व्याकरणमहाभाष्य खण्ड 11

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-१/५४) ङित्किद्वचने तयोः अभावात् अप्रसिद्धिः ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-२/५४) ङित्किद्वचने तयोः अभावात् , ङकारककारयोः अभावात् , ङित्त्वकित्त्वयोः अप्रसिद्धिः ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-३/५४) सता हि अभिसम्बन्धः शक्यते कर्तुम् न च अत्र ङकारककारौ इतौ पश्यामः ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-४/५४) तत् यथा चित्रगुः देवदत्तः इति ॒ यस्य ताः गावः सन्ति सः एव ताभ्याम् शब्दाभ्याम् शक्यते अभिसम्बन्धुम् ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-५/५४) भाव्येते तर्हि अनेन ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-६/५४) गाङ्कुटादिभ्यः अञ्णित् ङित् भवति इति ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-७/५४) असंयोगात् लिट् कित् भवति इति ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-८/५४) भवति इति चेत् आदेशप्रतिषेधः ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-९/५४) भवति इति चेत् आदेशस्य प्रतिषेधः वक्तव्यः ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-१०/५४) ङकारककारौ इतौ आदेशौ प्राप्नुतः ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-११/५४) कथम् पुनः इत्सञ्ज्ञः नाम आदेशः स्यात् ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-१२/५४) किम् हि वचनात् न भवति ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-१३/५४) एवम् तर्हि षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीम् पश्यामः ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-१४/५४) गाङ्कुटादिभ्यः इति एषा पञ्चमी अञ्णित् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-१५/५४) सञ्ज्ञाकरणम् तर्हि इदम् ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-१६/५४) गाङ्कुटादिभ्यः अञ्णित् ङित्सञ्ज्ञः भवति इति ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-१७/५४) असंयोगात् लिट् कित्सञ्ज्ञः भवति इति ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-१८/५४) सञ्ज्ञाकरणे क्ङिद्ग्रहणे असम्प्रत्ययः शब्दभेदात् ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-१९/५४) सञ्ज्ञाकरणे क्ङिद्ग्रहणे असम्प्रत्ययः स्यात् ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-२०/५४) किम् कारणम् ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-२१/५४) शब्दभेदात् ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-२२/५४) अन्यः हि शब्दः क्ङिति इति अन्यः किति इति ङिति इति च ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-२३/५४) तथा किद्ग्रहणेषु ङिद्ग्रहणेषु च अनयोः एव सम्प्रत्ययः स्यात् ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-२४/५४) तद्वदतिदेशः तर्हि अयम् ॒ गाङ्कुटादिभ्यः अञ्णित् ङिद्वत् भवति इति ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-२५/५४) असंयोगात् लिट् किद्वत् भवति इति ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-२६/५४) सः तर्हि वतिनिर्देशः कर्तव्यः ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-२७/५४) न हि अन्तरेण वतिम् अतिदेशः गम्यते ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-२८/५४) अन्तरेण अपि वतिम् अतिदेशः गम्यते ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-२९/५४) तत् यथा ॒ एषः ब्रह्मदत्तः ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-३०/५४) अब्रह्मदत्तम् ब्रह्मदत्तः इति आह ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-३१/५४) ते मन्यामहे ब्रह्मदत्तवत् अयम् भवति इति ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-३२/५४) एवम् इह अपि अङितम् ङित् इति आह ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-३३/५४) ङिद्वत् इति गम्यते ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-३४/५४) अकितम् कित् इति आह ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-३५/५४) किद्वत् इति गम्यते ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-३६/५४) तद्वदतिदेशे अकिद्विधिप्रसङ्गः । तद्वदतिदेशे अकिद्विधिः अपि प्राप्नोति ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-३७/५४) सृजिदृशोः झलि अम् अकिति ॒ सिसृक्षति दिदृक्षते ॒ अकिल्लक्षणः अमागमः प्राप्नोति ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-३८/५४) सिद्धम् तु प्रसज्यप्रतिषेधात् ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-३९/५४) सिद्धम् एतत् ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-४०/५४) कथम् ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-४१/५४) प्रसज्य अयम् प्रतिषेधः क्रियते ॒ किति न इति ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-४२/५४) सर्वत्र सनन्तात् आत्मनेपदप्रतिषेधः ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-४३/५४) सर्वेषु पक्षेषु सनन्तात् आत्मनेपदम् प्राप्नोति ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-४४/५४) उच्चुकुटिषति निचुकुटिषति ॒ ङिति इति आत्मनेपदम् प्राप्नोति ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-४५/५४) तस्य प्रतिषेधः वक्तव्यः ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-४६/५४) सिद्धम् तु पूर्वस्य कार्यातिदेशात् ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-४७/५४) सिद्धम् एतत् ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-४८/५४) कथम् ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-४९/५४) पूर्वस्य यत् कार्यम् तत् अतिदिश्यते ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-५०/५४) किम् वक्तव्यम् एतत् ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-५१/५४) न हि ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-५२/५४) कथम् अनुच्यमानम् गंस्यते ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-५३/५४) सप्तम्यर्थे अपि वतिः भवति ।

