व्याकरणमहाभाष्य खण्ड 09

विकिपुस्तकानि तः



(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-१/३०) अप्रत्ययः इति किमर्थम् ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-२/३०) सनाशंसभिक्षः उः , अ साम्प्रतिके ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-३/३०) अत्यल्पम् इदम् उच्यते ॒ अप्रत्ययः इति ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-४/३०) अप्रत्ययादेशटित्किन्मितः इति वक्तव्यम् ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-५/३०) प्रत्यये उदाहृतम् ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-६/३०) आदेशे ॒ इदमः इश् ॒ इह , इतः ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-७/३०) टिति ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-८/३०) लविता लवितुम् ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-९/३०) किति ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-१०/३०) बभूव ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-११/३०) मिति ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-१२/३०) हे अनड्वन् ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-१३/३०) टितः परिहारः ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-१४/३०) आचार्यप्रवृत्तिः ज्ञापयति न टितः सवर्णानाम् ग्रहणम् भवति इति यत् अयम् ग्रहः अलिटि दीर्घत्वम् शास्ति ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-१५/३०) न एतत् अस्ति ज्ञापकम् ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-१६/३०) नियमार्थम् एतत् स्यात् ॒ ग्रहः अलिटि दीर्घः एव इति ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-१७/३०) यत् तर्हि वृ̄तः वा इति विभाषाम् शास्ति ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-१८/३०) सर्वेषाम् एव परिहारः ॒ भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् भविष्यति ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-१९/३०) प्रत्यये भूयान् परिहारः ॒ अनभिधानात् प्रत्ययः सवर्णान् न ग्रहीष्यति ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-२०/३०) यान् हि प्रत्ययः सवर्णग्रहणेन गृह्णीयात् न तैः अर्थस्य अभिधानम् स्यात् ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-२१/३०) अनभिधानात् न भविष्यति ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-२२/३०) इदम् तर्हि प्रयोजनम् ॒ इह के चित् प्रतीयन्ते के चित् प्रत्याय्यन्ते ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-२३/३०) ह्रस्वाः प्रतीयन्ते डीर्घाः प्रत्याय्यन्ते ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-२४/३०) यावत् ब्रूयात् प्रत्याय्यमानेन सवर्णानम् ग्रहणम् न इति तावत् अप्रत्ययः इति ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-२५/३०) कम् पुनः दीर्घः सवर्णग्रहणेन गृह्णीयात् ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-२६/३०) ह्रस्वम् ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-२७/३०) यत्नाधिक्यात् न ग्रहीष्यति ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-२८/३०) प्लुतम् तर्हि गृह्णीयात् ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-२९/३०) अनण्त्वात् न ग्रहीष्यति ।

(पा-१,१.६९.१; अकि-१,१७७.१८-१७८.७; रो-१,५२५-५२७; भा-३०/३०) एवम् तर्हि सिद्धे सति यत् अप्रत्ययः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा ॒ भाव्यमानेन सवर्णानाम् ग्रहणम् न इति ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-१/४६) किमर्थम् पुनः इदम् उच्यते ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-२/४६) अण् सवर्णस्य इति स्वरानुनासिक्यकालभेदात् ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-३/४६) अण् सवर्णस्य इति उच्यते ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-४/४६) स्वरभेदात् आनुनासिक्यभेदात् कालभेदात् च अण् सवर्णान् न गृह्णीयात् ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-५/४६) इष्यते च सवर्णग्रहणम् स्यात् इति ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-६/४६) तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् इदम् उच्यते ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-७/४६) अस्ति प्रयोजनम् एतत् ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-८/४६) किम् तर्हि इति ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-९/४६) तत्र प्रत्याहारग्रहणे सवर्णाग्रहणम् अनुपदेशात् ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-१०/४६) तत्र प्रत्याहारग्रहणे सवर्णानाम् ग्रहणम् न प्राप्नोति ॒ अकः सवर्णे दीर्घः इति ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-११/४६) किम् कारणम् ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-१२/४६) अनुपदेशात् ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-१३/४६) यथाजातीयकानाम् सञ्ज्ञा कृता तथाजातीयकानाम् सम्प्रत्यायिका स्यात् ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-१४/४६) ह्रस्वानाम् च क्रियते ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-१५/४६) ह्रस्वानाम् एव सम्प्रत्यायिका स्यात् दीर्घानाम् न स्यात् ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-१६/४६) ननु च ह्रस्वाः प्रतीयमानाः दीर्घान् सम्प्रत्याययिष्यन्ति ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-१७/४६) ह्रस्वसम्प्रत्ययात् इति चेत् उच्चार्यमाणसम्प्रत्यायकत्वात् शब्दस्य अवचनम् ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-१८/४६) ह्रस्वसम्प्रत्ययात् इति चेत् उच्चार्यमाणः शब्दः सम्प्रत्यायकः भवति न सम्प्रतीयमनः ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-१९/४६) तत् यथा ऋक् इति उक्ते सम्पाठमात्रम् गम्यते न अस्याः अर्थः गम्यते ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-२०/४६) एवम् तर्हि वर्णपाठे एव उपदेशः करिष्यते ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-२१/४६) वर्णपाठे उपदेशः इति चेत् अवर्कालत्वात् परिभाषायाः अनुपदेशः । वर्णपाठे उपदेशः इति चेत् अवर्कालत्वात् परिभाषायाः अनुपदेशः ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-२२/४६) किम् परा सूत्रात् क्रियते इति अतः अवरकाला ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-२३/४६) न इति आह ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-२४/४६) सर्वथा अवरकाला एव ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-२५/४६) वर्णानाम् उपदेशः तावत् ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-२६/४६) उपदेशोत्तरकालः आदिः अन्त्येन सह इता इति प्रत्याहारः ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-२७/४६) प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-२८/४६) सवर्णसञ्ज्ञोत्तरकालम् अणुदित् सवर्णस्य च अप्रत्ययः इति ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-२९/४६) सा एषा उपदेशोत्तरकाला अवरकाला सती वर्णानाम् उत्पत्तौ निमित्तत्वाय कल्पयिष्यते इति तत् न ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-३०/४६) तस्मात् उपदेशः ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-३१/४६) तस्मात् उपदेशः कर्तव्यः ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-३२/४६) तत्र अनुवृत्तिनिर्देशे सवर्णाग्रहणम् अनण्त्वात् ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-३३/४६) तत्र अनुवृत्तिनिर्देशे सवर्णानाम् ग्रहणम् न प्राप्नोति ॒ अस्य च्वौ यस्य ईति च ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-३४/४६) किम् कारणम् ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-३५/४६) अनण्त्वात् ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-३६/४६) न हि एते अणः ये अनुवृत्तिनिर्देशे ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-३७/४६) के तर्हि ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-३८/४६) ये अक्षरसमाम्नाये उपदिश्यन्ते ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-३९/४६) एवम् तर्हि अनण्त्वात् अनुवृत्तौ न अनुपदेशात् च प्रत्याहारे न ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-४०/४६) उच्यते च इदम् अण् सवर्णान् गृह्णाति इति ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-४१/४६) तत्र वचनात् भविष्यति ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-४२/४६) वचनात् यत्र तत् न अस्ति ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-४३/४६) न इदम् वचनात् लभ्यम् ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-४४/४६) अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-४५/४६) किम् ।

