व्याकरणमहाभाष्य खण्ड 10

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-१/३०) वृद्धिग्रहणम् किमर्थम्. यस्य अचाम् आदिः तत् वृद्धम् इति इयति उच्यमाने दात्ताः , राक्षिताः अत्र अपि प्रसज्येत ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-२/३०) वृद्धिग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-३/३०) अथ यस्यग्रहणम् किमर्थम् ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-४/३०) यस्य इति व्यपदेशाय ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-५/३०) अथ अज्ग्रहणम् किमर्थम् ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-६/३०) वृद्धिः यस्य आदिः तत् वृद्धम् इति इयति उच्यमाने इह एव स्यात् ॒ ऐतिकायनीयाः , औपगवीयाः ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-७/३०) इह न स्यात् ॒ गार्गीयाः , वात्सीयाः इति ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-८/३०) अज्ग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-९/३०) अथ आदिग्रहणम् किमर्थम् ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-१०/३०) वृद्धिः यस्य अचाम् तत् वृद्धम् इति इयति उच्यमाने सभासन्नयने भवः साभसन्नयनः इति अत्र प्रसज्येत ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-११/३०) आदिग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-१२/३०) वृद्धसञ्ज्ञायाम् अजसन्निवेशात् अनादित्वम् ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-१३/३०) वृद्धसञ्ज्ञायाम् अजसन्निवेशात् आदिः इति एतत् न उपपद्यते ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-१४/३०) न हि अचाम् सन्निवेशः अस्ति ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-१५/३०) ननु च एवम् विज्ञायते ॒ अच् एव आदिः अजादिः ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-१६/३०) न एवम् शक्यम् ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-१७/३०) इह एव प्रसज्येत ॒ औपगवीयाः ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-१८/३०) इह न स्यात् ॒ गार्गीयाः इति ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-१९/३०) एकान्तादित्वम् तर्हि विज्ञायते ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-२०/३०) एकान्तादित्वे च सर्वप्रसङ्गः ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-२१/३०) इह अपि प्रसज्येत ॒ सभासन्नयने भवः साभसन्नयनः इति ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-२२/३०) सिद्धम् अजाकृतिनिर्देशात् ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-२३/३०) सिद्धम् एतत् ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-२४/३०) कथम् ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-२५/३०) अजाकृतिः निर्दिश्यते ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-२६/३०) एवम् अपि व्यञ्जनैः व्यवहितत्वात् न प्राप्नोति ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-२७/३०) व्यञ्जनस्य अविद्यमानत्वम् यथा अन्यत्र ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-२८/३०) व्यञ्जनस्य अविद्यमानवद्भावः वक्तव्यः यथा अन्यत्र अपि भवति व्यञ्जनस्य अविद्यमानवद्भावः ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-२९/३०) क्व अन्यत्र ।

(पा-१,१.७३.१; अकि-१,१८९.४-२२; रो-१,५६२-५६५; भा-३०/३०) स्वरे ।

(पा-१,१.७३.२; अकि-१,१८९.२३-१९०.१०; रो-१,५६५-५६६; भा-१/१३) वा नामधेयस्य ।

(पा-१,१.७३.२; अकि-१,१८९.२३-१९०.१०; रो-१,५६५-५६६; भा-२/१३) वा नामधेयस्य वृद्धसञ्ज्ञा वक्तव्या ॒ देवदत्तीयाः , दैवदत्ताः , यज्ञदत्तीयाः , याज्ञदत्ताः ।

(पा-१,१.७३.२; अकि-१,१८९.२३-१९०.१०; रो-१,५६५-५६६; भा-३/१३) गोत्रोत्तरपदस्य च ।

(पा-१,१.७३.२; अकि-१,१८९.२३-१९०.१०; रो-१,५६५-५६६; भा-४/१३) गोत्रोत्तरपदस्य च वृद्धसञ्ज्ञा वक्तव्या ॒ कम्बलचारायणीयाः , ओदनपाणिनीयाः , घृतरौढीयाः ।

(पा-१,१.७३.२; अकि-१,१८९.२३-१९०.१०; रो-१,५६५-५६६; भा-५/१३) गोत्रान्तात् वा असमस्तवत् ।

(पा-१,१.७३.२; अकि-१,१८९.२३-१९०.१०; रो-१,५६५-५६६; भा-६/१३) गोत्रान्तात् वा असमस्तवत् प्रत्ययः भवति इति वक्तव्यम् ॒ एतानि एव उदाहरणानि ।