(पा-१,२.१.१; अकि-१,१९१.२-१९२.१२; रो-२,३-७; भा-५४/५४) तत् यथा ॒ मथुरायाम् इव मथुरावत् पाटलिपुत्रे इव पाटलिपुत्रवत् एवम् ङिति इव ङिद्वत् ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-१/३५) अथ किमर्थम् पृथक् ङित्कितौ क्रियेते न सर्वम् कित् एव वा स्यात् ङित् एव वा ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-२/३५) पृथगनुबन्धत्वे प्रयोजनम् वचिस्वपियजादीनाम् असम्प्रसारणम् सार्वधातुकचङादिषु ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-३/३५) पृथगनुबन्धत्वे प्रयोजनम् वचिस्वपियजादीनाम् असम्प्रसारणम् सार्वधातुके चङादिषु च. सार्वधातुके प्रयोजनम् ॒ यथा इह भवति सुप्तः , सुप्तवान् इति एवम् स्वपितः , स्वपिथः ॒ अत्र अपि प्राप्नोति ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-४/३५) चङादिषु प्रयोजनम् ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-५/३५) के पुनः चङादयः ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-६/३५) चङङ्नजिङ्ङ्वनिबथङ्नङः ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-७/३५) चङ् ॒ यथा इह भवति शूनः , शूनवान् इति एवम् अशिश्वियत् ॒ अत्र अपि प्राप्नोति ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-८/३५) अङ् ॒ यथा इह भवति शूनः , उक्तः इति एवम् अश्वत् , अवोचत् ॒ अत्र अपि प्राप्नोति ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-९/३५) नजिङ् ॒ यथा इह भवति सुप्तः इति एवम् स्वप्नक् ॒ अत्र अपि प्राप्नोति ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-१०/३५) ङ्वनिप् ॒ यथा इह भवति इष्टः इति एवम् यज्वा ॒ अत्र अपि प्राप्नोति ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-११/३५) अथङ् ॒ यथा इह भवति उषितः इति एवम् आवसथः ॒ अत्र अपि प्राप्नोति ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-१२/३५) नङ् ॒ यथा इह भवति इष्टम् एवम् यज्ञः ॒ अत्र अपि प्राप्नोति ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-१३/३५) जाग्रः अगुणविधिः ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-१४/३५) जागर्तेः अगुणविधिः प्रयोजनम् ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-१५/३५) यथा इह भवति जागृतः , जागृथः इति अङिति इति पर्युदासः एवम् जागरितः, जागरितवान् इति अत्र अपि प्राप्नोति ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-१६/३५) अपरः आह ॒ जाग्रः गुणविधिः ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-१७/३५) जागर्तेः गुणविधिः प्रयोजनम् ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-१८/३५) यथा इह भवति जागरितः , जागरितवान् एवम् जागृतः जागृथः इति अत्र अपि प्राप्नोति ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-१९/३५) कुटादीनाम् इट्प्रतिषेधः ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-२०/३५) कुटादीनाम् इट्प्रतिषेधः प्रयोजनम् ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-२१/३५) यथा इह भवति लूत्वा पूत्वा श्र्युकः किति इति इट्प्रतिषेधः एवम् नुविता धुविता ॒ अत्र अपि प्राप्नोति ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-२२/३५) क्त्वायाम् कित्प्रतिषेधः च ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-२३/३५) क्त्वायाम् कित्प्रतिषेधः च प्रयोजनम् ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-२४/३५) किम् च ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-२५/३५) इट्प्रतिषेधः च ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-२६/३५) न इति आह ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-२७/३५) अदेशे अयम् चः पठितः ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-२८/३५) क्त्वायाम् च कित्प्रतिषेधः इति ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-२९/३५) यथा इह भवति देवित्वा सेवित्वा न क्त्वा सेट् इति प्रतिषेधः एवम् कुटित्वा पुटित्वा ॒ अत्र अपि प्राप्नोति ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-३०/३५) अथ वा देशे एव अयम् चः पठितः ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-३१/३५) क्त्वायाम् कित्प्रतिषेधः च इट्प्रतिषेधः च ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-३२/३५) इट्प्रतिषेधः ॒ यथा इह भवति लूत्वा पूत्वा श्र्युकः किति इति इट्प्रतिषेधः एवम् नुवित्वा धुवित्वा ॒ अत्र अपि प्राप्नोति ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-३३/३५) स्यात् एतत् प्रयोजनम् यदि अत्र नियोगतः आतिदेशिकेन ङित्त्वेन औपदेशिकम् कित्त्वम् बाध्येत ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-३४/३५) सति अपि तु ङित्त्वे कित् एव एषः ।

