व्याकरणमहाभाष्य खण्ड 06

विकिपुस्तकानि तः



(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-१/२३) न वा इति विभाषायाम् अर्थसञ्ज्ञाकरणम् ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-२/२३) न वा इति विभाषायाम् अर्थस्य सञ्ज्ञा कर्तव्या ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-३/२३) नवाशब्दस्य यः अर्थः तस्य सञ्ज्ञा भवति इति वक्तव्यम् ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-४/२३) किम् प्रयोजनम् ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-५/२३) शब्दसञ्ज्ञायाम् हि अर्थासम्प्रत्ययः यथा अन्यत्र ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-६/२३) शब्दसञ्ज्ञायाम् हि सत्याम् अर्थस्य असम्प्रत्ययः स्यात् यथा अन्यत्र ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-७/२३) अन्यत्र अपि शब्दसञ्ज्ञायाम् शब्दस्य सम्प्रत्ययः भवति न अर्थस्य ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-८/२३) क्व अन्यत्र ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-९/२३) दाधाः घु अदाप् तरप्तमपौ घः इति घुग्रहणेषु घग्रहणेषु च शब्दस्य सम्प्रत्ययः भवति न अर्थस्य ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-१०/२३) तत् तर्हि वक्तव्यम् ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-११/२३) न वक्तव्यम् ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-१२/२३) इतिकरणः अर्थनिर्देशार्थः ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-१३/२३) इतिकरणः क्रियते ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-१४/२३) सः अर्थनिर्देशार्थः भविष्यति ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-१५/२३) किम् गतम् एतत् इतिना आहोस्वित् शबाधिक्यात् अर्थाधिक्यम् ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-१६/२३) गतम् इति आह ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-१७/२३) कुतः ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-१८/२३) लोकतः ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-१९/२३) तत् यथा लोके गौः अयम् इति आह इति गोशब्दात् इतिकरणः परः प्रयुज्यमानः गोशब्दम् स्वस्मात् पदार्थात् प्रच्यावयति ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-२०/२३) सः असौ स्वस्मात् पदार्थात् प्रच्युतः या असौ अर्थपदार्थकता तस्याः शब्दपदार्थकः सम्पद्यते ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-२१/२३) एवम् इह अपि नवाशब्दात् इतिकरणः परः प्रयुज्यमानः नवाशब्दम् स्वस्मात् पदार्थात् प्रच्यावयति ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-२२/२३) सः असौ स्वस्मात् पदार्थात् प्रच्युतः या असौ शब्दपदार्थकता तस्याः लौकिकम् अर्थम् सम्प्रत्याययति ।

(पा-१,१.४४.१; अकि-१,१०१.१८-१०२.१०; रो-१,३२२-३२३; भा-२३/२३) न वा इति यत् गम्यते न वा इति यत् प्रतीयते इति ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-१/२९) समानशब्दप्रतिषेधः ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-२/२९) समानशब्दानाम् प्रतिषेधः वक्तव्यः ॒ नवा कुण्डिका नवा घटिका इति ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-३/२९) किम् च स्यात् यदि एतेषाम् अपि विभाषासञ्ज्ञा स्यात् ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-४/२९) विभाषा दिक्समासे बहुव्रीहौ ॒ दक्षिणपूर्वस्याम् शालायाम् ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-५/२९) अचिरकृतायाम् सम्प्रत्ययः स्यात् ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-६/२९) न वा विधिपूर्वकत्वात् प्रतिषेधसमप्रत्ययः यथा लोके ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-७/२९) न वा एषः दोषः ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-८/२९) किम् कारणम् ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-९/२९) विधिपूर्वकत्वात् ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-१०/२९) विधाय किम् चित् न वा इति उच्यते ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-११/२९) तेन प्रतिषेधवाचिनः समप्रत्ययः भवति ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-१२/२९) तत् यथा लोके ॒ ग्रामः भवता गन्तव्यः न वा ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-१३/२९) न इति गम्यते ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-१४/२९) अस्ति कार्णम् येन लोके प्रतिषेधवाचिनः समप्रत्ययः भवति ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-१५/२९) किम् कारणम् ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-१६/२९) विलिङ्गम् हि भवान् लोके निर्देशम् करोति ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-१७/२९) आङ्ग हि समानलिङ्गः निर्देशः क्रियताम् प्रत्यग्रवाचिनः सम्प्रत्ययः भविष्यति ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-१८/२९) तत् यथा ॒ ग्रामः भवता गन्तव्यः नवः ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-१९/२९) प्रत्यग्रः इति गम्यते ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-२०/२९) एतत् च एव न जानीमः ॒ क्व चित् व्याकरणे समानलिङ्गः निर्देशः क्रियते इति ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-२१/२९) अपि च कामचारः प्रयोक्तुः शब्दानाम् अभिसम्बन्धे ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-२२/२९) तत् यथा ॒ यवागूः भवता भोक्तव्या नवा ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-२३/२९) यदा यवागूशब्दः भुजिना अभिसम्बध्यते भुजिः नवाशब्देन तदा प्रतिषेधवाचिनः सम्प्रत्ययः भवति ॒ यवागूः भवता भोक्तव्या नवा ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-२४/२९) न इति गम्यते ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-२५/२९) यदा यवागूशब्दः नवाशब्देन अभिसम्बध्यते न भुजिना तदा प्रत्यग्रवाचिनः सम्प्रत्ययः भवति ॒ यवागूः नवा भवता भोक्तव्या ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-२६/२९) प्रत्यग्रा इति गम्यते ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-२७/२९) न च इह वयम् विभाषाग्रहणेन सर्वादीनि अभिसम्बध्नीमः ॒ दिक्समासे बहुव्रीहौ सर्वादीनि विभाषा भवन्ति इति ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-२८/२९) किम् तर्हि ।

(पा-१,१.४४.२; अकि-१,१०२.११-१०३.२; रो-१,३२४-३२५; भा-२९/२९) भवतिः अभिसम्बध्यते ॒ दिक्समासे बहुव्रीहौ सर्वादीनि भवन्ति विभाषा इति ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-१/४४) विध्यनित्यत्वम् अनुपपन्नम् प्रतिषेधसञ्ज्ञाकरणात् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-२/४४) विध्यनित्यत्वम् न उपपद्यते ॒ शुशाव , शुशुवतुः , शुशुवुः , शिश्वाय , शिश्वियतुः , शिश्वियुः ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-३/४४) किम् कारणम् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-४/४४) प्रतिषेधसञ्ज्ञाकरणात् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-५/४४) प्रतिषेधस्य इयम् सञ्ज्ञा क्रियते ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-६/४४) तेन विभाषाप्रदेशेषु प्रतिषेधस्य एव सम्प्रत्ययः स्यात् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-७/४४) सिद्धम् तु प्रसज्यप्रतिषेधात् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-८/४४) सिद्धम् एतत् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-९/४४) कथम् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-१०/४४) प्रसज्यप्रतिषेधात् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-११/४४) प्रसज्य किम् चित् न वा इति उच्यते ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-१२/४४) तेन उभयम् भविष्यति ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-१३/४४) विप्रतिषिद्धम् तु ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-१४/४४) विप्रतिषिद्धम् तु भवति ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-१५/४४) अत्र न ज्ञायते ॒ केन अभिप्रायेण प्रसजति केन निवृत्तिम् करोति इति ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-१६/४४) न वा प्रसङ्गसामर्थ्यात् अन्यत्र प्रतिषेधविषयात् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-१७/४४) न वा एषः दोषः ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-१८/४४) किम् कारणम् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-१९/४४) प्रसङ्गसामर्थ्यात् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-२०/४४) प्रसङ्गसामर्थ्यात् च विधिः भविष्यति अन्यत्र प्रतिषेधविषयात् प्रतिषेधसामर्थ्यात् च प्रतिषेधः भविष्यति अन्यत्र विधिविषयात् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-२१/४४) तत् एतत् क्व सिद्धम् भवति ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-२२/४४) या अप्राप्ते विभाषा ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-२३/४४) या हि प्राप्ते कृतसामर्थ्यः तत्र पूर्वेण विधिः इति कृत्वा प्रतिषेधस्य एव सम्प्रत्ययः स्यात् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-२४/४४) एतत् अपि सिद्धम् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-२५/४४) कथम् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-२६/४४) विभाषा इति महतीसञ्ज्ञा क्रियते ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-२७/४४) सञ्ज्ञा च नाम यतः न लघीयः ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-२८/४४) कुतः एतत् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-२९/४४) लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-३०/४४) तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् उभयोः सञ्ज्ञा यथा विज्ञायेत ॒ न इति च वा इति च ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-३१/४४) तत्र या तावत् अप्राप्ते विभाषा तत्र प्रतिषेध्यम् न अस्ति इति कृत्वा वा इति अनेन विकल्पः भविष्यति ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-३२/४४) या हि प्राप्ते विभाषा तत्र उभयम् उपस्थितम् भवति ॒ न इति च वा इति च ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-३३/४४) तत्र न इति अनेन प्रतिषिद्धे वा इति अनेन विकल्पः भविष्यति ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-३४/४४) एवम् अपि विप्रतिषेधयोः युगपद्वचनानुपपत्तिः ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-३५/४४) विप्रतिषेधयोः युगपद्वचनम् न उपपद्यते ॒ शुशाव शुशुवतुः शुशुवुः शिश्वाय शिश्वियतुः शिश्वियुः ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-३६/४४) किम् कारणम् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-३७/४४) भवति इति चेत् न प्रतिषेधः ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-३८/४४) भवति इति चेत् प्रतिषेधः न प्राप्नोति ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-३९/४४) न इति चेत् न विधिः ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-४०/४४) न इत् चेत् विधिः न सिध्यति ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-४१/४४) सिद्धम् तु पूर्वस्य उत्तरेण बाधितत्वात् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-४२/४४) सिद्धम् एतत्. कथम् ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-४३/४४) पूर्वविधिम् उत्तर्विधिः बाधते ।

(पा-१,१.४४.३; अकि-१,१०३.३-१०४.७; रो-१,३२५-३२८; भा-४४/४४) इतिकरणः अर्थनिर्देशाऋथः इति उक्तम् ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-१/४३) साध्वनुशासने अस्मिन् यस्य विभाषा तस्य साधुत्वम् ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-२/४३) साध्वनुशासने अस्मिन् शास्त्रे यस्य विभाषा क्रियते सः विभाषा साधुः स्यात् ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-३/४३) समासः च एव हि विभाषा ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-४/४३) तेन समासस्य एव विभाषा साधुत्वम् स्यात् ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-५/४३) अस्तु ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-६/४३) यः साधुः सः प्रयोक्ष्यते. असाधुः न प्रयोक्ष्यते ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-७/४३) न च एव हि कदा चित् राजपुरुषः इति अस्याम् अवस्थायाम् असाधुत्वम् इष्यते ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-८/४३) अपि च द्वेधाप्रतिपत्तिः ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-९/४३) द्वैधम् शब्दानाम् अप्रतिपत्तिः ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-१०/४३) इच्छामः च पुनः विभाषाप्रदेशेषु द्वैधम् शब्दानाम् प्रतिपत्तिः स्यात् इति तत् च न सिध्यति ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-११/४३) यस्य पुनः कार्याः शब्दाः विभाषा असौ समासम् निर्वर्तयति ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-१२/४३) यस्य अपि नित्याः शब्दाः तस्य अपि एषः न दोषः ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-१३/४३) कथम् ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-१४/४३) न विभाषाग्रहणेन साधुत्वम् अभिसम्बध्यते ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-१५/४३) किम् तर्हि ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-१६/४३) समाससञ्ज्ञा अभिसम्बध्यते ॒ समासः इति एषा सञ्ज्ञा विभाषा भवति इति ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-१७/४३) तत् यथा ॒ मेध्यः पशुः विभाषितः ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-१८/४३) मेध्यः अनड्वान् विभाषितः इति ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-१९/४३) न एतत् विचार्यते ॒ अनड्वान् न अनड्वान् इति ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-२०/४३) किम् तर्हि आलब्धव्यः न आलब्धव्यः इति ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-२१/४३) कार्ये युगपदन्वाचययौगपद्यम् ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-२२/४३) कार्येषु शब्देषु युगपत् अन्वाचयेन च यत् उच्यते तस्य युगपद्वचनता प्राप्नोति ॒ तव्यत्तव्यानीयरः , ढक् च मण्डूकात् इति ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-२३/४३) यस्य पुनः नित्याः शब्दाः प्रयुक्तानाम् असौ साधुत्वम् अन्वाचष्टे ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-२४/४३) ननु च यस्य अपि कार्याः तस्य अपि एषः न दोषः ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-२५/४३) कथम् ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-२६/४३) प्रत्ययः परः भवति इति उच्यते ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-२७/४३) न च एकस्याः प्रकृतेः अनेकस्य प्रत्ययस्य युगपत् परत्वेन सम्भवः अस्ति ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-२८/४३) न अपि ब्रूमः प्रत्ययमाला प्राप्नोति ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-२९/४३) किम् तर्हि ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-३०/४३) कर्तव्यम् इति प्रयोक्तव्ये युगपत् द्वितीयस्य तृतीयस्य च प्रयोगः प्राप्नोति ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-३१/४३) न एषः दोषः ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-३२/४३) अर्थगत्यर्थः शब्दप्रयोगः ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-३३/४३) अर्थम् सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-३४/४३) तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-३५/४३) आचार्यदेशशीलने च तद्विषयता ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-३६/४३) आचार्यदेशशीलनेन यत् उच्यते तस्य तद्विषयता प्राप्नोति ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-३७/४३) इकः ह्रस्वः अङ्यः गालवस्य प्राचाम् अवृद्धात् फिन् बहुलम् इति गालवाः एव ह्रस्वान् प्रयुञ्जीरन् प्राक्षु च एव हि फिन् स्यात् ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-३८/४३) तत् यथा ॒ जमदग्निः वै एतत् पञ्चमम् अवदानम् अवाद्यत् तस्मात् न अजामदग्न्यः पञ्चावत्तम् जुहोति ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-३९/४३) यस्य पुनः नित्याः शब्दाः गालवग्रहणम् तस्य पूजार्थम् देशग्रहणम् च कीर्त्यर्थम् ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-४०/४३) ननु च यस्य अपि कार्याः तस्य अपि पूजार्थम् गालवग्रहणम् स्यात् देशग्रहम् च कीर्त्यर्थम् ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-४१/४३) तत्कीर्तने च द्वेधाप्रतिपत्तिः ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-४२/४३) तत्कीर्तने च द्वैधम् शब्दानाम् अप्रतिपत्तिः स्यात् ।

(पा-१,१.४४.४; अकि-१,१०४.८-१०५.१३; रो-१,३२८-३३२; भा-४३/४३) इच्छामः च पुनः आचार्यग्रहणेषु देशग्रहणेषु च द्वैधम् शब्दानाम् प्रतिपत्तिः स्यात् इति तत् च न सिध्यति ।

(पा-१,१.४४.५; अकि-१,१०५.१४-२०; रो-१,३३२-३३३; भा-१/१२) अशिष्यः वा विदितत्वात् ।

(पा-१,१.४४.५; अकि-१,१०५.१४-२०; रो-१,३३२-३३३; भा-२/१२) अशिष्यः वा पुनः अयम् योगः ।

(पा-१,१.४४.५; अकि-१,१०५.१४-२०; रो-१,३३२-३३३; भा-३/१२) किम् कारणम् ।

(पा-१,१.४४.५; अकि-१,१०५.१४-२०; रो-१,३३२-३३३; भा-४/१२) विदितत्वात् ।

(पा-१,१.४४.५; अकि-१,१०५.१४-२०; रो-१,३३२-३३३; भा-५/१२) यत् अनेन योगेन प्रार्थ्यते तस्य अर्थस्य विदितत्वात् ।

(पा-१,१.४४.५; अकि-१,१०५.१४-२०; रो-१,३३२-३३३; भा-६/१२) ये अपि हि एताम् सञ्ज्ञाम् न आरभन्ते ते अपि विभाषा इति उक्ते अनित्यत्वम् अवगच्छन्ति ।

(पा-१,१.४४.५; अकि-१,१०५.१४-२०; रो-१,३३२-३३३; भा-७/१२) याज्ञिकाः खलु अपि सञ्ज्ञाम् अनारभमाणाः विभाषा इति उक्ते अनित्यत्वम् अवगच्छन्ति ।

(पा-१,१.४४.५; अकि-१,१०५.१४-२०; रो-१,३३२-३३३; भा-८/१२) तत् यथा ।

(पा-१,१.४४.५; अकि-१,१०५.१४-२०; रो-१,३३२-३३३; भा-९/१२) मेध्यः पशुः विभाषितः ।

(पा-१,१.४४.५; अकि-१,१०५.१४-२०; रो-१,३३२-३३३; भा-१०/१२) मेध्यः अनड्वान् विभाषितः इति ।

(पा-१,१.४४.५; अकि-१,१०५.१४-२०; रो-१,३३२-३३३; भा-११/१२) आलब्धव्यः न आलब्धव्यः इति गम्यते ।

(पा-१,१.४४.५; अकि-१,१०५.१४-२०; रो-१,३३२-३३३; भा-१२/१२) आचार्यः खलु अपि सञ्ज्ञाम् आरभमाणः भूयिष्ठम् अन्यैः अपि शब्दैः एतम् अर्थम् सम्प्रत्याययति बहुलम् अन्यतरस्याम् उभयथा वा एकेषाम् इति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-१/१००) अप्राप्ते त्रिसंशयाः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-२/१००) इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः अप्राप्ते ताः द्रष्टव्याः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-३/१००) त्रिसंशयाः तु भवन्ति ॒ प्राप्ते अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-४/१००) द्वन्द्वे च विभाषा जसि ॒ प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-५/१००) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-६/१००) उभयशब्दः सर्वादिषु पठ्यते तयपः च अयजादेशः क्रियते ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-७/१००) तेन वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-८/१००) अप्राप्ते ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-९/१००) अयच् प्रत्ययान्तरम् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-१०/१००) यदि प्रत्ययान्तरम् उभयी इति ईकारः न प्राप्नोति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-११/१००) मा भूत् एवम् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-१२/१००) मात्रचः इति एवम् भविष्यति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-१३/१००) कथम् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-१४/१००) मात्रच् इति न इदम् प्रत्ययग्रहणम् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-१५/१००) किम् तर्हि ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-१६/१००) प्रत्याहारग्रहणम् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-१७/१००) क्व सन्निविष्टानाम् प्रत्याहारः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-१८/१००) मात्रशब्दात् प्रभृति आ आयचः चकारात् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-१९/१००) यदि प्रत्याहारग्रहणम् कति तिष्ठन्ति ॒ अत्र अपि प्राप्नोति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-२०/१००) अतः इति वर्तते ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-२१/१००) एवम् अपि तैलमात्रा घ्र्तमात्रा इति अत्र अपि प्राप्नोति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-२२/१००) सदृशस्य अपि असन्निविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणम् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-२३/१००) ऊर्णोः विभाषा ॒ प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-२४/१००) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-२५/१००) असंयोगात् लिट् कित् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-२६/१००) अप्राप्ते ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-२७/१००) अन्यत् हि कित्त्वम् अन्यत् ङित्त्वम् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-२८/१००) एकम् चेत् ङित्कितौ ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-२९/१००) यदि एकम् ङित्कितौ ततः अस्ति सन्देहः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-३०/१००) अथ हि नाना न अस्ति सन्देहः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-३१/१००) यदि अपि नाना एवम् अपि सन्देहः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-३२/१००) कथम् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-३३/१००) प्रौर्णुवि इति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-३४/१००) सार्वधातुकम् अपित् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-३५/१००) अप्राप्ते ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-३६/१००) विभाषा उपयमने ॒ प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-३७/१००) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-३८/१००) गन्धने इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-३९/१००) अप्राप्ते ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-४०/१००) गन्धने इति निवृत्तम् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-४१/१००) अनुपसर्गात् वा ॒ प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-४२/१००) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-४३/१००) वृत्तिसर्गतायनेषु क्रमः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-४४/१००) अप्राप्ते ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-४५/१००) वृत्त्यादिषु इति निवृत्तम् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-४६/१००) विभाषा वृक्षमृगादीनाम् ॒ प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-४७/१००) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-४८/१००) जातिः अप्राणिनाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-४९/१००) अप्राप्ते ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-५०/१००) जातिः अप्राणिनाम् इति निवृत्तम् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-५१/१००) उषविदजागृभ्यः अन्यतरस्याम् ॒ प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-५२/१००) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-५३/१००) प्रत्ययान्तात् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-५४/१००) अप्राप्ते ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-५५/१००) प्रत्ययान्ताः धात्वन्तराणि ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-५६/१००) दीपादीनाम् विभाषा ॒ प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-५७/१००) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-५८/१००) भावकर्मणोः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-५९/१००) अप्राप्ते ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-६०/१००) कर्तरि इति वर्तते ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-६१/१००) एवम् अपि सन्देहः ॒ न्याय्ये वा कर्तरि कर्मकर्तरि वा इति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-६२/१००) न अस्ति सन्देहः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-६३/१००) सकर्मकस्य कर्ता कर्मवत् भवति अकर्मकाः च दीपादयः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-६४/१००) अकर्मकाः अपि वै सोपसर्गाः सकर्मकाः भवन्ति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-६५/१००) कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणाम् च भवन्ति कर्तृस्थभावकाः च दीपादयः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-६६/१००) विभाषा अग्रेप्रथमपूर्वेषु ॒ प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-६७/१००) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-६८/१००) आभीक्ष्ण्ये इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-६९/१००) अप्राप्ते ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-७०/१००) आभीक्ष्ण्ये इति निवृत्तम् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-७१/१००) तृनादीनाम् विभाषा ॒ प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-७२/१००) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-७३/१००) आक्रोशे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-७४/१००) अप्राप्ते ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-७५/१००) आक्रोशे इति निवृत्तम् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-७६/१००) एकहलादौ पूरयितव्ये अन्यतरस्याम् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-७७/१००) प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-७८/१००) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-७९/१००) उदकस्य उदः सञ्ज्ञायाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-८०/१००) अप्राप्ते ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-८१/१००) सञ्ज्ञायाम् इति निवृत्तम् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-८२/१००) श्वादेः इञि पदान्तस्य अन्यतरस्याम् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-८३/१००) प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-८४/१००) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-८५/१००) इञि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-८६/१००) अप्राप्ते ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-८७/१००) इञि इति निवृत्तम् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-८८/१००) सपूर्वायाः प्रथमायाः विभाषा ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-८९/१००) प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-९०/१००) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-९१/१००) चादिभिः योगे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-९२/१००) अप्राप्ते ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-९३/१००) चादिभिः योगे इति निवृत्तम् ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-९४/१००) ग्रः यङि अचि विभाषा ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-९५/१००) प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-९६/१००) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-९७/१००) यङि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-९८/१००) अप्राप्ते ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-९९/१००) अप्राप्ते ।

(पा-१,१.४४.६; अकि-१,१०५.२१-१०८.७; रो-१,३३३-३३९; भा-१००/१००) यङि इति निवृत्तम्

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-१/२८) प्राप्ते च ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-२/२८) इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः प्राप्ते ताः द्रष्टव्याः ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-३/२८) त्रिसंशयाः तु भवन्ति ॒ प्राप्ते अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-४/२८) विभाषा विप्रलापे ॒ प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-५/२८) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-६/२८) व्यक्तवाचाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-७/२८) प्राप्ते ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-८/२८) व्यक्तवाचाम् इति हि वर्तते ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-९/२८) विभाषा उपपदेन प्रतीयमाने ॒ प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-१०/२८) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-११/२८) स्वरितञितः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-१२/२८) प्राप्ते ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-१३/२८) स्वरितञितः इति हि वर्तते ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-१४/२८) तिरः अन्तर्धौ विभाषा कृञि ॒ प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-१५/२८) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-१६/२८) अन्तर्धौ इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-१७/२८) प्राप्ते ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-१८/२८) अन्तर्धौ इति हि वर्तते ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-१९/२८) अधिः ईश्वरे विभाषा कृञि ॒ प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-२०/२८) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-२१/२८) ईश्वरे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-२२/२८) प्राप्ते ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-२३/२८) ईश्वरे इति हि वर्तते ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-२४/२८) दिवः तदर्थस्य विभाषा उपसर्गे ॒ प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-२५/२८) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-२६/२८) तदर्थस्य इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-२७/२८) प्राप्ते ।