(पा-१,१.७३.२; अकि-१,१८९.२३-१९०.१०; रो-१,५६५-५६६; भा-७/१३) किम् अविशेषेण ।

(पा-१,१.७३.२; अकि-१,१८९.२३-१९०.१०; रो-१,५६५-५६६; भा-८/१३) न इति आह ।

(पा-१,१.७३.२; अकि-१,१८९.२३-१९०.१०; रो-१,५६५-५६६; भा-९/१३) जिह्वाकात्यहरितकात्यवर्जम् ।

(पा-१,१.७३.२; अकि-१,१८९.२३-१९०.१०; रो-१,५६५-५६६; भा-१०/१३) जिह्वाकात्यम् हरितकात्यम् च वर्जयित्वा ॒ जैहवाकाताः , हारितकाताः ।

(पा-१,१.७३.२; अकि-१,१८९.२३-१९०.१०; रो-१,५६५-५६६; भा-११/१३) किम् पुनः अत्र ज्यायः ।

(पा-१,१.७३.२; अकि-१,१८९.२३-१९०.१०; रो-१,५६५-५६६; भा-१२/१३) गोत्रान्तात् वा असमस्तवत् इति एव ज्यायः ।

(पा-१,१.७३.२; अकि-१,१८९.२३-१९०.१०; रो-१,५६५-५६६; भा-१३/१३) इदम् अपि सिद्धम् भवति ॒ पिङ्गलकाण्वस्य छात्त्राः पैङ्गलकाण्वाः ।

(पा-१,१.७४; अकि-१,१९०.१२-१८; रो-१,५६६-५६७; भा-१/१५) यस्याचामादिग्रहणम् अनुवर्तते उताहो न ।

(पा-१,१.७४; अकि-१,१९०.१२-१८; रो-१,५६६-५६७; भा-२/१५) किम् च अतः ।

(पा-१,१.७४; अकि-१,१९०.१२-१८; रो-१,५६६-५६७; भा-३/१५) यदि अनुवर्तते इह च प्रसज्येत ॒ त्वत्पुत्रस्य छात्त्राः त्वात्पुत्राः , मात्पुत्राः इह च न स्यात् ॒ त्वदीयः , मदीयः इति ।

(पा-१,१.७४; अकि-१,१९०.१२-१८; रो-१,५६६-५६७; भा-४/१५) अथ निवृत्तम् एङ् प्राचाम् देशे यस्याचामादिग्रहणम् कर्तव्यम् ।

(पा-१,१.७४; अकि-१,१९०.१२-१८; रो-१,५६६-५६७; भा-५/१५) एवम् तर्हि अनुवर्तते ।

(पा-१,१.७४; अकि-१,१९०.१२-१८; रो-१,५६६-५६७; भा-६/१५) कथम् त्वापुत्राः , मात्पुत्राः इति ।

(पा-१,१.७४; अकि-१,१९०.१२-१८; रो-१,५६६-५६७; भा-७/१५) सम्बन्धम् अनुवर्तिष्यते ।

(पा-१,१.७४; अकि-१,१९०.१२-१८; रो-१,५६६-५६७; भा-८/१५) वृद्धिः यस्य अचाम् आदिः तत् वृद्धम् ।

(पा-१,१.७४; अकि-१,१९०.१२-१८; रो-१,५६६-५६७; भा-९/१५) त्यदादीनि च वृद्धसञ्ज्ञानि भवन्ति ।

(पा-१,१.७४; अकि-१,१९०.१२-१८; रो-१,५६६-५६७; भा-१०/१५) वृद्धिः यस्य अचाम् आदिः तत् वृद्धम् ।

(पा-१,१.७४; अकि-१,१९०.१२-१८; रो-१,५६६-५६७; भा-११/१५) एङ् प्राचाम् देशे ।

(पा-१,१.७४; अकि-१,१९०.१२-१८; रो-१,५६६-५६७; भा-१२/१५) यस्याचामादिग्रहणम् अनुवर्तते ।

(पा-१,१.७४; अकि-१,१९०.१२-१८; रो-१,५६६-५६७; भा-१३/१५) वृद्धिग्रहणम् निवृत्तम् ।

(पा-१,१.७४; अकि-१,१९०.१२-१८; रो-१,५६६-५६७; भा-१४/१५) तत् यथा कः चित् कान्तारे समुपस्थिते सार्थम् उपादत्ते ।

(पा-१,१.७४; अकि-१,१९०.१२-१८; रो-१,५६६-५६७; भा-१५/१५) सः यदा निष्कान्तारीभूतः भवति तदा सार्थम् जहाति

(पा-१,१.७५; अकि-१,१९०.२०-२१; रो-१,५६७-५६८; भा-१/१) एङ् प्राचाम् देशे शैषिकेषु इति वक्तव्यम् ॒ सैपुरिकी सैपुरिका स्कौनगरिकी स्कौनगरिका इति ।