(पा-१,२.१.२; अकि-१,१९२.१३-१९३.१३; रो-२,७-१०; भा-३५/३५) तस्मात् नूत्वा धूत्वा इति एव भवितव्यम् ।

(पा-१,२.४.१; अकि-१,१९३.१५-२२; रो-२,१०-११; भा-१/१३) सार्वधातुकग्रहणम् किमर्थम् ।

(पा-१,२.४.१; अकि-१,१९३.१५-२२; रो-२,१०-११; भा-२/१३) अपित् इति इयति उच्यमाने आर्धधातुकस्य अपि अपितः ङित्त्वम् प्रसज्येत ॒ कर्ता हर्ता ।

(पा-१,२.४.१; अकि-१,१९३.१५-२२; रो-२,१०-११; भा-३/१३) न एषः दोषः ।

(पा-१,२.४.१; अकि-१,१९३.१५-२२; रो-२,१०-११; भा-४/१३) आचार्यप्रवृत्तिः ज्ञापयति न अनेन आर्धधातुकस्य ङित्त्वम् भवति इति यत् अयम् आर्धधातुकीयान् कान् चित् ङितः करोति ॒ चङङ्नजिङ्ङ्वनिबथङ्नङः ।

(पा-१,२.४.१; अकि-१,१९३.१५-२२; रो-२,१०-११; भा-५/१३) सार्वधातुके अपि एतत् ज्ञापकम् स्यात् ।

(पा-१,२.४.१; अकि-१,१९३.१५-२२; रो-२,१०-११; भा-६/१३) न इति आह ।

(पा-१,२.४.१; अकि-१,१९३.१५-२२; रो-२,१०-११; भा-७/१३) तुल्यजातीयस्य ज्ञापकम् ।

(पा-१,२.४.१; अकि-१,१९३.१५-२२; रो-२,१०-११; भा-८/१३) कः च तुल्यजातीयः ।

(पा-१,२.४.१; अकि-१,१९३.१५-२२; रो-२,१०-११; भा-९/१३) यथाजातीयकाः चङङ्नजिङ्ङ्वनिबथङ्नङः ।

(पा-१,२.४.१; अकि-१,१९३.१५-२२; रो-२,१०-११; भा-१०/१३) कथञ्जातीयकाः च एते ।

(पा-१,२.४.१; अकि-१,१९३.१५-२२; रो-२,१०-११; भा-११/१३) आर्धधातुकाः ।

(पा-१,२.४.१; अकि-१,१९३.१५-२२; रो-२,१०-११; भा-१२/१३) यदि एतत् अस्ति तुल्यजातीयस्य ज्ञापकम् इति चङङौ लुङ्विकरणानम् ज्ञापकौ स्याताम् नजिङ् वर्तमानकालानाम् ङ्वनिप् भूतकालानाम् अथङ्शब्दः औणादिकानाम् नङ्शब्दः घञर्थानाम् ।

