व्याकरणमहाभाष्य खण्ड 04

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-१/५८) किमर्थम् इदम् उच्यते ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-२/५८) सति अन्यस्मिन् आद्यन्तवद्भावात् एकस्मिन् आद्यन्तवद्वचनम् ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-३/५८) सति अन्यस्मिन् यस्मात् पूर्वम् न अस्ति परम् अस्ति सः आदिः इति उच्यते ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-४/५८) सति अन्यस्मिन् यस्मात् परम् न अस्ति पूर्वम् अस्ति सः अन्तः इति उच्यते ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-५/५८) सति अन्यस्मिन् आद्यन्तवद्भावात् एतस्मात् कारणात् एकस्मिन् आद्यन्तापदिष्टानि कार्याणि न सिध्यन्ति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-६/५८) इष्यन्ते च स्युः इति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-७/५८) तानि अन्तरेण यत्नम् न सिध्यन्ति इति एकस्मिन् आद्यन्तवद्वचनम् ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-८/५८) एवमर्थम् इदम् उच्यते ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-९/५८) अस्ति प्रयोजनम् एतत् ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-१०/५८) किम् तर्हि इति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-११/५८) तत्र व्यपदेशिवद्वचनम् ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-१२/५८) तत्र व्यपदेशिवद्भावः वक्तव्यः ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-१३/५८) व्यपदेशिवत् एकस्मिन् कार्यम् भवति इति वक्तव्यम् ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-१४/५८) किम् प्रयोजनम् ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-१५/५८) एकाचः द्वे प्रथमार्थम् ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-१६/५८) वक्ष्यति एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः इति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-१७/५८) तस्मिन् क्रियमाणे इह एव ॒ स्यात् पपाच पपाठ ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-१८/५८) इयाय , आर इति अत्र न स्यात् ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-१९/५८) व्यप्देशिवत् एकस्मिन् कार्यम् भवति इति अत्र अपि सिद्धम् भवति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-२०/५८) षत्वे च आदेशसम्प्रत्ययार्थम् ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-२१/५८) वक्ष्यति आदेशप्रत्यययोः इति अवयवषष्ठी एव इति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-२२/५८) एतस्मिन् क्रियमाणे इह एव स्यात् ॒ करिष्यति हरिष्यति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-२३/५८) इह न स्यात् ॒ इन्द्रः मा वक्षत् , सः देवन् यक्षत् ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-२४/५८) व्यप्देशिवत् एकस्मिन् कार्यम् भवति इति अत्र अपि सिद्धम् भवति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-२५/५८) सः तर्हि व्यपदेशिवद्भावः वक्तव्यः ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-२६/५८) न वक्तव्यः ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-२७/५८) अवचनात् लोकविज्ञानात् सिद्धम् ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-२८/५८) अन्तरेण एव वचनम् लोकविज्ञानात् सिद्धम् एतत् ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-२९/५८) तत् यथा ॒ लोके शालासमुदायः ग्रामः इति उच्यते ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-३०/५८) भवति च एतत् एकस्मिन् अपि एकशालः ग्रामः इति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-३१/५८) विषमः उपन्यासः ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-३२/५८) ग्रामशब्दः अयम् बह्वर्थः ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-३३/५८) अस्ति एव शालासमुदाये वर्तते ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-३४/५८) तत् यथा ग्रामः दग्धः इति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-३५/५८) अस्ति वाटपरिक्षेपे वर्तते ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-३६/५८) तत् यथा ग्रामम् प्रविष्टः ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-३७/५८) अस्ति मनुष्येषु वर्तते ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-३८/५८) तत् यथा ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-३९/५८) ग्रामः गतः , ग्रामः आगतः इति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-४०/५८) अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-४१/५८) तत् यथा ग्रामः लब्धः इति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-४२/५८) तत् यः सारण्यके ससीमके सस्थण्डिलके वर्तते तम् अभिसमीक्ष्य एतत् प्रयुज्यते ॒ एकशालः ग्रामः इति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-४३/५८) यथा तर्हि वर्णसमुदायः पदम् पदसमुदायः ऋक् ऋक्समुदायः सूक्तम् इति उच्यते ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-४४/५८) भवति च एतत् एकस्मिन् अपि एकवर्णम् पदम् एकपदा ऋक् एकर्चम् सूक्तम् इति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-४५/५८) अत्र अपि अर्थेन युक्तः व्यपदेशः ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-४६/५८) पदम् नाम अर्थः सूक्तम् नम अर्थः ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-४७/५८) यथा तर्हि बहुषु पुत्रेषु एतत् उपपन्नम् ॒ भवति अयम् मे ज्येष्ठः अयम् एव मे मध्यमः अयम् एव मे कनीयान् इति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-४८/५८) भवति च एतत् एकस्मिन् अपि अयम् एव मे ज्येष्ठः अयम् मे मध्यमः अयम् मे कनीयान् इति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-४९/५८) तथा असूतायाम् असोष्यमाणायाम् च भवति प्रथमगर्भेण हता इति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-५०/५८) तथा अनेत्य अनाजिगमिषुः आह इदम् मे प्रथमम् आगमनम् इति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-५१/५८) आद्यन्तवद्भावः च शक्यः अवक्तुम् ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-५२/५८) कथम् ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-५३/५८) अपूर्वानुत्तरलक्षणत्वात् आद्यन्तयोः सिद्धम् एकस्मिन् ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-५४/५८) अपूर्वलक्षणः आदिः अनुत्तरलक्षणः अन्तः ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-५५/५८) एतत् च एकस्मिन् अपि भवति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-५६/५८) अपूर्वानुत्तरलक्षणत्वात् एतस्मात् कारणात् एकस्मिन् अपि आद्यन्तापदिष्टनि कार्याणि भविष्यन्ति ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-५७/५८) न अर्थः आद्यन्तवद्भावेन ।

