ जानु , उ ।

(पा-१,१.१७-१८.१; अकि-१,७१.२३-७२.६; रो-१,२३३-२३४; भा-९/१३) अस्य रुजति जानू* अस्य रुजति जान्वस्य रुजति ।

(पा-१,१.१७-१८.१; अकि-१,७१.२३-७२.६; रो-१,२३३-२३४; भा-१०/१३) मयः उञः वः वा इति वत्वम् न स्यात् ।

(पा-१,१.१७-१८.१; अकि-१,७१.२३-७२.६; रो-१,२३३-२३४; भा-११/१३) एवम् तर्हि एकनिपाताः इमे ।

(पा-१,१.१७-१८.१; अकि-१,७१.२३-७२.६; रो-१,२३३-२३४; भा-१२/१३) अथ वा द्वौ उकारौ इमौ एकः अननुबन्धकः अपरः सानुबन्धकः ।

(पा-१,१.१७-१८.१; अकि-१,७१.२३-७२.६; रो-१,२३३-२३४; भा-१३/१३) तत् यः अननुबन्धकः तस्य एषः एकादेशः ।

(पा-१,१.१७-१८.२; अकि-१,७२.७-१३; रो-१,२३४-२३५; भा-१/१०) उञः इति योगविभागः ।

(पा-१,१.१७-१८.२; अकि-१,७२.७-१३; रो-१,२३४-२३५; भा-२/१०) उञः इति योगविभागः कर्तव्यः ।

(पा-१,१.१७-१८.२; अकि-१,७२.७-१३; रो-१,२३४-२३५; भा-३/१०) उञः शाकल्यस्य आचार्यस्य मतेन प्रगृह्यसञ्ज्ञा भवति ।

(पा-१,१.१७-१८.२; अकि-१,७२.७-१३; रो-१,२३४-२३५; भा-४/१०) उ* इति व् इति ।

(पा-१,१.१७-१८.२; अकि-१,७२.७-१३; रो-१,२३४-२३५; भा-५/१०) ततः उम्̐ ।

(पा-१,१.१७-१८.२; अकि-१,७२.७-१३; रो-१,२३४-२३५; भा-६/१०) उञः ऊम्̐ इति अयम् आदेशः भवति शाकल्यस्य आचार्यस्य मतेन दीर्घः अनुनासिकः प्रगृह्यसञ्ज्ञकः च उम्̐ इति ।

(पा-१,१.१७-१८.२; अकि-१,७२.७-१३; रो-१,२३४-२३५; भा-७/१०) किमर्थः योगविभागः ।

(पा-१,१.१७-१८.२; अकि-१,७२.७-१३; रो-१,२३४-२३५; भा-८/१०) उम्̐ वा शाकल्यस्य ।

(पा-१,१.१७-१८.२; अकि-१,७२.७-१३; रो-१,२३४-२३५; भा-९/१०) शाकल्यस्य आचार्यस्य मतेन उम्̐ विभाषा यथा स्यात् ॒ ऊम्̐ इति , उ* इति ।