(पा-१,१.४४.७; अकि-१,१०८.८-१०९.३; रो-१,३३९-४०; भा-२८/२८) तदर्थस्य इति वर्तते

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-१/३४) उभयत्र च ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-२/३४) इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः उभयत्र ताः द्रष्टव्याः ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-३/३४) त्रिसंशयाः तु भवन्ति ॒ प्राप्ते अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-४/३४) हृक्रोः अन्यतरस्याम् ॒ प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-५/३४) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-६/३४) गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-७/३४) उभयत्र ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-८/३४) प्राप्ते तावत् ॒ अभ्यवहारयति सैन्धवान् , अभ्यवहारयति सैन्धवैः , विकारयति सैन्धवान् , विकारयति सैन्धवैः ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-९/३४) अप्राप्ते ॒ हरति भारम् देवदत्तः ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-१०/३४) हारयति भारम् देवदत्तम् , हारयति भारम् देवदत्तेन ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-११/३४) करोति कटम् देवदत्तः ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-१२/३४) कारयति कटम् देवदत्तम् , कारयति कटम् देवदत्तेन ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-१३/३४) न यदि विभाषा साकाङ्क्षे ॒ प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-१४/३४) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।यदि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-१५/३४) उभयत्र ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-१६/३४) प्राप्ते तावत् ॒ अभिजानासि देवदत्त यत् कश्मीरेषु वत्स्यामः , यत् कश्मीरेषु अवसाम , यत् तत्र ओदनान् भोक्ष्यामहे , यत् तत्र ओदनान् अभुञ्ज्महि ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-१७/३४) अप्राप्ते ॒ अभिजानासि देवदत्त कश्मीरान् गमिष्यामः , कश्मीरान् अगच्छाम , तत्र ओदनाम् भोक्ष्यामहे , तत्र ओदनान् अभुञ्ज्महि ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-१८/३४) विभाषा श्वेः ॒ प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-१९/३४) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।किति इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-२०/३४) उभयत्र ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-२१/३४) प्राप्ते तावत् ॒ शुशुवतुः , शुशुवुः , शिश्वियतुः , शिश्वियुः ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-२२/३४) अप्राप्ते ॒ शुशाव शुशविथ शिश्वाय शिश्वयिथ ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-२३/३४) विभाषा सङ्घुषास्वनाम् ॒ सम्पूर्वात् घुषेः प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-२४/३४) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-२५/३४) घुषिः अविशब्दने इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-२६/३४) उभयत्र ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-२७/३४) प्राप्ते तावत् ॒ सङ्घुष्टा रज्जुः , सङ्घुषिता रज्जुः ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-२८/३४) अप्राप्ते ॒ सङ्घुष्टम् वाक्यम् , सङ्घुषितम् वाक्यम् ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-२९/३४) आङ्पूर्वात् स्वनेः प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-३०/३४) कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-३१/३४) मनसि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-३२/३४) उभयत्र ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-३३/३४) प्राप्ते तावत् ॒ आस्वान्तम् मनः , आस्वनितम् मनः ।

(पा-१,१.४४.८; अकि-१,१०९.४-११०.८; रो-१,३४०-३४१; भा-३४/३४) अप्राप्ते ॒ आस्वान्तः देवदत्तः , आस्वनितः देवदत्तः इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-१/४९) fकिम् इयम् वाक्यस्य सम्प्रसारणसञ्ज्ञा क्रियते ॒ इक् यणः इति एतत् वाक्यम् सम्प्रसारणसञ्ज्ञम् भवति इति , आहोस्वित् वर्णस्य ॒ इक् यः यणः स्थाने सः सम्प्रसारणसञ्ज्ञः भवति इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-२/४९) कः च अत्र विशेषः ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-३/४९) सम्प्रसारणसञ्ज्ञायाम् वाक्यसञ्ज्ञा चेत् वर्णविधिः ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-४/४९) सम्प्रसारणसञ्ज्ञायाम् वाक्यसञ्ज्ञा चेत् वर्णविधिः न सिध्यति ॒ सम्प्रसारणात् परः पूर्वः भवति , सम्प्रसारणस्य दीर्घः भवति इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-५/४९) न हि वाक्यस्य सम्प्रसारणसञ्ज्ञायाम् सत्याम् एषः निर्देशः उपपद्यते न अपि एतयोः कार्ययोः सम्भवः अस्ति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-६/४९) अस्तु तर्हि वर्णस्य ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-७/४९) वर्णसञ्ज्ञा चेत् निर्वृत्तिः । वर्णसञ्ज्ञा चेत् निर्वृत्तिः न सिध्यति ॒ ष्यङः सम्प्रसारणम् इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-८/४९) सः एव हि तावत् इक् दुर्लभः यस्य सञ्ज्ञा क्रियते ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-९/४९) अथ अपि कथम् चित् लभ्येत केन असु यणः स्थाने स्यात् ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-१०/४९) अनेन एव हि असौ व्यवस्थाप्यते ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-११/४९) तत् एतत् इतरेतराश्रयम् भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-१२/४९) विभक्तिविशेषनिर्देशः तु ज्ञापकः उभयसञ्ज्ञात्वस्य ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-१३/४९) यत् अयम् विभक्तिविशेषैः निर्देशम् करोति सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति ष्यङः सम्प्रसारणम् इति तेन ज्ञायते उभयोः सञ्ज्ञा भवति इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-१४/४९) यत् तावत् आह सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति इति तेन ज्ञायते वर्णस्य भवति इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-१५/४९) यत् अपि आह ष्यङः सम्प्रसारणम् इति तेन ज्ञायते वाक्यस्य अपि सञ्ज्ञा भवति इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-१६/४९) अथ वा पुनः अस्तु वाक्यस्य एव ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-१७/४९) ननु च उक्तम् सम्प्रसारणसञ्ज्ञायाम् वाक्यसञ्ज्ञा चेत् वर्णविधिः इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-१८/४९) न एषः दोषः ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-१९/४९) यथा काकात् जातः काकः , श्येनात् जातः श्येनः एवम् सम्प्रसारणात् जातम् सम्प्रसारणम् ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-२०/४९) यत् तत् सम्प्रसारणात् जातम् सम्प्रसारणम् तस्मात् परः पूर्वः भवति तस्य दीर्घः भवति इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-२१/४९) अथ वा दृश्यन्ते हि वाक्येषु वाक्यैकदेशान् प्रयुञ्जानाः पदेषु च पदैकदेशान् ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-२२/४९) वाक्येषु तावत् वाक्यैकदेशान् ॒ प्रविश पिण्डीम् , प्रविश तर्पर्णम् ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-२३/४९) पदेषु पदैकदेशान् ॒ देवदत्तः दत्तः , सत्यभामा भामा इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-२४/४९) एवम् इह अपि सम्प्रसारणनिर्वृत्तात् सम्प्रसारणनिर्वृत्तस्य इति एतस्य वाक्यस्य अर्थे सम्प्रसारणात् सम्प्रसारणस्य इति वाक्यैकदेशः प्रयुज्यते ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-२५/४९) तेन निर्वृत्तस्य विधिम् विज्ञास्यामः ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-२६/४९) सम्प्रसारणनिर्वृत्तात् सम्प्रसारणनिर्वृत्तस्य इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-२७/४९) अथ वा आह अयम् सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-२८/४९) न च वाक्यस्य सम्प्रसारणसञ्ज्ञायाम् सत्याम् एषः निर्देशः उपपद्यते न अपि एतयोः कार्ययोः सम्भवः अस्ति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-२९/४९) तत्र वचनात् भविष्यति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-३०/४९) अथ वा पुनः अस्तु वर्णस्य ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-३१/४९) ननु च उक्तम् वर्णसञ्ज्ञा चेत् निर्वृत्तिः इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-३२/४९) न एषः दोषः ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-३३/४९) इतरेतराश्रयमात्रम् एतत् चोदितम् ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-३४/४९) सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धम् तु नित्यशब्दत्वात् इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-३५/४९) न इदम् तुल्यम् अन्यैः इतरेतराश्रयैः ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-३६/४९) न हि तत्र किम् चित् उच्यते अस्य स्थाने ये आकारैकारौकाराः भाव्यन्ते ते वृद्धिसञ्ज्ञाः भवन्ति इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-३७/४९) इह पुनः उच्यते इक् यः यणः स्थाने सः सम्प्रसारणसञ्ज्ञः भवति इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-३८/४९) एवम् तर्हि भाविनी इयम् सञ्ज्ञा विज्ञास्यते ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-३९/४९) तत् यथा ॒ कः चित् कम् चित् तन्तुवायम् आह ॒ अस्य सूत्रस्य शाटकम् वय इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-४०/४९) सः पश्यति ॒ यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-४१/४९) शाटकः वातव्यः इति विप्रतिषिद्धम् ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-४२/४९) भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-४३/४९) सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-४४/४९) एवम् इह अपि सः यणः स्थाने भवति यस्य अभिनिर्वृत्तस्य सम्प्रसारणम् इति एषा सञ्ज्ञा भविष्यति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-४५/४९) अथ वा इजादियजादिप्रवृत्तिः च एव हि लोके लक्ष्यते ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-४६/४९) यजाद्युपदेशात् तु इजादिनिवृत्तिः प्रसक्ता ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-४७/४९) प्रयुञ्जते च पुनः लोकाः इष्टम् उप्तम् इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-४८/४९) ते मन्यामहे ॒ अस्य यणः स्थाने इमम् इकम् प्रयुञ्जते इति ।

(पा-१,१.४५; अकि-१,१११.२-११२.१७; रो-१,३४२-३४६; भा-४९/४९) तत्र तस्य असाध्वभिमतस्य शास्त्रेण साधुत्वम् अवस्थाप्यते ॒ किति साधुः भवति ङिति साधुः भवति इति ।

(पा-१,१.४६.१; अकि-१,११२.१९-२२; रो-१, ३४६; भा-१/८) समासनिर्देशः अयम् ।

(पा-१,१.४६.१; अकि-१,११२.१९-२२; रो-१, ३४६; भा-२/८) तत्र न ज्ञायते कः आदिः कः अन्तः इति ।

(पा-१,१.४६.१; अकि-१,११२.१९-२२; रो-१, ३४६; भा-३/८) तत् यथा ॒ अजाविधनौ देवदत्तयज्ञदत्तौ इति उक्ते न ज्ञायते कस्य अजाः धनम् कस्य अवयः इति ।

(पा-१,१.४६.१; अकि-१,११२.१९-२२; रो-१, ३४६; भा-४/८) यदि अपि तावत् लोके एषः दृष्टान्तः दृष्टान्तस्य अपि पुरुषारम्भः निवर्तकः भवति ।

(पा-१,१.४६.१; अकि-१,११२.१९-२२; रो-१, ३४६; भा-५/८) अस्ति च इह कः चित् पुरुषारम्भः ।

(पा-१,१.४६.१; अकि-१,११२.१९-२२; रो-१, ३४६; भा-६/८) अस्ति इति आह ।

(पा-१,१.४६.१; अकि-१,११२.१९-२२; रो-१, ३४६; भा-७/८) कः ।

(पा-१,१.४६.१; अकि-१,११२.१९-२२; रो-१, ३४६; भा-८/८) सङ्ख्यातनुदेशः नाम ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-१/३५) कौ पुनः टकितौ आद्यन्तौ भवतः ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-२/३५) आगमौ इति आह ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-३/३५) युक्तम् पुनः यत् नित्येषु नाम शब्देषु आगमशासनम् स्यात् न नित्येषु शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-४/३५) आगमः च नाम अपूर्वः शब्दोपजनः ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-५/३५) अथ युक्तम् यत् नित्येषु शब्देषु आदेशाः स्युः ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-६/३५) बाढम् युक्तम् ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-७/३५) शब्दान्तरैः इह भवितव्यम् ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-८/३५) तत्र शब्दान्तरात् शब्दान्तरस्य प्रतिपत्तिः युक्ता ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-९/३५) आदेशाः तर्हि इमे भविष्यन्ति अनागमकानाम् सागमकाः ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-१०/३५) तत् कथम् ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-११/३५) सञ्ज्ञाधिकारः अयम् ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-१२/३५) आद्यन्तौ च इह सङ्कीर्त्येते ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-१३/३५) टकार्ककारौ इतौ उदाह्रियेते ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-१४/३५) तत्र आद्यन्तयोः टकारककारौ इतौ सञ्ज्ञे भविष्यतः ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-१५/३५) तत्र आर्धधातुकस्य इट् वलादेः इति उपस्थितम् इदम् भवति ॒ आदिः इति ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-१६/३५) तेन इकारादिः आदेशः भविष्यति ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-१७/३५) एतावत् इह सूत्रम् इट् इति ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-१८/३५) कथम् पुनः इयता सूत्रेण इकारादिः आदेशः लभ्यः ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-१९/३५) लभ्यः इति आह ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-२०/३५) कथम्. बहुव्रीहिनिर्देशात् ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-२१/३५) बहुव्रीहिनिर्देशः अयम् ॒ इकारः आदिः अस्य इति ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-२२/३५) यदि अपि तावत् अत्र एतत् शक्यते वकुत्म् इह कथम् ॒ लुङ्लङ्लृङ्क्षु अट् उदात्तः इति यत्र अशक्यम् उदात्तग्रहणेन अकारः विशेषयितुम् ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-२३/३५) तत्र कः दोषः ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-२४/३५) अङ्गस्य उदात्तत्वम् प्रसज्येत ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-२५/३५) न एषः दोषः ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-२६/३५) त्रिपदः अयम् बहुव्रीहिः ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-२७/३५) तत्र वाक्ये एव उदात्तग्रहणेन अकारः विशेष्यते ॒ अकारः उदात्तः आदिः अस्य इति ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-२८/३५) यत्र तर्हि अनुवृत्त्या एतत् भवति ॒ आट् अजादीनाम् इति ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-२९/३५) वक्ष्यति एतत् ॒ अजादीनाम् अटा सिद्धम् इति ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-३०/३५) अथ वा यत् तावत् अयम् सामान्येन शक्नोति उपदेष्टुम् तत् तावत् उपदिशति प्रकृतिम् ततः वलादि आर्धधातुकम् ततः पश्चात् इकारम् ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-३१/३५) तेन अयम् विशेषेण शब्दान्तरम् समुदायम् प्रतिपद्यते ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-३२/३५) तत् यथा खदिरबुर्बुरयोः ॒ खदिरबुर्बुरौ गौरकाण्डौ सूक्ष्मपर्णौ ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-३३/३५) ततः पश्चात् आह कण्टकवान् खदिरः इति ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-३४/३५) तेन असौ विशेषेण द्रव्यान्तरम् समुदायम् प्रतिपद्यते ।

(पा-१,१.४६.२; अकि-१,११२.२३-११३.१५; रो-१,३४६-३४९; भा-३५/३५) अथ वा एतया आनुपूर्व्या अयम् शब्दान्तरम् उपदिशति ॒ प्रकृतिम् ततः वलादि आर्धधातुकम् ततः पश्चात् इकारम् यस्मिन् तस्य आगमबुद्धिः भवति ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-१/४४) टकितोः आद्यन्तविधाने प्रत्ययप्रतिषेधः ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-२/४४) टकितोः आद्यन्तविधाने प्रत्ययस्य प्रतिषेधः वक्तव्यः ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-३/४४) प्रत्ययः आदिः अन्तः वा मा भूत् ॒ चरेः टः आतः अनुपसर्गे कः इति ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-४/४४) परवचनात् सिद्धम् ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-५/४४) परवचनात् प्रत्ययः आदिः अन्तः वा न भविष्यति ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-६/४४) परवचनात् सिद्धम् इति चेत् न अपवादत्वात् ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-७/४४) परवचनात् सिद्धम् इति चेत् न ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-८/४४) किम् कारणम् ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-९/४४) अपवादत्वात् ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-१०/४४) अपवादः अयम् योगः ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-११/४४) तत् यथा मित् अचः अन्त्यात् परः इति एषः योगः स्थानेयोगत्वस्य प्रत्ययपरत्वस्य च अपवादः ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-१२/४४) विषमः उपन्यासः ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-१३/४४) युक्तम् तत्र यत् अनवकाशम् मित्करणम् स्थानेयोगत्वम् प्रत्ययपरत्वम् च बाधते ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-१४/४४) इह पुनः उभयम् सावकासम् ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-१५/४४) कः अवकाशः ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-१६/४४) टित्करणस्य अवकाशः ॒ टितः इति ईकारः यथा स्यात् ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-१७/४४) कित्करणस्य अवकाशः ॒ किति इति आकारलोपः यथा स्यात् ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-१८/४४) प्रयोजनम् नाम तत् वक्तव्यम् यत् नियोगतः स्यात् ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-१९/४४) यदि च अयम् नियोगतः परः स्यात् ततः एतत् प्रयोजनम् स्यात् ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-२०/४४) कुतः नु खलु एतत् टित्करणात् अयम् परः भविष्यति न पुनः आदिः इति कित्करणात् च परः भविष्यति न पुनः अन्तः इति ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-२१/४४) टितः खलु अपि एषः परिहारः यत्र न अस्ति सम्भवः यत् परः च स्यात् आदिः च ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-२२/४४) कितः तु अपरिहारः ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-२३/४४) अस्ति हि सम्भवः यत् परः च स्यात् अन्तः च ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-२४/४४) तत्र कः दोषः ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-२५/४४) उपसर्गे घोः किः ॒ आध्योः , प्रध्योः ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-२६/४४) नोङ्धात्वोः इति प्रतिषेधः प्रसज्येत ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-२७/४४) टितः च अपि अपरिहारः ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-२८/४४) स्यात् एव हि अयम् टित्करणात् आदिः न पुनः परः ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-२९/४४) क्व तर्हि इदानीम् इदम् स्यात् ॒ टितः ईकारः भवति इति ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-३०/४४) यः उभयवान् ॒ गापोः टक् इति ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-३१/४४) सिद्धम् तु षष्ठ्यधिकारे वचनात् ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-३२/४४) सिद्धम् एतत् ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-३३/४४) कथम् ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-३४/४४) षष्ठ्यधिकारे अयम् योगः करत्व्यः ॒ आद्यन्तौ टकितौ षष्ठीनिर्दिष्टस्य इति ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-३५/४४) आद्यन्तयोः वा षष्थ्यर्थत्वात् तदभावे असम्प्रत्ययः ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-३६/४४) आद्यन्तयोः वा षष्थ्यर्थत्वात् षष्ठ्याः अभावे असम्प्रत्ययः ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-३७/४४) आदिः अन्तः वा न भविष्यति ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-३८/४४) युक्तम् पुनः यत् शब्दनिमित्तकः नाम अर्थः स्यात् न अर्थनिमित्तकेन शब्देन भवितव्यम् ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-३९/४४) अर्थनिमित्तकः एव शब्दः ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-४०/४४) तत् कथम् ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-४१/४४) आद्यन्तौ षष्ठ्यर्थौ ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-४२/४४) न च अत्र षष्ठीम् पश्यामः ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-४३/४४) ते मन्यामहे ॒ आद्यन्तौ एव अत्र न स्तः ।

(पा-१,१.४६.३; अकि-१,११३.१६-११४.१६; रो-१,३४९-३५१; भा-४४/४४) तयोः अभावे षष्ठी अपि न भवति इति ।

(पा-१,१.४७.१; अकि-१,११४.१८-११५.४; रो-१,३५२; भा-१/१६) किमर्थम् इदम् उच्यते ।

(पा-१,१.४७.१; अकि-१,११४.१८-११५.४; रो-१,३५२; भा-२/१६) मित् अचः अन्त्यात् परः इति स्थानपरप्रत्ययापवादः ।

(पा-१,१.४७.१; अकि-१,११४.१८-११५.४; रो-१,३५२; भा-३/१६) मित् अचः अन्त्यात् परः इति उच्यते स्थानेयोगत्वस्य प्रत्ययपरत्वस्य च अपवादः ।

(पा-१,१.४७.१; अकि-१,११४.१८-११५.४; रो-१,३५२; भा-४/१६) स्थानेयोगत्वस्य तावत् ॒ कुण्डानि वनानि पयांसि यशांसि ।

(पा-१,१.४७.१; अकि-१,११४.१८-११५.४; रो-१,३५२; भा-५/१६) प्रत्ययपरत्वस्य ॒ भिनत्ति छिनत्ति ।

(पा-१,१.४७.१; अकि-१,११४.१८-११५.४; रो-१,३५२; भा-६/१६) भवेत् इदम् युक्तम् उदाहरणम् कुण्डानि वनानि यत्र न अस्ति सम्भवः यत् अयम् अचः अन्य्तात् परः च स्यात् स्थाने च इति ।

(पा-१,१.४७.१; अकि-१,११४.१८-११५.४; रो-१,३५२; भा-७/१६) इदम् तु अयुक्तम् पयांसि यशांसि ।

(पा-१,१.४७.१; अकि-१,११४.१८-११५.४; रो-१,३५२; भा-८/१६) अस्ति हि सम्भवः यत् अचः अन्य्तात् परः च स्यात् स्थाने च ।

(पा-१,१.४७.१; अकि-१,११४.१८-११५.४; रो-१,३५२; भा-९/१६) एतत् अपि युक्तम् ।

(पा-१,१.४७.१; अकि-१,११४.१८-११५.४; रो-१,३५२; भा-१०/१६) कथम् ।

(पा-१,१.४७.१; अकि-१,११४.१८-११५.४; रो-१,३५२; भा-११/१६) न एव ईश्वरः आज्ञापयति न अपि धर्मसूत्रकाराः पठन्ति अपवादैः उत्सर्गाः बाध्यन्ताम् इति ।

(पा-१,१.४७.१; अकि-१,११४.१८-११५.४; रो-१,३५२; भा-१२/१६) किम् तर्हि ।

(पा-१,१.४७.१; अकि-१,११४.१८-११५.४; रो-१,३५२; भा-१३/१६) लौकिकः अयम् दृष्टान्तः ।

(पा-१,१.४७.१; अकि-१,११४.१८-११५.४; रो-१,३५२; भा-१४/१६) लोके हि सति अपि सम्भवे बाधनम् भवति ।

(पा-१,१.४७.१; अकि-१,११४.१८-११५.४; रो-१,३५२; भा-१५/१६) तत् यथा ॒ दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति ।

(पा-१,१.४७.१; अकि-१,११४.१८-११५.४; रो-१,३५२; भा-१६/१६) एवम् इह अपि सति अपि सम्भवे अचाम् अन्त्यात् परत्वम् षष्ठीस्थानेयोगत्वम् बाधिष्यते ।

(पा-१,१.४७.२; अकि-१,११५.५-१२; रो-१,३५२-३५३; भा-१/१५) अन्त्यात् पूर्वः मस्जेः अनुषङ्गसंयोगादिलोपार्थम् ।

(पा-१,१.४७.२; अकि-१,११५.५-१२; रो-१,३५२-३५३; भा-२/१५) अन्त्यात् पूर्वः मस्जेः मित् वक्तव्यः ।

(पा-१,१.४७.२; अकि-१,११५.५-१२; रो-१,३५२-३५३; भा-३/१५) किम् प्रयोजनम् ।

(पा-१,१.४७.२; अकि-१,११५.५-१२; रो-१,३५२-३५३; भा-४/१५) अनुषङ्गसंयोगादिलोपार्थम् ।

(पा-१,१.४७.२; अकि-१,११५.५-१२; रो-१,३५२-३५३; भा-५/१५) अनुषङ्गलोपार्थम् संयोगादिलोपार्थम् च ।

(पा-१,१.४७.२; अकि-१,११५.५-१२; रो-१,३५२-३५३; भा-६/१५) अनुषङ्गलोपार्थम् तावत् ॒ मग्नः , मग्नवान् ।

(पा-१,१.४७.२; अकि-१,११५.५-१२; रो-१,३५२-३५३; भा-७/१५) संयोगादिलोपार्थम् मङ्क्ता मङ्क्तुम् , मङ्क्तव्यम् ।

(पा-१,१.४७.२; अकि-१,११५.५-१२; रो-१,३५२-३५३; भा-८/१५) भर्जिमर्च्योः च ।

(पा-१,१.४७.२; अकि-१,११५.५-१२; रो-१,३५२-३५३; भा-९/१५) भर्जिमर्च्योः च अन्त्यात् पूर्वः मित् वक्तव्यः ।