(पा-१,१.६९.२; अकि-१,१७८.८-१७९.१२; रो-१,५२८-५३१; भा-४६/४६) ये एते प्रत्याहाराणाम् आदितः वर्णाः तैः सवर्णानाम् ग्रहणम् यथा स्यात् ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-१/३८) एवम् तर्हि सवर्णे अण्ग्रहणम् अपरिभाष्यम् आकृतिग्रहणात् ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-२/३८) सवर्णे अण्ग्रहणम् अपरिभाष्यम् ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-३/३८) कुतः ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-४/३८) आकृतिग्रहणात् ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-५/३८) अवर्णाकृतिः उपदिष्टा सा सर्वम् अवर्णकुलम् ग्रहीष्यति ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-६/३८) तथा इवर्णकुलाकृतिः ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-७/३८) तथा उवर्णकुलाकृतिः ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-८/३८) ननु च अन्या आकृतिः अकारस्य आकारस्य च ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-९/३८) अनन्यत्वात् च ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-१०/३८) अनन्याकृतिः अकारस्य आकारस्य च ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-११/३८) अनेकान्तः हि अनन्यत्वकरः ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-१२/३८) यः हि अनेकान्तेन भेदः न असौ अन्यत्वम् करोति ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-१३/३८) तत् यथा ॒ न यः गोः च गोः च भेदः सः अन्यत्वम् करोति ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-१४/३८) यः तु खलु गोः च अश्वस्य च भेदः सः अन्यत्वम् करोति ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-१५/३८) अपरः आह ॒ सवर्णे अण्ग्रहणम् अपरिभाष्यम् ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-१६/३८) आकृतिग्रहणात् अनन्यत्वम् ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-१७/३८) सवर्णे अण्ग्रहणम् अपरिभाष्यम् ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-१८/३८) आकृतिग्रहणात् अनन्यत्वम् भविष्यति ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-१९/३८) अनन्याकृतिः अकारस्य आकारस्य च ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-२०/३८) अनेकान्तः हि अनन्यत्वकरः ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-२१/३८) यः हि अनेकान्तेन भेदः न असौ अन्यत्वम् करोति ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-२२/३८) तत् यथा ॒ न यः गोः च गोः च भेदः सः अन्यत्वम् करोति ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-२३/३८) यः तु खलु गोः च अश्वस्य च भेदः सः अन्यत्वम् करोति ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-२४/३८) तद्वत् च हल्ग्रहणेषु ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-२५/३८) एवम् च कृत्वा च हल्ग्रहणेषु सिद्धम् भवति ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-२६/३८) झलः झलि ॒ अवात्ताम् अवात्तम् अवात्त यत्र एतत् न अस्ति अण् सवर्णान् गृह्णाति इति ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-२७/३८) अनेकान्तः हि अनन्यत्वकरः इति उक्तार्थम् ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-२८/३८) द्रुतविलम्बितयोः च अनुपदेशात् ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-२९/३८) द्रुतविलम्बितयोः च अनुपदेशात् मन्यामहे आकृतिग्रहणात् सिद्धम् इति ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-३०/३८) यत् अयम् कस्याम् चित् वृत्तौ वर्णान् उपदिश्य सर्वत्र कृती भवति ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-३१/३८) अस्ति प्रयोजनम् एतत् ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-३२/३८) किम् तर्हि इति ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-३३/३८) वृत्तिपृथक्त्वम् तु न उपपद्यते ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-३४/३८) वृत्तेः तु पृथक्त्वम् न उपपद्यते ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-३५/३८) तस्मात् तत्र तपरनिर्देशात् सिद्धम् ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-३६/३८) तस्मात् तत्र तपरनिर्देशः कर्तव्यः ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-३७/३८) न कर्तव्यः ।

(पा-१,१.६९.३; अकि-१,१७९.१२-१८०.१२; रो-१,५३१-५३५; भा-३८/३८) क्रियते एतत् न्यासे एव ॒ अतः भिसः ऐस् इति ।

(पा-१,१.७०.१; अकि-१,१८०.१४-२०; रो-१,५३५-५३६; भा-१/१४) अयुक्तः अयम् निर्देशः ।

(पा-१,१.७०.१; अकि-१,१८०.१४-२०; रो-१,५३५-५३६; भा-२/१४) तत् इति अनेन कालः प्रतिनिर्दिश्यते तत् इति अयम् च वर्णः ।