(पा-१,१.१७-१८.२; अकि-१,७२.७-१३; रो-१,२३४-२३५; भा-१०/१०) अन्येषाम् आचार्याणाम् मतेन व् इति ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-१/३८) ईदूतौ सप्तमी इति एव । ईदूतौ सप्तमी इति एव सिद्धम् ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-२/३८) न अर्थः अर्थग्रहणेन ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-३/३८) लुप्ते अर्थग्रहणात् भवेत् ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-४/३८) लुप्तायम् सप्तम्याम् प्रगृह्यसञ्ज्ञा न प्राप्नोति ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-५/३८) क्व ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-६/३८) सोमो गौरी अधि श्रितः ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-७/३८) इष्यते च अत्र अपि स्यात् इति ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-८/३८) तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् अर्थग्रहणम् ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-९/३८) न अत्र सप्तमी लुप्यते ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-१०/३८) किम् तर्हि ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-११/३८) पूर्वसवर्णः अत्र भवति । पूर्वस्य चेत् सवर्णः असौ आडाम्भावः प्रसज्यते ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-१२/३८) यदि पूर्वसवर्णः आट् आम्भावः च प्राप्नोति ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-१३/३८) एवम् तर्हि आह अयम् ईदूतौ सप्तमी इति न स अस्ति सप्तमी ईदूतौ ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-१४/३८) तत्र वचनात् भविष्यति ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-१५/३८) वचनात् यत्र दीर्घत्वम् ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-१६/३८) न इदम् वचनात् लभ्यम्. अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-१७/३८) किम् ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-१८/३८) यत्र सप्तम्याः दीर्घत्वम् उच्यते ॒ दृतिम् न शुष्कम् सरसी शयानम् इति ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-१९/३८) सति प्रयोजने इह न प्राप्नोति सोमो गौरी अधि श्रितः इति ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-२०/३८) तत्र अपि सरसी यदि ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-२१/३८) तत्र अपि सिद्धम् ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-२२/३८) कथम् ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-२३/३८) यदि सरसीशब्दस्य प्रवृत्तिः अस्ति ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-२४/३८) अस्ति च लोके सरसीशब्दस्य प्रवृत्तिः ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-२५/३८) कथम् ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-२६/३८) दक्षिणापथे हि महान्ति सरांसि सरस्यः इति उच्यन्ते ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-२७/३८) ज्ञापकम् स्यात् तदन्तत्वे ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-२८/३८) एवम् तर्हि ज्ञापयति आचार्यः न प्रगृह्यसञ्ज्ञायाम् प्रत्ययलक्षणम् भवति इति ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-२९/३८) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-३०/३८) कुमार्योः अगारम् कुमार्यगारम् , वध्वोः अगारम् वध्वगारम् ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-३१/३८) प्रत्ययलक्षणेन प्रगृह्यसञ्ज्ञा न भवति ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-३२/३८) मा वा पूर्वपदस्य भूत् । अथ वा पूर्वपदस्य मा भूत् इति एवमर्थम् अर्थग्रहणम् ॒ वाप्याम् अश्वः वाप्यश्वः , नद्याम् आतिः नद्यातिः ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-३३/३८) अथ क्रियमाणे अपि अर्थग्रहणे कस्मात् एव अत्र न भवति ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-३४/३८) जहत्स्वार्था वृत्तिः इति ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-३५/३८) अथ अजहत्स्वार्थायाम् वृत्तौ दोषः एव ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-३६/३८) अजहत्स्वार्थायाम् च न दोषः ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-३७/३८) समुदायार्थः अभिधीयते ।