(पा-१,१.४७.२; अकि-१,११५.५-१२; रो-१,३५२-३५३; भा-१०/१५) भरूजा मरीचयः इति ।

(पा-१,१.४७.२; अकि-१,११५.५-१२; रो-१,३५२-३५३; भा-११/१५) सः तर्हि वक्तव्यः ।

(पा-१,१.४७.२; अकि-१,११५.५-१२; रो-१,३५२-३५३; भा-१२/१५) न वक्तव्यः ।

(पा-१,१.४७.२; अकि-१,११५.५-१२; रो-१,३५२-३५३; भा-१३/१५) निपातनात् सिद्धम् ।

(पा-१,१.४७.२; अकि-१,११५.५-१२; रो-१,३५२-३५३; भा-१४/१५) किम् निपातनम् ।

(पा-१,१.४७.२; अकि-१,११५.५-१२; रो-१,३५२-३५३; भा-१५/१५) भरूजाशब्दः अङ्गुल्यादिषु पठ्यते मरीचिशब्दः बाह्वादिषु ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-१/७६) किम् पुनः अयम् पूर्वान्तः आहोस्वित् परादिः आहोस्वित् अभक्तः ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-२/७६) कथम् च अयम् पूर्वान्तः स्यात् कथम् वा परादिः कथम् वा अभक्तः ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-३/७६) यदि अन्तः इति वर्तते ततः पूर्वान्तः ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-४/७६) अथ आदिः इति वर्तते ततः परादिः ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-५/७६) अथ उभयम् निवृत्तम् ततः अभक्तः ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-६/७६) कः च अत्र विशेषः ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-७/७६) अभक्ते दीर्घनलोपस्वरणत्वानुस्वारशीभावाः ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-८/७६) यदि अभक्तः दीर्घत्वम् न प्राप्नोति ॒ कुण्डानि वनानि ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-९/७६) नोपधायाः सर्वनामस्थाने च असम्बुद्धौ इति दीर्घत्वम् न प्राप्नोति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-१०/७६) दीर्घ ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-११/७६) नलोप ॒ नलोपः च न सिध्यति ॒ अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-१२/७६) नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-१३/७६) नलोप ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-१४/७६) स्वर ॒ स्वरः च न सिध्यति ॒ सर्वाणि ज्योतींषि ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-१५/७६) सर्वस्य सुपि इति आद्युदात्तत्वम् न प्राप्नोति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-१६/७६) स्वर ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-१७/७६) णत्व ॒ णत्वम् च न सिध्यति ॒ माषवापाणि व्रीहिवापाणि ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-१८/७६) पूर्वान्ते प्रातिपदिकान्तनकारस्य इति सिद्धम् , परादौ विभक्तिनकारस्य , अभक्ते नुमः ग्रहणम् कर्तव्यम् ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-१९/७६) न कर्तव्यम् ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-२०/७६) क्रियते न्यासे एव ॒ प्रातिपदिकान्तनुम्विभक्तिषु इति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-२१/७६) णत्व ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-२२/७६) अनुस्वार ॒ अनुस्वारः च न सिध्यति ॒ द्विषन्तपः , परन्तपः ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-२३/७६) मः अनुस्वारः हलि इति अनुस्वारः न प्राप्नोति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-२४/७६) मा भूत् एवम् ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-२५/७६) नः च अपदान्तस्य झलि इति एवम् भविष्यति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-२६/७६) यः तर्हि न झल्परः ॒ वहंलिहः गौः , अभ्रंलिहः वायुः ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-२७/७६) अनुस्वार ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-२८/७६) शीभाव ॒ शीभावः च न सिध्यति ॒ त्रपुणी जतुनी तुम्बुरुणी ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-२९/७६) नपुंसकात् उत्तरस्य औङः शीभावः भवति इति शीभावः न प्राप्नोति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-३०/७६) शीभाव ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-३१/७६) एवम् तर्हि परादिः करिष्यते ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-३२/७६) परादौ गुणवृद्ध्यौत्त्वदीर्घनलोपानुस्वारशीभावेनकारप्रतिषेधः ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-३३/७६) यदि परादिः गुणः प्रतिषेध्यः ॒ त्रपुणे जतुने तुम्बुरुणे ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-३४/७६) घेः ङिति इति गुणः प्राप्नोति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-३५/७६) गुण ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-३६/७६) वृद्धि ॒ वृद्धिः प्रतिषेध्या ॒ अतिसखीनि ब्राह्मणकुलानि ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-३७/७६) सख्युः असम्बुद्धौ इति णित्त्वे अचः ञ्णिति इति वृद्धिः प्राप्नोति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-३८/७६) वृद्धि ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-३९/७६) औत्त्व ॒ औत्त्वम् च प्रतिषेध्यम् ॒ त्रपुणि जतुनि तुम्बुरुणि ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-४०/७६) इदुद्भ्याम् औत् अत् च घेः इति औत्त्वम् प्राप्नोति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-४१/७६) औत्त्व ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-४२/७६) दीर्घ ॒ दीर्घत्वम् च न सिध्यति ॒ कुण्डानि वनानि ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-४३/७६) नोपधायाः सर्वनामस्थाने च असम्बुद्धौ इति दीर्घत्वम् न प्राप्नोति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-४४/७६) मा भूत् एवम् ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-४५/७६) अतः दीर्घः यञि सुपि च इति एवम् भविष्यति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-४६/७६) इह तर्हि ॒ अस्थीनि दधीनि प्रियसखीनि ब्राह्मणकुलानि ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-४७/७६) दीर्घ ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-४८/७६) नलोप ॒ नलोपः च न सिध्यति ॒ अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-४९/७६) नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-५०/७६) नलोप ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-५१/७६) अनुस्वार ॒ अनुस्वारः च न सिध्यति ॒ द्विषन्तपः , परन्तपः ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-५२/७६) मः अनुस्वारः हलि इति अनुस्वारः न प्राप्नोति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-५३/७६) मा भूत् एवम् ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-५४/७६) नः च अपदान्तस्य झलि इति एवम् भविष्यति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-५५/७६) यः तर्हि न झल्परः ॒ वहंलिहः गौः , अभ्रंलिहः वायुः ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-५६/७६) अनुस्वार ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-५७/७६) शीभावेनकारप्रतिषेधः ॒ शीभावे नकारस्य प्रतिषेधः वक्तव्यः ॒ त्रपुणी जतुनी तुम्बुरुणी ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-५८/७६) सनुम्कस्य शीभावः प्राप्नोति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-५९/७६) न एषः दोषः ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-६०/७६) निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-६१/७६) यः तर्हि निर्दिश्यते तस्य न प्राप्नोति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-६२/७६) कस्मात् ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-६३/७६) नुमा व्यवहितत्वात् ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-६४/७६) एवम् तर्हि पूर्वान्तः करिष्यते ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-६५/७६) पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-६६/७६) यदि पूर्वन्तः क्रियते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च न सिध्यति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-६७/७६) नपुंसकोपसर्जनह्रस्वत्वम् ॒ आराशस्त्रिणी धानाशष्कुलिनी निष्कौशाम्बिनी निर्वाराणसिनी ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-६८/७६) द्विगुस्वर ॒ पञ्चारत्निनी दशारत्निनी ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-६९/७६) नुमि कृते अनन्त्यत्वात् एते विधयः न प्राप्नुन्वन्ति ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-७०/७६) न वा बहिरङ्गलक्षणत्वात् ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-७१/७६) न वा एषः दोषः ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-७२/७६) किम् कारणम् ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-७३/७६) बहिरङ्गलक्षणत्वात् ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-७४/७६) बहिरङ्गः नुम् , अन्तरङ्गाः एते विधयः ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-७५/७६) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-१,१.४७.३; अकि-१,११५.१३-११७.२; रो-१,३५३-३५७; भा-७६/७६) द्विगुस्वरे भूयान् परिहारः ॒ सङ्घातभक्तः असौ न उत्सहते अवयवस्य इगन्तताम् विहन्तुम् इति कृत्वा द्विगुस्वरः भविष्यति ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-१/४६) किमर्थम् इदम् उच्यते ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-२/४६) एचः इक् सवर्णाकारनिवृत्त्यर्थम् ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-३/४६) एचः इक् भवति इति उच्यते सवर्णनिवृत्त्यर्थम् अकारनिवृत्त्यर्थम् च ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-४/४६) सवर्ण्निवृत्त्यर्थम् तावत् ॒ एङः ह्रस्वशासनेषु अर्धः एकारः अर्धः ओकारः वा मा भूत् इति ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-५/४६) अकारनिवृत्त्यर्थम् च ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-६/४६) इमौ ऐचौ समाहारवर्णौ ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-७/४६) मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-८/४६) तयोः ह्रस्वशासनेषु कदा चित् अवर्णः स्यात् कदा चित् इवर्णोवर्णौ ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-९/४६) मा कदा चित् अवर्णम् भूत् इति एवमर्थम् इदम् उच्यते ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-१०/४६) अस्ति प्रयोजनम् एतत् ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-११/४६) किम् तर्हि इति ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-१२/४६) दीर्घप्रसङ्गः ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-१३/४६) दीर्घाः तु इकः प्राप्नुवन्ति ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-१४/४६) किम् कारणम् ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-१५/४६) स्थाने अन्तरतमः भवति इति ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-१६/४६) ननु च ह्रस्वादेशे इति उच्यते ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-१७/४६) तेन दीर्घाः न भविष्यन्ति ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-१८/४६) विष्यार्थम् एतत् स्यात् ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-१९/४६) एचः ह्रस्वप्रसङ्गे इक् भवति इति ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-२०/४६) दीर्घाप्रसङ्गः तु निवर्तकत्वात् ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-२१/४६) दीर्घाणाम् तु इकाम् अप्रसङ्गः ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-२२/४६) किम् कारणम् ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-२३/४६) निवर्तकत्वात् ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-२४/४६) न अनेन इकः निर्वर्त्यन्ते ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-२५/४६) किम् तर्हि ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-२६/४६) अनिकः निवर्त्यन्ते ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-२७/४६) सिद्धाः एव ह्रस्वाः इकः च अनिकः च ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-२८/४६) तत्र अनेन अनिकः निवर्त्यन्ते ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-२९/४६) सवर्णनिवृत्त्यर्थेन तावत् न अर्थः ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-३०/४६) सिद्धम् एङः सस्थानत्वात् ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-३१/४६) सिद्धम् एतत् ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-३२/४६) कथम् ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-३३/४६) एङः सस्थानत्वात् इकारोकारौ भविष्यतः ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-३४/४६) अर्धः एकारः अरधः ओकारः वा न भविष्यति ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-३५/४६) ननु च एङः सस्थानतरौ अर्धः एकारौकारौ ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-३६/४६) न तौ स्तः ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-३७/४६) यदि हि तौ स्याताम् तौ एव अयम् उपदिशेत् ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-३८/४६) ननु च भोः छन्दोगानाम् सात्यमुग्रिराणायनीयाः अर्धम् एकारम् अर्धम् ओकारम् च अधीयते ॒ सुजाते एश्वसूनृते , अध्वर्यो ओद्रिभिः सुतम् , शुक्रम् ते एन्यत् यजतम् ते एन्यत् इति ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-३९/४६) पार्षदकृतिः एषा तत्रभवताम् ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-४०/४६) न एव लोके न अन्यस्मिन् वेदे अर्धः एकारः अर्धः ओकारः वा अस्ति ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-४१/४६) अकारनिवृत्त्यर्थेन अपि न अर्थः ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-४२/४६) ऐचोः च उत्तरभूयस्त्वात् ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-४३/४६) ऐचोः च उत्तरभूयस्त्वात् अवर्णः न भविष्यति ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-४४/४६) भूयसी मात्रा इवर्णोवर्णयोः अल्पीयसी अवर्णस्य ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-४५/४६) भूयसः एव ग्रहणानि भविष्यन्ति ।

(पा-१,१.४८; अकि-१,११७.४-११८.४; रो-१,३५७-३५९; भा-४६/४६) तत् यथा ब्राह्मणग्रामः आनीयताम् इति उच्यते तत्र च अवरतः पञ्चकारुकी भवति ।

(पा-१,१.४९.१; अकि-१,११८.६-७; रो-१,३६०; भा-१/४) किम् इदम् स्थानेयोगा इति ।

(पा-१,१.४९.१; अकि-१,११८.६-७; रो-१,३६०; भा-२/४) स्थाने योगः अस्याः सा इयम् स्थानेयोगा ।

(पा-१,१.४९.१; अकि-१,११८.६-७; रो-१,३६०; भा-३/४) सप्तम्यलोपः निपातनात् ।

(पा-१,१.४९.१; अकि-१,११८.६-७; रो-१,३६०; भा-४/४) तृतियाया वा एत्वम् ॒ स्थानेन योगः अस्याः सा इयम् स्थानेयोगा ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-१/६९) किमर्थम् पुनः इदम् उच्यते ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-२/६९) षष्ठ्याः स्थानेयोगवचनम् नियमार्थम् ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-३/६९) नियमाऋथः अयम् आरम्भः ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-४/६९) एकशतम् षष्ठ्यर्थाः यावन्तः वा ते सर्वे षष्ठ्याम् उच्चारितायाम् प्राप्नुवन्ति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-५/६९) इष्यते च व्याकरणे या षष्ठी सा स्थानेयोगा एव स्यात् इति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-६/६९) तत् च अन्तरेण यत्नम् न सिध्यति इति षष्ठ्याः स्थानेयोगवचनम् नियमार्थम् ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-७/६९) एवमर्थम् इदम् उच्यते ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-८/६९) अस्ति प्रयोजनम् एतत् ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-९/६९) किम् तर्हि इति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-१०/६९) अवयवषष्ठ्यादिषु अतिप्रसङ्गः शासः गोहः इति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-११/६९) अवयवषष्ठ्यादयः तु न सिध्यन्ति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-१२/६९) तत्र कः दोषः ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-१३/६९) शासः इत् अङ्हलोः इति शासेः च अन्त्यस्य स्यात् उपधामात्रस्य च ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-१४/६९) ऊत् उपधायाः गोहः इति गोहः च अन्त्यस्य स्यात् उपधामात्रस्य च ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-१५/६९) अवयवषष्ठ्यादीनाम् च अप्राप्तिः योगस्य असन्दिग्धत्वात् ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-१६/६९) अवयवषष्ठ्यादीनाम् च नियमस्य अप्राप्तिः ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-१७/६९) किम् कारणम् ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-१८/६९) योगस्य असन्दिग्धत्वात् ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-१९/६९) सन्देहे नियमः न च अवयवषष्ठ्यादिषु सन्देहः ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-२०/६९) किम् वक्तव्यम् एतत् ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-२१/६९) न हि ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-२२/६९) कथम् अनुच्यमानम् गंस्यते. लौकिकः अयम् दृष्टाण्तः ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-२३/६९) तत् यथा लोके ॒ कम् चित् कः चित् पृच्छति ॒ ग्रामान्तरम् गमिष्यामि पन्थानम् मे भवान् उपदिशतु इति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-२४/६९) सः तस्मै आचष्टे ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-२५/६९) अमुष्मिन् अवकाशे हस्तदक्षिणः ग्रहीतव्यः अमुष्मिन् अवकाशे हस्तवामः इति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-२६/६९) यः तु अत्र तिर्यक्पथः भवति न तस्मिन् सन्देहः इति कृत्वा न असौ उपदिश्यते ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-२७/६९) एवम् इह अपि सन्देहे नियमः न च अवयवषष्ठ्यादिषु सन्देहः ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-२८/६९) अथ वा स्थाने अयोगा स्थानेयोगा किम् इदम् अयोगा इति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-२९/६९) अव्यक्तयोगा अयोगा ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-३०/६९) अथ वा योगवती योगा ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-३१/६९) का पुनः योगवती ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-३२/६९) यस्याः बहवः योगाः ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-३३/६९) कुतः एतत् ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-३४/६९) भूम्नि हि मतुप् भवति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-३५/६९) विशिष्टा वा षष्ठी स्थानेयोगा ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-३६/६९) अथ वा किम् चिद् लिङ्गम् आसज्य वक्ष्यामि ॒ इत्थंलिङ्गा षष्ठी स्थानेयोगा भवति इति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-३७/६९) न तत् लिङ्गम् अवयवषष्ठ्यादिषु करिष्यते ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-३८/६९) यदि एवम् शासः इत् अङ्हलोः शा हौ शासिग्रहणम् कर्तव्यम् स्थानेयोगार्थम् लिङ्गम् आसङ्क्ष्यामि इति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-३९/६९) न कर्तव्यम् ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-४०/६९) यत् एव अदः पुरस्तात् अवयवषष्ठ्यर्थम् प्रकृतम् एतत् उत्तरत्र अनुवृत्तम् सत् स्थानेयोगार्थम् भविष्यति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-४१/६९) कथम् ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-४२/६९) अधिकारः नाम त्रिप्रकारः ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-४३/६९) कः चित् एकदेशस्थः सर्वम् शास्त्रम् अभिज्वलयति यथा प्रदीपः सुप्रविज्वलितः सर्वम् वेश्म अभिज्वलयति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-४४/६९) अपरः अधिकारः यथा रज्ज्वा अयसा वा बद्धम् काष्ठम् अनुकृष्यते तद्वत् अनुकृष्यते चकारेण ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-४५/६९) अपरः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-४६/६९) तत् यदा एषः पक्षः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति तदा हि यत् एव अदः पुरस्तात् अवयवषष्ठ्यर्थम् प्रकऋतम् एतत् उत्तरत्र अनुवृत्तम् सत् स्थानेयोगार्थम् भविष्यति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-४७/६९) सम्प्रत्ययमात्रम् एतत् भवति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-४८/६९) न हि अनुच्चार्य शब्दम् लिङ्गम् शक्यम् आसङ्क्तुम् ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-४९/६९) एवम् तर्हि आदेशे तत् लिङ्गम् करिष्यते तत् प्रकृतिम् आस्कन्त्स्यति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-५०/६९) यदि नियमः क्रियते यत्र एका षष्ठी अनेकम् च विशेष्यम् तत्र न सिध्यति ॒ अङ्गस्य , हलः , अणः , सम्प्रसारणस्य इति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-५१/६९) हल् अपि विशेष्यः अण् अपि विशेष्यः सम्प्रसारणम् अपि विशेष्यम् ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-५२/६९) असति पुनः नियमे कामचारः एकया षष्थ्या अनेकम् विशेषयितुम् ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-५३/६९) तत् यथा ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-५४/६९) देवदत्तस्य पुत्रः पाणिः कम्बलः इति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-५५/६९) तस्मात् न अर्थः नियमेन ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-५६/६९) ननु च उक्तम् एकशतम् षष्ठ्यर्थाः यावन्तः वा ते सर्वे षष्ठ्याम् उच्चारितायाम् प्राप्नुवन्ति इति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-५७/६९) न एषः दोषः ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-५८/६९) यदि अपि लोके बहवः अभिसम्बन्धाः आर्थाः यौनाः मौखाः स्रौवाः च शब्दस्य तु शब्देन कः अन्यः अभिसम्बन्धः भवितुम् अर्हति अन्यत् अतः स्थानात् ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-५९/६९) शब्दस्य अपि शब्देन अनन्तरादयः अभिसम्बन्धाः ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-६०/६९) अस्तेः भूः भवति इति सन्देहः ॒ स्थाने अनन्तरे समीपे इति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-६१/६९) सन्देहमात्रम् एतत् भवति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-६२/६९) सर्वसन्देहेषु च इदम् उपतिष्ठते ॒ व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-६३/६९) स्थाने इति व्याख्यास्यामः ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-६४/६९) न तर्हि इदानीम् अयम् योगः वक्तव्यः ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-६५/६९) वक्तव्यः च ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-६६/६९) किम् प्रयोजनम् ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-६७/६९) षष्ठ्यन्तम् स्थानेन यथा युज्येत यतः षष्ठी उच्चारिता ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-६८/६९) किम् कृतम् भवति ।

(पा-१,१.४९.२; अकि-१,११८.८-११९.२८; रो-१,३६०-३६४; भा-६९/६९) निर्दिश्यमानस्य आदेशाः भवन्ति इति एषा परिभाषा न कर्तव्या भवति ।

(पा-१,१.५०.१; अकि-१,१२०.२-१३; रो-१,३६४-३६६; भा-१/१५) किम् उदाहरणम् ।

(पा-१,१.५०.१; अकि-१,१२०.२-१३; रो-१,३६४-३६६; भा-२/१५) इकः यण् अचि ॒ दधि अत्र मधु अत्र ॒ तालुस्थानस्य तालुस्थानः ओष्ठस्थानस्य ओष्ठस्थानः यथा स्यात् ।

(पा-१,१.५०.१; अकि-१,१२०.२-१३; रो-१,३६४-३६६; भा-३/१५) न एतत् अस्ति ।

(पा-१,१.५०.१; अकि-१,१२०.२-१३; रो-१,३६४-३६६; भा-४/१५) सङ्ख्यातानुदेशेन अपि एतत् सिद्धम् ।

(पा-१,१.५०.१; अकि-१,१२०.२-१३; रो-१,३६४-३६६; भा-५/१५) इदम् तर्हि ॒ तस्थस्थमिपाम् ताम्तम्तामः इति एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बहुवर्थः यथा स्यात् ।

(पा-१,१.५०.१; अकि-१,१२०.२-१३; रो-१,३६४-३६६; भा-६/१५) ननु च एतत् अपि सङ्ख्यातानुदेशेन एव सिद्धम् ।

(पा-१,१.५०.१; अकि-१,१२०.२-१३; रो-१,३६४-३६६; भा-७/१५) इदम् तर्हि ॒ अकः सवर्णे दीर्घः इति ॒ दण्डाग्रम् , क्षुपाग्रम् , दधि इन्द्रः , मधु उष्ट्रः इति ॒ कण्ठस्थानयोः कण्ठस्थानः तालुस्थानयोः तालुस्थानः ओष्ठस्थानयोः ओष्ठस्थानः यथा स्यात् इति ।

(पा-१,१.५०.१; अकि-१,१२०.२-१३; रो-१,३६४-३६६; भा-८/१५) अथ स्थाने इति वर्तमाने पुनः स्थानग्रहणम् किमर्थम् ।

(पा-१,१.५०.१; अकि-१,१२०.२-१३; रो-१,३६४-३६६; भा-९/१५) यत्र अनेकविधम् आन्तर्यम् तत्र स्थानतः एव आन्तर्यम् बलीयः यथा स्यात् ।

(पा-१,१.५०.१; अकि-१,१२०.२-१३; रो-१,३६४-३६६; भा-१०/१५) किम् पुनः तत् ।

(पा-१,१.५०.१; अकि-१,१२०.२-१३; रो-१,३६४-३६६; भा-११/१५) चेता स्तोता ॒ प्रमाणतः अकारः गुणः प्राप्नोति स्थानतः एकारौकारौ ।

(पा-१,१.५०.१; अकि-१,१२०.२-१३; रो-१,३६४-३६६; भा-१२/१५) पुनः स्थानग्रहणात् एकारौकारौ भवतः ।

(पा-१,१.५०.१; अकि-१,१२०.२-१३; रो-१,३६४-३६६; भा-१३/१५) अथ तमब्ग्रहणम् किमर्थम् ।

(पा-१,१.५०.१; अकि-१,१२०.२-१३; रो-१,३६४-३६६; भा-१४/१५) झयः हः अन्यतरस्याम् इति अत्र सोष्मणः सोष्माणः इति द्वितीयाः प्रसक्ताः नादवतः नादवन्तः इति तृतीयाः ।