(पा-१,१.७०.१; अकि-१,१८०.१४-२०; रो-१,५३५-५३६; भा-३/१४) तत्र अयुक्तम् वर्णस्य कालेन सह सामनाधिकरण्यम् ।

(पा-१,१.७०.१; अकि-१,१८०.१४-२०; रो-१,५३५-५३६; भा-४/१४) कथम् तर्हि निर्देशः कर्तव्यः ।

(पा-१,१.७०.१; अकि-१,१८०.१४-२०; रो-१,५३५-५३६; भा-५/१४) तत्कालकालस्य इति ।

(पा-१,१.७०.१; अकि-१,१८०.१४-२०; रो-१,५३५-५३६; भा-६/१४) किम् इदम् तत्कालकालस्य इति ।

(पा-१,१.७०.१; अकि-१,१८०.१४-२०; रो-१,५३५-५३६; भा-७/१४) तस्य कालः तत्कालः , तत्कालः कालः यस्य सः अयम् तत्कालकालः , तत्कालकालस्य इति ।

(पा-१,१.७०.१; अकि-१,१८०.१४-२०; रो-१,५३५-५३६; भा-८/१४) सः तर्हि तथा निर्देशः कर्तव्यः ।

(पा-१,१.७०.१; अकि-१,१८०.१४-२०; रो-१,५३५-५३६; भा-९/१४) न कर्तव्यः ।

(पा-१,१.७०.१; अकि-१,१८०.१४-२०; रो-१,५३५-५३६; भा-१०/१४) उत्तरपदलोपः अत्र द्रष्टव्यः ।

(पा-१,१.७०.१; अकि-१,१८०.१४-२०; रो-१,५३५-५३६; भा-११/१४) तत् यथा उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखः ।

(पा-१,१.७०.१; अकि-१,१८०.१४-२०; रो-१,५३५-५३६; भा-१२/१४) एवम् तत्कालकालः तत्कालः , तत्कालस्य इति ।

(पा-१,१.७०.१; अकि-१,१८०.१४-२०; रो-१,५३५-५३६; भा-१३/१४) अथ वा साहचर्यात् ताच्छब्द्यम् भविष्यति ।

(पा-१,१.७०.१; अकि-१,१८०.१४-२०; रो-१,५३५-५३६; भा-१४/१४) कालसहचरितः वर्णः अपि कालः एव.

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-१/४३) किम् पुनः इदम् नियमार्थम् आहोस्वित् प्रापकम् ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-२/४३) कथम् च नियमार्थम् स्यात् कथम् वा प्रापकम् ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-३/४३) यदि अत्र अण्ग्रहणम् अनुवर्तते ततः नियमार्थम् ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-४/४३) अथ निवृत्तम् ततः प्रापकम् ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-५/४३) कः च अत्र विशेषः ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-६/४३) तपरः तत्कालस्य इति नियमाऋथम् इति चेत् दीर्घग्रहणे स्वरभिन्नाग्रहणम् ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-७/४३) तपरः तत्कालस्य इति नियमाऋथम् इति चेत् दीर्घग्रहणे स्वरभिन्नानाम् ग्रहणम् न प्राप्नोति ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-८/४३) केषाम् ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-९/४३) उदात्तानुदात्तस्वरितानाम् ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-१०/४३) अस्तु तर्हि प्रापकम् ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-११/४३) प्रापकम् इति चेत् ह्रस्वग्रहणे दीर्घप्लुतप्रतिषेधः ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-१२/४३) प्रापकम् इति चेत् ह्रस्वग्रहणे दीर्घप्लुतयोः तु प्रतिषेधः वक्तव्यः ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-१३/४३) विप्रतिषेधात् सिद्धम् ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-१४/४३) अण् सवर्णान् गृह्णाति इति एतत् अस्तु तपरः तत्कालस्य इति वा ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-१५/४३) तपरः तत्कालस्य इति एतत् भवति विप्रतिषेधेन ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-१६/४३) अण् सवर्णान् गृह्णाति इति अस्य अवकाशः ह्रस्वाः अतपराः अणः ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-१७/४३) तपरः तत्कालस्य इति अस्य अवकाशः दीर्घाः तपराः ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-१८/४३) ह्रस्वेषु तपरेषु उभयम् प्राप्नोति ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-१९/४३) तपरः तत्कालस्य इति एतत् भवति विप्रतिषेधेन ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-२०/४३) यदि एवम् द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपसङ्ख्यानम् कालभेदात् । द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपसङ्ख्यानम् कर्तव्यम् तथा मध्यमायाम् द्रुतविलम्बितयोः तथा विलम्बितायाम् द्रुतमध्यमयोः ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-२१/४३) किम् पुनः कारणम् न सिध्यति ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-२२/४३) कालभेदात् ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-२३/४३) ये हि द्रुतायाम् वृत्तौ वर्णाः त्रिभागाधिकाः ते मध्यमायाम् ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-२४/४३) ये मध्यमायाम् वर्णाः त्रिभागाधिकाः ते विलम्बितायाम् ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-२५/४३) सिद्धम् तु अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात् वृत्तयः विशिष्यन्ते । सिद्धम् एतत् ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-२६/४३) कथम् ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-२७/४३) अवस्थिताः वर्णाः द्रुतमध्यमविलम्बितासु ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-२८/४३) किङ्कृतः तु वृत्तिविशेषः ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-२९/४३) वक्तुः चिराचिरवचनात् वृत्तयः विशिष्यन्ते ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-३०/४३) वक्ता कः चित् आश्वभिधायी भवति , आशु वर्णान् अभिधत्ते ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-३१/४३) कः चित् चिरेण कः चित् चिरतरेण ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-३२/४३) तत् यथा ॒ तम् एव अध्वानम् कः चित् आशु गच्छति कः चित् चिरेण गच्छति कः चित् चिरतरेण गच्छति ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-३३/४३) रथिकः आशु गच्छति आश्विकः चिरेण पदातिः चिरतरेण ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-३४/४३) विषमः उपन्यासः ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-३५/४३) अधिकरणम् अत्र अध्वा व्रजिक्रियायाः ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-३६/४३) तत्र अयुक्तम् यत् अधिकरणस्य वृद्धिह्रासौ स्याताम् ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-३७/४३) एवम् तर्हि स्फोटः शब्दः ध्वनिः शब्दगुणः ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-३८/४३) कथम् ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-३९/४३) भेर्याघातवत् ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-४०/४३) तत् यथा भेर्याघातः भेरीम् आहत्य कः चित् विंशति पदानि गच्छति कः चित् त्रिंशत् कः चित् चत्वारिंशत् ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-४१/४३) स्फोटः च तावान् एव भवति ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-४२/४३) ध्वनिकृता वृद्धिः ।