(पा-१,१.१९; अकि-१,७२.१५-७३.१८; रो-१,२३५-२३८; भा-३८/३८) ईदुतौ सप्तमी इति एव लुप्ते अर्थग्रहणात् भवेत् पूर्वस्य चेत् सवर्णः असौ आडाम्भावः प्रसज्यते वचनात् यत्र दीर्घत्वम् तत्र अपि सरसी यदि ज्ञापकम् स्यात् तदन्तत्वे मा वा पूर्वपदस्य भूत् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-१/४८) घुसञ्ज्ञायाम् प्रकृतिग्रहणम् शिदर्थम् । घुसञ्ज्ञायाम् प्रकृतिग्रहणम् कर्तव्यम् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-२/४८) दाधाप्रकृतयः घुसञ्ज्ञा भवन्ति इति वक्तव्यम् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-३/४८) किम् प्रयोजनम् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-४/४८) आत्त्वभूतानाम् इयम् सञ्ज्ञा क्रियते ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-५/४८) सा आत्त्वभूतानाम् एव स्यात् अनात्त्वभूतानाम् न स्यात् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-६/४८) ननु च भूयिष्थानि घुसञ्ज्ञाकार्याणि आर्धधातुके तत्र च एते आत्त्वभूताः दृश्यन्ते ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-७/४८) शिदर्थम् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-८/४८) शिदर्थम् प्रकृतिग्रहणम् कर्तव्यम् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-९/४८) शिति आत्त्वम् प्रतिषिध्यते तदर्थम् ॒ प्रणिदयते प्रणिधयति इति ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-१०/४८) भारद्वाजीयाः पठन्ति घुसञ्ज्ञायाम् प्रकृतिग्रहणम् शिद्विकृतार्थम् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-११/४८) घुसञ्ज्ञायाम् प्रकृतिग्रहणम् क्रियते ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-१२/४८) किम् प्रयोजनम् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-१३/४८) शिदर्थम् विकृतार्थम् च ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-१४/४८) शिति उदाहृतम् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-१५/४८) विकृतार्थम् खलु अपि ॒ प्रणिदाता प्रणिधाता ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-१६/४८) किम् पुनः कारणम् न सिध्यति ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-१७/४८) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति प्रतिपदम् ये आत्त्वभूताः तेषाम् एव स्यात् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-१८/४८) लक्षणेन ये आत्त्वभूताः तेषाम् न स्यात् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-१९/४८) अथ क्रियमाणे अपि प्रकृतिग्रहणे कथम् इदम् विज्ञायते ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-२०/४८) दाधाः प्रकृतयः आहोस्वित् दाधाम् प्रकृतयः इति ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-२१/४८) किम् च अतः ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-२२/४८) यदि विज्ञायते दाधाः प्रकृतयः इति सः एव दोषः ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-२३/४८) आत्त्वभूतानाम् एव स्यात् अनात्त्वभूतानाम् न स्यात् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-२४/४८) अथ विज्ञायते दाधाम् प्रकृतयः इति अनात्त्वभूतानाम् एव स्यात् आत्त्वभूतानाम् न स्यात् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-२५/४८) एवम् तर्हि न एवम् विज्ञायते दाधाः प्रकृतयः इति न अपि दाधाम् प्रकृतयः इति ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-२६/४८) कथम् तर्हि ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-२७/४८) दाधाः घुसञ्ज्ञाः भवन्ति प्रकृतयः च एषाम् इति ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-२८/४८) तत् तर्हि प्रकृतिग्रहणम् कर्तव्यम् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-२९/४८) न कर्तव्यम् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-३०/४८) इदम् प्रकृतम् अर्थग्रहणम् अनुवर्तते ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-३१/४८) क्व प्रकृतम् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-३२/४८) ईदूतौ च सप्तम्यर्थे इति ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-३३/४८) ततः वक्ष्यामि दाधाः घु अदाप् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-३४/४८) अर्थे इति ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-३५/४८) न एवम् शक्यम् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-३६/४८) ददातिना समानार्थान् रातिरासतिदाशतिमंहतिप्रीणातिप्रभृतीन् आहुः ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-३७/४८) एतेषाम् अपि घुसञ्ज्ञा प्राप्नोति ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-३८/४८) तस्मात् न एवम् शक्यम् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-३९/४८) न चेत् एवम् प्रकृतिग्रहणम् कर्तव्यम् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-४०/४८) शिदर्थेन तावत् न अर्थः प्रकृतिग्रहणेन ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-४१/४८) अवश्यम् तत्र मार्थम् प्रकृतिग्रहणम् कर्तव्यम् प्रणिमयते प्रण्यमयत इति एवमर्थम् ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-४२/४८) तत् पुरस्तात् अपक्रक्ष्यते ॒ घुप्रकृतौ माप्रकृतौ च इति ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-४३/४८) यदि प्रकृतिग्रहणम् क्रियते प्रनिमिनोति प्रनिमीनाति अत्र अपि प्राप्नोति ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-४४/४८) अथ अक्रियमाणे अपि प्रकृतिग्रहणे इह कस्मात् न भवति ॒ प्रनिमाता प्रनिमातुम् इति ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-४५/४८) आकारान्तस्य ङितः ग्रहणम् विज्ञास्यते ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-४६/४८) यथा एव तर्हि अक्रियमाणे प्रकृतिग्रहणे आकारान्तस्य ङितः ग्रहणम् विज्ञायते एवम् क्रियमाणे अपि प्रकृतिग्रहणे आकारान्तस्य ङितः ग्रहणम् विज्ञास्यते ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-४७/४८) विकृतार्थेन च अपि न अर्थः ।