(पा-१,१.५०.१; अकि-१,१२०.२-१३; रो-१,३६४-३६६; भा-१५/१५) तमप्ग्रहणेन सोष्माणः नादवन्तः च ते भवन्ति चतुर्थाः ॒ वाग् घसति त्रिष्टुब् भसति इति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-१/५०) किमर्थम् पुनः इदम् उच्यते ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-२/५०) स्थानिनः एकत्वनिर्देशात् अनेकादेशनिर्देशात् च सर्वप्रसङ्गः तस्मात् स्थानेन्तरतमवचनम् । स्थानी एकत्वेन निर्दिश्यते ॒ अकः इति , अनेकः च पुनः आदेशः प्रतिनिर्दिश्यते ॒ दीर्घः इति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-३/५०) स्थानिनः एकत्वनिर्देशात् अनेकादेशनिर्देशात् च सर्वप्रसङ्गः ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-४/५०) सर्वे सर्वत्र प्राप्नुवन्ति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-५/५०) इष्यते च अन्तरतमाः एव स्युः इति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-६/५०) तत् च अन्तरेण यत्नम् न सिध्यति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-७/५०) तस्मात् स्थाने अन्तरतमः इति वचनम् नियमार्थम् ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-८/५०) एवमर्थम् इदम् उच्यते ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-९/५०) अस्ति प्रयोजनम् एतत् ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-१०/५०) किम् तर्हि इति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-११/५०) यथा पुनः इयम् अन्तरतमनिर्वृत्त्तिः सा किम् प्रकृतितः भवति ॒ स्थानिनि अन्तरतमे षष्ठी , आहोस्वित् आदेशतः ॒ स्थाने प्राप्यमाणानाम् अन्तरतमः आदेशः भवति इति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-१२/५०) कुतः पुनः इयम् विचारणा ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-१३/५०) उभयथा अपि तुल्या संहिता ॒ स्थानेन्तरतम , उरण् रपरः इति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-१४/५०) किम् च अतः ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-१५/५०) यदि प्रकृतितः ॒ इकः यण् अचि ॒ यणाम् ये अन्तरतमाः इकः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति इह एव स्यात् ॒ दधि अत्र मधु अत्र ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-१६/५०) कुमारी अत्र ब्रह्मबन्ध्वर्थम् इति अत्र न स्यात् ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-१७/५०) आदेशतः पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति सर्वत्र सिद्धम् भवति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-१८/५०) तथा इकः गुणवृद्धी ॒ गुणवृद्ध्योः ये अन्तरतमाः इकः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति इह एव स्यात् ॒ नेता लविता नायकः लावकः ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-१९/५०) चेता स्तोता चायकः स्तावकः इति अत्र न स्यात् ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-२०/५०) आदेशतः पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति सर्वत्र सिद्धम् भवति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-२१/५०) तथा ऋवर्णस्य गुणवृद्धिप्रसङ्गे गुणवृद्ध्योः यत् अन्तरतमम् ऋवर्णम् तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति इह एव स्यात् ॒ कर्ता हर्ता , आस्तारकः , निपारकः ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-२२/५०) आस्तरिता निपरिता कारकः , हारकः इति अत्र न स्यात् ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-२३/५०) आदेशतः पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति सर्वत्र सिद्धम् भवति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-२४/५०) अथ आदेशतः अन्तरतमनिर्वृत्तौ सत्याम् अयम् दोषः ॒ वान्तः यि प्रत्यये ॒ स्थानिनिर्देशः कर्तव्यः ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-२५/५०) ओकारौकारयोः इति वक्तव्यम् एकारैकारयोः मा भूत् इति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-२६/५०) प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् वान्तादेशस्य या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति अन्तरेण स्थानिनिर्देशम् सिद्धम् भवति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-२७/५०) आदेशतः अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-२८/५०) कथम् ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-२९/५०) वान्तग्रहणम् न करिष्यते ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-३०/५०) यि प्रत्यये एचः अयादयः भवन्ति इति एव. यदि न क्रियते चेयम् , जेयम् इति अत्र अपि प्राप्नोति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-३१/५०) क्षय्यजय्यौ शक्यार्थे इति एतत् नियमार्थम् भविष्यति ॒ क्षिज्योः एव एचः इति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-३२/५०) तयोः तर्हि शक्यार्थात् अन्यत्र अपि प्राप्नोति ॒ क्षेयम् पापम् जेयः वृषलः इति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-३३/५०) उभयतः नियमः विज्ञास्यते ॒ क्षिज्योः एव एचः अनयोः च शक्याऋथे एव इति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-३४/५०) इह अपि तर्हि नियमात् न प्राप्नोति ॒ लव्यम् , पव्यम् अवश्यलाव्यम् अवश्यपाव्यम् इति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-३५/५०) तुल्यजातीयस्य नियमः ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-३६/५०) कः च तुल्यजातीयः ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-३७/५०) यथाजातीयकः क्षिज्योः एच् ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-३८/५०) कथञ्जातीयकः क्षिज्योः एच् ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-३९/५०) एकारः ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-४०/५०) एवम् अपि रायम् इच्छति रैयति अत्र अपि प्राप्नोति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-४१/५०) रायिः छान्दसः ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-४२/५०) दृष्टानुविधिः छन्दसि भवति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-४३/५०) ऊदुपधयाः गोहः ॒ आदेशतः अन्तरतमनिर्वृत्तौ सत्याम् उपधाग्रहणम् कर्तव्यम् ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-४४/५०) प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् ऊकारस्य गोहः या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति अन्तरेण उपधाग्रहणम् सिद्धम् भवति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-४५/५०) आदेशतः अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-४६/५०) क्रियते एतत् न्यासे एव ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-४७/५०) रदाभ्याम् निष्ठातः नः पूर्वस्य च दः ॒ आदेशतः अन्तरतमनिर्वृत्तौ सत्याम् तकारग्रहणम् कर्तव्यम् ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-४८/५०) प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् नकारस्य निष्ठायाम् या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति अन्तरेण तकारग्रहणम् सिद्धम् भवति ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-४९/५०) आदेशतः अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः ।

(पा-१,१.५०.२; अकि-१,१२०.१४-१२१.२९; रो-१,३६६-३७०; भा-५०/५०) क्रियते एतत् न्यासे एव ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-१/३०) किम् पुनः इदम् निर्वर्तकम् ॒ अन्तरतमाः अनेन निर्वर्त्यन्ते , आहोस्वित् प्रतिपादकम् ॒ अन्येन निर्वृत्तानाम् अनेन प्रतिपत्तिः ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-२/३०) कः च अत्र विशेषः ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-३/३०) स्थाने अन्तरतमनिर्वतके स्थानिनिवृत्तिः ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-४/३०) स्थाने अन्तरतमनिर्वतके सर्वस्थानिनाम् निवृत्तिः प्राप्नोति ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-५/३०) अस्य अपि प्राप्नोति ॒ दधि मधु ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-६/३०) अस्तु ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-७/३०) न कः चित् अन्यः आदेशः प्रतिनिर्दिश्यते ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-८/३०) तत्र आन्तर्यतः दधिशब्दस्य दधिशब्दः एव मधुशब्दस्य मधुशब्दः एव आदेशः भविष्यति ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-९/३०) यदि च एवम् क्व चित् वैरूप्यम् तत्र दोषः स्यात् ॒ बिसम् बिसम् , मुसलम् मुसलम् ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-१०/३०) इण्कोः इति षत्वम् प्राप्नोति ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-११/३०) अपि च इष्टा व्यवस्था न प्रकल्पेत ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-१२/३०) तत् यथा तप्ते भ्राष्ट्रे तिलाः क्षिप्ताः मुहूर्तम् अपि न अवतिष्ठन्ते एवम् इमे वर्णाः मुहूर्तम् अपि न अवतिष्ठेरन् ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-१३/३०) अस्तु तर्हि प्रतिपादकम् ॒ अन्येन निर्वृत्तानाम् अनेन प्रतिपत्तिः ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-१४/३०) निर्वृत्तप्रतिपत्तौ निर्वृत्तिः ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-१५/३०) निर्वृत्तप्रतिपत्तौ निर्वृत्तिः न सिध्यति ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-१६/३०) सर्वे सर्वत्र प्राप्नुवन्ति ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-१७/३०) किम् तर्हि उच्यते निर्वृत्तिः न सिध्यति इति ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-१८/३०) न साधीयः निर्वृत्तिः सिद्धा भवति ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-१९/३०) न ब्रूमः निर्वृत्तिः न सिध्यति इति ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-२०/३०) किम् तर्हि ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-२१/३०) इष्टा व्यवस्था न प्रकल्पेत ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-२२/३०) न सर्वे सर्वत्र इष्यन्ते ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-२३/३०) इदम् इदानीम् किमर्थम् स्यात् ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-२४/३०) अनर्थकम् च ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-२५/३०) अनर्थकम् एतत् स्यात् ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-२६/३०) यः हि भुक्तवन्तम् ब्रूयात् मा भुक्थाः इति किम् तेन कृतम् स्यात् ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-२७/३०) उक्तम् वा ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-२८/३०) किम् उक्तम् ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-२९/३०) सिद्धम् तु षष्ठ्यधिकारे वचनात् इति ।

(पा-१,१.५०.३; अकि-१,१२२.१-२०; रो-१,३७०-३७२; भा-३०/३०) षष्ठ्यधिकारे अयम् योगः कर्त्व्यः ॒ स्थाने अन्तरतमः षष्ठीनिर्दिष्टस्य ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-१/२५) प्रत्यात्मवचनम् च ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-२/२५) प्रत्यात्मम् इति च वक्तव्यम् ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-३/२५) किम् प्रयोजनम् ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-४/२५) यः यस्य अन्तरतमः स तस्य स्थाने यथा स्यात् अन्यस्य अन्तरतमः अन्यस्य स्थाने मा भूत् इति ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-५/२५) प्रत्यात्मवचनम् अशिष्यम् स्वभावसिद्धत्वात् ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-६/२५) प्रत्यात्मवचनम् अशिष्यम् ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-७/२५) किम् कारणम् ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-८/२५) स्वभावसिद्धत्वात् ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-९/२५) स्वभावतः एतत् सिद्धम् ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-१०/२५) तत् यथा ॒ समाजेषु समाशेषु समवायेषु च आस्यताम् इति उच्यते ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-११/२५) न च उच्यते प्रत्यात्मम् इति प्रत्यात्मम् च आसते ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-१२/२५) अन्तरतमवचनम् च ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-१३/२५) अन्तरतमवचनम् च अशिष्यम् ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-१४/२५) योगः च अपि अयम् अशिष्यः ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-१५/२५) कुतः ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-१६/२५) स्वभावसिद्धत्वात् एव ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-१७/२५) तत् यथा ॒ समाजेषु समाशेषु समवायेषु च आस्यताम् इति उक्ते न एव कृशाः कृशैः सह आसत न पाण्डवः पाण्डुभिः ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-१८/२५) येषाम् एव किम् चित् अर्थकृतम् आन्तर्यम् तैः एव सः आसते ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-१९/२५) तथा गावः दिवसम् चरितवत्यः यः यस्याः प्रसवः भवति तेन सह शेरते ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-२०/२५) तथा यानि एतानि गोयुक्तकानि सङ्घुष्टकानि भवन्ति तानि अन्योन्यम् पश्यन्ति सब्दम् कुर्वन्ति ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-२१/२५) एवम् तावत् चेतनावत्सु ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-२२/२५) अचेतनेषु अपि ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-२३/२५) लोष्टः क्षिप्तः बाहुवेगम् गत्वा न एव तिर्यक् गच्छति न ऊर्ध्वम् आरोहति पृथिवीविकारः पृथिवीम् गच्छति आन्तर्यतः ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-२४/२५) तथा या एताः आन्तरिक्ष्यः सूक्ष्माः आपः तासाम् विकारः धूमः सः आकाशदेशे निवाते न एव तिर्यक् गच्छति न अवाक् अवरोहति अब्विकारः अपः एव गच्छति आन्तर्यतः ।

(पा-१,१.५०.४; अकि-१,१२२.२१-१२३.१६; रो-१,३७२-३७३; भा-२५/२५) तथा ज्योतिषः विकारः अर्चिः आकाशदेशे निवाते सुप्रज्वलितः न एव तिर्यक् गच्छति न अवाक् अवरोहति ज्योतिषः विकारः ज्योतिः एव गच्छति आन्तर्यतः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-१/८६) व्यञ्जनस्वरव्यतिक्रमे च तत्कालप्रसङ्गः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-२/८६) व्यञ्जनव्यतिक्रमे स्वरव्यतिक्रमे च तत्कालता प्राप्नोति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-३/८६) व्यञ्जनव्यतिक्रमे ॒ इष्टम् उप्तम् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-४/८६) आन्तर्यतः अर्धमात्रिकस्य व्यञ्जनस्य अर्धमात्रिकः इक् प्राप्नोति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-५/८६) न एव लोके न च वेदे अर्धमात्रिकः इक् अस्ति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-६/८६) कः तर्हि ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-७/८६) मात्रिकः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-८/८६) यः अस्ति सः भविष्यति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-९/८६) स्वरव्यतिक्रमे ॒ दधि अत्र मधु अत्र कुमारी अत्र ब्रह्मबन्ध्वर्थम् इति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-१०/८६) आन्तर्यतः मात्रिकस्य द्विमात्रिकस्य इकः मात्रिकः द्विमात्रिकः वा यण् प्राप्नोति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-११/८६) न एव लोके न च वेदे मात्रिकः द्विमात्रिकः वा यण् अस्ति ।कः तर्हि ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-१२/८६) अर्धमात्रिकः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-१३/८६) यः अस्ति सः भविष्यति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-१४/८६) अक्षु च अनेकवर्णादेशेषु ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-१५/८६) अक्षु च अनेकवर्णादेशेषु तत्कालता प्राप्नोति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-१६/८६) इदमः इश् ॒ आन्तर्यतः अर्ध्तृतीयमात्रस्य इदमः स्थाने अर्ध्तृतीयमात्रम् इवर्णम् प्राप्नोति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-१७/८६) न एषः दोषः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-१८/८६) भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् न भविष्यति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-१९/८६) गुणवृद्ध्येज्भावेषु च ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-२०/८६) गुणवृद्ध्येज्भावेषु च तत्कालता प्राप्नोति ॒ खट्वा इन्द्रः खट्वेन्द्रः खट्वा उदकम् खट्वोदकम् खट्वा ईषा खट्वेषा खट्वा ऊढा खट्वोढा खट्वा एलका खट्वैलका खट्वा ओदनः खट्वौदनः , खट्वा ऐतिकयनः खट्वैतिकायनः , खट्वा औपगवः खट्वौपगवः इति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-२१/८६) आन्तर्यतः त्रिमात्र्चतुर्मात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः आदेशाः प्राप्नुवन्ति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-२२/८६) न एषः दोषाः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-२३/८६) तपरे गुणवृद्धी ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-२४/८६) ननु च तः परः यस्मात् सः अयम् तपरः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-२५/८६) न इति आह ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-२६/८६) तात् अपि परः तपरः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-२७/८६) यदि तात् अपि परः तपरः ऋ̄दोः अप् इति इह एव स्यात् ॒ यवः , स्तवः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-२८/८६) लवः , पवः इति अत्र न स्यात् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-२९/८६) न एषः तकारः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-३०/८६) कः तर्हि ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-३१/८६) दकारः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-३२/८६) किम् दकारे प्रयोजनम् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-३३/८६) अथ किम् तकारे प्रयोजनम् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-३४/८६) यदि असन्देहार्थः तकारः दकारः अपि ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-३५/८६) अथ मुखसुखार्थः तकारः दकारः अपि ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-३६/८६) एज्भावे ॒ कुर्वाते कुर्वाथे ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-३७/८६) आन्तर्यतः अर्धतृतीयमात्रस्य टिसञ्ज्ञकस्य अर्धतृतीयमात्रः एः प्राप्नोति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-३८/८६) न एव लोके न च वेदे अर्धतृतीयमात्रः एः अस्ति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-३९/८६) ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गः अविशेषात् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-४०/८६) ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-४१/८६) सर्वे गुणवृद्धिसञ्ज्ञकाः ऋवर्णस्य स्थाने प्राप्नुवन्ति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-४२/८६) किम् कारणम् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-४३/८६) अविशेषात् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-४४/८६) न हि कः चित् विशेषः उपादीयते एवञ्जातीयकः गुणवृद्धिसञ्ज्ञकः ऋवर्णस्य स्थाने भवति इति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-४५/८६) अनुपादीयमाने विशेषे सर्वप्रसङ्गः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-४६/८६) न वा ऋवर्णस्य स्थाने रपरप्रसङ्गात् अवर्णस्य आन्तर्यम् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-४७/८६) न वा एषः दोषः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-४८/८६) किम् कारणम् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-४९/८६) ऋवर्णस्य स्थाने रपरप्रसङ्गात् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-५०/८६) उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति उच्यते ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-५१/८६) तत्र ऋवर्णस्य आन्तर्यतः रेफवतः रेफवान् अकारः एव अन्तरतमः भवति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-५२/८६) सर्वादेशप्रसङ्गः तु अनेकाल्त्वात् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-५३/८६) सर्वादेशप्रसङ्गः तु गुणवृद्धिसञ्ज्ञकः ऋवर्णस्य प्राप्नोति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-५४/८६) किम् कारणम् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-५५/८६) अनेकाल्त्वात् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-५६/८६) अनेकाल् शित् सर्वस्य इति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-५७/८६) न वा अनेकाल्त्वस्य तदाश्रयत्वात् ऋवर्णादेशस्य अविघातः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-५८/८६) न वा एषः दोषः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-५९/८६) किम् कारणम् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-६०/८६) अनेकाल्त्वस्य तदाश्रयत्वात् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-६१/८६) यदा अयम् उः स्थाने तदा अनेकाल् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-६२/८६) अनेकाल्त्वस्य तदाश्रयत्वात् ऋवर्णादेशस्य विघातः न भविष्यति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-६३/८६) अथवा अनान्तर्यम् एव एतयोः आन्तर्यम् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-६४/८६) एकस्य अपि अन्तरतमा प्रकृतिः न अस्ति अपरस्य अपि अन्तरतमः आदेशः न अस्ति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-६५/८६) एतत् एव एतयोः आन्तर्यम् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-६६/८६) सम्प्रयोगः वा नष्टाश्वदग्धरथवत् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-६७/८६) अथ वा नष्टाश्वदग्धरथवत् सम्प्रयोगः भवति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-६८/८६) तत् यथा ॒ तव अश्वः नष्टः मम अपि रथः दग्धः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-६९/८६) उभौ सम्प्रयुज्यावहै इति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-७०/८६) एवम् इह अपि ॒ तव अपि अन्तरतमा प्रकृतिः न अस्ति मम अपि अन्तरतमः आदेशः न अस्ति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-७१/८६) अस्तु नौ सम्प्रयोगः इति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-७२/८६) विषमः उपन्यासः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-७३/८६) चेतनावत्सु अर्थात् प्रकरणात् वा लोके सम्प्रयोगः भवति ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-७४/८६) वर्णाः च पुनः अचेतनाः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-७५/८६) तत्र किङ्कृतः सम्प्रयोगः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-७६/८६) यदि अपि वर्णाः अचेतनाः यः तु असौ प्रयुङ्क्ते सः चेतनावान् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-७७/८६) एजवर्णयोः आदेशे अवर्णम् स्थानिनः अवर्णप्रधानत्वात् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-७८/८६) एजवर्णयोः आदेशे अवर्णम् प्राप्नोति ॒खट्वा एलका , माला औपगवः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-७९/८६) किम् कारणम् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-८०/८६) स्थानिनः अवर्णप्रधानत्वात् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-८१/८६) स्थानी हि अत्र अवर्णप्रधानः ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-८२/८६) सिद्धम् तु उभयान्तर्यात् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-८३/८६) सिद्धम् एतत् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-८४/८६) कथम् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-८५/८६) उभयोः यः अन्तरतमः तेन भवितव्यम् ।

(पा-१,१.५०.५; अकि-१,१२३.१७-१२५.१५; रो-१, ३७३-३७७; भा-८६/८६) न च अवर्णम् उभयोः अन्तरतमम् ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-१/४१) किम् इदम् उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् ॒ उः स्थाने अण् एव भवति रपरः च इति , आहोस्वित् रपरत्वम् अनेन विधीयते ॒ उः स्थाने अण् च अनण् च अण् तु रपरः एव ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-२/४१) कः च अत्र विशेषः ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-३/४१) उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् चेत् उदात्तादिषु दोषः ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-४/४१) उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् चेत् उदात्तादिषु दोषः भवति ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-५/४१) के पुनः उदात्तादयः ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-६/४१) उदात्तानुदात्तस्वरितानुनासिकाः ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-७/४१) कृतिः , हृतिः , कृतम् , हृतम् , प्रकृतम् , प्रहृतम् नृ̄म्̐ः पाहि ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-८/४१) अस्तु तर्हि उः स्थाने अण् च अनण् च अण् तु रपरः इति ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-९/४१) यः उः स्थाने सः रपरः इति चेत् गुणवृद्ध्योः अवर्णाप्रतिपत्तिः ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-१०/४१) यः उः स्थाने सः रपरः इति चेत् गुणवृद्ध्योः अवर्णाप्रतिपत्तिः ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-११/४१) कर्ता हर्ता वार्षगण्यः ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-१२/४१) किम् हि साधीयः ऋवर्णस्य असवर्णे यत् अवर्णम् स्यात् न पुनः एङैचौ ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-१३/४१) पूर्वस्मिन् अपि पक्षे एषः दोषः ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-१४/४१) किम् हि साधीयः तत्र अपि ऋवर्णस्य असवर्णे यत् अवर्णम् स्यात् न पुनः इवर्णोवर्णौ ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-१५/४१) अथ मतम् एतत् उः स्थाने अणः च अनणः च प्रसङ्गे अण् एव भवति रपरः च इति सिद्धा पूर्वस्मिन् पक्षे अवर्णस्य प्रतिपत्तिः ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-१६/४१) यत् तु तत् उक्तम् उदात्तादिषु दोषः भवति इति इह सः दोषः जायते ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-१७/४१) न जायते ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-१८/४१) जायते सः दोषः ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-१९/४१) कथम् ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-२०/४१) उदात्तः इति अनेन अणः अपि प्रतिनिर्दिश्यन्ते अनणः अपि ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-२१/४१) यदि अपि प्रतिनिर्दिश्यन्ते न तु प्राप्नुवन्ति ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-२२/४१) किम् कारणम् ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-२३/४१) स्थाने अन्तरतमः भवति ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-२४/४१) कुतः नु खलु द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः स्थाने अन्तरतमः उः अण् रपरः इति च स्थाने अन्तरतमः इति अनया परिभाषया व्यवस्था भविष्यति न पुनः उः अण् रपरः इति ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-२५/४१) अतः किम् ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-२६/४१) अतः एषः दोषः जायते ॒ उदात्तादिषु दोषः इति ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-२७/४१) ये च अपि एते ऋवर्णस्य स्थाने प्रतिपदम् आदेशाः उच्यन्ते तेषु रपरत्वम् न प्राप्नोति ॒ ऋ̄तः इत् धातोः उत् ओष्ठ्यपूर्वस्य इति ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-२८/४१) सिद्धम् तु प्रसङ्गे रपरत्वात् ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-२९/४१) सिद्धम् एतत् ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-३०/४१) कथम् ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-३१/४१) प्रसङ्गे रपरत्वात् ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-३२/४१) उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-३३/४१) किम् वक्तव्यम् एतत् ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-३४/४१) न हि ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-३५/४१) कथम् अनुच्यमानम् गंस्यते ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-३६/४१) स्थाने इति वर्तते स्थानशब्दः च प्रसङ्गवाची ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-३७/४१) यदि एवम् आदेशः अविशेषितः भवति ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-३८/४१) आदेशः च विशेषितः ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-३९/४१) कथम् ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-४०/४१) द्वितीयम् स्थानग्रहणम् प्रकृतम् अनुवर्तते. तत्र एवम् अभिसम्बन्धः करिष्यते ॒ उः स्थाने अण् स्थाने इति ।

(पा-१,१.५१.१; अकि-१,१२५.१७-१२६.१९; रो-१,३७८-३८१; भा-४१/४१) उः प्रसङ्गे अण् प्रसज्यमानः एव रपरः भवति ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-१/२०) अथ अण्ग्रहणम् किमर्थम् न उः रपरः इति एव उच्येत ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-२/२०) उः रपरः इति इयति उच्यमाने कः इदानीम् रपरः स्यात् ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-३/२०) यः उः स्थाने भवति ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-४/२०) कः च उः स्थाने भवति ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-५/२०) आदेशः ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-६/२०) आदेशः रपरः इति चेत् रीरिविधिषु रपरप्रतिषेधः ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-७/२०) आदेशः रपरः इति चेत् रीरिविधिषु रपरत्वस्य प्रतिषेधः वक्तव्यः ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-८/२०) के पुनः रीरिविधयः ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-९/२०) अकङ्लोपानङनङ्रीङ्रिङादेशाः ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-१०/२०) अकङ्॒ सौधातकिः ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-११/२०) लोपः ॒ पैतृष्वसेयः ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-१२/२०) आनङ् ॒ होतापोतारौ ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-१३/२०) अनङ् ॒ कर्ता हर्ता ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-१४/२०) रीङ् ॒ मात्रीयति पित्रीयति ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-१५/२०) रिङ् ॒ क्रियते ह्रियते ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-१६/२०) उदात्तादिषु च ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-१७/२०) किम् ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-१८/२०) रपरत्वस्य प्रतिषेधः वक्तव्यः ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-१९/२०) कृतिः , हृतिः , कृतम् , हृतम् , प्रकृतम् , प्रहृतम् नृ̄म्̐ः पाहि ।

(पा-१,१.५१.२; अकि-१,१२६.२०-१२७.३; रो-१,३८२; भा-२०/२०) तस्मात् अण्ग्रहणम् कर्तव्यम् ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-१/३७) एकादेशस्य उपसङ्ख्यानम् ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-२/३७) एकादेशस्य उपसङ्ख्यानम् कर्तव्यम् ॒ खट्वर्श्यः , मालर्श्यः ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-३/३७) किम् पुनः कारणम् न सिध्यति ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-४/३७) उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति उच्यते न च अयम् उः एव स्थाने अण् शिष्यते ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-५/३७) किम् तर्हि ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-६/३७) उः च अन्यस्य च ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-७/३७) अवयवग्रहणात् सिद्धम् ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-८/३७) यत् अत्र ऋवर्णम् तदाश्रयम् रपरत्वम् भविष्यति ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-९/३७) तत् यथा माषाः न भोक्तव्याः इति मिश्राः अपि न भुज्यन्ते ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-१०/३७) अवयवग्रहणात् सिद्धम् इति चेत् आदेशे रान्तप्रतिषेधः ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-११/३७) अव्ययवग्रहणात् सिद्धम् इति चेत् आदेशे रान्तस्य प्रतिषेधः वक्तव्यः ॒ होतापोतारौ ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-१२/३७) यथा एव उः च अन्यस्य च स्थाने अण् रपरः भवति एवम् यः उः स्थाने अण् च अनण् च सः अपि रपरः स्यात् ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-१३/३७) यदि पुनः ऋवर्णान्तस्य स्थानिनः रपरत्वम् उच्येत ॒ खट्वर्श्यः , मालर्श्यः ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-१४/३७) न एवम् शक्यम् ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-१५/३७) इह हि दोषः स्यात् ॒ कर्ता हर्ता किरति गिरति ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-१६/३७) ऋवर्णान्तस्य इति उच्यते ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-१७/३७) न च एतत् ऋवर्णान्तम् ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-१८/३७) ननु च एतत् अपि व्यपदेशिवद्भावेन ऋवर्णान्तम् ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-१९/३७) अर्थवता व्यपदेशिवद्भावः न च एषः अर्थवान् ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-२०/३७) तस्मात् न एवम् शक्यम् ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-२१/३७) न चेत् एवम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-२२/३७) इह च रपरत्वप्रतिषेधः वक्तव्यः ॒ मातुः , पितुः इति ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-२३/३७) उभयम् न वक्तव्यम् ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-२४/३७) कथम् ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-२५/३७) इह यः द्वयोः षष्ठीनिर्दिष्टयोः प्रसङ्गे भवति लभते असौ अन्यतरतः व्यपदेशम् ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-२६/३७) तत् यथा देवदत्तस्य पुत्रः , देवदत्तायाः पुत्रः इति ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-२७/३७) कथम् मातुः पितुः इति ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-२८/३७) अस्तु अत्र रपरत्वम् ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-२९/३७) का रूपसिद्दिः ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-३०/३७) रात् सस्य इति सकारस्य लोपः रेफस्य विसर्जनीयः ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-३१/३७) न एवम् शक्यम् ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-३२/३७) इह हि मातुः करोति , पितुः करोति इति अप्रत्ययविसर्जनीयस्य इति षत्वम् प्रसज्येत ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-३३/३७) अप्रत्ययस्विसर्जनीयस्य इति उच्यते ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-३४/३७) प्रत्ययविसर्जनीयः च अयम् ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-३५/३७) लुप्यते अत्र प्रत्ययः रात् सस्य इति ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-३६/३७) एवम् तर्हि भ्रातुष्पुत्रग्रहणम् ज्ञापकम् एकादेशनिमित्तात् षत्वप्रतिषेधस्य ।

(पा-१,१.५१.३; अकि-१,१२७.४-२४; रो-१,३८२-३८५; भा-३७/३७) यत् अयम् कस्कादिषु भ्रातुष्पुत्रशब्दम् पठति तत् ज्ञापयति आचार्यः न एकादेशनिमित्त्तात् षत्वम् भवति इति.