(पा-१,१.२१.१; अकि-१,७६.१६-७८.२; रो-१,२४७-२५२; भा-५८/५८) गोनर्दीयः तु आह सत्यम् एतत् सति तु अन्यस्मिन् इति ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-१/३९) कानि पुनः अस्य योगस्य प्रयोजनानि ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-२/३९) आदिवत्त्वे प्रयोजनम् प्रत्ययञ्निदाद्युदात्तत्वे ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-३/३९) प्रत्ययस्य आदिः उदात्तः भवति इति इह एव स्यात् ॒ कर्तव्यम् , तैत्तिरीयः ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-४/३९) औपगवः , कापटवः इति अत्र न स्यात् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-५/३९) ञ्निति आदिः नित्यम् इति इह एव स्यात् ॒ अहिचुम्बकायनिः , अग्निवेश्यः ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-६/३९) गर्ग्यः , कृतिः इति अत्र न स्यात् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-७/३९) वलादेः आर्धधातुकस्य इट् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-८/३९) वलादेः आर्धधातुकस्य इट् प्रयोजनम् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-९/३९) आर्धधातुकस्य इट् वलादेः इह एव ॒ स्यात् करिष्यति हरिष्यति ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-१०/३९) जोषिषत् , मनिद्षत् इति अत्र न स्यात् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-११/३९) यस्मिन् विधिः तदादित्वे ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-१२/३९) यस्मिन् विधिः तदादित्वे प्रयोजनम् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-१३/३९) वक्ष्यति यस्मिन् विधिः तदादौ अल्ग्रहणे इति ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-१४/३९) तस्मिन् क्रियमाणे अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इह एव स्यात् ॒ श्रियः , भ्रुवः ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-१५/३९) श्रियौ भ्रुवौ इति अत्र न स्यात् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-१६/३९) अजाद्याट्त्वे । अजाद्याट्त्वे प्रयोजनम् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-१७/३९) आट् अजादीनाम् इह एव स्यात् ॒ ऐहिष्ट , ऐक्षिष्ट ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-१८/३९) ऐत् , अध्यैष्ट इति अत्र न स्यात् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-१९/३९) अथ अन्तवत्त्वे कानि प्रयोजनानि ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-२०/३९) अन्तवत् द्विवचनान्तप्रगृह्यत्वे । अन्तवत् द्विवचनान्तप्रगृह्यत्वे प्रयोजनम् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-२१/३९) ईदूदेत् द्विवचनम् प्रगृह्यम् इह एव स्यात् ॒ पचेते* इति पचेथे* इति ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-२२/३९) खट्वे* इति माले* इति इति अत्र न स्यात् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-२३/३९) मित् अचः अन्त्यात् परः ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-२४/३९) मित् अचः अन्त्यात् परः प्रयोजनम् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-२५/३९) इह एव स्यात् ॒ कुण्डानि वनानि ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-२६/३९) तानि यानि इति अत्र न स्यात् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-२७/३९) अचः अन्त्यादि टि ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-२८/३९) अचः अन्त्यादि टि प्रयोजनम् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-२९/३९) टितः आत्मनेपदानाम् टेः ए इति इह एव स्यात् ॒ कुर्वाते कुर्वाथे ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-३०/३९) कुरुते कुर्वे इति अत्र न स्यात् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-३१/३९) अलः अन्त्यस्य ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-३२/३९) अलः अन्त्यस्य प्रयोजनम् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-३३/३९) अतः दीर्घः यञि सुपि च इह एव स्यात् ॒ घटाभ्यम् , पटाभ्याम् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-३४/३९) आभ्याम् इति अत्र न स्यात् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-३५/३९) येन विदिः तदन्तत्वे ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-३६/३९) येन विदिः तदन्तत्वे प्रयोजनम् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-३७/३९) अचः यत् इह एव स्यात् ॒ चेयम् , जेयम् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-३८/३९) एयम् अध्येयम् इति अत्र न स्यात् ।

(पा-१,१.२१.२; अकि-१,७८.३-७९.१०; रो-१,२५२-२५४; भा-३९/३९) आद्यन्तवत् एकस्मिन् कार्यम् भवति इति अत्र अपि सिद्धम् भवति ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-१/२६) घसञ्ज्ञायाम् नदीतरे प्रतिषेधः ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-२/२६) घसञ्ज्ञायाम् नदीतरे प्रतिषेधः वक्तव्यः ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-३/२६) नद्याः तरः नदीतरः इति ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-४/२६) घसञ्ज्ञायाम् नदीतरे अप्रतिषेधः ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-५/२६) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-६/२६) घसञ्ज्ञा कस्मात् न भवति ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-७/२६) तरब्ग्रहणम् हि औपदेशिकम् ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-८/२६) औपदेशिकस्य तरपः ग्रहणम् ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-९/२६) न च एषः उपदेशे तरप्शब्दः ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-१०/२६) किम् वक्तव्यम् एतत् ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-११/२६) न हि ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-१२/२६) कथम् अनुच्यमानम् गंस्यते ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-१३/२६) इह हि व्याकरणे सर्वेषु एव सानुबन्धकेषु ग्रहणेषु रूपम् आश्रीयते ॒ यत्र एतत् रूपम् इति ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-१४/२६) रूपनिर्ग्रहः च न अन्तरेण लौकिकम् प्रयोगम् ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-१५/२६) तस्मिन् च लौकिके प्रयोगे सानुबन्धकानाम् प्रयोगः न अस्ति इति कृत्वा द्वितीयः प्रयोगः उपास्यते ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-१६/२६) कः असौ ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-१७/२६) उपदेशः नाम ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-१८/२६) न च एषः उपदेशे तरप्शब्दः ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-१९/२६) अथ वा अस्तु अस्य घसञ्ज्ञा ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-२०/२६) कः दोषः ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-२१/२६) घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वम् प्रसज्येत ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-२२/२६) समानाधिकरणेषु घादिषु इति एवम् तत् ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-२३/२६) यदा तर्हि सा एव नदी सः एव तरः तदा प्राप्नोति ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-२४/२६) स्त्रीलिङ्गेषु एव घादिषु इति एवम् तत् ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-२५/२६) अवश्यम् च एतत् एवम् विज्ञेयम् ।