(पा-१,१.२०.१) पा-. ई.७३.२०-७४.२२; रो-१,२३९-२४१; भा-४८/४८) दोषः एव एतस्याः परिभाषायाः लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति गामादाग्रहणेषु अविशेषः इति ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-१/३२) समानशब्दप्रतिषेधः ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-२/३२) समानशब्दानाम् प्रतिषेधः वक्तव्यः ॒ प्रनिदारयति प्रनिधारयति ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-३/३२) दाधाः घुसञ्ज्ञाः भवन्ति इति घुसञ्ज्ञा प्राप्नोति ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-४/३२) समानशब्दाप्रतिषेधः अर्थवद्ग्रहणात् ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-५/३२) समानशब्दानाम् अप्रतिषेधः ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-६/३२) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-७/३२) घुसञ्ज्ञा कस्मात् न भवति ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-८/३२) अर्थवद्ग्रहणात् ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-९/३२) अर्थवतोः दाधोः ग्रहणम् ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-१०/३२) न च एतौ अर्थवन्तौ ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-११/३२) अनुपसर्गात् वा ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-१२/३२) अथ वा यत्क्रियायुक्तास् प्रादयः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-१३/३२) न च एतौ दाधौ प्रति क्रियायोगः ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-१४/३२) यदि एवम् इह अपि तर्हि न प्राप्नोति प्रणिदापयति प्रणिधापयति ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-१५/३२) अत्र अपि न एतौ दाधौ अर्थवन्तौ न अपि एतौ दाधौ प्रति क्रियायोगः ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-१६/३२) न वा अर्थवतः हि आगमः तद्गुणीभूतः तद्ग्रहणेन गृह्यते यथा अन्यत्र ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-१७/३२) न वा एषः दोषः ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-१८/३२) किम् कारणम् ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-१९/३२) अर्थवतः आगमः तद्गुणीभूतः अर्थवद्ग्रहणेन गृह्यते यथा अन्यत्र ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-२०/३२) तत् यथा ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-२१/३२) अन्यत्र अपि अर्थवतः आगमः अर्थवद्ग्रहणेन गृह्यते ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-२२/३२) क्व अन्यत्र ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-२३/३२) लविता चिकीर्षिता इति ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-२४/३२) युक्तम् पुनः यत् नित्येषु नाम शब्देषु आगमशासनम् स्यात् न नित्येषु शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-२५/३२) आगमः च नाम अपूर्वः शब्दोपजनः ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-२६/३२) अथ युक्तम् यत् नित्येषु शब्देषु आदेशाः स्युः ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-२७/३२) बाढम् युक्तम् ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-२८/३२) शब्दान्तरैः इह भवितव्यम् ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-२९/३२) तत्र शब्दान्तरात् शब्दान्तरस्य प्रतिपत्तिः युक्ता ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-३०/३२) आदेशाः तर्हि इमे भविष्यन्ति अनागमकानाम् सागमकाः ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-३१/३२) तत् कथम् ।

(पा-१,१.२०.२; अकि-१,७४.२३-७५.१४; रो-१,२४२-२४४; भा-३२/३२) सर्वे सर्वपदादेशाः दाक्षीपुत्रस्य पाणिनेः एकदेशविकारे हि नित्यत्वम् न उपपद्यते ।

(पा-१,१.२०.३; अकि-१,७५.१५-२३; रो-१,२४५-२४६; भा-१/१८) दीङः प्रतिषेधः स्थाघ्वोः इत्त्वे ।

(पा-१,१.२०.३; अकि-१,७५.१५-२३; रो-१,२४५-२४६; भा-२/१८) दीङः प्रतिषेधः स्थाघ्वोः इत्त्वे वक्तव्यः ।

(पा-१,१.२०.३; अकि-१,७५.१५-२३; रो-१,२४५-२४६; भा-३/१८) उपादास्त अस्य स्वरः शिक्षकस्य इति ।

(पा-१,१.२०.३; अकि-१,७५.१५-२३; रो-१,२४५-२४६; भा-४/१८) मीनातिमिनोति इति आत्त्वे कृते स्थाघ्वोः इत् च इति इत्त्वम् प्राप्नोति ।

(पा-१,१.२०.३; अकि-१,७५.१५-२३; रो-१,२४५-२४६; भा-५/१८) कुतः पुनः अयम् दोषः जायते ।

(पा-१,१.२०.३; अकि-१,७५.१५-२३; रो-१,२४५-२४६; भा-६/१८) किम् प्रकृतिग्रहणात् आहोस्वित् रूपग्रहणात् ।

(पा-१,१.२०.३; अकि-१,७५.१५-२३; रो-१,२४५-२४६; भा-७/१८) रूपग्रहणात् इति आह ।

(पा-१,१.२०.३; अकि-१,७५.१५-२३; रो-१,२४५-२४६; भा-८/१८) इह खलु प्रकृतिग्रहणात् दोषः जायते ॒ उपदिदीषते ।