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-१/१००) किम् पुनः अयम् पूर्वान्तः आहोस्वित् परादिः आहोस्वित् अभक्तः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-२/१००) कथम् च अयम् पूर्वान्तः स्यात् कथम् वा परादिः कथम् वा अभक्तः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-३/१००) यदि अन्तः इति वर्तते ततः पूर्वान्तः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-४/१००) अथ आदिः इति वर्तते ततः परादिः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-५/१००) अथ उभयम् निवृत्तम् ततः अभक्तः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-६/१००) कः च अत्र विशेषः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-७/१००) अभक्ते दीर्घलत्वयगभ्यस्तस्वरहलादिशेषविसर्जनीयप्रतिषेधः प्रत्ययाव्यवस्था च ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-८/१००) यदि अभक्तः दीर्घत्वम् न प्राप्नोति ॒ गीः , पूः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-९/१००) रेफवकारान्तस्य धातोः इति दीर्घत्वम् न प्राप्नोति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-१०/१००) किम् पुनः कारणम् रेफवकाराभ्याम् धातुः विशेष्यते न पुनः पदम् विशेष्यते रेफवकारान्तस्य पदस्य इति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-११/१००) न एवम् शक्यम् ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-१२/१००) इह अपि प्रसज्येत ॒ अग्निः , वायुः इति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-१३/१००) एवम् तर्हि रेफवकाराभ्याम् पदम् विशेषयिष्यामः धातुना इकम् ॒ रेफवकारान्तस्य पदस्य इकः धातोः इति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-१४/१००) एवम् अपि प्रियम् ग्रामणि कुलम् अस्य प्रियग्रामणिः , प्रियसेनानिः अत्र अपि प्राप्नोति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-१५/१००) तस्मात् धातुः एव विशेष्यते ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-१६/१००) धातौ च विशेष्यमाणे इह दीर्घत्वम् न प्राप्नोति ॒ गीः , पूः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-१७/१००) दीर्घ ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-१८/१००) लत्व ॒ लत्वम् च न सिध्यति ॒ निजेगिल्यते ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-१९/१००) ग्रः यङि इति लत्वम् न प्राप्नोति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-२०/१००) न एषः दोषः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-२१/१००) ग्रः इति अनन्तरयोगा एषा षष्ठी ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-२२/१००) एवम् अपि स्वः जेगिल्यते इति अत्र अपि प्राप्नोति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-२३/१००) एवम् तर्हि यङा आनन्तर्यम् विशेषयिष्यामः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-२४/१००) अथ वा ग्रः इति पञ्चमी ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-२५/१००) लत्व ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-२६/१००) यक्स्वर ॒ यक्स्वरः च न सिध्यति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-२७/१००) गीर्यते स्वयम् एव , पुर्यते स्वयम् एव ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-२८/१००) अचः कर्तृयकि इति एषः स्वरः न प्राप्नोति रेफेण व्यवहितत्वात् ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-२९/१००) न एषः दोषः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-३०/१००) स्वरविधौ व्यञ्जनम् अविद्यमानवत् इति न अस्ति व्यवधानम् ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-३१/१००) यक्स्वर ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-३२/१००) अभ्यस्तस्वर ॒ अभ्यस्तस्वरः च न सिध्यति ॒ म हि स्म ते पिपरुः , म हि स्म ते बिभरुः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-३३/१००) अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति रेफेण व्यवहितत्वात् ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-३४/१००) न एषः दोषः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-३५/१००) स्वरविधौ व्यञ्जमम् अविद्यमानवत् इति न अस्ति व्यवधानम् ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-३६/१००) अभ्यस्तस्वर ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-३७/१००) हलादिशेष ॒ हलादिशेषः च न सिध्यति ॒ ववृते ववृधे ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-३८/१००) अभ्यासस्य इति हलादिशेषः न प्राप्नोति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-३९/१००) हलादिशेष ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-४०/१००) विसर्जनीय ॒ विसर्जनीयस्य च प्रतिषेधः वक्तव्यः ॒ नार्कुटः , नार्पत्यः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-४१/१००) खरवसानयोः विसर्जनीयः इति विसर्जनीयः प्राप्नोति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-४२/१००) विसर्जनीय ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-४३/१००) प्रत्ययाव्यवस्था ॒ प्रत्यये व्यवस्था न प्रकल्पते ॒ किरतः , गिरतः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-४४/१००) रेफः अपि अभक्तः प्रत्ययः अपि ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-४५/१००) तत्र व्यवस्था न प्रकल्पते ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-४६/१००) एवम् तर्हि पूर्वान्तः करिष्यते ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-४७/१००) पूर्वान्ते र्ववधारणम् विसर्जनीयप्रतिषेधः यक्स्वरः च ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-४८/१००) यदि पूर्वान्तः रोः अवधारणम् कर्तव्यम् ॒ रोः सुपि ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-४९/१००) रोः एव सुपि न अन्यस्य रेफस्य ॒ सर्पिष्षु धनुष्षु ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-५०/१००) इह मा भूत् ॒ गीर्षु पूर्षु ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-५१/१००) परादौ अपि सति अवधारणम् कर्तव्यम् चतुर्षु इति एवम् अर्थम् ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-५२/१००) विसर्जनीयप्रतिषेधः ॒ विसर्जनीयस्य च प्रतिषेधः वक्तव्यः ॒ नार्कुटः , नार्पत्यः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-५३/१००) खरवसानयोः विसर्जनीयः इति विसर्जनीयः प्राप्नोति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-५४/१००) परादौ अपि विसर्जनीयस्य प्रतिषेधः वक्तव्यः नार्कल्पिः इति एवमर्थम् ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-५५/१००) कल्पिपदसङ्घातभक्तः असौ न उत्सहते अवयवस्य पदान्तताम् विहन्तुम् इति कृत्वा विसर्जनीयः प्राप्नोति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-५६/१००) यक्स्वरः ॒ यक्स्वरः च न सिध्यति ॒ गीर्यते स्वयम् एव , पुर्यते स्वयम् एव ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-५७/१००) अचः कर्तृयकि इति एषः स्वरः न प्राप्नोति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-५८/१००) न एषः दोषः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-५९/१००) उपदेशे इति वर्तते ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-६०/१००) अथ वा पुनः अस्तु परादिः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-६१/१००) परादौ अकारलोपौत्वपुक्प्रतिषेधः चङि उपधाह्रस्वत्वम् इटः अव्यवस्था अभ्यासलोपः अभ्यस्ततादिस्वरः दीर्घत्वम् च ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-६२/१००) यदि परादिः अकारलोपः प्रतिषेध्यः ॒ कर्ता हर्ता ॒ अतः लोपः आर्धधातुके इति अकारलोपः प्राप्नोति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-६३/१००) न एषः दोषः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-६४/१००) उपदेशे इति वर्तते ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-६५/१००) यदि उपदेशे इति वर्तते धिनुतः , कृणुतः अत्र लोपः न प्राप्नोति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-६६/१००) न उपदेशग्रहणेन प्रकृतिः अभिसम्बध्यते ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-६७/१००) किम् तर्हि ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-६८/१००) आर्धधातुकम् अभिसम्बध्यते ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-६९/१००) आर्धधातुकोपदेशे यत् अकारान्तम् इति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-७०/१००) अकारलोप ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-७१/१००) औत्व ॒ औत्वम् च प्रतिषेध्यम् ॒ चकार जहार ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-७२/१००) आतः औ णलः इति औत्वम् प्राप्नोति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-७३/१००) न एषः दोषः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-७४/१००) निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-७५/१००) यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-७६/१००) रेफेन व्यवहितत्वात् ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-७७/१००) औत्व ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-७८/१००) पुक्प्रतिषेधः ॒ पुक् च प्रतिषेध्यः ॒ कारयति हारयति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-७९/१००) आताम् पुक् इति पुक् प्राप्नोति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-८०/१००) पुक्प्रतिषेधः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-८१/१००) चङि उपधाह्रस्वत्वम् च न सिध्यति ॒ अचीकरत् अजीहरत् ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-८२/१००) णौ चङि उपधायाः ह्रस्वः इति ह्रस्वत्वम् न प्राप्नोति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-८३/१००) चङि उपधाह्रस्वत्वम् ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-८४/१००) इटः अव्यवस्था ॒ इटः च व्यवस्था न प्रकल्पते ॒ आस्तरिता निपरिता ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-८५/१००) इट् अपि परादिः रेफः अपि ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-८६/१००) तत्र व्यवस्था न प्रकल्पते ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-८७/१००) इटः अव्यवस्था ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-८८/१००) अभ्यासलोपः ॒ अभ्यासलोपः च वक्तव्यः ॒ ववृते ववृधे ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-८९/१००) अभ्यासस्य इति हलादिशेषः न प्राप्नोति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-९०/१००) अभ्यासलोपः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-९१/१००) अभ्यस्तस्वर ॒ अभ्यस्तस्वरः च न सिध्यति ॒ म हि स्म ते पिपरुः , म हि स्म ते बिभरुः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-९२/१००) अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-९३/१००) अभ्यस्तस्वर ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-९४/१००) तादिस्वरः ॒ तादिस्वरः च न सिध्यति ॒ प्रकर्ता प्रकर्तुम् , प्रहर्ता प्रहर्तुम् ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-९५/१००) तादौ च निति कृति अतौ इति एषः स्वरः न प्राप्नोति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-९६/१००) न एषः दोषः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-९७/१००) उक्तम् एतत् ॒ कृदुपदेशे वा ताद्यर्थम् इडर्थम् इति ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-९८/१००) तादिस्वरः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-९९/१००) दीर्घत्वम् ॒ दीर्घत्वम् च न सिध्यति ॒ गीः , पूः ।

(पा-१,१.५१.४; अकि-१,१२७.२५-१३०.२; रो-१,३८५-३९१; भा-१००/१००) रेफवकारान्तस्य धातोः इति दीर्घत्वम् न प्राप्नोति ।

(पा-१,१.५२.१; अकि-१,१३०.४-११; रो-१,३९१-३९२; भा-१/१४) किम् इदम् अल्ग्रहणम् अन्त्यविशेषणम् आहोस्वित् आदेशविशेषणम् ।

(पा-१,१.५२.१; अकि-१,१३०.४-११; रो-१,३९१-३९२; भा-२/१४) किम् च अतः ।

(पा-१,१.५२.१; अकि-१,१३०.४-११; रो-१,३९१-३९२; भा-३/१४) यदि अन्त्यविशेषणम् आदेशः अविशेषितः भवति ।

(पा-१,१.५२.१; अकि-१,१३०.४-११; रो-१,३९१-३९२; भा-४/१४) तत्र कः दोषः ।

(पा-१,१.५२.१; अकि-१,१३०.४-११; रो-१,३९१-३९२; भा-५/१४) अनेकाल् अपि आदेशः अन्त्यस्य प्रसज्येत ।

(पा-१,१.५२.१; अकि-१,१३०.४-११; रो-१,३९१-३९२; भा-६/१४) यदि पुनः अल् अन्त्यस्य इति उच्येत ।

(पा-१,१.५२.१; अकि-१,१३०.४-११; रो-१,३९१-३९२; भा-७/१४) तत्र अयम् अपि अर्थः अनेकाल् शित् सर्वस्य इति एतत् न वक्तव्यम् भवति ।

(पा-१,१.५२.१; अकि-१,१३०.४-११; रो-१,३९१-३९२; भा-८/१४) इदम् नियमार्थम् भविष्यति ॒ अल् एव अन्त्यस्य भवति न अन्यः इति ।

(पा-१,१.५२.१; अकि-१,१३०.४-११; रो-१,३९१-३९२; भा-९/१४) एवम् अपि अन्त्यः अविशेषितः भवति ।

(पा-१,१.५२.१; अकि-१,१३०.४-११; रो-१,३९१-३९२; भा-१०/१४) तत्र कः दोषः ।

(पा-१,१.५२.१; अकि-१,१३०.४-११; रो-१,३९१-३९२; भा-११/१४) वाक्यस्य अपि पदस्य अपि अन्त्यस्य प्रसज्येत ।

(पा-१,१.५२.१; अकि-१,१३०.४-११; रो-१,३९१-३९२; भा-१२/१४) यदि खलु अपि एषः अभिप्रायः तत् न क्रियेत इति अन्त्यविशेषणे अपि सति तत् न करिष्यते ।

(पा-१,१.५२.१; अकि-१,१३०.४-११; रो-१,३९१-३९२; भा-१३/१४) कथम् ।

(पा-१,१.५२.१; अकि-१,१३०.४-११; रो-१,३९१-३९२; भा-१४/१४) ङित् च अलः अन्त्यस्य इति एतत् नियमार्थम् भविष्यति ॒ ङित् एव अनेकाल् अन्त्यस्य भवति न अन्यः इति ।

(पा-१,१.५२.२; अकि-१,१३०.१२-२० ऋई.३९२-३९४; भा-१/१२) किमर्थम् पुनः इदम् उच्यते ।

(पा-१,१.५२.२; अकि-१,१३०.१२-२० ऋई.३९२-३९४; भा-२/१२) अलः अन्त्यस्य इति स्थाने विज्ञातस्य अनुसंहारः ।

(पा-१,१.५२.२; अकि-१,१३०.१२-२० ऋई.३९२-३९४; भा-३/१२) अलः अन्त्यस्य इति स्थाने विज्ञातस्य अनुसंहारः क्रियते स्थाने प्रसक्तस्य ।

(पा-१,१.५२.२; अकि-१,१३०.१२-२० ऋई.३९२-३९४; भा-४/१२) इतरथा हि अनिष्टप्रसङ्गः ।

(पा-१,१.५२.२; अकि-१,१३०.१२-२० ऋई.३९२-३९४; भा-५/१२) इतरथा हि अनिष्टप्रसङ्गः प्रसज्येत ।

(पा-१,१.५२.२; अकि-१,१३०.१२-२० ऋई.३९२-३९४; भा-६/१२) टित्किन्मितः अपि अन्त्यस्य स्युः ।

(पा-१,१.५२.२; अकि-१,१३०.१२-२० ऋई.३९२-३९४; भा-७/१२) यदि पुनः अयम् योगशेषः विज्ञायेत ।

(पा-१,१.५२.२; अकि-१,१३०.१२-२० ऋई.३९२-३९४; भा-८/१२) योगशेषे च ।

(पा-१,१.५२.२; अकि-१,१३०.१२-२० ऋई.३९२-३९४; भा-९/१२) किम् ।

(पा-१,१.५२.२; अकि-१,१३०.१२-२० ऋई.३९२-३९४; भा-१०/१२) अनिष्टम् प्रसज्येते ।

(पा-१,१.५२.२; अकि-१,१३०.१२-२० ऋई.३९२-३९४; भा-११/१२) टित्किन्मितः अपि अन्त्यस्य स्युः ।

(पा-१,१.५२.२; अकि-१,१३०.१२-२० ऋई.३९२-३९४; भा-१२/१२) तस्मात् सुष्ठु उच्यते ॒ अलः अन्त्यस्य इति स्थाने विज्ञातस्य अनुसंहारः इतरथा हि अनिष्टप्रसङ्गः इति ।

(पा-१,१.५३; अकि-१,१३०.२१-१३१.७; रो-१,३९४-३९५; भा-१/१२) तातङ् अन्त्यस्य कस्मात् न भवति ।

(पा-१,१.५३; अकि-१,१३०.२१-१३१.७; रो-१,३९४-३९५; भा-२/१२) ङित् च अलः अन्त्यस्य इति प्राप्नोति ।

(पा-१,१.५३; अकि-१,१३०.२१-१३१.७; रो-१,३९४-३९५; भा-३/१२) तातङि ङित्करणस्य सावकाशत्वात् विप्रतिषेधात् सर्वादेशः ।

(पा-१,१.५३; अकि-१,१३०.२१-१३१.७; रो-१,३९४-३९५; भा-४/१२) तातङि ङित्करणस्य सावकाशम् ।

(पा-१,१.५३; अकि-१,१३०.२१-१३१.७; रो-१,३९४-३९५; भा-५/१२) कः अवकाशः ।

(पा-१,१.५३; अकि-१,१३०.२१-१३१.७; रो-१,३९४-३९५; भा-६/१२) गुणवृद्धिप्रतिषेधार्थः ङकारः ।

(पा-१,१.५३; अकि-१,१३०.२१-१३१.७; रो-१,३९४-३९५; भा-७/१२) तातङि ङित्करणस्य सावकाशत्वात् विप्रतिषेधात् सर्वादेशः भविष्यति ।

(पा-१,१.५३; अकि-१,१३०.२१-१३१.७; रो-१,३९४-३९५; भा-८/१२) प्रयोजनम् नाम तत् वक्तव्यम् यत् नियोगतः स्यात् ।

(पा-१,१.५३; अकि-१,१३०.२१-१३१.७; रो-१,३९४-३९५; भा-९/१२) यदि च अयम् नियोगतः सर्वादेशः स्यात् ततः एतत् प्रयोजनम् स्यात् ।

(पा-१,१.५३; अकि-१,१३०.२१-१३१.७; रो-१,३९४-३९५; भा-१०/१२) कुतः नु खलु एतत् ङित्करणात् अयम् सर्वादेशः भविष्यति न पुनः अन्त्यस्य स्यात् इति ।

(पा-१,१.५३; अकि-१,१३०.२१-१३१.७; रो-१,३९४-३९५; भा-११/१२) एवम् तर्हि एतत् एव ज्ञापयति न तातङ् अन्त्यस्य स्थाने भवति इति यत् एतम् ङितम् करोति ।

(पा-१,१.५३; अकि-१,१३०.२१-१३१.७; रो-१,३९४-३९५; भा-१२/१२) इतरथा हि लोटः एरुप्रकरणे एव ब्रूयात् तिह्योः तात् आशिषि अन्यतरस्याम् इति ।

(पा-१,१.५४; अकि-१,१३१.९-१७; रो-१,३९५-३९६; भा-१/१२) अलः अन्त्यस्य अदेः परस्य अनेकाल् शित् सर्वस्य इति अपवादविप्रतिषेधात् सर्वादेशः ।

(पा-१,१.५४; अकि-१,१३१.९-१७; रो-१,३९५-३९६; भा-२/१२) अलः अन्त्यस्य इति उत्सर्गः ।

(पा-१,१.५४; अकि-१,१३१.९-१७; रो-१,३९५-३९६; भा-३/१२) तस्य आदेः परस्य अनेकाल्शित् सर्वस्य इति अपवादौ ।

(पा-१,१.५४; अकि-१,१३१.९-१७; रो-१,३९५-३९६; भा-४/१२) अपवादविप्रतिषेधात् तु सर्वादेशः भविष्यति ।

(पा-१,१.५४; अकि-१,१३१.९-१७; रो-१,३९५-३९६; भा-५/१२) आदेः परस्य इति अस्य अवकाशः द्व्यन्तरुपसर्गेभ्यः अपः ईत् ॒ द्वीपम् अन्वीपम् ।

(पा-१,१.५४; अकि-१,१३१.९-१७; रो-१,३९५-३९६; भा-६/१२) अनेकाल्शित् सर्वस्य इति अस्य अवकाशः अस्तेः भूः ॒ भविता भवितुम् ।

(पा-१,१.५४; अकि-१,१३१.९-१७; रो-१,३९५-३९६; भा-७/१२) इह उभयम् प्राप्नोति ॒ अतः भिसः ऐस् ।

(पा-१,१.५४; अकि-१,१३१.९-१७; रो-१,३९५-३९६; भा-८/१२) अनेकाल्शित् सर्वस्य इति एतत् भवति विप्रतिषेधेन ।

(पा-१,१.५४; अकि-१,१३१.९-१७; रो-१,३९५-३९६; भा-९/१२) शित् सर्वस्य इति अस्य अवकाशः इदमः इश् ॒ इतः , इह ।

(पा-१,१.५४; अकि-१,१३१.९-१७; रो-१,३९५-३९६; भा-१०/१२) आदेः परस्य इति अस्य अवकाशः सः एव ।

(पा-१,१.५४; अकि-१,१३१.९-१७; रो-१,३९५-३९६; भा-११/१२) इह उभयम् प्राप्नोति ॒ अष्टाभ्यः औश् ।

(पा-१,१.५४; अकि-१,१३१.९-१७; रो-१,३९५-३९६; भा-१२/१२) शित् सर्वस्य इति एतत् भवति विप्रतिषेधेन ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-१/२७) शित् सर्वस्य इति किम् उदाहरणम् ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-२/२७) इदमः इश् ॒ इतः , इह ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-३/२७) न एतत् अस्ति प्रयोजनम् ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-४/२७) शित्करणात् एव अत्र सर्वादेशः भविष्यति ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-५/२७) इदम् तर्हि ॒ अष्टाभ्यः औश् ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-६/२७) ननु च अत्र अपि शित्करणात् एव सर्वादेशः भविष्यति ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-७/२७) इदम् तर्हि ॒ जसः शी जश्शसोः शिः ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-८/२७) ननु च अत्र अपि शित्करणात् एव सर्वादेशः भविष्यति ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-९/२७) अस्ति अन्यत् शित्करणे प्रयोजनम् ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-१०/२७) किम् ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-११/२७) विशेषणार्थः ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-१२/२७) क्व विशेषणार्थेन अर्थः ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-१३/२७) शि सर्वनामस्थानम् विभाषा ङिश्योः इति ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-१४/२७) शित् सर्वस्य इति शक्यम् अकर्तुम् ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-१५/२७) कथम् ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-१६/२७) अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-१७/२७) असत्याम् प्रत्ययसञ्ज्ञायाम् इत्सञ्ज्ञा न स्यात् ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-१८/२७) असत्याम् इत्सञ्ज्ञायाम् लोपः न स्यात् ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-१९/२७) असति लोपे अनेकाल् ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-२०/२७) यदा अनेकाल् तदा सर्वादेशः ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-२१/२७) यदा सर्वादेशः तद प्रत्ययः ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-२२/२७) यदा प्रत्ययः तदा इत्सञ्ज्ञा ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-२३/२७) यदा इत्सञ्ज्ञा तदा लोपः ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-२४/२७) एवम् तर्हि सिद्धे सति यत् शित् सर्वस्य इति आह तत् ज्ञापयति आचार्यः अस्ति एषा परिभाषा ॒ न अनुबन्धकृतम् अनेकाल्त्वम् भवति इति ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-२५/२७) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-२६/२७) तत्र असरूपसर्वादेशाप्प्रतिषेधेषु पृथक्त्वनिर्देशः अनाकारान्तत्वात् इति उक्तम् ।