(पा-१,१.७०.२; अकि-१,१८०.२१-१८१.२४; रो-१,५३७-५४०; भा-४३/४३) ध्वनिः स्फोटः च शब्दानाम् ध्वनिः तु खलु लक्ष्यते । अल्पः महान् च केषाम् चित् उभयम् तत् स्वभावतः ।

(पा-१,१.७१; अकि-१,१८२.२-१३; रो-१,५४१-५४२; भा-१/१५) आदिः अन्त्येन सह इति असम्प्रत्ययः सञ्ज्ञिनः अनिर्देशात् ।

(पा-१,१.७१; अकि-१,१८२.२-१३; रो-१,५४१-५४२; भा-२/१५) आदिः अन्त्येन सह इति असम्प्रत्ययः ।

(पा-१,१.७१; अकि-१,१८२.२-१३; रो-१,५४१-५४२; भा-३/१५) किम् कारणम् ।

(पा-१,१.७१; अकि-१,१८२.२-१३; रो-१,५४१-५४२; भा-४/१५) सञ्ज्ञिनः अनिर्देशात् ।

(पा-१,१.७१; अकि-१,१८२.२-१३; रो-१,५४१-५४२; भा-५/१५) न हि सञ्ज्ञिनः निर्दिश्यन्ते ।

(पा-१,१.७१; अकि-१,१८२.२-१३; रो-१,५४१-५४२; भा-६/१५) सिद्धम् तु आदिः इता सह तन्मध्यस्य इति वचनात् ।

(पा-१,१.७१; अकि-१,१८२.२-१३; रो-१,५४१-५४२; भा-७/१५) सिद्धम् एतत् ।

(पा-१,१.७१; अकि-१,१८२.२-१३; रो-१,५४१-५४२; भा-८/१५) कथम् ।

(पा-१,१.७१; अकि-१,१८२.२-१३; रो-१,५४१-५४२; भा-९/१५) आदिः अन्त्येन सह इता गृह्यमाणः स्वस्य च रूपस्य ग्राहकः तन्मध्यानाम् च इति वक्तव्यम् ।

(पा-१,१.७१; अकि-१,१८२.२-१३; रो-१,५४१-५४२; भा-१०/१५) सम्बन्धिशब्दैः वा तुल्यम् ।

(पा-१,१.७१; अकि-१,१८२.२-१३; रो-१,५४१-५४२; भा-११/१५) सम्बन्धिशब्दैः वा तुल्यम् एतत् ।

(पा-१,१.७१; अकि-१,१८२.२-१३; रो-१,५४१-५४२; भा-१२/१५) तत् यथा सम्बन्धिशब्दाः ॒ मातरि वर्तितव्यम् , पितरि शुश्रूषितव्यम् इति ।

(पा-१,१.७१; अकि-१,१८२.२-१३; रो-१,५४१-५४२; भा-१३/१५) न च उच्यते स्वस्याम् मातरि स्वस्मिन् पितरि इति सम्बन्धात् च गम्यते या यस्य माता यः च यस्य पिता इति ।

(पा-१,१.७१; अकि-१,१८२.२-१३; रो-१,५४१-५४२; भा-१४/१५) एवम् इह अपि आदिः अन्त्यः इति सम्बन्धिशब्दौ एतौ ।

(पा-१,१.७१; अकि-१,१८२.२-१३; रो-१,५४१-५४२; भा-१५/१५) तत्र सम्बन्धात् एतत् गन्तव्यम् ॒ यम् प्रति आदिः अन्त्यः इति च भवति तस्य ग्रहणम् भवति स्वस्य च रूपस्य इति ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-१/२०) इह कस्मात् न भवति ॒ इकः यण् अचि ॒ दधि अत्र मधु अत्र ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-२/२०) अस्तु ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-३/२०) अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य भविष्यति ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-४/२०) न एवम् शक्यम् ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-५/२०) ये अनेकालः आदेशाः तेषु दोषः स्यात् ॒ एचः अयवायावः इति ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-६/२०) न एषः दोषः ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-७/२०) यथा एव प्रकृतितः तदन्तविधिः भवति एवम् आदेशतः अपि भविष्यति ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-८/२०) तत्र एजन्तस्य अयाद्यन्ता आदेशाः भविष्यन्ति ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-९/२०) यदि च एवम् क्व चित् वैरूप्यम् तत्र दोषः स्यात् ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-१०/२०) अपि च अन्तरङ्गबहिरङ्गे न प्रकल्प्येयाताम् ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-११/२०) तत्र कः दोषः ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-१२/२०) स्योनः , स्योना ॒ अन्तरङ्गलक्षणस्य यणादेशस्य बहिरङ्गलक्षणः गुणः बाधकः प्रसज्येत ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-१३/२०) ऊनशब्दम् हि आश्रित्य यणादेशः नशब्दम् आश्रित्य गुणः ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-१४/२०) अल्विधिः च न प्रकल्पेत ॒ द्यौः , पन्थाः , सः इति ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-१५/२०) तस्मात् प्रकृते तदन्तविधिः इति वक्तव्यम् ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-१६/२०) न वक्तव्यम् ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-१७/२०) येन इति करणे एषा तृतीया अन्येन च अन्यस्य विधिः भवति ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-१८/२०) तत् यथा ॒ देवदत्तस्य समाशम् शरावैः ओदनेन च यज्ञदत्तः प्रतिविधत्ते , तथा सङ्ग्रामम् हस्त्यश्वरथपदातिभिः ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-१९/२०) एवम् इह अपि अचा धातोः यतम् विधत्ते ।