(पा-१,१.२२; अकि-१,७९.१२-८०.२; रो-१,२५५-२५६; भा-२६/२६) समानाधिकरणेषु घादिषु इति उच्यमाने इह प्रसज्येत महिषी रूपम् इव ब्राह्मणी रूपम् इव ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-१/९१) सङ्ख्यासञ्ज्ञायाम् सङ्ख्याग्रहणम् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-२/९१) सङ्ख्यासञ्ज्ञायाम् सङ्ख्याग्रहणम् कर्तव्यम् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-३/९१) बहुगण्वतुडतयः सङ्ख्यासञ्ज्ञाः भवन्ति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-४/९१) सङ्ख्या च सङ्ख्यासञ्ज्ञा भवति इति वक्तव्व्यम् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-५/९१) किम् प्रयोजनम् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-६/९१) सङ्ख्यासम्प्रत्ययार्थम् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-७/९१) एकादिकायाः सङ्ख्यायाः सङ्ख्याप्रदेशेषु सङ्ख्या इति एषः सम्प्रत्ययः यथा स्यात् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-८/९१) ननु च एकादिका सङ्ख्या लोके सङ्ख्या इति प्रतीता ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-९/९१) तेन अस्याः सङ्ख्याप्रदेशेषु सङ्ख्यासम्प्रत्ययः भविष्यति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-१०/९१) एवम् अपि कर्तव्यम् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-११/९१) इतरथा हि असम्प्रत्ययः अकृत्रिमत्वात् यथा लोके ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-१२/९१) अक्रियमाणे हि सङ्ख्याग्रहणे एकादिकायाः सङ्ख्यायाः सङ्ख्या इति सम्प्रत्ययः न स्यात् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-१३/९१) किम् कारणम् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-१४/९१) अकृत्रिमत्वात् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-१५/९१) बह्वादीनाम् कृत्रिमा सञ्ज्ञा ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-१६/९१) कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः भवति यथा लोके ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-१७/९१) तत् यथा लोके गोपालकम् आनय कटजकम् आनय इति यस्य एषा सञ्ज्ञा भवति सः आनीयते न यः गाः पालयति यः वा कटे जातः ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-१८/९१) यदि तर्हि कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति नदीपौर्णमास्याग्रहायणीभ्यः इति अत्र अपि प्रसज्येत ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-१९/९१) पौर्णमास्याग्रहायणीग्रहणसामर्थ्यात् न भविष्यति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-२०/९१) तद्विशेषेभ्यः तर्हि प्राप्नोति ॒ गङ्गा यमुना इति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-२१/९१) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न तद्विशेषेभ्यः भवति इति यत् अयम् विपाट्शब्दम् शरत्प्रभृतिषु पठति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-२२/९१) इह तर्हि प्राप्नोति ॒ नदीभिः च इति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-२३/९१) बहुवचननिर्देशात् न भविष्यति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-२४/९१) स्वरूपविधिः तर्हि प्राप्नोति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-२५/९१) बहुवचननिर्देशात् एव न भविष्यति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-२६/९१) एवम् न च इदम् अकृतम् भवति कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः इति न च कः चित् दोषः ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-२७/९१) उत्तरार्थम् च ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-२८/९१) उत्तरार्थम् च सङ्ख्याग्रहणम् कर्तव्यम् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-२९/९१) ष्णान्ता षट् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-३०/९१) षकारनकारान्तायाः सङ्ख्यायाः षट्सञ्ज्ञा यथा स्यात् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-३१/९१) इह मा भूत् ॒ पामानः , विप्रुषः इति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-३२/९१) इहार्थेन तावत् न अर्थः सङ्ख्याग्रहणेन ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-३३/९१) ननु च उक्तम् इतरथा हि असम्प्रत्ययः अकृत्रिमत्वात् यथा लोके इति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-३४/९१) न एषः दोषः ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-३५/९१) अर्थात् प्रकरणात् वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-३६/९१) अर्थः वा अस्य एवंसङ्ज्ञकेन भवति प्रकृतम् वा तत्र भवति इदम् एवंसङ्ज्ञकेन कर्तव्यम् इति. आतः च अर्थात् प्रकरणात् वा ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-३७/९१) अङ्ग हि भवान् ग्राम्यम् पांसुरपादम् अप्रकरणज्ञम् आगतम् ब्रवीतु गोपालकम् आनय कटजकम् आनय इति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-३८/९१) उभयगतिः तस्य भवति साधीयः वा यष्टिहस्तम् गमिष्यति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-३९/९१) यथा एव तर्हि अर्थात् प्रकरणात् वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति एवम् इह अपि प्राप्नोति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-४०/९१) जानाति हि असौ बह्वादीनाम् इयम् सञ्ज्ञा कृता इति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-४१/९१) न यथा लोके तथा व्याकरणे ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-४२/९१) उभयगतिः पुनः इह भवति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-४३/९१) अन्यत्र अपि न अवश्यम् इह एव ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-४४/९१) तत् यथा ॒ कर्तुः ईप्सिततमम् कर्म इति कृत्रिमा सञ्ज्ञा ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-४५/९१) कर्मप्रदेशेषु च उभयगतिः भवति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-४६/९१) कर्मणि द्वितीया इति कृत्रिमस्य ग्रहणम् कर्तरि कर्मव्यतिहारे इति अकृत्रिमस्य ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-४७/९१) तथा साधकतमम् करणम् इति कृत्रिमा करणसञ्ज्ञा ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-४८/९१) करणप्रदेशेषु च उभयगतिः भवति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-४९/९१) कर्तृकरणयोः तृतीया इति कृत्रिमस्य ग्रहणम् शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे इति अकृत्रिमस्य ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-५०/९१) तथा आधारः अधिकरणम् इति कृत्रिमा अधिकरणसञ्ज्ञा ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-५१/९१) अधिकरणेप्रदेशेषु च उभयगतिः भवति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-५२/९१) सप्तमी अधिकरणे च इति कृत्रिमस्य ग्रहणम् विप्रतिषिद्धम् च अनधिकरणवाचि इति अकृत्रिमस्य ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-५३/९१) अथ वा न इदम् सञ्ज्ञाकरणम् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-५४/९१) तद्वदतिदेशः अयम् ॒ बहुगणवतुडतयः सङ्ख्यावत् भवन्ति इति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-५५/९१) सः तर्हि वतिनिर्देशः कर्तव्यः ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-५६/९१) न हि अन्तरेण वतिम् अतिदेशः गम्यते ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-५७/९१) अन्तरेण अपि वतिम् अतिदेशः गम्यते ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-५८/९१) तत् यथा ॒ एषः ब्रह्मदत्तः ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-५९/९१) अब्रह्मदत्तम् ब्रह्मदत्तः इति आह ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-६०/९१) ते मन्यामहे ॒ ब्रह्मदत्तवत् अयम् भवति इति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-६१/९१) एवम् इह अपि असङ्ख्याम् सङ्ख्या इति आह ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-६२/९१) सङ्ख्यावत् इति गम्यते ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-६३/९१) अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति एकादिकायाः सङ्ख्यायाः सङ्ख्याप्रदेशेषु सङ्ख्यासम्प्रत्ययः इति यत् अयम् सङ्ख्यायाः अतिशदन्तायाः कन् इति तिशदन्तायाः प्रतिषेधम् शास्ति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-६४/९१) कथम् कृत्वा ज्ञापकम् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-६५/९१) न हि कृत्रिमा त्यन्ता शदन्ता वा सङ्ख्या अस्ति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-६६/९१) ननु च इयम् अस्ति डतिः ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-६७/९१) यत् तर्हि शदन्तायाः प्रतिषेधम् शास्ति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-६८/९१) यत् च अपि त्यन्तायाः प्रतिषेधम् शास्ति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-६९/९१) ननु च उक्तम् डत्यर्थम् एतत् स्यात् इति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-७०/९१) अर्थवद्ग्रहणे न अनर्थकस्य इति अर्थवतः तिशब्दस्य ग्रहणम् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-७१/९१) न च डतेः तिशब्दः अर्थवान्. अथ वा महती इयम् सञ्ज्ञा क्रियते ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-७२/९१) सञ्ज्ञा च नाम यतः न लघीयः ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-७३/९१) कुतः एतत् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-७४/९१) लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-७५/९१) तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथ विज्ञायेत ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-७६/९१) सङ्ख्यायते अनया सङ्ख्या इति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-७७/९१) एकादिकया च अपि सङ्ख्यायते ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-७८/९१) उत्तरार्थेन च अपि न अर्थः सङ्ख्याग्रहणेन ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-७९/९१) इदम् प्रकृतम् अनुवर्तिष्यते ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-८०/९१) इदम् वै सञ्ज्ञार्थम् उत्तरत्र च सञ्ज्ञिविशेषणार्थः ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-८१/९१) न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-८२/९१) न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-८३/९१) न हि गोधा सर्पन्ती सर्पणात् अहिः भवति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-८४/९१) यत् तावत् उच्यते न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति इति अन्यार्थम् अपि प्रकृतम् अन्यार्थम् भवति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-८५/९१) तत् यथा ॒ शाल्यर्थम् कुल्याः प्रणीयन्ते ताभ्यः च पाणीयम् पीयते उपश्पृश्यते च शालयः च भाव्यन्ते ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-८६/९१) यद् अपि उच्यते न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-८७/९१) न हि गोधा सर्पन्ती सर्पणात् अहिः भवति इति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-८८/९१) भवेत् द्रव्येषु एतत् एवम् स्यात् ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-८९/९१) शब्दः तु खलु येन येन विशेषेण अभिसम्बध्यते तस्य तस्य विशेषकः भवति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-९०/९१) अथ वा सापेक्षः अयम् निर्देशः क्रियते न च अन्यत् किम् चित् अपेक्ष्यम् अस्ति ।