(पा-१,१.५५; अकि-१,१३१.१९-१३२.७; रो-१,३९६-३९७; भा-२७/२७) तत् न वक्तव्यम् भवति इति ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-१/२६) वत्करणम् किमर्थम् ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-२/२६) स्थानी आदेशः अनल्विधौ इति इयति उच्यमाने सञ्ज्ञाधिकरः अयम् तत्र स्थानी आदेशस्य सञ्ज्ञा स्यात् ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-३/२६) तत्र कः दोषः ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-४/२६) आङः यमहनः आत्मनेपदम् भवति इति वधेः एव स्यात् ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-५/२६) हन्तेः न स्यात् ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-६/२६) वत्करणे पुनः क्रियमाणे न दोषः भवति ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-७/२६) स्थानिकार्यम् आदेशे अतिदिश्यते गुरुवत् गुरुपुत्रः इति यथा ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-८/२६) अथ आदेशग्रहणम् किमर्थम् ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-९/२६) स्थानिवत् अनल्विधौ इति इयति उच्यमाने कः इदानीम् स्थानिवत् स्यात् ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-१०/२६) यः स्थाने भवति ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-११/२६) कः च स्थाने भवति ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-१२/२६) आदेशः ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-१३/२६) इदम् तर्हि प्रयोजनम् आदेशमात्रम् स्थानिवत् यथा स्यात् ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-१४/२६) एकदेशविकृतस्य उपसङ्ख्यानम् चोदयिष्यति ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-१५/२६) तत् न वक्तव्यम् भवति ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-१६/२६) अथ विधिग्रहणम् किमर्थम्. सर्वविभक्त्यन्तः समासः यथा विज्ञायेत ॒ अलः परस्य विधिः अल्विधिः , अलः विधिः अल्विधिः , अलि विधिः अल्विधिः , अला विधिः अल्विधिः इति ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-१७/२६) न एतत् अस्ति प्रयोजनम् ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-१८/२६) प्रातिपदिकर्निर्देशः अयम् ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-१९/२६) प्रातिपदिकर्निर्देशाः च अर्थतन्त्राः भवन्ति ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-२०/२६) न कां चित् प्राधान्येन विभक्तिम् आश्रयन्ति ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-२१/२६) तत्र प्रातिपदिकार्थे निर्दिष्टे याम् याम् विभक्तिम् आश्रयितुम् बुद्धिः उपजायते सा सा आश्रयितव्या ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-२२/२६) इदम् तर्हि प्रयोजनम् ॒ उत्तरपदलोपः यथा विज्ञायेत ॒ अलम् आश्रयते अलाशृअयः , अलाश्रयः विधिः अल्विधिः इति ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-२३/२६) यत्र प्राधान्येन अल् आश्रीयते तत्र एव प्रतिषेधः स्यात् ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-२४/२६) यत्र विशेषणत्वेन अल् आश्रीयते तत्र प्रतिषेधः न स्यात् ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-२५/२६) किम् प्रयोजनम् ।

(पा-१,१.५६.१; अकि-१,१३३.२-१६; रो-१,३९८-४०१; भा-२६/२६) प्रदीव्य प्रसीव्य इति वलादिलक्षणः इट् मा भूत् इति ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-१/३२) किमर्थम् पुनः इदम् उच्यते ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-२/३२) स्थान्यादेशपृथक्त्वात् आदेशे स्थानिवदनुदेशः गुरुवत् गुरुपुत्रे इति यथा ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-३/३२) अन्यः स्थानी अन्यः आदेशः ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-४/३२) स्थान्यादेशपृथक्त्वात् एतस्मात् कारणात् स्थानिकार्यम् आदेशे न प्राप्नोति ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-५/३२) तत्र कः दोषः ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-६/३२) आङः यमहनः आत्मनेपदम् भवति इति हन्तेः एव स्यात् वधेः न स्यात् ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-७/३२) इष्यते च वधेः अपि स्यात् इति ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-८/३२) तत् च अन्तरेण यत्नम् न सिध्यति ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-९/३२) तस्मात् ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-१०/३२) स्थानिवदनुदेशः ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-११/३२) एवमर्थम् इदम् उच्यते ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-१२/३२) गुरुवत् गुरुपुत्रः इति यथा ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-१३/३२) तत् यथा गुरुवत् अस्मिन् गुरुपुत्रे वर्तितव्यम् इति गुरौ यत् कार्यम् तत् गुरुपुत्रे अतिदिश्यते , एवम् इह अपि स्थानिकार्यम् आदेशे अतिदिश्यते ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-१४/३२) न एतत् अस्ति प्रयोजनम् ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-१५/३२) लोकतः एतत् सिद्धम् ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-१६/३२) तत् यथा लोके यः यस्य प्रसङ्गे भवति लभते असौ तत्कार्याणि ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-१७/३२) तत् यथा उपाध्यायस्य शिष्यः याज्यकुलानि गत्वा अग्रासनादीनि लभते ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-१८/३२) यदि अपि तावत् लोके एषः दृष्टान्तः दृष्टान्तस्य अपि तु पुरुषारम्भः निवर्तकः भवति ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-१९/३२) अस्ति च इह कः चित् पुरुषारम्भः ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-२०/३२) अस्ति इति आह ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-२१/३२) कः ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-२२/३२) स्वरूपविधिः ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-२३/३२) हन्तेः आत्मनेपदम् उच्यमानम् हन्तेः एव स्यात् वधेः न स्यात् ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-२४/३२) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति स्थानिवत् आदेशः भवति इति यत् अयम् युष्मदस्मदोः अनादेशे इति आदेशप्रतिषेधम् शास्ति ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-२५/३२) कथम् कृत्वा ज्ञापकम् ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-२६/३२) युष्मदस्मदोः विभक्तौ कार्यम् उच्यमानम् कः प्रसङ्गः यत् आदेशे स्यात् ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-२७/३२) पश्यति तु आचार्यः स्थानिवत् आदेशः भवति इति ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-२८/३२) अतः आदेशे प्रतिषेधम् शास्ति ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-२९/३२) इदम् तर्हि प्रयोजनम् ॒ अनल्विधौ इति प्रतिषेधम् वक्ष्यामि इति , इह मा भूत् ॒ द्यौः , पन्थाः , सः इति ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-३०/३२) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-३१/३२) आचार्यप्रवृत्तिः ज्ञापयति अल्विधौ स्थानिवद्भावः न भवति इति यत् अयम् अदः जग्धिः ल्यप् ति किति इति ति किति इति एव सिद्धे ल्यब्ग्रहणम् करोति ।

(पा-१,१.५६.२; अकि-१,१३३.१७-१३४.९; रो-१,४०१-४०२; भा-३२/३२) तस्मात् न अर्थः अनेन योगेन ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-१/३६) आरभ्यमाणे अपि एतस्मिन् योगे अल्विधौ प्रतिषेधे अविशेषणे अप्राप्तिः तस्य अदर्शनात् ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-२/३६) अल्विधौ प्रतिषेधे असति अपि विशेषणे समाश्रीयमणे असति तस्मिन् विशेषणे अप्राप्तिः विधेः ॒ प्रदीव्य प्रसीव्य ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-३/३६) किम् कारणम् ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-४/३६) तस्य अदर्शनात् ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-५/३६) वलादेः इति उच्यते न च अत्र वलादिम् पश्यामः ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-६/३६) ननु च एवमर्थः एव अयम् यत्नः क्रियते ॒ अन्यस्य कार्यम् उच्यमानम् अन्यस्य यथा स्यात् इति ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-७/३६) सत्यम् एवमर्थः न तु प्राप्नोति ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-८/३६) किम् कारणम् ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-९/३६) सामान्यातिदेशे विशेषानतिदेशः । सामन्ये हि अतिदिश्यमाने विशेषः न अतिदिष्टः भवति ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-१०/३६) तत् यथा ॒ ब्रह्मणवत् अस्मिन् क्षत्रिये वर्तितव्यम् इति सामान्यम् यत् ब्राह्मणकार्यम् तत् क्षत्रिये अतिदिश्यते ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-११/३६) यत् विशिष्टम् माठरे कौण्डिन्ये वा न तत् अतिदिश्यते ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-१२/३६) एवम् इह अपि सामान्यम् यत् प्रत्ययकार्यम् तत् अतिदिश्यते यत् विशिष्टम् वलादेः इति न तत् अतिदिश्यते ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-१३/३६) यदि एवम् अग्रहीत् इति इटः ईटि इति सिचः लोपः न प्राप्नोति ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-१४/३६) अनल्विधौ इति पुनः उच्यमाने इह अपि प्रतिषेधः भविष्यति ॒ प्रदीव्य प्रसीव्य इति ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-१५/३६) विशिष्टम् हि एषः अलम् आश्रयते वलम् नाम ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-१६/३६) इह च प्रतिषेधः न भविष्यति ॒ अग्रहीत् इति ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-१७/३६) विशिष्टम् हि एषः अनलम् आश्रयति इटम् नाम ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-१८/३६) यदि तर्हि सामान्यम् अपि अतिदिश्यते विशेषः च सति आश्रये विधिः इष्टः ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-१९/३६) सति च वलादित्वे इटा भवितव्यम् ॒ अरुदिताम् अरुदितम् अरुदित ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-२०/३६) किम् अतः यत् सति भवितव्यम् ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-२१/३६) प्रतिषेधः तु प्राप्नोति अल्विधित्वात् ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-२२/३६) प्रतिषेधः तु प्राप्नोति ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-२३/३६) किम् कारणम् ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-२४/३६) अल्विधित्वात् ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-२५/३६) अल्विधिः अयम् भवति ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-२६/३६) तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-२७/३६) न वा आनुदेशिकस्य प्रतिषेधात् इतरेण भावः ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-२८/३६) न वा एषः दोषः ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-२९/३६) किम् कारणम् ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-३०/३६) आनुदेशिकस्य प्रतिषेधात् ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-३१/३६) अस्तु अत्र आनुदेशिकस्य वलादित्वस्य प्रतिषेधः ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-३२/३६) स्वाश्रयम् अत्र वलादित्वम् भविष्यति ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-३३/३६) न एतत् विवदामहे वलादिः न वलादिः इति ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-३४/३६) किम् तर्हि ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-३५/३६) स्थानिवद्भावात् सार्वधातुकत्वम् एषितव्यम् ।

(पा-१,१.५६.३; अकि-१,१३४.१०-१३५.८; रो-१,४०३-४०६; भा-३६/३६) तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-१/३७) किम् पुनः आदेशिनि अलि आश्रीयमाणे प्रतिषेधः भवति आहोस्वित् अविशेषेण आदेशे आदेशिनि च ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-२/३७) कः च अत्र विशेषः ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-३/३७) आदेश्यल्विधिप्रतिषेधे कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-४/३७) आदेश्यल्विधिप्रतिषेधे कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः वक्तव्यः ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-५/३७) कुरु इति अत्र स्थानिवद्भावात् अङ्गसञ्ज्ञा श्वाश्रयम् च लघूपधत्वम् ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-६/३७) तत्र लघूपधगुणः प्राप्नोति ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-७/३७) वधकम् इति अत्र स्थानिवद्भावात् अङ्गसञ्ज्ञा श्वाश्रयम् च अदुपधत्वम् ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-८/३७) तत्र वृद्धिः प्राप्नोति ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-९/३७) पिब इति अत्र स्थानिवद्भावात् अङ्गसञ्ज्ञा श्वाश्रयम् च लघूपधत्वम् ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-१०/३७) तत्र गुणः प्राप्नोति ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-११/३७) अस्तु तर्हि अविशेषेण आदेशे आदेशिनि च ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-१२/३७) आदेश्यादेशे इति चेत् सुप्तिङ्कृदतिदिष्टेषु उपसङ्ख्यानम् ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-१३/३७) आदेश्यादेशे इति चेत् सुप्तिङ्कृदतिदिष्टेषु उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-१४/३७) सुप् ॒ वृक्षाय प्लक्षाय ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-१५/३७) स्थानिवद्भावात् सुप्सञ्ज्ञा स्वाश्रयम् च यञादित्वम् ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-१६/३७) तत्र प्रतिषेधः प्राप्नोति ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-१७/३७) सुप् ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-१८/३७) तिङ् ॒ अरुदिताम् अरुदितम् अरुदित ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-१९/३७) स्थानिवद्भावात् सार्वधातुकसञ्ज्ञा स्वाश्रयम् च वलादित्वम् ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-२०/३७) तत्र प्रतिषेधः प्राप्नोति ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-२१/३७) तिङ् ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-२२/३७) कृदतिदिष्टम् ॒ भुवनम् , सुवनम् , धुवनम् ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-२३/३७) स्थानिवद्भावात् प्रत्ययसञ्ज्ञा स्वाश्रयम् च अजादित्वम् ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-२४/३७) तत्र प्रतिषेधः प्राप्नोति ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-२५/३७) किम् पुनः अत्र ज्यायः ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-२६/३७) आदेशिनि अलि आश्रीयमाणे प्रतिषेधः इति ज्यायः ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-२७/३७) कुतः एतत् ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-२८/३७) तथा हि अयम् विशिष्टम् स्थानिकार्यम् आदेशे अतिदिशति गुरुवत् गुरुपुत्रे इति यथा ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-२९/३७) तत् यथा ॒ गुरुवत् गुरुपुत्रे वर्तितव्यम् अन्यत्र उच्छिष्टभोजनात् पादोपसङ्ग्रहणाच् च इति ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-३०/३७) यदि च गुरुपुत्रः अपि गुरुः भवति तत् अपि कर्तव्यम् ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-३१/३७) अस्तु तर्हि आदेशिनि अलि आश्रीयमाणे प्रतिषेधः ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-३२/३७) ननु च उक्तम् आदेश्यल्विधिप्रतिषेधे कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः इति ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-३३/३७) न एषः दोषः ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-३४/३७) करोतौ तपरकरणनिर्देशात् सिद्धम् ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-३५/३७) पिबतिः अदन्तः ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-३६/३७) वधकम् इति न अयम् ण्वुल् ।

(पा-१,१.५६.४; अकि-१,१३५.९-१३६.४; रो-१,४०६-४०८; भा-३७/३७) अन्यः अयम् अकशब्दः कित् औणादिकः रुचकः इति यथा ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-१/४५) एकदेशविकृतस्य उपसङ्ख्यानम् ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-२/४५) एकदेशविकृतस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-३/४५) किम् प्रयोजनम् ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-४/४५) पचतु पचन्तु ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-५/४५) तिङ्ग्रहणेन ग्रहणम् यथा स्यात् ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-६/४५) एकदेशविकृतस्य अनन्यत्वात् सिद्धम् ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-७/४५) एकदेशविकृतम् अनन्यवत् भवति इति तिङ्ग्रहणेन ग्रहणम् भविष्यति ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-८/४५) तत् यथ ॒ श्वा कर्णे वा पुच्छे वा छिन्ने श्वा एव भवति न अश्वः न गर्दभः इति ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-९/४५) अनित्यत्वविज्ञानम् तु तस्मात् उपसङ्ख्यनम् ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-१०/४५) अनित्यत्वविज्ञानम् तु भवति ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-११/४५) नित्याः शब्दाः ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-१२/४५) नित्येषु नाम शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-१३/४५) तत्र सः एव अयम् विकृतः च एतत् नित्येषु न उपपद्यते ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-१४/४५) तस्मात् उपसङ्ख्यनम् कर्तव्यम् ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-१५/४५) भारद्वाजीयाः पठन्ति ॒ एकदेशविकृतेषु उपसङ्ख्यानम् ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-१६/४५) एकदेशविकृतेषु उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-१७/४५) किम् प्रयोजनम् ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-१८/४५) पचतु पचन्तु ॒ तिङ्ग्रहणेन ग्रहणम् यथा स्यात् ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-१९/४५) किम् च कारणम् न स्यात् ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-२०/४५) अनादेशत्वात् ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-२१/४५) आदेशः स्थानिवत् इति उच्यते , न च इमे आदेशाः ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-२२/४५) रूपान्यत्वात् च ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-२३/४५) अन्यत् खलु अपि रूपम् पचति इति अन्यत् पचतु इति ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-२४/४५) इमे अपि आदेशाः ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-२५/४५) कथम् ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-२६/४५) आदिश्यते यः सः आदेशः ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-२७/४५) इमे च अपि आदिश्यन्ते ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-२८/४५) आदेशः स्थानिवत् इति चेत् न अनाश्रितत्वात् ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-२९/४५) आदेशः स्थानिवत् इति चेत् तत् न ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-३०/४५) किम् कारणम् ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-३१/४५) अनाश्रितत्वात् ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-३२/४५) यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-३३/४५) न एतत् मन्तव्यम् ॒ समुदाये आश्रीयमाणे अवयवः न आश्रीयते इति ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-३४/४५) अभ्यन्तरः हि समुदायस्य अवयवः ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-३५/४५) तत् यथा ॒ वृक्षः प्रचलन् सह अवयवैः प्रचलति ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-३६/४५) आश्रयः इति चेत् अल्विधिप्रसङ्गः । आश्रयः इति चेत् अल्विधिः अयम् भवति ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-३७/४५) तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-३८/४५) न एषः दोषः ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-३९/४५) न एवम् सति कः चित् अपि अनल्विधिः स्यात् ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-४०/४५) उच्यते च इदम् अनल्विधौ इति ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-४१/४५) तत्र प्रकर्षगतिः विज्ञास्यते ॒ साधीयः यः अल्विधिः इति ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-४२/४५) कः च साधीयः अल्विधिः ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-४३/४५) यत्र प्राधान्येन अल् आश्रीयते ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-४४/४५) यत्र नान्तरीयकः अल् आश्रीयते न असौ अल्विधिः ।

(पा-१,१.५६.५; अकि-१,१३६.५-१३७.२; रो-१,४०८-४११; भा-४५/४५) अथ वा उक्तम् आदेशग्रहणस्य प्रयोजनम् ॒ आदेशमात्रम् स्थानिवत् यथा स्यात् इति ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-१/४०) अनुपपन्नम् स्थान्यादेशत्वम् नित्यत्वात् ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-२/४०) स्थानी आदेशः इति एतत् नित्येषु शब्देषु न उपपद्यते ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-३/४०) किम् कारणम् ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-४/४०) नित्यत्वात् ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-५/४०) स्थानी हि नाम् यः भूत्वा न भवति ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-६/४०) आदेशः हि नाम यः अभूत्वा भवति ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-७/४०) एतत् च नित्येषु शब्देषु न उपपद्यते यत् सतः नाम विनाशः स्यात् असतः वा प्रादुर्भावः इति ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-८/४०) सिद्धम् तु यथा लौकिकवैदिकेषु अभूतपूर्वे अपि स्थानशब्दप्रयोगात् ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-९/४०) सिद्धम् एतत् ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-१०/४०) कथम् ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-११/४०) यथा लौकिकेषु वैदिकेषु च कृतान्तेषु अभूतपूर्वे अपि स्थानशब्दः वर्तते ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-१२/४०) लोके तावत् ॒ उपाध्यायस्य स्थाने शिष्यः इति उच्यते न च तत्र उपाध्यायः भूतपूर्वः भवति ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-१३/४०) वेदे अपि ॒ सोमस्य स्थाने पूतीकतृणानि अभिषुणुयात् इति उच्यते न च तत्र सोमः भूतपूर्वः भवति ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-१४/४०) कार्यविपरिणामात् वा सिद्धम् ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-१५/४०) अथ वा कार्यविपरिणामात् सिद्धम् एतत् ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-१६/४०) किम् इदम् कार्यविपरिणामात् इति ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-१७/४०) कार्या बुद्धिः ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-१८/४०) सा विपरिणम्यते ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-१९/४०) ननु च कार्याविपरिणामात् इति भवितव्यम् ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-२०/४०) सन्ति च एव हि औत्तर्पदिकानि ह्रस्वत्वानि ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-२१/४०) अपि च बुद्धिः सम्प्रत्ययः इति अनर्थान्तरम् ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-२२/४०) कार्या बुद्धिः कार्यः सम्प्रत्ययः कार्यस्य सम्प्रत्ययस्य विपरिणामः कार्यविपरिणामः कार्यविपरिणामात् इति ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-२३/४०) परिहारन्तरम् एव इदम् मत्वा पठितम् ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-२४/४०) कथम् च इदम् परिहारान्तरम् स्यात् ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-२५/४०) यदि भूतपूर्वे स्थानशब्दः वर्तते ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-२६/४०) भूतपूर्वे च अपि स्थानशब्दः वर्तते ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-२७/४०) कथम् ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-२८/४०) बुद्ध्या ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-२९/४०) तत् यथा कः चित् कस्मै चित् उपदिशति प्राचीनम् ग्रामात् आम्राः इति ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-३०/४०) तस्य सर्वत्र आम्रबुद्धिः प्रसक्ता ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-३१/४०) ततः पश्चात् अह ये क्षीरिणः अवरोहवन्तः पृथुपर्णाः ते न्यग्रोधाः इति. सः तत्र आम्रबुद्ध्याः न्यग्रोधबुद्धिम् प्रतिपद्यते ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-३२/४०) सः ततः पश्यति बुद्ध्या आम्रान् च अपकृष्यमाणान् न्यग्रोधान् च आधीयमानान् ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-३३/४०) नित्याः एव च स्वस्मिन् विषये आम्राः नित्याः च न्यग्रोधाः ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-३४/४०) बुद्धिः तु अस्य विपरिणम्यते ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-३५/४०) एवम् इह अपि अस्तिः अस्मै अविशेषेण उपदिष्टः ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-३६/४०) तस्य सर्वत्र अस्तिबुद्धिः प्रसक्ता ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-३७/४०) सः अस्तेः भूः इति अस्तिबुद्ध्याः भवतिबुद्धिम् प्रतिपद्यते ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-३८/४०) सः ततः पश्यति बुद्ध्या अस्तिम् च अपकृष्यमाणम् भवतिम् च आधीयमानम् ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-३९/४०) नित्यः एव स्वस्मिन् विषये अस्तिः नित्यः भवतिः ।

(पा-१,१.५६.६; अकि-१,१३७.३-२६; रो-१,४११-४१२; भा-४०/४०) बुद्धिः तु अस्य विपरिणम्यते ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-१/१९) अपवादप्रसङ्गः तु स्थानिवत्त्वात् ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-२/१९) अपवादे उत्सर्गकृतम् च प्राप्नोति ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-३/१९) कर्मणि अण् आतः अनुपसर्गे कः इति के अपि अणि कृतम् प्राप्नोति ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-४/१९) किम् कारणम् ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-५/१९) स्थानिवत्त्वात् ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-६/१९) उक्तम् वा ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-७/१९) किम् उक्तम् ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-८/१९) विषयेण तु नानालिङ्गकरणात् सिद्धम् इति ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-९/१९) अथ वा ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-१०/१९) सिद्धम् तु षष्ठीनिर्दिष्टस्य स्थानिवद्वचनात् ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-११/१९) सिद्धम् एतत् ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-१२/१९) कथम् ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-१३/१९) षष्ठीनिर्दिष्टस्य आदेशः स्थानिवत् इति वक्तव्यम् ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-१४/१९) तत् तर्हि षष्ठीनिर्दिष्टग्रहणम् कर्तव्यम् ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-१५/१९) न कर्तव्यम् ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-१६/१९) प्रकृतम् अनुवर्तते ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-१७/१९) क्व प्रकृतम् ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-१८/१९) षष्ठी स्थानेयोगा इति ।