(पा-१,१.७२.१; अकि-१,१८२.१५-१८३.२; रो-१,५४२-५४४; भा-२०/२०) अकारेण प्रातिपदिकस्य इञम् विधत्ते ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-१/२२) येन विधिः तदन्तस्य इति चेत् ग्रहणोपाधीनाम् तदन्तोपाधिप्रसङ्गः ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-२/२२) येन विधिः तदन्तस्य इति चेत् ग्रहणोपाधीनाम् तदन्तोपाधिताप्रसङ्गः ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-३/२२) ये ग्रहणोपाधयः ते अपि तदन्तोपाधयः स्युः ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-४/२२) तत्र कः दोषः ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-५/२२) उतः च प्रत्ययात् असंयोगपूर्वात् इति असंयोगपूर्वग्रहणम् उकारान्त्विशेषणम् स्यात् ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-६/२२) तत्र कः दोषः ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-७/२२) असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यात्॒॒ अक्ष्णुहि तक्ष्णुहि इति ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-८/२२) इह न स्यात् ॒ आप्नुहि शक्नुहि इति ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-९/२२) तथा उत् ओष्थ्यपूर्वस्य इति ओष्ठ्यपूर्वग्रहणम् ऋ̄कारान्तविशेषणम् स्यात् ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-१०/२२) तत्र कः दोषः ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-११/२२) ओष्ठ्यपूर्वग्रहणेन इह च प्रसज्येत ॒ सङ्कीर्णम् इति ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-१२/२२) इह च न स्यात् ॒ निपूर्ताः पिण्डाः इति ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-१३/२२) सिद्धम् तु विशेषणविशेष्ययोः यथेष्टत्वात् ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-१४/२२) सिद्धम् एतत् ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-१५/२२) कथम् ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-१६/२२) यथेष्टम् विशेषणविशेष्ययोः योगः भवति ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-१७/२२) यावता यथेष्टम् इह तावत् ॒ उतः च प्रत्ययात् असंयोगपूर्वात् इति न असंयोगपूर्वग्रहणेन उकारान्तम् विशेष्यते ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-१८/२२) किम् तर्हि ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-१९/२२) उकारः एव विशेष्यते ॒ उकारः यः असंयोगपूर्वः तदन्तात् प्रत्ययात् इति ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-२०/२२) तथा उत् ओष्थ्यपूर्वस्य इति न ओष्ठपूर्वग्रहणेन ऋ̄कारान्तम् विशेष्यते ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-२१/२२) किम् तर्हि ।

(पा-१,१.७२.२; अकि-१,१८३.३-१६; रो-१,५४४-५४६; भा-२२/२२) ऋ̄कारः एव विशेष्यते ॒ ऋ̄कारः यः ओष्ठ्यपूर्वः तदन्तस्य धातोः इति ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-१/५३) समासप्रत्ययविधौ प्रतिषेधः ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-२/५३) समासविधौ प्रत्ययविधौ च प्रतिषेधः वक्तव्यः ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-३/५३) समासविधौ तावत् ॒ द्वितीया श्रितादिभिः समस्यते ॒ कष्टश्रितः , नरकश्रितः ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-४/५३) कष्टम् परमश्रित इति अत्र मा भूत् ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-५/५३) प्रत्ययविधौ ॒ नडस्य अपत्यम् नाडायनः ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-६/५३) इह न भवति ॒ सूत्रनडस्य अपत्यम् सौत्रनाडिः ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-७/५३) किम् अविशेषेण ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-८/५३) न इति आह ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-९/५३) उगिद्वर्णग्रहणवर्जम् ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-१०/५३) उगिद्ग्रहणम् वर्णग्रहणम् च वर्जयित्वा ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-११/५३) उगिद्ग्रहणम् ॒ भवती , अतिभवती महती , अतिमहती ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-१२/५३) वर्णग्रहणम् ॒ अतः इञ् ॒ दाक्षिः , प्लाक्षिः ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-१३/५३) अस्ति च इदानीम् कः चित् केवलः अकारः प्रातिपदिकम् यदर्थः विधिः स्यात् ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-१४/५३) अस्ति इति आह ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-१५/५३) अततेः डः ॒ अः , तस्य अपत्यम् ॒ अतः इञ् इः ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-१६/५३) अकच्श्नम्वतः सर्वनामाव्ययधातुविधौ उपसङ्ख्यानम् । अकच्वतः सर्वनामाव्ययविधौ श्नम्वतः धातुविधौ उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-१७/५३) अकच्वतः ॒ सर्वके विश्वके ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-१८/५३) अव्ययविधौ ॒ उच्चकैः नीचकैः ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-१९/५३) श्नम्वतः ॒ भिनत्ति छिनत्ति ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-२०/५३) किम् पुनः कारणम् न सिध्यति ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-२१/५३) इह तस्य वा ग्रहणम् भवति तदन्तस्य वा ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-२२/५३) न च इदम् तत् न अपि तदन्तम् ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-२३/५३) सिद्धम् तु तदन्तान्तवचनात् ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-२४/५३) सिद्धम् एतत् ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-२५/५३) कथम् ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-२६/५३) तदन्तान्तवचनात् ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-२७/५३) तदन्तान्तस्य इति वक्तव्यम् ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-२८/५३) किम् इदम् तदन्तान्तस्य इति ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-२९/५३) तस्य अन्तः तदन्तः , तदन्तः अन्तः यस्य तत् इदम् तदन्तान्तम् , तदन्तान्तस्य इति ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-३०/५३) सः तर्हि तथा निर्देशः कर्तव्यः ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-३१/५३) न कर्तव्यः ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-३२/५३) उत्तरपदलोपः अत्र द्रष्टव्यः ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-३३/५३) तत् यथा ॒ उष्ट्रमुखम् इव मुखम् अस्य ॒ उष्ट्रमुखः , खरमुखः ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-३४/५३) एवम् इह अपि तदन्तः अन्तः यस्य तदन्तस्य इति ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-३५/५३) तदेकदेशविज्ञानात् वा सिद्धम् । तदेकदेशविज्ञानात् वा पुनः सिद्धम् एतत् ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-३६/५३) तदेकदेशभूतः तद्ग्रहणेन गृह्यते ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-३७/५३) तत् यथा गङ्गा यमुना देवदत्ता इति ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-३८/५३) अनेका नदी गङ्गाम् यमुनाम् च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-३९/५३) तथा देवदत्तास्थः गर्भः देवदत्ताग्रहणेन गृह्यते ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-४०/५३) विषमः उपन्यासः ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-४१/५३) इह के चित् शब्दाः अक्तपरिमाणानाम् अर्थानाम् वाचकाः भवन्ति ये एते सङ्ख्याशब्दाः परिमाणशब्दाः च ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-४२/५३) पञ्च सप्त इति ॒ एकेन अपि अपाये न भवन्ति ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-४३/५३) द्रोणः खारी आढकम् इति ॒ न एव अधिके भवन्ति न न्यूने ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-४४/५३) के चित् यावत् एव तत् भवति तावत् एव आहुः ये एते जातिशब्दाः गुणशब्दाः च ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-४५/५३) तैलम् घृतम् इति ॒ खार्याम् अपि भवन्ति द्रोणे अपि ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-४६/५३) शुक्लः नीलः कृष्णः इति ॒ हिमवति अपि भवति वटकणिकामात्रे अपि द्रव्ये ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-४७/५३) इमाः च अपि सञ्ज्ञाः अक्तपरिमाणानाम् अर्थानाम् क्रियन्ते ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-४८/५३) ताः केन अधिकस्य स्युः ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-४९/५३) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति यत् अयम् न इदमदसोः अकोः इति सककारयोः इदमदसोः प्रतिषेधम् शास्ति ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-५०/५३) कथम् कृत्वा ज्ञापकम् ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-५१/५३) इदमदसोः कार्यम् उच्यमानम् कः प्रसङ्गः यत् सककारयोः स्यात् ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-५२/५३) पश्यति तु आचार्यः तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति ।