(पा-१,१.२३.१; अकि-१,८०.४-८२.९; रो-१,२५६-२६३; भा-९१/९१) ते सङ्ख्याम् एव अपेक्षिष्यामहे ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-१/३८) अध्यर्धग्रहणम् च समासकन्विध्यर्थम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-२/३८) अध्यर्धग्रहणम् च कर्तव्यम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-३/३८) किम् प्रयोजनम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-४/३८) समासकन्विध्यर्थम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-५/३८) समासविध्यर्थम् कन्द्विध्यर्थम् च ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-६/३८) समासविध्यर्थम् तावत् ॒ अध्यर्धशूर्पम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-७/३८) कन्विध्यर्थम् ॒ अध्यर्धकम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-८/३८) लुकि च अग्रहणम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-९/३८) लुकि च अध्यर्धग्रहणम् न कर्तव्यम् भवति ॒ अध्यर्धपूर्वद्विगोः लुक् असञ्ज्ञायाम् इति ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-१०/३८) द्विगोः इति एव सिद्धम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-११/३८) अर्धपूर्वपदः च पूरणप्रत्ययान्तः ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-१२/३८) अर्धपूर्वपदः च पूरणप्रत्ययान्तः सङ्ख्यासञ्ज्ञः भवति इति वक्तव्यम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-१३/३८) किम् प्रयोजनम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-१४/३८) समासकन्विध्यर्थम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-१५/३८) समासविध्यर्थम् कन्द्विध्यर्थम् च ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-१६/३८) समासविध्यर्थम् तावत् ॒ अर्धपञ्चमशूर्पम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-१७/३८) कन्विध्यर्थम् ॒ अर्धपञ्चमकम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-१८/३८) अधिकग्रहणम् च अलुकि समासोत्तरपदवृद्ध्यर्थम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-१९/३८) अधिकग्रहणम् च अलुकि कर्तव्यम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-२०/३८) किम् प्रयोजनम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-२१/३८) समासोत्तरपदवृद्ध्यर्थम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-२२/३८) समासवृद्ध्यर्थम् उत्तरवृद्ध्यर्तम् च ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-२३/३८) समासवृद्ध्यर्थम् तावत् ॒ अधिकषाष्ठिकः , अधिकसाप्ततिकः ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-२४/३८) उत्तरपदवृद्ध्यर्थम् अधिकषाष्ठिकः , अधिकसाप्ततिकः ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-२५/३८) अलुकि इति किम् अर्थम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-२६/३८) अधिकषाष्ठिकः , अधिकसाप्ततिकः ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-२७/३८) बहुव्रीहौ च अग्रहणम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-२८/३८) बहुव्रीहौ च अधिकशब्दस्य ग्रहणम् न कर्तव्यम् भवति ॒ सङ्ख्यया अव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये इति ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-२९/३८) सङ्ख्या इति एव सिद्धम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-३०/३८) बह्वादीनाम् अग्रहणम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-३१/३८) बह्वादीनाम् ग्रहणम् शक्यम् अकर्तुम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-३२/३८) केन इदानीम् सङ्ख्याप्रदेशेषु सङ्ख्यसम्प्रत्ययः भविष्यति ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-३३/३८) ज्ञापकात् सिद्धम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-३४/३८) किम् ज्ञापकम् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-३५/३८) यत् अयम् वतोः इट् वा इति सङ्ख्यायाः विहितस्य कनः वत्वन्तात् इटम् शास्ति ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-३६/३८) वतोः एव तत् ज्ञापकम् स्यात् ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-३७/३८) न इति आह ।

(पा-१,१.२३.२; अकि-१,८२.१०-८३.८; रो-१,२६३-२६५; भा-३८/३८) योगापेक्षम् ज्ञापकम् ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-१/४४) षट्सञ्ज्ञायाम् उपदेशवचनम् ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-२/४४) षट्सञ्ज्ञायाम् उपदेशग्रहणम् कर्तव्यम् ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-३/४४) उपदेशे षकारनकारान्ता सङ्ख्या षट्सञ्ज्ञा भवति इति वक्तव्यम् ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-४/४४) किम् प्रयोजनम् ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-५/४४) शताद्यष्टनोः नुम्नुडर्थम् ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-६/४४) शतानि सहस्राणि ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-७/४४) नुमि कृते ष्णान्ता षट् इति षट्सञ्ज्ञा प्राप्नोति ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-८/४४) उपदेशग्रहणात् न भवति ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-९/४४) अष्टानाम् इति अत्र आत्वे कृते षट्सञ्ज्ञा न प्राप्नोति ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-१०/४४) उपदेशग्रहणात् भवति ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-११/४४) उक्तम् वा ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-१२/४४) किम् उक्तम् ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-१३/४४) इह तावत् शतानि सहस्राणि इति ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-१४/४४) सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-१५/४४) अष्टनः अपि उक्तम् ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-१६/४४) किम् उक्तम् ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-१७/४४) अष्टनः दीर्घग्रहणम् षट्सञ्ज्ञाज्ञापकम् आकारान्तस्य नुडर्थम् इति ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-१८/४४) अथ वा आकारः अपि अत्र निर्दिश्यते ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-१९/४४) षकारान्ता नकारान्ता आकारान्ता च सङ्ख्या षट्सञ्ज्ञा भवति इति ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-२०/४४) इह अपि तर्हि प्राप्नोति ॒ सधमधः द्युम्नः एकाः तः एकाः इति ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-२१/४४) न एषः दोषः ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-२२/४४) एकशब्दः अयम् बह्वर्थः ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-२३/४४) अस्ति एव सङ्ख्यापदम् ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-२४/४४) तत् यथा ॒ एकः , द्वौ , बहवः इति ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-२५/४४) अस्ति असहायवाची ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-२६/४४) तत् यथा ॒ एकाग्नयः , एकहलानि , एकाकिभिः क्षुद्रकैः जितम् इति ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-२७/४४) असहायैः इति अर्थः ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-२८/४४) अस्ति अन्यार्थे वर्तते ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-२९/४४) तत् यथा ॒ प्रजम् एका रक्षति उर्जम् एका इति ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-३०/४४) अन्या इति अर्थः ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-३१/४४) सधमदः द्युम्नः एकाः तः ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-३२/४४) अन्याः इति अर्थः ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-३३/४४) तत् यः अन्यार्थे वर्तते तस्य एषः प्रयोगः ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-३४/४४) इह तर्हि प्राप्नोति ॒ द्वभ्याम् इष्टये विंशत्य च इति ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-३५/४४) एवम् तर्हि सप्तमे योगविभागः करिष्यते ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-३६/४४) अष्टाभ्यः औश् ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-३७/४४) ततः षड्भ्यः ॒ षड्भ्यः च यत् उक्तम् अष्टाभ्यः अपि तत् भवति ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-३८/४४) ततः लुक् ॒ लुक् च भवति षड्भ्यः इति ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-३९/४४) अथ वा उपरिष्टात् योगविभागः करिष्यते ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-४०/४४) अष्टनः आ विभक्तौ ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-४१/४४) ततः रायः ॒ रायः च विभक्तौ आकारादेशः भवति ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-४२/४४) हलि इति उभयोः शेषः ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-४३/४४) यदि एवम् प्रियाष्टौ प्रियाष्टाः इति न सिध्यति प्रियाष्टानौ प्रियाष्टानः इति च प्राप्नोति ।