(पा-१,२.४.१; अकि-१,१९३.१५-२२; रो-२,१०-११; भा-१३/१३) तस्मात् सार्वधातुकग्रहणम् कर्तव्यम् ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-१/१९) किम् पुनः अयम् पर्युदासः ॒ यत् अन्यत् पितः , आहोस्वित् प्रसज्य अयम् प्रतिषेधः ॒ पित् न इति ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-२/१९) कः च अत्र विशेषः ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-३/१९) अपित् ङित् इति चेत् शब्देकादेशप्रतिषेधः आदिवत्त्वात् ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-४/१९) अपित् ङित् इति चेत् शब्देकादेशे प्रतिषेधः वक्तव्यः ॒ च्यवन्ते प्लवन्ते ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-५/१९) किम् कारणम् ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-६/१९) आदिवत्त्वात् ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-७/१९) पिदपितोः एकादेशः अपितः आदिवत् स्यात् ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-८/१९) अस्ति अन्यत् पितः इति कृत्वा ङित्त्वम् प्राप्नोति ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-९/१९) अस्तु तर्हि प्रसज्यप्रतिषेधः ॒ पित् न इति ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-१०/१९) न पित् ङित् इति चेत् उत्तमैकादेशप्रतिषेधः ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-११/१९) पित् न इति चेत् उत्तमैकादेशे प्रतिषेधः प्राप्नोति ॒ तुदानि लिखानि ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-१२/१९) किम् कारणम् ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-१३/१९) आदिवत्त्वात् एव ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-१४/१९) पिदपितोः एकादेशः पितः आदिवत् स्यात् ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-१५/१९) तत्र पित् न इति प्रतिषेधः प्राप्नोति ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-१६/१९) यथा इच्छसि तथा अस्तु ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-१७/१९) ननु च उक्तम् उभयथा अपि दोषः इति ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-१८/१९) उभयथा अपि न दोषः ।

(पा-१,२.४.२; अकि-१,१९३.२३-१९४.७; रो-२,११-१२; भा-१९/१९) एकादेशः पूर्वविधौ स्थानिवत् इति स्थानिवद्भावात् व्यवधानम् ।

(पा-१,२.५; अकि-१,१९४.९-१६; रो-२,१२-१३; भा-१/१४) ऋदुपधेभ्यः लिटः कित्त्वम् गुणात् विप्रतिषेधेन ।

(पा-१,२.५; अकि-१,१९४.९-१६; रो-२,१२-१३; भा-२/१४) ऋदुपधेभ्यः लिटः कित्त्वम् गुणात् भवति विप्रतिषेधेन ॒ ववृते ववृधे ।

(पा-१,२.५; अकि-१,१९४.९-१६; रो-२,१२-१३; भा-३/१४) उक्तम् वा ।

(पा-१,२.५; अकि-१,१९४.९-१६; रो-२,१२-१३; भा-४/१४) किम् उक्तम् ।

(पा-१,२.५; अकि-१,१९४.९-१६; रो-२,१२-१३; भा-५/१४) न वा क्सस्य अनवकाशत्वात् अपवादः गुणस्य इति ।

(पा-१,२.५; अकि-१,१९४.९-१६; रो-२,१२-१३; भा-६/१४) विषमः उपन्यासः ।

(पा-१,२.५; अकि-१,१९४.९-१६; रो-२,१२-१३; भा-७/१४) युक्तम् तत्र यत् अनवकाशम् कित्करणम् गुणम् बाधते ।

(पा-१,२.५; अकि-१,१९४.९-१६; रो-२,१२-१३; भा-८/१४) इह पुनः उभयम् सावकाशम् ।

(पा-१,२.५; अकि-१,१९४.९-१६; रो-२,१२-१३; भा-९/१४) कित्करणस्य अवकाशः॒ ईजतुः ईजुः ।

(पा-१,२.५; अकि-१,१९४.९-१६; रो-२,१२-१३; भा-१०/१४) गुणस्य अवकाशः ॒ वर्तित्वा वर्धित्वा ।

(पा-१,२.५; अकि-१,१९४.९-१६; रो-२,१२-१३; भा-११/१४) इह उभयम् प्राप्नोति ॒ ववृते ववृधे ।