(पा-१,१.५६.७; अकि-१,१३८.१-१०; रो-१,४१३-४१४; भा-१९/१९) अथ वा आचार्यप्रवृत्तिः ज्ञापयति न अपवादे उत्सर्गकृतम् भवति इति यत् अयम् श्यनादीनाम् कान् चित् शितः करोति ॒ श्यन् , श्नम् , श्ना , शः , श्नुः इति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१/१३७) तस्य दोषः तयादेशे उभयप्रतिषेधः । तस्य एतस्य लक्षणस्य दोषः ॒ तयादेशे उभयप्रतिषेधः वक्तव्यः ॒ उभये देवमनुष्याः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-२/१३७) तयपः ग्रहणेन ग्रहणात् जसि विभाषा प्राप्नोति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-३/१३७) न एषः दोषः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-४/१३७) अयच् प्रत्ययान्तरम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-५/१३७) यदि प्रत्ययान्तरम् उभयी इति ईकारः न प्राप्नोति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-६/१३७) मा भूत् एवम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-७/१३७) मात्रचः इति एवम् भविष्यति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-८/१३७) कथम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-९/१३७) मात्रच् इति न इदम् प्रत्ययग्रहणम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१०/१३७) किम् तर्हि ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-११/१३७) प्रत्याहारग्रहणम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१२/१३७) क्व सन्निविष्टानाम् प्रत्याहारः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१३/१३७) मात्रशब्दात् प्रभृति आ आयचः चकारात् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१४/१३७) यदि प्रत्याहारग्रहणम् कति तिष्ठन्ति अत्र अपि प्राप्नोति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१५/१३७) अतः इति वर्तते ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१६/१३७) एवम् अपि तैलमात्रा घ्र्तमात्रा इति अत्र अपि प्राप्नोति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१७/१३७) सदृशस्य अपि असन्निविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१८/१३७) जात्यख्यायाम् वचनातिदेशे स्थानिवद्भावप्रतिषेधः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१९/१३७) जात्यख्यायाम् वचनातिदेशे स्थानिवद्भावस्य प्रतिषेधः वक्तव्यः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-२०/१३७) व्रीहिभ्यः आगतः इति अत्र घेः ङिति इत् गुणः प्राप्नोति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-२१/१३७) न एषः दोषः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-२२/१३७) उक्तम् एतत् ॒ अर्थातिदेशात् सिद्धम् इति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-२३/१३७) ङ्याब्ग्रहणे अदीर्घः । ङ्याब्ग्रहणे अदीर्घः आदेशः न स्थानिवत् इति वक्तव्यम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-२४/१३७) किम् प्रयोजनम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-२५/१३७) निष्कौशाम्बिः , अतिखट्वः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-२६/१३७) ङ्याब्ग्रहणेन ग्रहणात् सुलोपः मा भूत् इति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-२७/१३७) ननु च दीर्घात् इति उच्यते ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-२८/१३७) तत् न वक्तव्यम् भवति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-२९/१३७) किम् पुनः अत्र ज्यायः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-३०/१३७) स्थानिवत्प्रतिषेधः एव ज्यायान् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-३१/१३७) इदम् अपि सिद्धम् भवति ॒ अतिखट्वाय अतिमालाय ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-३२/१३७) याट् आपः इति याट् न भवति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-३३/१३७) अथ इदानीम् असति अपि स्थानिवद्भावे दीर्घत्वे कृते पित् च असौ भूतपूर्वः इति कृत्वा याट् आपः इति याट् कस्मात् न भवति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-३४/१३७) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-३५/१३७) ननु च इदानीम् सति अपि स्थानिवद्भावे एतया परिभाषया शक्यम् इह उपस्थातुम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-३६/१३७) न इति आह ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-३७/१३७) न हि इदानीम् क्व चित् अपि स्थानिवद्भावः स्यात् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-३८/१३७) तत् तर्हि वक्तव्यम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-३९/१३७) न वक्तव्यम्. प्रश्लिष्टनिर्देशात् सिद्धम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-४०/१३७) प्रश्लिष्टनिर्देशः अयम् ॒ ङी* ई* ईकारान्तात् आ* आप् आकारान्तात् इति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-४१/१३७) आहिभुवोः ईट्प्रतिषेधः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-४२/१३७) आहिभुवोः ईट्प्रतिषेधः वक्तव्यः ॒ आत्थ अभूत् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-४३/१३७) अस्तिब्रूग्रहणेन ग्रहणात् ईट् प्राप्नोति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-४४/१३७) आहेः तावत् न वक्तव्यः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-४५/१३७) आचार्यप्रवृत्तिः ज्ञापयति न आहेः ईट् भवति इति यत् अयम् आहः थः इति झलादिप्रकरणे थत्वम् शास्ति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-४६/१३७) न एतत् अस्ति प्रयोजनम्. अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-४७/१३७) किम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-४८/१३७) भूतपूर्वगतिः यथा विज्ञायेत ॒ झलादिः यः भूतपूर्वः इति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-४९/१३७) यदि एवम् थवचनम् अनर्थकम् स्यात् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-५०/१३७) आथिम् एव अयम् उच्चारयेत् ॒ ब्रुवः पञ्चानाम् आदितः आथः ब्रुवः इति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-५१/१३७) भवतेः च अपि न वक्तव्यः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-५२/१३७) अस्तिसिचः अपृक्ते इति द्विसकारकः निर्देशः ॒ अस्तेः सकारान्तात् इति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-५३/१३७) वध्यादेशे वृद्धितत्वप्रतिषेधः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-५४/१३७) वध्यादेशे वृद्धितत्वप्रतिषेधः वक्तव्यः ॒ वधकम् पुष्करम् इति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-५५/१३७) स्थानिवद्भावात् वृद्धितत्वे प्राप्नुतः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-५६/१३७) न एषः दोषः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-५७/१३७) उक्तम् एतत् ॒ न अयम् ण्वुल् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-५८/१३७) अन्यः अयम् अकशब्दः कित् औणादिकः रुचकः इति यथा ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-५९/१३७) इड्विधिः च ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-६०/१३७) इड्विधेयः ॒ आवधिषीष्ट ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-६१/१३७) एकाचः उपदेशे अनुदात्तात् इति प्रतिषेधः प्राप्नोति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-६२/१३७) न एषः दोषः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-६३/१३७) आद्युदात्तनिपातनम् करिष्यते ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-६४/१३७) स निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-६५/१३७) एवम् अपि उपदेशिवद्भावः वक्तव्यः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-६६/१३७) यथा एव हि निपातनस्वरः प्रकृतिस्वरम् बाधते एवम् प्रत्ययस्वरम् अपि बाधेत ॒ आवधिषीष्ट इति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-६७/१३७) न एषः दोषः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-६८/१३७) आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-६९/१३७) तत्र आर्धधातुकसामान्ये वधिभावे कृते सति शिष्टत्वात् प्रत्ययस्वरः भविष्यति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-७०/१३७) आकारान्तात् नुक्षुक्प्रतिषेधः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-७१/१३७) आकारान्तात् नुक्षुकोः प्रतिषेधः वक्तव्यः ॒ विलापयति भापयते ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-७२/१३७) लीभीग्रहणेन ग्रहणात् नुक्षुकौ प्राप्नुतः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-७३/१३७) लीभियोः प्रश्लिष्टनिर्देशात् सिद्धम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-७४/१३७) लीभियोः प्रश्लिष्टनिर्देशः अयम् ॒ ली* ई* ईकारान्तस्य भी* ई* ईकारान्तस्य च इति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-७५/१३७) लोडादेशे शाभावजभावधित्वहिलोपैत्त्वप्रतिषेधः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-७६/१३७) लोडादेशे एषाम् प्रतिषेधः वक्तव्यः ॒ शिष्टात् , हतात् , भिन्तात् , कुरुतात् , स्तात् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-७७/१३७) लोडादेशे कृते शाभावः जभावः धित्वम् हिलोपः एत्त्वम् इति एते विधयः प्राप्नुवन्ति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-७८/१३७) न एषः दोषः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-७९/१३७) इदम् इह सम्प्रधार्यम् ॒ लोडादेशः क्रियताम् एते विधयः इति किम् अत्र कर्तव्यम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-८०/१३७) परत्वात् लोडादेशः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-८१/१३७) अथ इदानीम् लोडादेशे कृते पुनःप्रसङ्गविज्ञानात् कस्मात् एते विधयः न भवन्ति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-८२/१३७) सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति कृत्वा ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-८३/१३७) त्रयादेशे स्रन्तप्रतिषेधः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-८४/१३७) त्रयादेशे स्रन्तस्य प्रतिषेधः वक्तव्यः ॒ तिसृणाम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-८५/१३७) तिसृभावे कृते त्रेः त्रयः इति त्रयादेशः प्राप्नोति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-८६/१३७) न एषः दोषः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-८७/१३७) इदम् इह सम्प्रधार्यम् ॒ तिसृभावः क्रियताम् त्रयादेशः इति किम् अत्र कर्तव्यम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-८८/१३७) परत्वात् तिसृभावः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-८९/१३७) अथ इदानीम् तिसृभावे कृते पुनःप्रसङ्गविज्ञानात् त्रयादेशः कस्मात् न भवति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-९०/१३७) सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-९१/१३७) आम्विधौ च ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-९२/१३७) आम्विधौ च स्रन्तस्य प्रतिषेधः वक्तव्यः ॒ चतस्रः तिष्ठन्ति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-९३/१३७) चतसृभावे कृते चतुरनडुहोः आम् उदात्तः इति आम् प्राप्नोति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-९४/१३७) न एषः दोषः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-९५/१३७) इदम् इह सम्प्रधार्यम् ॒ चतसृभावः क्रियताम् चतुरनडुहोः आम् उदात्तः इति आम् इति किम् अत्र कर्तव्यम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-९६/१३७) परत्वात् चतसृभावः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-९७/१३७) अथ इदानीम् चतसृभावे कृते पुनःप्रसङ्गविज्ञानात् आम् कस्मात् न भवति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-९८/१३७) सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-९९/१३७) स्वरे वस्वादेशे ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१००/१३७) स्वरे वस्वादेशे प्रतिषेधः वक्तव्यः ॒ विदुषः पश्य ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१०१/१३७) शतुः अनुमः नद्यजादी अन्तोदात्तात् इति एषः स्वरः प्राप्नोति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१०२/१३७) न एषः दोषः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१०३/१३७) अनुमः इति प्रतिषेधः भविष्यति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१०४/१३७) अनुमः इति उच्यते न च अत्र नुमम् पश्यामः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१०५/१३७) अनुमः इति न इदम् आगमग्रहणम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१०६/१३७) किम् तर्हि ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१०७/१३७) प्रत्याहारग्रहणम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१०८/१३७) क्व सन्निविष्टानाम् प्रत्याहारः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१०९/१३७) उकारात् प्रभृति आ नुमः मकारात् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-११०/१३७) यदि प्रत्याहारग्रहणम् लुनत पुनत अत्र अपि प्राप्नोति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१११/१३७) अनुम्ग्रहणेन न शत्रन्तम् विशेष्यते ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-११२/१३७) किम् तर्हि ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-११३/१३७) शता एव विशेष्यते ॒ शता यः अनुम्कः इति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-११४/१३७) अवश्यम् च एतत् एवम् विज्ञेयम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-११५/१३७) आगमग्रहणे हि सति इह प्रसज्येत ॒ मुञ्चता मुञ्चतः इति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-११६/१३७) गोः पूर्वणित्त्वात्वस्वरेषु ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-११७/१३७) गोः पूर्वणित्त्वात्वस्वरेषु प्रतिषेधः वक्तव्यः ॒ चित्रग्वग्रम् , शबलग्वग्रम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-११८/१३७) सर्वत्र विभाषा गोः इति विभाषा पूर्वत्वम् प्राप्नोति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-११९/१३७) न एषः दोषः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१२०/१३७) एङः इति वर्तते ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१२१/१३७) तत्र अनल्विधौ इति प्रतिषेधः भविष्यति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१२२/१३७) एवम् अपि हे चित्रगो अग्रम् अत्र प्राप्नोति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१२३/१३७) णित्त्वम् ॒ चित्रगुः , चित्रगू चित्रगवः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१२४/१३७) गोतो णित् इति णित्त्वम् प्राप्नोति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१२५/१३७) आत्वम् ॒ चित्रगुम् पश्य शबलगुम् पश्य ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१२६/१३७) आ ओतः इति आत्वम् प्राप्नोति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१२७/१३७) न एषः दोषः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१२८/१३७) तपरकरणात् सिद्धम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१२९/१३७) तपरकरणसामार्थ्यात् णित्त्वात्वे न भविष्यतः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१३०/१३७) स्वर ॒ बहुगुमान् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१३१/१३७) न गोश्वन्साववर्ण इति प्रतिषेधः प्राप्नोति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१३२/१३७) करोतिपिब्योः प्रतिषेधः ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१३३/१३७) करोतिपिब्योः प्रतिषेधः वक्तव्यः ॒ कुरु पिब इति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१३४/१३७) स्थानिवद्भावात् लघूपधगुणः प्राप्नोति ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१३५/१३७) उक्तम् वा ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१३६/१३७) किम् उक्तम् ।

(पा-१,१.५६.८; अकि-१,१३८.११-१४१.२२; रो-१,४१४-४२१; भा-१३७/१३७) करोतौ तपरकरणनिर्देशात् सिद्धम् , पिबतिः अदन्तः इति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१/१३४) अचः इति किमर्थम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-२/१३४) प्रश्नः , द्यूत्वा , आक्राष्टाम् आगत्य ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-३/१३४) प्रश्नः , विश्नः इति अत्र छकारस्य शकारः परनिमित्तकः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-४/१३४) तस्य स्थानिवद्भावात् छे च इति तुक् प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-५/१३४) अचः इति वचनात् न भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-६/१३४) न एतत् अस्ति प्रयोजनम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-७/१३४) क्रियमाणे अपि वै अज्ग्रहणे अवश्यम् अत्र तुगभावे यत्नः कर्तव्यः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-८/१३४) अन्तरङ्गत्वात् हि तुक् प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-९/१३४) इदम् तर्हि ॒ द्यूत्वा ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१०/१३४) वकारस्य ऊठ् परनिमित्तकः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-११/१३४) तस्य स्थानिवद्भावात् अचि इति यणादेशः न प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१२/१३४) अचः इति वचनात् भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१३/१३४) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१४/१३४) स्वाश्रयम् अत्र अच्त्वम् भविष्यति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१५/१३४) अथ वा यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१६/१३४) इदम् तर्हि प्रयोजनम् ॒ आक्राष्टाम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१७/१३४) सिचः लोपः परनिमित्तकः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१८/१३४) तस्य स्थानिवद्भावात् षढोः कः सि इति कत्वम् प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१९/१३४) अचः इति वचनात् भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-२०/१३४) एतत् अपि न अस्ति प्रयोजनम् ।वक्ष्यति एतत् ॒ पूर्वत्रासिद्धे न स्थानिवत् इति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-२१/१३४) इदम् तर्हि प्रयोजनम् ॒ आगत्य , अभिगत्य ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-२२/१३४) अनुनासिकलोपः परनिमित्तकः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-२३/१३४) तस्य स्थानिवद्भावात् ह्रस्वस्य इति तुक् न प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-२४/१३४) अचः इति वचनात् भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-२५/१३४) अथ परस्मिन् इति किमर्थम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-२६/१३४) युवजानिः , द्विपदिका , वैयाघ्रपद्यः , आदीध्ये ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-२७/१३४) युवजानिः , वधूजानिः इति ॒ जायायाः निङ् न परनिमित्तकः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-२८/१३४) तस्य स्थानिवद्भावात् वलि इति यलोपः न प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-२९/१३४) परस्मिन् इति वचनात् भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-३०/१३४) न एतत् अस्ति प्रयोजनम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-३१/१३४) स्वाश्रयम् अत्र वल्तम् भविष्यति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-३२/१३४) अथ वा यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-३३/१३४) इदम् तर्हि प्रयोजनम् ॒ द्विपदिका त्रिपदिका ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-३४/१३४) पादस्य लोपः न परनिमित्तकः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-३५/१३४) तस्य स्थानिवद्भावात् पद्भावः न प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-३६/१३४) परस्मिन् इति वचनात् भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-३७/१३४) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-३८/१३४) पुनर्लोपवचनसामर्थ्यात् स्थानिवद्भावः न भविष्यति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-३९/१३४) इदम् तर्हि प्रयोजनम् ॒ वैयाघ्रपद्यः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-४०/१३४) ननु च अत्र अपि पुनर्वचनसामर्थ्यात् एव न भविष्यति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-४१/१३४) अस्ति हि अन्यत् पुनर्लोपवचने प्रयोजनम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-४२/१३४) किम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-४३/१३४) यत्र भसञ्ज्ञा न ॒ व्याघ्रपात् , श्येनपात् इति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-४४/१३४) इदम् च अपि उदाहरणम् ॒ आदीध्ये , आवेव्ये ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-४५/१३४) इकारस्य एकारः न परनिमित्तकः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-४६/१३४) तस्य स्थानिवद्भावात् यीवर्णयोः दीधीवेव्योः इति लोपः प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-४७/१३४) परस्मिन् इति वचनात् भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-४८/१३४) अथ पूर्वविधौ इति किम् अर्थम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-४९/१३४) हे गौः , बाभ्रवीयाः , नैधेयः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-५०/१३४) हे गौः इति औकारः परनिमित्तकः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-५१/१३४) तस्य स्थानिवद्भावात् एङ्ह्रस्वात् सम्बुद्धेः इति लोपः प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-५२/१३४) पूर्वविधौ इति वचनात् न भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-५३/१३४) न एतत् अस्ति प्रयोजनम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-५४/१३४) आचार्यप्रवृत्तिः ज्ञापयति न सम्बुद्धिलोपे स्थानिवद्भावः भवति इति यत् अयम् एङ्ह्रस्वात् सम्बुद्धेः इति एङ्ग्रहणम् करोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-५५/१३४) न एतत् अस्ति ज्ञापकम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-५६/१३४) गोर्थम् एतत् स्यात् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-५७/१३४) यत् तर्हि प्रत्याहारग्रहणम् करोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-५८/१३४) इतरथा हि ओह्रस्वात् इति एव ब्रूयात् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-५९/१३४) इदम् तर्हि प्रयोजनम् ॒ बाभ्रवीयाः , माधवीयाः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-६०/१३४) वान्तादेशः परनिमित्तकः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-६१/१३४) तस्य स्थानिवद्भावात् हलः तद्धितस्य इति यलोपः न प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-६२/१३४) पूर्वविधौ इति वचनात् न भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-६३/१३४) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-६४/१३४) स्वाश्रयम् अत्र हल्त्वम् भविष्यति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-६५/१३४) अथ वा यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-६६/१३४) इदम् तर्हि प्रयोजनम् ॒ नैधेयः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-६७/१३४) आकारलोपः परनिमित्तकः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-६८/१३४) तस्य स्थानिवद्भावात् द्व्यज्लक्षणः ढक् न प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-६९/१३४) पूर्वविधौ इति वचनात् न भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-७०/१३४) अथ विधिग्रहणम् किमर्थम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-७१/१३४) सर्वविभक्त्यन्तः समासः यथा विज्ञायेत ॒ पूर्वस्य विधिः पूर्वविधिः , पूर्वस्मात् विधिः पूर्वविधिः इति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-७२/१३४) कानि पुनः पूर्वस्मात् विधौ स्थानिवद्भावस्य प्रयोजनानि ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-७३/१३४) बेभिदिता , माथितिकः , अपीपचन् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-७४/१३४) बेभिदिता , चेच्छिदिता इति अकारलोपे कृते एकाज्लक्षणः इट्प्रतिषेधः प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-७५/१३४) स्थानिवद्भावात् न भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-७६/१३४) माथितिकः इति अकारलोपे कृते तान्तात् कः इति कादेशः प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-७७/१३४) स्थानिवद्भावात् न भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-७८/१३४) अपीपचन् इति एकादेशे कृते अभ्यस्तात् झेः जुस् भवति इति जुस्भावः प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-७९/१३४) स्थानिवद्भावात् न भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-८०/१३४) न एतानि सन्ति प्रयोजनानि ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-८१/१३४) कुतः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-८२/१३४) प्रातिपदिकर्निर्देशः अयम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-८३/१३४) प्रातिपदिकर्निर्देशाः च अर्थतन्त्राः भवन्ति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-८४/१३४) न कां चित् प्राधान्येन विभक्तिम् आश्रयन्ति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-८५/१३४) तत्र प्रातिपदिकार्थे निर्दिष्टे याम् याम् विभक्तिम् आश्रयितुम् बुद्धिः उपजायते सा सा आश्रयितव्या ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-८६/१३४) इदम् तर्हि प्रयोजनम् ॒ विधिमात्रे स्थानिवत् यथा स्यात् अनाश्रीयमाणायाम् अपि प्रकृतौ ॒ वाय्वोः , अध्वर्य्वोः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-८७/१३४) लोपः व्योः वलि इति यलपः मा भूत् इति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-८८/१३४) अस्ति प्रयोजनम् एतत् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-८९/१३४) किम् तर्हि इति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-९०/१३४) अपरविधौ इति तु वक्तव्यम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-९१/१३४) किम् प्रयोजनम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-९२/१३४) स्वविधौ अपि स्थानिवद्भावः यथा स्यात् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-९३/१३४) कानि पुनः स्वविधौ स्थानिवद्भावस्य प्रयोजनानि ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-९४/१३४) आयन् , आसन् , धिन्वन्ति कृण्वन्ति दधि अत्र , मधु अत्र चक्रतुः , चक्रुः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-९५/१३४) इह तावत् ॒ आयन् , आसन् इति इणस्त्योः यण्लोपयोः कृतयोः अनजादित्वात् आट् अजादीनाम् इति आट् न प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-९६/१३४) स्थानिवद्भावात् भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-९७/१३४) धिन्वन्ति कृण्वन्ति इति यणादेशे कृते वलादिलक्षणः इट् प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-९८/१३४) स्थानिवद्भावात् न भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-९९/१३४) दधि अत्र मधु अत्र इति यणादेशे कृते संयोगान्तलोपः प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१००/१३४) स्थानिवद्भावात् न भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१०१/१३४) चक्रतुः , चक्रुः इति यणादेशे कृते अनच्त्वात् द्विर्वचनम् न प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१०२/१३४) स्थानिवद्भावात् भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१०३/१३४) यदि तर्हि स्वविधौ अपि स्थानिवद्भावः भवति द्वाभ्याम् , देयम् , लवनम् अत्र अपि प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१०४/१३४) द्वाभ्याम् इति अत्र अत्वस्य स्थानिवद्भावात् दीर्घत्वम् न प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१०५/१३४) देयम् इति ईत्त्वस्य स्थानिवद्भावात् गुणः न प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१०६/१३४) लवनम् इति गुणस्य स्थानिवद्भावात् अवादेशः न प्राप्नोति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१०७/१३४) न एषः दोषः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१०८/१३४) स्वाश्रयाः अत्र एते विधयः भविष्यन्ति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१०९/१३४) तत् तर्हि वक्तव्यम् अपरविधौ इति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-११०/१३४) न वक्तव्यम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१११/१३४) पूर्वविधौ इति एव सिद्धम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-११२/१३४) कथम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-११३/१३४) न पूर्व्ग्रहणेन आदेशः अभिसम्बध्यते ॒ अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-११४/१३४) कुतः पूर्वस्य ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-११५/१३४) आदेशात् इति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-११६/१३४) किम् तर्हि ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-११७/१३४) निमित्तम् अभिसम्बध्यते ॒ अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-११८/१३४) कुतः पूर्वस्य ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-११९/१३४) निमित्तात् इति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१२०/१३४) अथ निमित्ते अभिसम्बध्यमाने यत् तत् अस्य योगस्य मूर्धाभिषिक्तम् उदाहरणम् तत् अपि सङ्गृहीतम् भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१२१/१३४) किम् पुनः तत् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१२२/१३४) पट्व्या मृद्व्या इति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१२३/१३४) बाढम् सङ्गृहीतम् ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१२४/१३४) ननु च ईकारयणा व्यवहितत्वात् न असौ निमित्तात् पूर्वः भवति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१२५/१३४) व्यवहिते अपि पूर्वशब्दः वर्तते ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१२६/१३४) तत् यथा ॒ पूर्वम् मथुरायाः पाटलिपुत्रम् इति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१२७/१३४) अथ वा आदेशः एव अभिसम्बध्यते ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१२८/१३४) कथम् यानि स्वविधौ स्थानिवद्भावस्य प्रयोजनानि ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१२९/१३४) न एतानि सन्ति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१३०/१३४) इह तावत् आयन् , आसन् , धिन्वन्ति कृण्वन्ति इति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१३१/१३४) अयम् विधिशब्दः अस्ति एव कर्मसाधनः ॒ विधीयते विधिः ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१३२/१३४) अस्ति भावसाधनः ॒ विधानम् विधिः इति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१३३/१३४) कर्मसाधनस्य विधिशब्दस्य उपादाने न सर्वम् इष्टम् सङ्गृहीतम् इति कृत्वा भावसाधनस्य विधिशब्दस्य उपादानम् विज्ञास्यते ॒ पूर्वस्य विधानम् प्रति पूर्वस्य भावम् प्रति पूर्वः स्यात् इति स्थानिवत् भवति इति एवम् आट् भविष्यति इट् च न भविष्यति ।