(पा-१,१.२४; अकि-१,८३.१०-८४.७; रो-१,२६५-२६९; भा-४४/४४) यथालक्षणम् अप्रयुक्ते ।

(पा-१,१.२५; अकि-१,८४.९-१२; रो-१,२६९; भा-१/८) इदम् डतिग्रहणम् द्विः क्रियते सङ्ख्यासञ्ज्ञायाम् षट्सञ्ज्ञायाम् च ।

(पा-१,१.२५; अकि-१,८४.९-१२; रो-१,२६९; भा-२/८) एकम् शक्यम् अकर्तुम् ।

(पा-१,१.२५; अकि-१,८४.९-१२; रो-१,२६९; भा-३/८) कथम् ।

(पा-१,१.२५; अकि-१,८४.९-१२; रो-१,२६९; भा-४/८) यदि तावत् सङ्ख्यासञ्ज्ञायाम् क्रियते षट्सञ्ज्ञायाम् न करिष्यते ।

(पा-१,१.२५; अकि-१,८४.९-१२; रो-१,२६९; भा-५/८) कथम् ।

(पा-१,१.२५; अकि-१,८४.९-१२; रो-१,२६९; भा-६/८) ष्णान्ता षट् इति अत्र डति इति अनुवर्तिष्यते ।

(पा-१,१.२५; अकि-१,८४.९-१२; रो-१,२६९; भा-७/८) अथ षट्सञ्ज्ञायाम् क्रियते सङ्ख्यासञ्ज्ञायाम् न करिष्यते ।

(पा-१,१.२५; अकि-१,८४.९-१२; रो-१,२६९; भा-८/८) डति च इति अत्र सङ्ख्यासञ्ज्ञा अनुवर्तिष्यते ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-१/४६) निष्ठासञ्ज्ञायाम् समानशब्दप्रतिषेधः ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-२/४६) निष्ठासञ्ज्ञायाम् समानशब्दानाम् प्रतिषेधः कर्तव्यः ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-३/४६) लोतः गर्तः इति ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-४/४६) निष्ठासञ्ज्ञायाम् समानशब्दाप्रतिषेधः ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-५/४६) निष्ठासञ्ज्ञायाम् समानशब्दप्रतिषेधः ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-६/४६) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-७/४६) निष्ठासञ्ज्ञा कस्मात् न भवति ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-८/४६) अनुबन्धः अन्यत्वकरः ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-९/४६) अनुबन्धः क्रियते ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-१०/४६) सः अन्यत्वम् करिष्यति ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-११/४६) अनुबन्धः अन्यत्वकरः इति चेत् न लोपात् ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-१२/४६) अनुबन्धः अन्यत्वकरः इति चेत् तत् न ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-१३/४६) किम् कारणम् ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-१४/४६) लोपात् ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-१५/४६) लुप्यते अत्र अनुबन्धः ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-१६/४६) लुप्ते अत्र अनुबन्धे न अन्यत्वम् भविष्यति ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-१७/४६) तत् यथा ॒ कतरत् देवदत्तस्य गृहम् ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-१८/४६) अदः यत्र असौ काकः इति ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-१९/४६) उत्पतिते काके नष्टम् तत् गृहम् भवति ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-२०/४६) एवम् इह अपि लुप्ते अनुबन्धे नष्टः प्रत्ययः भवति ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-२१/४६) यदि अपि लुप्यते जानाति तु असौ सानुबन्धकस्य इयम् सञ्ज्ञा कृता इति ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-२२/४६) तत् यथा इतरत्र अपि ॒ कतरत् देवदत्तस्य गृहम् ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-२३/४६) अदः यत्र असौ काकः इति ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-२४/४६) उत्पतिते काके यदि अपि नष्टम् तत् गृहम् भवति अन्ततः तम् उद्देशम् जानाति ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-२५/४६) सिद्धविपर्यासः च ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-२६/४६) सिद्धः च विपर्यासः ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-२७/४६) यदि अपि जानाति सन्देहः तस्य भवति ॒ अयम् सः तशब्दः लोतः गर्तः इति अयम् सः तशब्दः लूनः गीर्णः इति ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-२८/४६) तत् यथा इतरत्र अपि ॒ कतरत् देवदत्तस्य गृहम् ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-२९/४६) अदः यत्र असौ काकः इति ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-३०/४६) उत्पतिते काके यदि अपि नष्टम् तत् गृहम् भवति अन्ततः तम् उद्देशम् जानाति ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-३१/४६) सन्देहः तु तस्य भवति ॒ इदम् तत् गृहम् इदम् तत् गृहम् इति ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-३२/४६) एवम् तर्हि ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-३३/४६) कारककालविशेषात् सिद्धम् ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-३४/४६) कारककालविशेषौ उपादेयौ ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-३५/४६) भूते यः तशब्दः कर्तरि कर्मणि भावे च इति ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-३६/४६) तत् यथा इतरत्र अपि ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-३७/४६) यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः अध्रुवेण निमित्तेन ध्रुवम् निमित्तम् उपादत्ते वेदिकाम् पुण्डरीकम् वा ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-३८/४६) एवम् अपि प्राकीर्ष्ट इति अत्र प्राप्नोति ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-३९/४६) लुङि सिजादिदर्शनात् ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-४०/४६) लुङि सिजादिदर्शनात् न भविष्यति ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-४१/४६) यत्र तर्हि सिजादयः न दृश्यन्ते प्राभित्त इति ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-४२/४६) दृश्यन्ते अत्र अपि सिजादयः ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-४३/४६) किम् वक्तव्यम् एतत् ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-४४/४६) न हि ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-४५/४६) कथम् अनुच्यमानम् गंस्यते ।

(पा-१,१.२६; अकि-१,८४.१४-८५.१७; रो-१,२७०-२७२; भा-४६/४६) यथा एव अयम् अनुपदिष्टान् कारककालविशेषान् अवगच्छति एवम् एतत् अपि अवगन्तुम् अर्हति ॒ यत्र सिजादयः न इति ।

(पा-१,१.२७.१; अकि-१,८६.२-८; रो-१,२७३-२७४; भा-१/१५) सर्वादीनि इति कः अयम् समासः ।

(पा-१,१.२७.१; अकि-१,८६.२-८; रो-१,२७३-२७४; भा-२/१५) बहुव्रीहिः इति आह ।

(पा-१,१.२७.१; अकि-१,८६.२-८; रो-१,२७३-२७४; भा-३/१५) कः अस्य विग्रहः ।

(पा-१,१.२७.१; अकि-१,८६.२-८; रो-१,२७३-२७४; भा-४/१५) सर्वशब्दः आदिः येषाम् तानि इमानि इति ।

(पा-१,१.२७.१; अकि-१,८६.२-८; रो-१,२७३-२७४; भा-५/१५) यदि एवम् सर्वशब्दस्य सर्वनामसञ्ज्ञा न प्राप्नोति ।

(पा-१,१.२७.१; अकि-१,८६.२-८; रो-१,२७३-२७४; भा-६/१५) किम् कारणम् ।

(पा-१,१.२७.१; अकि-१,८६.२-८; रो-१,२७३-२७४; भा-७/१५) अन्यपदार्थत्वात् बहुव्रीहेः ।

(पा-१,१.२७.१; अकि-१,८६.२-८; रो-१,२७३-२७४; भा-८/१५) बहुव्रीहिः अयम् अन्यपदार्थे वर्तते ।