(पा-१,२.५; अकि-१,१९४.९-१६; रो-२,१२-१३; भा-१२/१४) परत्वात् गुणः प्राप्नोति ।

(पा-१,२.५; अकि-१,१९४.९-१६; रो-२,१२-१३; भा-१३/१४) इदम् तर्हि उक्तम् ॒ इष्टवाची परशब्दः ।

(पा-१,२.५; अकि-१,१९४.९-१६; रो-२,१२-१३; भा-१४/१४) विप्रतिषेधे परम् यत् इष्टम् तत् भवति इती ।

(पा-१,२.६; अकि-१,१९४.१८-१९५.२; रो-२,१४; भा-१/१३) किमर्थम् इदम् उच्यते ।

(पा-१,२.६; अकि-१,१९४.१८-१९५.२; रो-२,१४; भा-२/१३) इन्धेः सम्योगार्थम् वचनम् भवतेः पिदर्थम् ।

(पा-१,२.६; अकि-१,१९४.१८-१९५.२; रो-२,१४; भा-३/१३) अयम् योगः शक्यः अवक्तुम् ।

(पा-१,२.६; अकि-१,१९४.१८-१९५.२; रो-२,१४; भा-४/१३) कथम् ।

(पा-१,२.६; अकि-१,१९४.१८-१९५.२; रो-२,१४; भा-५/१३) इन्धेः छन्दोविषयत्वात् भुवः वुकः नित्यत्वात् ताभ्याम् किद्वचनानर्थक्यम् ।

(पा-१,२.६; अकि-१,१९४.१८-१९५.२; रो-२,१४; भा-६/१३) इन्धेः छन्दोविषयः लिट् ।

(पा-१,२.६; अकि-१,१९४.१८-१९५.२; रो-२,१४; भा-७/१३) न हि अन्तरेण छन्दः इन्धेः अनन्तरः लिट् लभ्यः ।

(पा-१,२.६; अकि-१,१९४.१८-१९५.२; रो-२,१४; भा-८/१३) आमा भाषायाम् भवितव्यम् ।

(पा-१,२.६; अकि-१,१९४.१८-१९५.२; रो-२,१४; भा-९/१३) भुवः वुकः नित्यत्वात् ।

(पा-१,२.६; अकि-१,१९४.१८-१९५.२; रो-२,१४; भा-१०/१३) भवतेः अपि नित्यः वुक् ।

(पा-१,२.६; अकि-१,१९४.१८-१९५.२; रो-२,१४; भा-११/१३) कृते अपि प्राप्नोति अकृते अपि ।

(पा-१,२.६; अकि-१,१९४.१८-१९५.२; रो-२,१४; भा-१२/१३) ताभ्याम् किद्वचनानर्थक्यम् ।

(पा-१,२.६; अकि-१,१९४.१८-१९५.२; रो-२,१४; भा-१३/१३) ताभ्याम् इन्धिभवितिभ्याम् किद्वचनम् अनर्थकम् ।

(पा-१,२.७; अकि-१,१९५.४-१२; रो-२,१५; भा-१/१६) किमर्थम् मृडादिभ्यः परस्य क्त्वः कित्त्वम् उच्यते ।

(पा-१,२.७; अकि-१,१९५.४-१२; रो-२,१५; भा-२/१६) कित् एव हि क्त्वा ।

(पा-१,२.७; अकि-१,१९५.४-१२; रो-२,१५; भा-३/१६) न क्त्वा सेट् इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम् ।

(पा-१,२.७; अकि-१,१९५.४-१२; रो-२,१५; भा-४/१६) यदि तर्हि मृडादिभ्यः परस्य क्त्वः कित्त्वम् उच्यते न अर्थः न क्त्वा सेट् इति अनेन कित्त्वप्रतिषेधेन ।

(पा-१,२.७; अकि-१,१९५.४-१२; रो-२,१५; भा-५/१६) इदम् नियमार्थम् भविष्यति ॒ मृडादिभ्यः एव परस्य क्त्वः कित्त्वम् भवति न अन्येभ्यः इति ।

(पा-१,२.७; अकि-१,१९५.४-१२; रो-२,१५; भा-६/१६) यदि नियमः क्रियते इह अपि तर्हि नियमान् न प्राप्नोति ॒ लूत्वा पूत्वा ।