(पा-१,१.५७.१; अकि-१,१४१.२४-१४४.१७; रो-१,४२१-४३१; भा-१३४/१३४) दधि अत्र मधु अत्र चक्रतुः चक्रुः इति परिहारम् वक्ष्यति

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-१/६४) कानि पुनः अस्य योगस्य प्रयोजनानि ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-२/६४) स्तोष्यामि अहम् पादिकम् औदवाहिम् ततः श्वोभूते शातनीम् पातनीम् च ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-३/६४) नेतारौ आगच्छतम् धारणिम् रावणिम् च ततः पश्चात् स्रंस्यते ध्वंस्यते च ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-४/६४) इह तावत् पादिकम् औदवाहिम् शातनीम् पातनीम् धारणिम् रावणिम् इति अकारलोपे कृते पद्भावः ऊठ् अल्लोपः टिलोपः इति एते विधयः प्राप्नुवन्ति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-५/६४) स्थानिवद्भावात् न भवन्ति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-६/६४) स्रंस्यते ध्वंस्यते ॒ णिलोपे कृते अनिदिताम् हलः उपधायाः क्ङिति इति नलोपः प्राप्नोति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-७/६४) स्थानिवद्भावात् न भवति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-८/६४) न एतानि सन्ति प्रयोजनानि ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-९/६४) असिद्धवत् अत्र आ भात् इति अनेन अपि एतानि सिद्धानि ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-१०/६४) इदम् तर्हि प्रयोजनम् ॒ याज्यते वाप्यते ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-११/६४) णिलोपे कृते यजादीनाम् किति इति सम्प्रसारणम् प्राप्नोति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-१२/६४) स्थानिवद्भावात् न भवति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-१३/६४) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-१४/६४) यजादिभिः अत्र कितम् विशेषयिष्यामः यजादीनाम् यः कित् इति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-१५/६४) कः च यजादीनाम् कित् ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-१६/६४) यजादिभ्यः यः विहितः इति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-१७/६४) इदम् तर्हि प्रयोजनम् ॒ पट्व्या मृद्व्या इति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-१८/६४) परस्य यणादेशे कृते पूर्वस्य न प्राप्नोति ईकारयणा व्यवहितत्वात् ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-१९/६४) स्थानिवद्भावात् भवति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-२०/६४) किम् पुनः कारणम् परस्य तावत् भवति न पुनः पूर्वस्य ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-२१/६४) नित्यत्वात् ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-२२/६४) नित्यः परयणादेशः ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-२३/६४) कृते अपि पूर्वयणादेशे प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-२४/६४) नित्यत्वात् परयणादेशे कृते पूर्वस्य न प्राप्नोति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-२५/६४) स्थानिवद्भावात् भवति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-२६/६४) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-२७/६४) असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति असिद्धत्वात् बहिरङ्गलक्षणस्य परयणादेशस्य अन्तरङ्गलक्षणः पूर्वयणादेशः भविष्यति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-२८/६४) अवश्यम् च एषा परिभाषा आश्रयितव्या स्वरार्थम् कर्त्र्य हर्त्र्य इति उदात्तयणः हल्पूर्वात् इति एषः स्वरः यथा स्यात् ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-२९/६४) अनेन अपि सिद्धः स्वरः ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-३०/६४) कथम् ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-३१/६४) आरभ्यमाणे नित्यः असौ ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-३२/६४) आरभ्यमाणे तु अस्मिन् योगे नित्यः पूर्वयणादेशः ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-३३/६४) कृते अपि परयणादेशे प्राप्नोति अकृते अपि ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-३४/६४) परयणादेशः अपि नित्यः ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-३५/६४) कृते अपि पूर्वयणादेशे प्राप्नोति अकृते अपि ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-३६/६४) परः च असौ व्यवस्था ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-३७/६४) व्यवस्थया च असौ परः ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-३८/६४) युगपत्सम्भवः न अस्ति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-३९/६४) न च अस्ति यौगपद्येन सम्भवः ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-४०/६४) कथम् च सिध्यति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-४१/६४) बहिरङ्गेण सिध्यति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-४२/६४) असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति अनेन सिध्यति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-४३/६४) एवम् तर्हि यः अत्र उदात्तयण् तदाश्रयः स्वरः भविष्यति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-४४/६४) ईकारयणा व्यवहितत्वात् न प्राप्नोति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-४५/६४) स्वरविधौ व्यञ्जनम् अविद्यमानवत् भवति इति न अस्ति व्यवधानम् ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-४६/६४) सा तर्हि एषा परिभाषा कर्तव्या ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-४७/६४) ननु च इयम् अपि कर्तव्या ॒ असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-४८/६४) बहुप्रयोजना एषा परिभाषा ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-४९/६४) अवश्यम् एषा कर्तव्या ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-५०/६४) सा च अपि एषा लोकतः सिद्धा ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-५१/६४) कथम् ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-५२/६४) प्रत्यङ्गवर्ती लोकः लक्ष्यते ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-५३/६४) तत् यथा ॒ पुरुषः अयम् प्रातः उत्थाय यानि अस्य प्रतिशरीरम् कार्याणि तानि तावत् करोति ततः सुहृदाम् ततः सम्बन्धिनाम् ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-५४/६४) प्रातिपदिकम् च अपि उपदिष्टम् सामान्यभूते अर्थे वर्तते ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-५५/६४) सामन्ये वर्तमानस्य व्यक्तिः उपजायते ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-५६/६४) व्यक्तस्य सतः लिङ्गसङ्ख्याभ्याम् अन्वितस्य बाह्येन अर्थेन योगः भवति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-५७/६४) यया एव आनुपूर्व्या अर्थानाम् प्रादुर्भावः तया एव शब्दानाम् अपि तद्वत् कार्यैः अपि भवितव्यम् ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-५८/६४) इमानि तर्हि प्रयोजनानि ॒ पटयति , अवधीत् , बहुखट्वकः ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-५९/६४) पटयति लघयति इति टिलोपे कृते अतः उपधायाः इति वृद्धिः प्राप्नोति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-६०/६४) स्थानिवद्भावात् न भवति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-६१/६४) अवधीत् इति अकारलोपे कृते अतः हलादेः लघोः इति विभाषा वृद्धिः प्राप्नोति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-६२/६४) स्थानिवद्भावात् न भवति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-६३/६४) बहुखट्वकः इत् आपः अन्यतरस्याम् ह्रस्वत्वे कृते ह्रस्वान्ते अन्त्यात् पूर्वम् इति एषः स्वरः प्राप्नोति ।

(पा-१,१.५७.२; अकि-१,१४४.१८-१४६.५; रो-१,४३१-४३५; भा-६४/६४) स्थानिवद्भावात् न भवति ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-१/२२) इह वैयाकरणः , सौवश्वः इति य्वोः स्थानिवद्भावात् आयावौ प्राप्नुतः ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-२/२२) तयोः प्रतिषेधः वक्तव्यः ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-३/२२) अचः पूर्वविज्ञानात् ऐचोः सिद्धम् ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-४/२२) यः अनादिष्टात् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-५/२२) आदिष्टात् च एषः अचः पूर्वः ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-६/२२) किम् वक्तव्यम् एतत् ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-७/२२) न हि ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-८/२२) कथम् अनुच्यमानम् गंस्यते ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-९/२२) अचः इति पञ्चमी ॒ अचः पूर्वस्य ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-१०/२२) यदि एवम् आदेशः अविशेषितः भवति ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-११/२२) आदेशः च विशेषितः ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-१२/२२) कथम् ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-१३/२२) न ब्रूमः यत् षष्ठीनिर्दिष्टम् अज्ग्रहणम् तत् पञ्चमीनिर्दिष्टम् कर्तव्यम् ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-१४/२२) किम् तर्हि अन्यत् कर्तव्यम् ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-१५/२२) अन्यत् च न कर्तव्यम् ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-१६/२२) यत् एव अदः षष्ठीनिर्दिष्टम् अज्ग्रहणम् तस्य दिक्शब्दैः योगे पञ्चमी भवति ॒ अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-१७/२२) कुतः पूर्वस्य ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-१८/२२) अचः इति ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-१९/२२) तत् यथा आदेशः प्रथमानिर्दिष्टः ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-२०/२२) तस्य दिक्शब्दैः योगे पञ्चमी भवति ॒ अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-२१/२२) कुतः पूर्वस्य ।

(पा-१,१.५७.३; अकि-१,१४६.६-१६; रो-१,४३५-४३६; भा-२२/२२) आदेशात् इति ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-१/४१) तत्र आदेशलक्षणप्रतिषेधः ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-२/४१) तत्र आदेशलक्षणम् कार्यम् प्राप्नोति ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-३/४१) तस्य प्रतिषेधः वक्तव्यः ॒ वाय्वोः , अध्वर्य्वोः ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-४/४१) लोपः व्योः वलि इति यलोपः प्राप्नोति ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-५/४१) असिद्धवचनात् सिद्धम् ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-६/४१) अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति असिद्धः भवति इति वक्तव्यम् ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-७/४१) असिद्धवचनात् सिद्धम् इति चेत् उत्सर्गलक्षणानाम् अनुदेशः ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-८/४१) असिद्धवचनात् सिद्धम् इति चेत् उत्सर्गलक्षणानाम् अनुदेशः कर्तव्यः ॒ पट्व्या म्र्द्व्या इति ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-९/४१) ननु च एतत् अपि असिद्धवचनात् सिद्धम् ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-१०/४१) असिद्धवचनात् सिद्धम् इति चेत् न अन्यस्य असिद्धवचनात् अन्यस्य भावः ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-११/४१) असिद्धवचनात् सिद्धम् इति चेत् तत् न ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-१२/४१) किम् कारणम् ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-१३/४१) न अन्यस्य असिद्धवचनात् अन्यस्य भावः ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-१४/४१) न हि अन्यस्य असिद्धवचनात् अन्यस्य प्रादुर्भावः भवति ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-१५/४१) न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावः भवति ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-१६/४१) तस्मात् स्थानिवद्वचनम् असिद्धत्वम् च ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-१७/४१) तस्मात् स्थानिवद्भावः वक्तव्यः असिद्धत्वम् च ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-१८/४१) पट्व्या मृद्व्या इति अत्र स्थानिवद्भावः ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-१९/४१) वाय्वोः , अध्वर्य्वोः इति असिद्धत्वम् ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-२०/४१) उक्तम् वा ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-२१/४१) किम् उक्तम् ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-२२/४१) स्थानिवद्वचनानर्थक्यम् शास्त्रासिद्धत्वात् इति ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-२३/४१) विषमः उपन्यासः ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-२४/४१) युक्तम् तत्र यत् एकादेशशास्त्रम् तुक्शास्त्रे असिद्धम् स्यात् ॒ अन्यत् अन्यस्मिन् ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-२५/४१) इह पुनः न युक्तम् ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-२६/४१) कथम् हि तद् एव नाम तस्मिन् असिद्धम् स्यात् ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-२७/४१) तद् एव च अपि तस्मिन् असिद्धम् भवति ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-२८/४१) वक्ष्यति हि आचार्यः ॒ चिणः लुकि तग्रहणानर्थक्यम् सङ्घातस्य अप्रत्ययत्वात् तलोपस्य च असिद्धत्वात् इति ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-२९/४१) चिणः लुक् चिणः लुकि एव असिद्धः भवति ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-३०/४१) कामम् अतिदिश्यताम् वा सत् च असत् च अपि न इह भारः अस्ति ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-३१/४१) कल्प्यः हि वाक्यशेषः वाक्यम् वक्तरि अधीनम् हि ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-३२/४१) अथ वा वतिनिर्देशः अयम् ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-३३/४१) कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-३४/४१) तत् यथा ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-३५/४१) उशीनरवत् मद्रेषु यवाः ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-३६/४१) सन्ति न सन्ति इति ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-३७/४१) मातृवत् अस्याः कलाः ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-३८/४१) सन्ति न सन्ति ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-३९/४१) एवम् इह अपि स्थानिवत् भवति स्थानिवत् न भवति इति वाक्यशेषम् समर्थयिष्यामहे ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-४०/४१) इह तावत् पट्व्या मृद्व्या इति यथा स्थानिनि यणादेशः भवति एवम् आदेशे अपि ।

(पा-१,१.५७.४; अकि-१,१४६.१७-१४७.१८; रो-१,४३६-४३८; भा-४१/४१) इह इदानीम् वाय्वोः अध्वर्य्वोः इति यथा स्थानिनि यलोपः न भवति एवम् आदेशे अपि न भवति ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-१/४०) किम् पुनः अनन्तरस्य विधिम् प्रति स्थानिवद्भावः आहोस्वित् पूर्वमात्रस्य ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-२/४०) कः च अत्र विशेषः ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-३/४०) अनन्तरस्य चेत् एकाननुदात्तद्विगुस्वरगतिनिघातेषु उपसङ्ख्यानम् ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-४/४०) अनन्तरस्य चेत् एकाननुदात्तद्विगुस्वरगतिनिघातेषु उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-५/४०) एकाननुदात्त ॒ लुनीहि अत्र पुनीहि अत्र ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-६/४०) अनुदात्तम् पदम् एकवर्जम् इति एषः स्वरः न प्राप्नोति ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-७/४०) द्विगुस्वर ॒ पञ्चारत्न्यः , दशारत्न्यः ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-८/४०) इगन्तकाल इति एषः स्वरः न प्राप्नोति ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-९/४०) गतिनिघात ॒ यत् प्रलुनीहि अत्र , यत् प्रपुनीहि अत्र ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-१०/४०) तिङि चोदात्तवति इति एषः स्वरः न प्राप्नोति ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-११/४०) अस्तु तर्हि पूर्वमात्रस्य ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-१२/४०) पूर्वमात्रस्य इति चेत् उपधाह्रस्वत्वम् । पूर्वमात्रस्य इति चेत् उपधाह्रस्वत्वम् वक्तव्यम् ॒ वादितवन्तम् प्रयोजितवान् ॒ अवीवदत् वीणाम् परिवादकेन ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-१३/४०) किम् पुनः कारणम् न सिध्यति ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-१४/४०) यः असौ णौ णिः लुप्यते तस्य स्थानिवद्भावात् ह्रस्वत्वम् न प्राप्नोति ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-१५/४०) गुरुसञ्ज्ञा च ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-१६/४०) गुरुसञ्ज्ञा च न सिध्यति ॒ श्लेष्मा३घ्न पित्ता३घ्न दा३ध्यश्व मा३ध्वश्व ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-१७/४०) हलः अनन्तराः संयोगः इति संयोगसञ्ज्ञा ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-१८/४०) संयोगे गुरु इति गुरुसञ्ज्ञा ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-१९/४०) गुरोः इति प्लुतः न प्राप्नोति ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-२०/४०) ननु च यस्य अपि अनन्तरस्य विधिम् प्रति स्थानिवद्भावः तस्य अपि अनन्तरलक्षणः विधिः संयोगसञ्ज्ञा विधेया ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-२१/४०) न वा संयोगस्य अपूर्वविधित्वात् ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-२२/४०) न वा एषः दोषः ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-२३/४०) किम् कारणम् ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-२४/४०) संयोगस्य अपूर्वविधित्वात् ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-२५/४०) न पूर्वविधिः संयोगः ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-२६/४०) किम् तर्हि ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-२७/४०) पूर्वपरविधिः संयोगः ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-२८/४०) एकादेशस्य उपसङ्ख्यानम् ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-२९/४०) एकादेशस्य उपसङ्ख्यानम् कर्तव्यम् ॒ श्रायसौ गौमतौ चातुरौ , आनडुहौ पादे , उदवाहे ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-३०/४०) एकादेशे कृते नुमामौ पद्भावः ऊठ् इति एते विधयः प्राप्नुवन्ति ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-३१/४०) किम् पुनः कारणम् न सिध्यति ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-३२/४०) उभयनिमित्तत्वात् ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-३३/४०) अजादेशः परनिमित्तकः इति उच्यते उभयनिमित्तः च अयम् ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-३४/४०) उभयादेशत्वात् च ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-३५/४०) अचः आदेशः इचि उच्यते अचोः च अयम् आदेशः ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-३६/४०) न एषः दोषः ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-३७/४०) यत् तावत् उच्यते उभयनिमित्तत्वात् इति ॒ इह यस्य ग्रामे नगरे वा अनेकम् कार्यम् भवति शक्नोति असौ ततः अन्यतरत् व्यपदेष्टुम् ॒ गुरुनिमित्तम् वसामः ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-३८/४०) अध्ययननिमित्तम् वसामः इति ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-३९/४०) यत् अपि उच्यते उभयादेशत्वात् च इति ।॒िह यः द्वयोः षष्ठीनिर्दिष्टयोः प्रसङ्गे भवति लभते असौ अन्यतरतः व्यपदेशम् ।

(पा-१,१.५७.५; अकि-१,१४७.१९-१४८.२४; रो-१,४३८-४४१; भा-४०/४०) तत् यथा देवदत्तस्य पुत्रः , देवदत्तायाः पुत्रः इति. ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-१/१९) अथ हलचोः आदेशः स्थानिवत् भवति उताहो न ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-२/१९) कः च अत्र विशेषः ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-३/१९) हलचोः आदेशः स्थानिवत् इति चेत् विंशतेः तिलोपः एकादेशः ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-४/१९) हलचोः आदेशः स्थानिवत् इति चेत् विंशतेः तिलोपे एकादेशः वक्तव्यः ॒ विंशकः , विंशम् शतम् , विंशः ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-५/१९) स्थूलादीनाम् यणादिलोपे अवादेशः ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-६/१९) स्थूलादीनाम् यणादिलोपे कृते अवादेशः वक्तव्यः ॒ स्थवीयान् , दवीयान् ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-७/१९) केकयिमित्रय्वोः इयादेशे एत्वम् ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-८/१९) केकयिमित्रय्वोः इयादेशे एत्वम् न सिध्यति ॒ कैकेयः , मैत्रेयः ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-९/१९) अचि इति एत्वम् न सिध्यति ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-१०/१९) उत्तरपदलोपे च ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-११/१९) उत्तरपदलोपे च दोषः भवति ॒ दध्युपसिक्ताः सक्तवः दधिसक्तवः ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-१२/१९) अचि इति यणादेशः प्राप्नोति ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-१३/१९) यङ्लोपे यणियङुवङः ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-१४/१९) यङ्लोपे यणियङुवङः न सिध्यन्ति ॒ चेच्यः , नेन्यः , चेक्रियः , लोलुवः , पोपुवः ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-१५/१९) अचि इति यणियङुवङः न सिध्यन्ति ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-१६/१९) अस्तु तर्हि न स्थानिवत् ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-१७/१९) अस्थानिवत्त्वे यङ्लोपे गुणवृद्धिप्रतिषेधः । अस्थानिवत्त्वे यङ्लोपे गुणवृद्धिप्रतिषेधः वक्तव्यः ॒ लोलुवः , पोपुवः , सरीसृपः , मरीमृजः इति ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-१८/१९) न एषः दोषः ।

(पा-१,१.५७.६; अकि-१,१४९.१-१९; रो-१,४४१-४४३; भा-१९/१९) न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-१/४४) किम् पुनः आश्रीयमाणायाम् प्रकृतौ स्थानिवत् भवति आहोस्वित् अविशेषेण ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-२/४४) कः च अत्र विशेषः ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-३/४४) अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-४/४४) अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः न सिध्यति ॒ श्लेष्मा३घ्न पित्ता३घ्न दा३ध्यश्व मा३ध्वश्व ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-५/४४) हलः अनन्तराः संयोगः इति संयोगसञ्ज्ञा संयोगे गुरु इति गुरुसञ्ज्ञा गुरोः इति प्लुतः न प्राप्नोति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-६/४४) द्विर्वचनादयः च प्रतिषेधे ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-७/४४) द्विर्वचनादयः च प्रतिषेधे वक्तव्याः ॒ द्विर्वचनवरेयलोप इति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-८/४४) क्सलोपे लुग्वचनम् ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-९/४४) क्सलोपे लुक् वक्तव्यः ॒ अदुग्ध , अदुग्धाः ॒ लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-१०/४४) हन्तेः घत्वम् ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-११/४४) हन्तेः च घत्वम् वक्तव्यम् ॒ घ्नन्ति घ्नन्तु , अघ्नन् ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-१२/४४) अस्तु तर्हि आश्रीयमाणायाम् प्रकृतौ इति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-१३/४४) ग्रहणेषु स्थानिवत् इति चेत् जग्ध्यादिषु आदेशप्रतिषेधः ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-१४/४४) ग्रहणेषु स्थानिवत् इति चेत् जग्ध्यादिषु आदेशस्य प्रतिषेधः वक्तव्यः ॒ निराद्य समाद्य ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-१५/४४) अदः जग्धिः ल्यप् ति किति इति जग्धिभावः प्राप्नोति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-१६/४४) यणादेशे युलोपेत्वानुनासिकात्त्वप्रतिषेधः ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-१७/४४) यणादेशे युलोपेत्वानुनासिकात्त्वानाम् प्रतिषेधः वक्तव्यः ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-१८/४४) यलोप ॒ वाय्वोः , अध्वर्य्वोः ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-१९/४४) लोपः व्योः वलि इति यलोपः प्राप्नोति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-२०/४४) उलोप ॒ अकुर्वि* आशाम् अकुर्व्य् आशाम् ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-२१/४४) नित्यम् करोतेः ये च इति उकारलोपः प्राप्नोति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-२२/४४) ईत्व ॒ अलुनि* आशाम् अलुन्य् आशाम् ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-२३/४४) ई हलि अघोः इति ईत्वम् प्राप्नोति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-२४/४४) अनुनासिकात्त्व ॒ अजज्ञि* आशाम् अजज्ञ्य् आशाम् ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-२५/४४) ये विभाषा इति अनुनासिकात्त्वम् प्राप्नोति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-२६/४४) रायात्वप्रतिषेधः च ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-२७/४४) रायः आत्वस्य च प्रतिषेधः वक्तव्यः ॒ रायि* आशाम् राय्य् आशाम् ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-२८/४४) रायः हलि इति आत्वम् प्राप्नोति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-२९/४४) दीर्घे यलोपप्रतिषेधः ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-३०/४४) दीर्घे यलोपस्य प्रतिषेधः वक्तव्यः ॒ सौर्ये नाम हिमवतः श्र्ङ्गे तद्वान् सौर्यी हिमवान् इति सौ इनाश्रये दीर्घत्वे कृते ईति यलोपः प्राप्नोति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-३१/४४) अतः दीर्घे यलोपवचनम् ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-३२/४४) अतः दीर्घे यलोपः वक्तव्यः ॒ गार्गाभ्याम् , वात्साभ्याम् ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-३३/४४) दीर्घे कृते आपत्यस्य च तद्धिते अनाति इति प्रतिषेधः प्राप्नोति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-३४/४४) न एषः दोषः ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-३५/४४) आश्रीयते तत्र प्रकृतिः ॒ तद्धिते इति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-३६/४४) सर्वेषाम् एषाम् परिहारः ॒ उक्तम् विधिग्रहणस्य प्रयोजनम् विधिमात्रे स्थानिवत् यथा स्यात् अनाश्रीयमाणायाम् अपि प्रकृतौ इति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-३७/४४) अथ वा पुनः अस्तु अविशेषेण स्थानिवत् इति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-३८/४४) ननु च उक्तम् अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः द्विर्वचनादयः च प्रतिषेधे , क्सलोपे लुग्वचनम् , हन्तेः घत्वम् इति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-३९/४४) न एषः दोषः ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-४०/४४) यत् तावत् उच्यते अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः इति ॒ उक्तम् एतत् ॒ न वा संयोगस्य अपूर्वविधित्वात् इति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-४१/४४) यत् अपि उच्यते द्विर्वचनादयः च प्रतिषेधे वक्तव्याः इति ॒ उच्यन्ते न्यासे एव ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-४२/४४) क्सलोपे लुग्वचनम् इति ॒ क्रियते न्यासे एव ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-४३/४४) हन्तेः घत्वम् इति ।

(पा-१,१.५७.७; अकि-१,१४९.२०-१५१.११; रो-१,४४३-४४७; भा-४४/४४) सप्तमे परिहारम् वक्ष्यति ।