(पा-१,१.२७.१; अकि-१,८६.२-८; रो-१,२७३-२७४; भा-९/१५) तेन यत् अन्यत् सर्वशब्दात् तस्य सर्वनामस्ञ्ज्ञा प्राप्नोति ।

(पा-१,१.२७.१; अकि-१,८६.२-८; रो-१,२७३-२७४; भा-१०/१५) तत् यथा चित्रगुः आनीयताम् इति उक्ते यस्य ताः गावः भवन्ति स आनीयते न गावः ।

(पा-१,१.२७.१; अकि-१,८६.२-८; रो-१,२७३-२७४; भा-११/१५) न एषः दोषः ।

(पा-१,१.२७.१; अकि-१,८६.२-८; रो-१,२७३-२७४; भा-१२/१५) भवति बहुव्रीहौ तद्गुणसंविज्ञानम् अपि ।

(पा-१,१.२७.१; अकि-१,८६.२-८; रो-१,२७३-२७४; भा-१३/१५) तत् यथा ॒ चित्रवासम् आनय ।

(पा-१,१.२७.१; अकि-१,८६.२-८; रो-१,२७३-२७४; भा-१४/१५) लोहितोष्णीषाः ऋत्विजः प्रचरन्ति ।

(पा-१,१.२७.१; अकि-१,८६.२-८; रो-१,२७३-२७४; भा-१५/१५) तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-१/४७) इह सर्वनामानि इति पूर्वपदात् सञ्ज्ञायाम् अगः इति णत्वम् प्राप्नोति ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-२/४७) तस्य प्रतिषेधः वक्तव्यः ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-३/४७) सर्वनामसञ्ज्ञायाम् निपातनात् णत्वाभावः ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-४/४७) सर्वनामसञ्ज्ञायाम् निपातनात् णत्वम् न भविष्यति ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-५/४७) किम् एतत् निपातनम् नाम ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-६/४७) अथ कः प्रतिषेधः नाम ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-७/४७) अविशेषेण किम् चित् उक्त्वा विशेषेण न इति उच्यते ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-८/४७) तत्र व्यक्तम् आचार्यस्य अभिप्रायः गम्यते ॒ इदम् न भवति इति ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-९/४७) निपातनम् अपि एवञ्जातीयकम् एव ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-१०/४७) अविशेषेण णत्वम् उक्त्वा विशेषेण निपातनम् क्रियते ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-११/४७) तत्र व्यक्तम् आचार्यस्य अभिप्रायः गम्यते ॒ इदम् न भवति इति ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-१२/४७) ननु च निपातनात् च अणत्वम् स्यात् यथाप्राप्तम् च णत्वम् ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-१३/४७) किम् अन्ये अपि एवम् विधयः भवन्ति ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-१४/४७) इह इकः यण् अचि इति वचनात् च यण् स्यात् यथाप्राप्तः च इक् श्रूयेत ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-१५/४७) न एषः दोषः ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-१६/४७) अस्ति अत्र विशेषः ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-१७/४७) षष्ठ्या अत्र निर्देशः क्रियते ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-१८/४७) षष्ठी च पुनः स्थानिनम् निवर्तयति ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-१९/४७) इह तर्हि ॒ कर्तरि शप् दिवादिभ्यः श्यन् इति वचनात् च श्यन् स्यात् यथाप्राप्तः च शप् श्रूयेत ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-२०/४७) न एषः दोषः ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-२१/४७) शबादेशाः श्यनादयः करिष्यन्ते ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-२२/४७) तत् तर्हि शपः ग्रहणम् कर्तव्यम् ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-२३/४७) न कर्तव्यम् ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-२४/४७) प्रकृतम् अनुवर्तते ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-२५/४७) क्व प्रकृतम् ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-२६/४७) कर्तरि शप् इति ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-२७/४७) तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-२८/४७) दिवादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति ॒ तस्मात् इति उत्तरस्य ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-२९/४७) प्रत्ययविधिः अयम् ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-३०/४७) न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-३१/४७) न अयम् प्रत्ययविधिः ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-३२/४७) विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-३३/४७) इह तर्हि ॒ अव्ययसर्वनाम्नाम् अकच् प्राक् टेः इति ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-३४/४७) वचनात् च अकच् स्यात् यथाप्राप्तः च कः श्रूयेत ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-३५/४७) न एषः दोषः ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-३६/४७) न अप्राप्ते हि के अकच् आरभ्यते ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-३७/४७) सः बाधकः भविष्यति ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-३८/४७) निपातनम् अपि एवञ्जातीयकम् एव ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-३९/४७) न अप्राप्ते णत्वे निपातनम् आरभ्यते ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-४०/४७) तत् बाधकम् भविष्यति ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-४१/४७) यदि तर्हि निपातनानि अपि एवञ्जातीयकानि भवन्ति समः तते दोषः भवति ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-४२/४७) इह अन्ये वैयाकरणाः समः तते विभाषा लोपम् आरभन्ते ॒ समः हि ततयोः वा इति ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-४३/४७) सततम् , सन्ततम् , सहितम् , संहितम् इति ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-४४/४७) इह पुनः भवान् निपातनात् च मलोपम् इच्छति अपरस्पराः क्रियासातत्ये इति यथाप्राप्तम् च अलोपम् सन्ततम् इति ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-४५/४७) एतत् न सिध्यति ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-४६/४७) कर्तव्यः अत्र यत्नः ।