(पा-१,२.७; अकि-१,१९५.४-१२; रो-२,१५; भा-७/१६) अत्र अपि अकित्त्वम् प्राप्नोति ।

(पा-१,२.७; अकि-१,१९५.४-१२; रो-२,१५; भा-८/१६) तुल्यजातीयस्य नियमः ।

(पा-१,२.७; अकि-१,१९५.४-१२; रो-२,१५; भा-९/१६) कः च तुल्यजातीयः ।

(पा-१,२.७; अकि-१,१९५.४-१२; रो-२,१५; भा-१०/१६) यथाजातीयकः मृडादिभ्यः परः क्त्वा ।

(पा-१,२.७; अकि-१,१९५.४-१२; रो-२,१५; भा-११/१६) कथञ्जातीयकः मृडादिभ्यः परः क्त्वा ।

(पा-१,२.७; अकि-१,१९५.४-१२; रो-२,१५; भा-१२/१६) सेट् ।

(पा-१,२.७; अकि-१,१९५.४-१२; रो-२,१५; भा-१३/१६) एवम् अपि अस्ति अत्र कः चित् विभाषितेट् ।

(पा-१,२.७; अकि-१,१९५.४-१२; रो-२,१५; भा-१४/१६) सः अनिटाम् नियामकः स्यात् ।

(पा-१,२.७; अकि-१,१९५.४-१२; रो-२,१५; भा-१५/१६) अस्तु तावत् ये सेटः तेषाम् ग्रहणम् नियमाऋथम् ।

(पा-१,२.७; अकि-१,१९५.४-१२; रो-२,१५; भा-१६/१६) यः इदानीम् विभाषितेट् तस्य ग्रहणम् विध्यर्थम् भविष्यति ।