(पा-१,१.७२.३; अकि-१,१८३.१७-१८४.२५; रो-१,५४६-५५०; भा-५३/५३) ततः सककारयोः प्रतिषेधम् शास्ति ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-१/५९) कानि पुनः अस्य योगस्य प्रयोजनानि ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-२/५९) प्रयोजनम् सर्वनामाव्ययसञ्ज्ञायाम् ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-३/५९) सर्वनामाव्ययसञ्ज्ञायाम् प्रयोजनम् ॒ सर्वे परमसर्वे विश्वे परमविश्वे , उच्चैः , परमोच्चैः , नीचैः , परमनीचैः इति ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-४/५९) उपपदविधौ भयाढ्यादिग्रहणम् ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-५/५९) उपपदविधौ भयाढ्यादिग्रहणम् प्रयोजनम् ॒ भयङ्करः , अभयङ्करः , आढ्यङ्करणम् , खाड्यङ्करणम् ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-६/५९) ङीब्विधौ उगिद्ग्रहणम् ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-७/५९) ङीब्विधौ उगिद्ग्रहणम् प्रयोजनम् ॒ भवती , अतिभवती महती , अतिमहती ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-८/५९) प्रतिषेधे स्वस्रादिग्रहणम् ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-९/५९) प्रतिषेधे स्वस्रादिग्रहणम् प्रयोजनम् ॒ स्वसा परमस्वसा दुहिता परमदुहिता ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-१०/५९) अपरिमाणबिस्तादिग्रहणम् च प्रतिषेधे ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-११/५९) अपरिमाणबिस्तादिग्रहणम् च प्रतिषेधे प्रयोजनम् ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-१२/५९) अपरिमाणबिस्ताचितकम्बलेभ्यः न तद्धितलुकि ॒ द्विबिस्ता द्विपरमबिस्ता त्रिबिस्ता त्रिपरमबिस्ता द्व्याचिता द्विपरमाचिता ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-१३/५९) दिति ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-१४/५९) दितिग्रहणम् च प्रयोजनम् ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-१५/५९) दितेः अपत्यम् दैत्यः , अदितेः अपत्यम् आदित्यः ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-१६/५९) दित्यदित्यादित्य इति अदितिग्रहणम् न कर्तव्यम् भवति ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-१७/५९) रोण्याः अण् ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-१८/५९) रोण्याः अण्ग्रहणम् च प्रयोजनम् ॒ आजकरोणः , सैंहकरोणः ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-१९/५९) तस्य च ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-२०/५९) तस्य च इति वक्तव्यम् ॒ रौणः ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-२१/५९) किम् पुनः कारणम् न सिध्यति ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-२२/५९) तदन्तात् च तदन्तविधिना सिद्धम् केवलात् च व्यप्देशिवद्भावेन ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-२३/५९) व्यप्देशिवद्भावः अप्रातिपदिकेन ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-२४/५९) किम् पुनः कारणम् व्यप्देशिवद्भावः अप्रातिपदिकेन ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-२५/५९) इह ॒ सूत्रान्तात् ठक् भवति दशान्तात् डः भवति इति ॒ केवलात् उत्पत्तिः मा भूत् इति ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-२६/५९) न एतत् अस्ति प्रयोजनम् ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-२७/५९) सिद्धम् अत्र तदन्तात् च तदन्तविधिना केवलात् च व्यप्देशिवद्भावेन ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-२८/५९) सः अयम् एवम् सिद्धे सति यत् अन्तग्रहणम् करोति तत् ज्ञापयति आचार्यः सूत्रान्तात् एव दशान्तात् एव इति ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-२९/५९) न अत्र तदन्तात् उत्पत्तिः प्राप्नोति ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-३०/५९) इदानीम् एव हि उक्तम् ॒ समासप्रत्ययविधौ प्रतिषेधः इति ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-३१/५९) सा तर्हि एषा परिभाषा कर्तव्या ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-३२/५९) न कर्तव्या ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-३३/५९) आचार्यप्रवृत्तिः ज्ञापयति व्यप्देशिवद्भावः अप्रातिपदिकेन इति यत् अयम् पूर्वात् इनिः सपूर्वात् च इति आह ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-३४/५९) न एतत् अस्ति प्रयोजनम् ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-३५/५९) अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-३६/५९) किम् ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-३७/५९) सपूर्वात् पूर्वात् इनिम् वक्ष्यामि इति ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-३८/५९) यत् तर्हि योगविभागम् करोति ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-३९/५९) इतरथा हि पूर्वात् सपूर्वात् इति एव ब्रूयात् ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-४०/५९) किम् पुनः अयम् अस्य एव शेषः ॒ तस्य च इति ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-४१/५९) न इति आह ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-४२/५९) यत् च अनुक्रान्तम् यत् च अनुक्रंसय्ते सर्वस्य एव शेषः तस्य च इति ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-४३/५९) रथसीताहलेभ्यः यद्विधौ ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-४४/५९) रथसीताहलेभ्यः यद्विधौ प्रयोजनम् ॒ रथ्यः , परमरथ्यः , सीत्यम् , परमसीत्यम् , हल्या परमहल्या ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-४५/५९) सुसर्वार्धदिक्शब्देभ्यः जनपदस्य ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-४६/५९) सुसर्वार्धदिक्शब्देभ्यः जनपदस्य प्रयोजनम् ॒ सुपाञ्चालकः , सुमागधकः ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-४७/५९) सु ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-४८/५९) सर्व ॒ सर्वपाञ्चालकः , सर्वमागधकः ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-४९/५९) सर्व ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-५०/५९) अर्ध ॒ अर्धपाञ्चालकः , अर्धमागधकः ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-५१/५९) अर्ध ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-५२/५९) दिक्शब्द ॒ पूर्वपाञ्चालकः , पूर्वमागधकः ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-५३/५९) ऋतोः वृद्धिमद्विधौ अवयवानाम् ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-५४/५९) ऋतोः वृद्धिमद्विधौ अवयवानाम् प्रयोजनम् ॒ पूर्वशारदम् , अपरशारदम् , पूर्वनैदाघम् , अपरनैदाघम् ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-५५/५९) ठञ्विधौ सङ्ख्यायाः ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-५६/५९) ठञ्विधौ सङ्ख्यायाः प्रयोजनम् ॒ द्विषाष्टिकम् , पञ्चषाष्टिकम् ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-५७/५९) धर्मात् नञः ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-५८/५९) धर्मात् नञः प्रयोजनम् ॒ धर्मम् चरति धार्मिकः , अधर्मम् चरति आधर्मिकः ।