(पा-१,१.२७.२; अकि-१,८६.९-८७.६; रो-१,२७४-२७७; भा-४७/४७) बाधकानि एव हि निपातनानि भवन्ति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-१/८४) सञ्ज्ञोपसर्जनप्रतिषेधः ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-२/८४) सञ्ज्ञोपसर्जनीभूतानाम् सर्वादीनाम् प्रतिषेधः वक्तव्यः ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-३/८४) सर्वः नाम कः चित् ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-४/८४) तस्मै सर्वाय देहि ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-५/८४) अतिसर्वाय देहि ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-६/८४) सः कथम् कर्तव्यः ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-७/८४) पाठात् पर्युदासः पठितानाम् सञ्ज्ञाकरणम् ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-८/८४) पाठात् एव पर्युदासः कर्तव्यः ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-९/८४) शुद्धानाम् पठितानाम् सञ्ज्ञा कर्तव्या ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-१०/८४) सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-११/८४) सञ्ज्ञोपसर्जनीभूतानि न सर्वादीनि ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-१२/८४) किम् अविशेषेण ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-१३/८४) न इति आह ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-१४/८४) विशेषेण च ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-१५/८४) किम् प्रयोजनम् ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-१६/८४) सर्वाद्यानन्तर्यकार्यार्थम् ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-१७/८४) सर्वादीनाम् आनन्तर्येण यत् उच्यते कार्यम् तत् अपि सञ्ज्ञोपसर्जनीभूतानाम् मा भूत् इति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-१८/८४) किम् प्रयोजनम् ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-१९/८४) प्रयोजनम् डतरादीनाम् अद्भावे ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-२०/८४) डतरादीनाम् अद्भावे प्रयोजनम् ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-२१/८४) अतिक्रान्तम् इदम् बृआह्मणकुलम् कतरत् , अतिकतरम् ब्राह्मणकुलम् इति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-२२/८४) त्यदादिविधौ च ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-२३/८४) त्यदादिविधौ च प्रयोजनम् ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-२४/८४) अतिक्रान्तः अयम् ब्राह्मणः तम् अतितत् ब्राह्मणः इति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-२५/८४) सञ्जाप्रतिषेधः तावत् न वक्तव्यः ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-२६/८४) उपरिष्टात् योगविभागः करिष्यते ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-२७/८४) पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-२८/८४) ततः असञ्ज्ञायाम् इति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-२९/८४) सर्वादीनि इति एवम् यानि अनुक्रान्तानि असञ्ज्ञायाम् तानि द्रष्टव्यानि ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-३०/८४) उपसर्जनप्रतिषेधः च न कर्तव्यः ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-३१/८४) अनुपसर्जनात् इति एषः योगः प्रत्याख्यायते ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-३२/८४) तम् एवम् अभिसम्भन्त्स्यामः ॒ अनुपसर्जन* अ* अत् इति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-३३/८४) किम् इदम् अ* अत् इति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-३४/८४) अकारात्कारौ शिष्यमाणौ अनुपसर्जनस्य द्रष्टव्यौ ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-३५/८४) यदि एवम् अतियुष्मत् अत्यस्मत् इति न सिध्यति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-३६/८४) प्रश्लिष्टनिर्देशः अयम् ॒ अनुपसर्जन* अ* अ* अत् इति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-३७/८४) अकारान्तात् अकारात्कारौ शिष्यमाणौ अनुपसर्जनस्य द्रष्टव्यौ ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-३८/८४) अथ वा अङ्गाधिकारे यत् उच्यते गृह्यमाणविभक्तेः तत् भवति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-३९/८४) यदि एवम् परमपञ्च परमसप्त षड्भ्यः लुक् इति लुक् न प्राप्नोति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-४०/८४) न एषः दोषः ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-४१/८४) षट्प्रधानः एषः समासः ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-४२/८४) इह तर्हि प्रियसक्थ्ना ब्राह्मणेन अनङ् न प्राप्नोति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-४३/८४) सप्तमीनिर्दिष्टे यत् उच्यते प्रकृतविभक्तौ तत् भवति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-४४/८४) यदि एवम् अतितत् , अतितदौ , अतितदः इति अत्वम् प्राप्नोति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-४५/८४) तत् च अपि वक्तव्यम् ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-४६/८४) न वक्तव्यम् ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-४७/८४) इह तावत् अद्ड् डतरादिभ्यः पञ्चभ्यः इति पञ्चमी अङ्गस्य इति षष्ठी ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-४८/८४) तत्र अशक्यम् विविभक्तित्वात् डतरादिभ्यः इति पञ्चम्या अङ्गम् विशेषयितुम् ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-४९/८४) तत्र किम् अन्यत् शक्यम् विशेषयितुम् अन्यत् अतः विहितात् प्रत्ययात् ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-५०/८४) डतरादिभ्यः यः विहितः इति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-५१/८४) इह इदानीम् अस्थिदधिसख्थ्यक्ष्णाम् अनङ् उदात्तः इति त्यदादीनाम् अः भवति इति अस्थ्यादीनाम् इति एषा षष्ठी अङ्गस्य इति अपि त्यदादीनाम् इति अपि षष्ठी अङ्गस्य इति अपि ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-५२/८४) तत्र कामचारः ॒ गृह्यमाणेन वा विभक्तिम् विशेषयितुम् अङ्गेन वा ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-५३/८४) यावता कामचारः इह तावत् अस्थिदधिसख्थ्यक्ष्णाम् अनङ् उदात्तः इति अङ्गेन विभक्तिम् विशेषयिष्यामः अस्थ्यादिभिः अनङम् ॒ अङ्गस्य विभक्तौ अनङ् भवति अस्थ्यादीनाम् इति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-५४/८४) इह इदानीम् त्यदादीनाम् अः भवति इति गृह्यमाणेन विभक्तिम् विशेषयिष्यामः अङ्गेन अकारम् ॒ त्यदादीनाम् विभक्तौ अः भवति अङ्गस्य इति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-५५/८४) यदि एवम् अतिसः ॒ अत्वम् न प्राप्नोति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-५६/८४) न एषः दोषः ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-५७/८४) त्यदादिप्रधानः एषः समासः ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-५८/८४) अथ वा न इदम् सञ्ज्ञाकरणम् ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-५९/८४) पाठविशेषणम् इदम् ॒ सर्वेषाम् यानि नामानि तानि सर्वादीनि ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-६०/८४) सञ्ज्ञोपसर्जने च विशेषे अवतिष्ठेते ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-६१/८४) यदि एवम् सञ्ज्ञाश्रयम् यत् कार्यम् तत् न सिध्यति ॒ सर्वनाम्नः स्मै , आमि सर्वनाम्नः सुट् इति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-६२/८४) अन्वर्थग्रहणम् तत्र विज्ञास्यते ॒ सर्वेषाम् यत् नाम तत् सर्वनाम ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-६३/८४) सर्वनाम्नः उत्तरस्य ङेः स्मै भवति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-६४/८४) सर्वनाम्नः उत्तरस्य आमः सुट् भवति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-६५/८४) यदि एवम् सकलम् , कृत्स्नम् , जगत् इति अत्र अपि प्राप्नोति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-६६/८४) एतेषाम् च अपि शब्दानाम् एकैकस्य सः सः विषयः ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-६७/८४) तस्मिन् तस्मिन् विषये यः यः शब्दः वर्तते तस्य तस्य तस्मिन् तस्मिन् वर्तमानस्य सर्वनामकार्यम् प्राप्नोति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-६८/८४) एवम् तर्हि उभयम् अनेन क्रियते ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-६९/८४) पाठः च एव विशेष्यते सञ्ज्ञा च ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-७०/८४) कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-७१/८४) लभ्यम् इति आह ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-७२/८४) कथम्. एकशेषनिर्देशात् ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-७३/८४) एकशेषनिर्देशः अयम् ॒ सर्वादीनि च सर्वादीनि च सर्वादीनि ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-७४/८४) सर्वनामानि च सर्वनामानि च सर्वनामानि ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-७५/८४) सर्वादीनि सर्वनानसञ्ज्ञानि भवन्ति ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-७६/८४) सर्वेषाम् यानि च नामानि तानि सर्वादीनि ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-७७/८४) सञ्ज्ञोपसर्जने च विशेषे अवतिष्ठेते ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-७८/८४) अथ वा महती इयम् सञ्ज्ञा क्रियते ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-७९/८४) सञ्ज्ञा च नाम यतः न लघीयः ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-८०/८४) कुतः एतत् ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-८१/८४) लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-८२/८४) तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-८३/८४) सर्वादीनि सर्वनानसञ्ज्ञानि भवन्ति सर्वेषाम् नामानि इति च अतः सर्वनामानि ।