(पा-१,२.८; अकि-१,१९५.१४; रो-२,१६; भा-१/१) स्वपिप्रच्छ्योः सनर्थम् ग्रहणम् कित् एव हि क्त्वा ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-१/५६) किमर्थम् इकः परस्य सनः कित्त्वम् उच्यते ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-२/५६) इकः कित्त्वम् गुणः मा भूत् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-३/५६) इकः कित्त्वम् उच्यते गुणः मा भूत् इति ॒ चिचीषति तुष्टूषति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-४/५६) न एतत् अस्ति प्रयोजनम् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-५/५६) दीर्घारम्भात् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-६/५६) दीर्घत्वम् अत्र बाधकम् भविष्यति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-७/५६) कृते भवेत् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-८/५६) कृते खलु दीर्घत्वे गुणः प्राप्नोति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-९/५६) अनर्थकम् तु ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-१०/५६) अनर्थकम् एवम् सति दीर्घत्वम् स्यात् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-११/५६) न अनर्थकम् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-१२/५६) ह्रस्वार्थम् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-१३/५६) ह्रस्वानाम् दीर्घवचनसामर्थ्यात् गुणः न भविष्यति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-१४/५६) भवेत् ह्रस्वानाम् दीर्घवचनसामर्थ्यात् गुणः न स्यात् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-१५/५६) दीर्घाणाम् तु प्रसज्यते ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-१६/५६) दीर्घाणाम् तु खलु गुणः प्राप्नोति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-१७/५६) ननु च दीर्घाणाम् अपि दीर्घवचनसामर्थ्यात् गुणः न भविष्यति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-१८/५६) न दीर्घाणाम् दीर्घाः प्राप्नुवन्ति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-१९/५६) किम् कारणम् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-२०/५६) न हि भुक्तवान् पुनः भुङ्क्ते न च कृतश्मश्रुः पुनः श्मश्रूनि कारयति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-२१/५६) ननु च पुनः प्रवृत्तिः अपि दृष्टा ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-२२/५६) भुक्तवान् च पुनः भुङ्क्ते कृतश्मश्रुः च पुनः श्मश्रूनि कारयति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-२३/५६) सामर्थ्यात् हि पुनः भाव्यम् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-२४/५६) सामर्थ्यात् तत्र पुनः प्रवृत्तिः भवति भोजनविशेषात् शिल्पिविशेषात् वा ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-२५/५६) दीर्घाणाम् पुनः दीर्घत्ववचने न किम् चित् प्रयोजनम् अस्ति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-२६/५६) अकृतकारि खलु अपि शास्त्रम् अग्निवत् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-२७/५६) तत् यथा अग्निः यद् अदग्धम् तत् दहति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-२८/५६) दीर्घाणाम् अपि दीर्घवचने एतत् प्रयोजनम् गुणः मा भूत् इति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-२९/५६) कृतकारि खलु अपि शास्त्रम् पर्जन्यवत् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-३०/५६) तत् यथा पर्जन्यः यावत् ऊनम् पूर्णम् च सर्वम् अभिवर्षति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-३१/५६) यथा एव तर्हि दीर्घवचनसामर्थ्यात् गुणः न भवति एवम् ऋ̄दित्त्वम् अपि न प्राप्नोति ॒ चिकीर्षति जिहीर्षति इति. ऋ̄दित्त्वम् दीर्घसंश्रयम् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-३२/५६) न अकृते दीर्घे ऋ̄दित्त्वम् प्राप्नोति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-३३/५६) किम् कारणम् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-३४/५६) ऋ̄तः इति उच्यते ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-३५/५६) भवेत् ह्रस्वानाम् न अकृते दीर्घे ऋ̄दित्त्वम् स्यात् दीर्घाणाम् तु खलु अकृते अपि दीर्घत्वे ऋ̄दित्त्वम् प्राप्नोति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-३६/५६) दीर्घाणाम् न अकृते दीर्घे ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-३७/५६) दीर्घाणाम् अपि न अकृते दीर्घे ऋ̄दित्त्वम् प्राप्नोति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-३८/५६) यदा दीर्घत्वेन गुणः बाधितः ततः उत्तरकालम् ऋ̄दित्त्वम् भवति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-३९/५६) णिलोपः तु प्रयोजनम् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-४०/५६) इदम् तर्हि प्रयोजनम् ॒ णिलोपः यथा स्यात् इति ॒ ज्ञीप्सति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-४१/५६) क्व अस्ताः क्व निपतिताः क्व कित्त्वम् क्व णिलोपः ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-४२/५६) कः वा अभिसम्बन्धः यत् सति कित्त्वे णिलोपः स्यात् असति न स्यात् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-४३/५६) एषः अभिसम्बन्धः यत् सति कित्त्वे सावकाशम् दीर्घत्वम् परत्वात् णिलोपः बाधते ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-४४/५६) असति पुनः कित्त्वे अनवकाशम् दीर्घत्वम् यथा एव गुणम् बाधते एवम् णिलोपम् अपि बाधेत ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-४५/५६) तत्र णिलोपस्य अवकाशः ॒ कारणा हारणा ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-४६/५६) दीर्घत्वस्य अवकाशः ॒ चिचीषति तुष्टूषति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-४७/५६) इह उभयम् प्राप्नोति ॒ ज्ञीप्सति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-४८/५६) परत्वात् णिलोपः ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-४९/५६) असति अपि कित्त्वे सावकाशम् दीर्घत्वम् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-५०/५६) कः अवकाशः ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-५१/५६) इस्भावः ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-५२/५६) निमित्सति प्रमित्सति ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-५३/५६) मीनातिमिनोत्योः दीर्घत्वे कृते मीग्रहणेन ग्रहणम् यथा स्यात् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-५४/५६) यथा एव तर्हि असति कित्त्वे सावकाशम् दीर्घत्वम् परत्वात् णिलोपः बाधते एवम् गुणः अपि बाधेत ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-५५/५६) तस्मात् कित्त्वम् वक्तव्यम् ।