(पा-१,१.२०.३; अकि-१,७५.१५-२३; रो-१,२४५-२४६; भा-९/१८) सनि मीमाघुरभलभ इति ।

(पा-१,१.२०.३; अकि-१,७५.१५-२३; रो-१,२४५-२४६; भा-१०/१८) न एषः दोषः ।

(पा-१,१.२०.३; अकि-१,७५.१५-२३; रो-१,२४५-२४६; भा-११/१८) दाप्रकृतिः इति उच्यते ।

(पा-१,१.२०.३; अकि-१,७५.१५-२३; रो-१,२४५-२४६; भा-१२/१८) न च इयम् दाप्रकृतिः ।

(पा-१,१.२०.३; अकि-१,७५.१५-२३; रो-१,२४५-२४६; भा-१३/१८) आकारान्तानाम् एजन्ताः प्रकृतयः एजन्तानाम् अपि ईकारान्ताः ।

(पा-१,१.२०.३; अकि-१,७५.१५-२३; रो-१,२४५-२४६; भा-१४/१८) न च प्रकृतिप्रकृतिः प्रकृतिग्रहणेन गृह्यते ।

(पा-१,१.२०.३; अकि-१,७५.१५-२३; रो-१,२४५-२४६; भा-१५/१८) सः तर्हि प्रतिषेधः वक्तव्यः ।

(पा-१,१.२०.३; अकि-१,७५.१५-२३; रो-१,२४५-२४६; भा-१६/१८) न वक्तव्यः ।

(पा-१,१.२०.३; अकि-१,७५.१५-२३; रो-१,२४५-२४६; भा-१७/१८) घुसञ्ज्ञा कस्मात् न भवति ।

(पा-१,१.२०.३; अकि-१,७५.१५-२३; रो-१,२४५-२४६; भा-१८/१८) सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति एवम् न भविष्यति ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-१/३४) दाप्प्रतिषेधे न दैपि अनेजन्तत्वात् ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-२/३४) दाप्प्रतिषेधे दैपि प्रतिषेधः न प्राप्नोति ॒ अवदातम् मुखम् ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-३/३४) ननु च आत्त्वे कृते भविष्यति ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-४/३४) तत् हि आत्त्वम् न प्राप्नोति ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-५/३४) किम् कारणम् ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-६/३४) अनेजन्तत्वात् ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-७/३४) सिद्धम् अनुबन्धस्य अनेकान्तत्वात् । सिद्धम् एतत् ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-८/३४) कथम् ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-९/३४) अनुबन्धस्य अनेकान्तत्वात् ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-१०/३४) अनेकान्ताः अनुबन्धाः ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-११/३४) पित्प्रतिषेधात् वा ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-१२/३४) अथ वा दाधाः घु अपित् इति वक्ष्यामि ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-१३/३४) तत् च अवश्यम् वक्तव्यम् ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-१४/३४) अदाप् इति हि उच्यमाने इह अपि प्रसज्येत ॒ प्रणिदापयति इति ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-१५/३४) शक्यम् तावत् अनेन अदाप् इति ब्रुवता बान्तस्य प्रतिषेधः विज्ञातुम् ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-१६/३४) सूत्रम् तर्हि भिद्यते ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-१७/३४) यथान्यासम् एव अस्तु ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-१८/३४) ननु च उक्तम् दप्प्रतिषेधे न दैपि इति ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-१९/३४) परिहृतम् एतत् सिद्धम् अनुबन्धस्य अनेकान्तत्वात् इति ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-२०/३४) अथ एकान्तेषु दोषः एव ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-२१/३४) एकान्तेषु च न दोषः ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-२२/३४) आत्त्वे कृते भविष्यति ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-२३/३४) ननु च उक्तम् तत् हि आत्त्वम् न प्राप्नोति ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-२४/३४) किम् कारणम् ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-२५/३४) अनेजन्तत्वात् इति ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-२६/३४) पकारलोपे कृते भविष्यति ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-२७/३४) न हि अयम् तदा दाप् भवति ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-२८/३४) भूतपूर्वगत्या भविष्यति ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-२९/३४) एतत् च अत्र युक्तम् यत् सर्वेषु एव सानुबन्धकग्रहणेषु भूतपूर्वगतिः विज्ञायते ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-३०/३४) अनैमित्तिकः हि अनुबन्धलोपः तावति एव भवति ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-३१/३४) अथ वा आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् अनेजन्तत्वम् इति यत् अयम् उदीचाम् माङः व्यतीहारे इति मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् करोति ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-३२/३४) अथ वा दाप् एव अयम् न दैप् अस्ति ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-३३/३४) कथम् अवदाययति इति ।

(पा-१,१.२०.४; अकि-१,७५.२४-७६ ।१४; रो-१,२४६-२४७; भा-३४/३४) श्यन् विकरणः भविष्यति ।