(पा-१,१.२७.३; अकि-१,८७.७-८९.३; रो-१,२७८-२८५; भा-८४/८४) सञ्ज्ञोपसर्जने च विशेषे अवतिष्ठेते ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-१/४३) अथ उभस्य सर्वनामत्वे कः अर्थः ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-२/४३) उभस्य सर्वनामत्वे अकजर्थः ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-३/४३) उभस्य सर्वनामत्वे अकजर्थः पाठः क्रियते ॒ उभकौ ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-४/४३) किम् उच्यते अकजर्थः इति न पुनः अन्यानि अपि सर्वनामकार्याणि ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-५/४३) अन्याभावः द्विवचनटाब्विषयत्वात् ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-६/४३) अन्येषाम् सर्वनाम्कार्याणाम् अभावः ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-७/४३) किम् कारणम् ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-८/४३) द्विवचनटाब्विषयत्वात् ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-९/४३) उभशब्दः अयम् द्विवचनटाब्विषयः ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-१०/४३) अन्यानि च सर्वनामकार्याणि एकवचनबहुवचनेषु उच्यन्ते ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-११/४३) यदा पुनः अयम् उभशब्दः द्विवचनटाब्विषयः कः इदानीम् अस्य अन्यत्र भवति ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-१२/४३) उभयः अन्यत्र ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-१३/४३) उभयशब्दः अस्य अन्यत्र बह्वति ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-१४/४३) उभये देवमनुष्याः , उभयः मणिः इति ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-१५/४३) किम् च स्यात् यदि अत्र अकच् न स्यात् ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-१६/४३) कः प्रसज्येत ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-१७/४३) कः च इदानीम् काकचोः विशेषः ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-१८/४३) उभशब्दः अयम् द्विवचनटाब्विषयः इति उक्तम् ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-१९/४३) तत्र अकचि सति अकचः तन्मध्यपतितत्वात् शक्यते एतत् वक्तुम् ॒ द्विवचनपरः अयम् इति ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-२०/४३) के पुनः सति न अयम् द्विवचनपरः स्यात् ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-२१/४३) तत्र द्विवचनपरता वक्तव्या ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-२२/४३) यथा एव तर्हि के सति न अयम् द्विवचनपरः एवम् आपि अपि सति न अयम् द्विवचनपरः स्यात् ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-२३/४३) तत्र अपि द्विवचनपरता वक्तव्या ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-२४/४३) अवचनात् अपि तत्परविज्ञानम् ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-२५/४३) अन्तरेण अपि वचनम् आपि द्विवचनपरः अयम् भविष्यति ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-२६/४३) किम् वक्तव्यम् एतत् ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-२७/४३) न हि ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-२८/४३) कथम् अनुच्यमानम् गंस्यते ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-२९/४३) एकादेशे कृते द्विवचनपरः अयम् अन्तादिवद्भावेन ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-३०/४३) अवचनात् आपि तत्परविज्ञानम् इति चेत् के अपि तुल्यम् ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-३१/४३) अवचनात् आपि तत्परविज्ञानम् इति चेत् के अपि अन्तरेण वचनम् द्विवचनपरः भविष्यति ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-३२/४३) कथम् ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-३३/४३) स्वार्थिकाः प्रत्ययाः प्रकृतितः अविशिष्टाः भवन्ति इति प्रकृतिग्रहणेन स्वार्थिकानाम् अपि ग्रहणम् भवति ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-३४/४३) अथ भवतः सर्वनामत्वे कानि प्रोजनानि ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-३५/४३) भवतः अकच्छेषात्वानि ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-३६/४३) भवतः अकच्छेषात्वानि प्रयोजनानि ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-३७/४३) अकच् ॒ भवकान् ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-३८/४३) शेषः ॒ सः च भवान् च भवन्तौ ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-३९/४३) आत्वम् ॒ भवादृक् इति ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-४०/४३) किम् पुनः इदम् परिगणनम् आहोस्वित् उदाहरणमात्रम् ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-४१/४३) उदाहरणमात्रम् इति आह ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-४२/४३) तृतीयादयः अपि हि इष्यन्ते ।

(पा-१,१.२७.४; अकि-१,८९.४-९०.३; रो-१,२८६-२८९; भा-४३/४३) सर्वनाम्नः तृतीया च ॒ भवता हेतुना , भवतः हेतोः इति ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-१/३६) दिग्ग्रहणम् किमर्थम् ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-२/३६) न बहुव्रीहौ इति प्रतिषेधम् वक्ष्यति ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-३/३६) तत्र न ज्ञायते क्व विभाषा क्व प्रतिषेधः इति ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-४/३६) दिग्ग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-५/३६) दिगुपदिष्टे विभाषा अन्यत्र प्रतिषेधः ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-६/३६) अथ समासग्रहणम् किमर्थम्. समासः एव यः बहुव्रीहिः तत्र यथा स्यात् ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-७/३६) बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूत् इति ॒ दक्षिणदक्षिणस्यै देहि इति ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-८/३६) अथ बहुव्रीहिग्रहणम् किमर्थम् ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-९/३६) द्वन्द्वे मा भूत् दक्षिणोत्तरपूर्वाणाम् इति ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-१०/३६) न एतत् अस्ति प्रयोजनम् ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-११/३६) द्वन्द्वे च इति प्रतिषेधः भविष्यति ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-१२/३६) न अप्राप्ते प्रतिषेधे इयम् परिभाषा आरभ्यते ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-१३/३६) सा यथा एव बहुव्रीहौ इति एतम् प्रतिषेधम् बाधते एवम् द्वन्द्वे च इति एतम् अपि बाधेत ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-१४/३६) न बाधते ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-१५/३६) किम् कारणम् ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-१६/३६) येन न अप्राप्ते तस्य बाधनम् भवति ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-१७/३६) न च अप्राप्ते न बहुव्रीहौ इति एतस्मिन् प्रतिषेधे इयम् परिभाषा आरभ्यते ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-१८/३६) द्वन्द्वे च इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-१९/३६) अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् इयम् विभाषा न बहुव्रीहौ इति एतम् प्रतिषेधम् बाधिष्यते द्वन्द्वे च इति एतम् प्रतिषेधम् न बाधिष्यते ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-२०/३६) अथ वा इदम् तावत् अयम् प्रष्टव्यः ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-२१/३६) इह कस्मात् न भवति ॒ या पूर्वा सा उत्तरा अस्य उन्मुग्धस्य सः अयम् पूर्वोत्तरः उन्मुग्धः , तस्मै पूर्वोत्तराय देहि ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-२२/३६) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-२३/३६) यदि एवम् न अर्थः बहुव्रीहिग्रहणेन ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-२४/३६) द्वन्द्वे कस्मात् न भवति ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-२५/३६) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-२६/३६) उत्तरार्थम् तर्हि बहुव्रीहिग्रहणम् कर्तव्यम् ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-२७/३६) न कर्तव्यम् ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-२८/३६) क्रियते तत्र एव बहुव्रीहौ इति ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-२९/३६) द्वितीयम् कर्तव्यम् ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-३०/३६) बहुव्रीहिः एव यः बहुव्रीहिः तत्र यथा स्यात् ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-३१/३६) बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूत् इति ॒ एकैकस्मै देहि ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-३२/३६) एतत् अपि न अस्ति प्रयोजनम्. समासे इति वर्तते ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-३३/३६) तेन बहुव्रीहिम् विशेषयिष्यामः ॒ समासः यः बहुव्रीहिः इति ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-३४/३६) इदम् तर्हि प्रयोजनम् ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-३५/३६) अवयवभूतस्य अपि बहुव्रीहेः प्रतिषेधः यथा स्यात् ।

(पा-१,१.२८; अकि-१,९०.५-२६; रो-१,२८९-२९१; भा-३६/३६) इह मा भूत् वस्त्रम् अन्तरम् एषाम् ते इमे वस्त्रान्तराः वसनम् अन्तरम् एषाम् ते इमे वसनान्तराः वस्त्रान्तराः च वसनान्तराः च वस्त्रान्तरवसनान्तराः ।