(पा-१,१.७२.४; अकि-१,१८४.२६-१८६.२४; रो-१,५५०-५५४; भा-५९/५९) अधर्मात् च इति न वक्तव्यम् भवति

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-१/६४) पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-२/६४) पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति वक्तव्यम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-३/६४) पदाधिकारे किम् प्रयोजनम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-४/६४) प्रयोजनम् इष्टिकेषीकामालानाम् चिततूलभारिषु ॒ इष्टकचितम् चिन्वीत , पक्वेष्टिक्चितम् चिन्वीत , इषीकतूलेन मुञ्जेषीकतूलेन मालभारिणी कन्या , उत्पलमालभारिणी कन्या ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-५/६४) अङ्गाधिकारे किम् प्रयोजनम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-६/६४) महदप्स्वसृतृ̄णाम् दीर्घविधौ ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-७/६४) महदप्स्वसृतृ̄णाम् दीर्घविधौ प्रयोजनम् ॒ महान् , परममहान् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-८/६४) महत् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-९/६४) अप् ॒ आपः तिष्ठन्ति , स्वापः तिष्ठन्ति ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-१०/६४) अप् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-११/६४) स्वसृ ॒ स्वसा स्वसारौ स्वसारः , परमस्वसा परमस्वसारौ परमस्वसारः ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-१२/६४) स्वसृ ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-१३/६४) नप्तृ ॒ नप्ता नप्तारौ नप्तारः ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-१४/६४) एवम् परमनप्ता परमनप्तारौ परमनप्तारः ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-१५/६४) पद्युष्मदस्मदस्थ्याद्यन्डुहः नुम् । पद्भावः प्रयोजनम् ॒ दिव्पदः पश्य ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-१६/६४) अस्ति च इदानीम् कः चित् केवलः पाच्छभ्दः यदर्थः विधिः स्यात् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-१७/६४) न अस्ति इति आह ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-१८/६४) एवम् तर्हि अङ्गाधिकारे प्रयोजनम् न अस्ति इति कृत्वा पदाधिकारस्य इदम् प्रयोजनम् उक्तम् ॒ हिमकाषिहतिषु च ॒ यथा पत्काषिणौ पत्काषिणः एवम् परमपत्काषिणौ परमपत्काषिणः ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-१९/६४) यदि तर्हि पदाधिकारे पादस्य तदन्तविधिः भवति पादस्य पद आज्यतिगोपहतेषु ॒ यथा इह भवति ॒ पादेन उपहतम् पदोपहतम् अत्र अपि स्यात् ॒ दिग्धपादेन उपहतम् दिग्धपादोपहतम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-२०/६४) एवम् तर्हि अङ्गाधिकारे एव प्रयोजनम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-२१/६४) ननु च उक्तम् न अस्ति केवलः पाच्छब्दः इति ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-२२/६४) अयम् अस्ति पादयतेः अप्रत्ययः पात् ॒ पदा पदे ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-२३/६४) पद् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-२४/६४) युष्मत् अस्मत् ॒ यूयम् , वयम् अतियूयम् अतिवयम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-२५/६४) अस्थ्यादि ॒ अस्थ्ना दध्ना सक्थ्ना पर्मास्थ्ना परमदध्ना परमसक्थ्ना ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-२६/६४) अनडुहः नुम् ॒ अनड्वान् , परमानड्वान् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-२७/६४) द्युपथिमथिपुङ्गोसखिचतुरनडुत्त्रिग्रहणम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-२८/६४) द्युपथिमथिपुङ्गोसखिचतुरनडुत्त्रिग्रहणम् प्रयोजनम् ॒ द्यौः , सुद्यौः , पन्थाः , सुपन्थाः , मन्थाः , सुमन्थाः , परममन्थाः , पुमान् परमपुमान् , गौः , सुगौः , सखा सखायौ सखायः , सुसखा सुसखायौ सुसखायः , परमसखा परमसखायौ परमसखायः , चत्वारः परमचत्वारः , अनड्वाहः , पर्मानड्वाहः , त्रयाणाम् , परमत्रयाणाम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-२९/६४) त्यदादिविधिभस्त्रादिस्त्रीग्रहणम् च ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-३०/६४) त्यदादिविधिभस्त्रादिस्त्रीग्रहणम् च प्रयोजनम् ॒ सः , अतिसः , भस्त्रका भस्त्रिका निर्भस्त्रका निर्भस्त्रिका बहुभस्त्रका बहुभस्त्रिका ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-३१/६४) स्त्रीग्रहणम् च प्रयोजनम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-३२/६४) स्त्रियौ स्त्रियः राजस्त्रियौ राजस्त्रियः ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-३३/६४) वर्णग्रहणम् च सर्वत्र ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-३४/६४) वर्णग्रहणम् च सर्वत्र प्रयोजनम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-३५/६४) क्व सर्वत्र ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-३६/६४) अङ्गाधिकारे च अन्यत्र च ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-३७/६४) अन्यत्र उदाहृतम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-३८/६४) आन्गाधिकारे ॒ अतः दीर्घः यञि सुपि च ॒ इह एव स्यात् ॒ आभ्याम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-३९/६४) घटाभ्याम् इति अत्र न स्यात् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-४०/६४) प्रत्ययग्रहणम् च अपञ्चम्याः । प्रत्ययग्रहणम् च अपञ्चम्याः प्रयोजनम् ॒ यञिञोः फक् भवति ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-४१/६४) गार्ग्यायणः वात्स्यायनः परमगार्ग्यायणः परमवात्स्यायनः ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-४२/६४) अपञ्चम्याः इति किमर्थम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-४३/६४) दृषत्तीर्णा परिषत्तीर्णा ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-४४/६४) अला एव अनर्थकेन न अन्येन अनर्थकेन इति वक्तव्यम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-४५/६४) किम् प्रयोजनम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-४६/६४) हन्ग्रहणे प्लीहन्ग्रहणम् मा भूत् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-४७/६४) उद्ग्रहणे गर्मुद्ग्रहणम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-४८/६४) स्त्रीग्रहणे शस्त्रीग्रहणम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-४९/६४) सङ्ग्रहणे पायसम् करोति इति मा भूत् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-५०/६४) किमर्थम् इदम् उच्यते न पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति एव सिद्धम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-५१/६४) न च इदम् तत् न अपि तदुत्तरपदम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-५२/६४) तत् न वक्तव्यम् भवति ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-५३/६४) किम् पुनः अत्र ज्यायः ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-५४/६४) तदन्तविधिः एव ज्यायान् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-५५/६४) इदम् अपि सिद्धम् भवति ॒ परमातिमहान् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-५६/६४) एतत् हि न एव तत् न अपि तदुत्तरपदम् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-५७/६४) अनिनस्मन्ग्रहणानि च अर्थवता च अनर्थकेन च तदन्तविधिम् प्रयोजयन्ति ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-५८/६४) अन् ॒ राज्ञा इति अर्थवता साम्ना इति अनर्थकेन ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-५९/६४) अन् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-६०/६४) इन् ॒ दण्डी* इति अर्थवता वाग्मी* इति अनर्थकेन ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-६१/६४) इन् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-६२/६४) अस् ॒ सुपयाः इति अर्थवता सुस्रोताः इति अनर्थकेन ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-६३/६४) अस् ।

(पा-१,१.७२.५; अकि-१,१८७.१-१८८.२३; रो-१,५५५-५६१; भा-६४/६४) मन् ॒ सुशर्मा इति अर्थवता सुप्रथिमा इति अनर्थकेन ।

(पा-१,१.७२.६; अकि-१,१८८.२४-१८९.२; रो-१,५६१; भा-१/५) यस्मिन् विधिः तदादौ अल्ग्रहणे ।

(पा-१,१.७२.६; अकि-१,१८८.२४-१८९.२; रो-१,५६१; भा-२/५) अल्ग्रहणेषु यस्मिन् विधिः तदादौ इति वक्तव्यम् ।

(पा-१,१.७२.६; अकि-१,१८८.२४-१८९.२; रो-१,५६१; भा-३/५) किम् प्रयोजनम् ।

(पा-१,१.७२.६; अकि-१,१८८.२४-१८९.२; रो-१,५६१; भा-४/५) अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इति इह एव स्यात् ॒ श्रियौ भ्रुवौ ।

(पा-१,१.७२.६; अकि-१,१८८.२४-१८९.२; रो-१,५६१; भा-५/५) श्रियः , भ्रुवः इति अत्र न स्यात् ।