(पा-१,२.९; अकि-१,१९५.१६-१९७.११; रो-२,१६-२१; भा-५६/५६) इकः कित्त्वम् गुणः मा भूत् दीर्घारम्भात् कृते भवेत् । अनर्थकम् तु ह्रस्वार्थम् दीर्घाणाम् तु प्रसज्यते ॥ सामर्थ्यात् हि पुनः भाव्यम् ऋ̄दित्त्वम् दीर्घसंश्रयम् दीर्घाणाम् न अकृते दीर्घे णिलोपः तु प्रयोजनम् ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-१/२२) अयुक्तः अयम् निर्देशः ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-२/२२) कथम् हि इकः नाम हल् अन्तः स्यात् अन्यस्य अन्यः ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-३/२२) कथम् तर्हि निर्देशः कर्तव्यः ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-४/२२) इग्वतः हलः इति ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-५/२२) यदि एवम् यियक्षति अत्र अपि प्राप्नोति ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-६/२२) एवम् तर्हि इगुपधात् हलन्तात् इति वक्ष्यामि ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-७/२२) एवम् अपि दम्भेः न प्राप्नोति ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-८/२२) सूत्रम् च भिद्यते ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-९/२२) यथान्यासम् एव अस्तु ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-१०/२२) ननु च उक्तम् अयुक्तः अयम् निर्देशः इति ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-११/२२) न अयुक्तः ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-१२/२२) अन्तशब्दः अयम् अस्ति एव अवयववाची ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-१३/२२) तत् यथा वस्त्रान्तः , वसनान्तः ॒ वस्त्रावयवः , वसनावयवः इति गम्यते ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-१४/२२) अस्ति सामीप्ये वर्तते ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-१५/२२) तत् यथा उदकान्तम् गतः इति ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-१६/२२) उदकसमीपम् गतः इति गम्यते ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-१७/२२) तत् यः सामीप्ये वर्तते तस्य इदम् ग्रहणम् ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-१८/२२) एवम् अपि दम्भेः न सिध्यति ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-१९/२२) यः अत्र इक्समीपे हल् न तस्मात् उत्तरः सन् ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-२०/२२) यस्मात् उत्तरः सन् न असौ इक्समीपे हल् ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-२१/२२) एवम् तर्हि दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् ।

(पा-१,२.१०; अकि-१,१९७.१३-२२; रो-२,२२-२३; भा-२२/२२) हल्जातिः निर्दिश्यते ॒ इकः उत्तरा या हल्जातिः इति ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-१/३६) कथम् इदम् विज्ञायते ॒ आत्मनेपदम् यौ लिङ्सिचौ इति आहोस्वित् आत्मनेपदेषु परतः यौ लिङ्सिचौ इति ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-२/३६) किम् च अतः. यदि विज्ञायते आत्मनेपदम् यौ लिङ्सिचौ इति लिङ् विशेषितः सिच् अविशेषितः ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-३/३६) अथ विज्ञायते आत्मनेपदेषु परतः यौ लिङ्सिचौ इति सिच् विशेषितः लिङ् अविशेषितः ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-४/३६) यथा इच्छसि तथा अस्तु ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-५/३६) अस्तु तावत् आत्मनेपदम् यौ लिङ्सिचौ इति ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-६/३६) ननु च उक्तम् ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-७/३६) लिङ् विशेषितः सिच् अविशेषितः इति ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-८/३६) सिच् च विशेषितः ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-९/३६) कथम् ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-१०/३६) आत्मनेपदम् सिच् न अस्ति इति कृत्वा आत्मनेपदपरे सिचि कार्यम् विज्ञास्यते ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-११/३६) अथ वा पुनः अस्तु आत्मनेपदेषु परतः यौ लिङ्सिचौ इति ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-१२/३६) ननु च उक्तम् सिच् विशेषितः लिङ् अविशेषितः इति ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-१३/३६) लिङ् च विशेषितः ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-१४/३६) कथम् ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-१५/३६) आत्मनेपदेषु परतः लिङ् न अस्ति इति कृत्वा आत्मनेपदे लिङि कार्यम् विज्ञास्यते ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-१६/३६) न एव वा पुनः अर्थः लिङ्विशेषणेन आत्मनेपदग्रहणेन ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-१७/३६) किम् कारणम् ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-१८/३६) झल् इति वर्तते ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-१९/३६) आत्मनेपदेषु च एव लिङ् झलादिः न परस्मैपदेषु ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-२०/३६) तत् एतत् सिज्विशेषणम् आत्मनेपदग्रहणम् ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-२१/३६) अथ सिज्विशेषणे आत्मनेपदग्रहणे सति किम् प्रयोजनम् ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-२२/३६) इह मा भूत् ॒ अयाक्षीत् , अवात्सीत् ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-२३/३६) न एतत् अस्ति ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-२४/३६) इकः इति वर्तते ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-२५/३६) एवम् अपि अनैषीत् , अचैषीत् ॒ अत्र अपि प्राप्नोति ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-२६/३६) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-२७/३६) हलन्तात् इति वर्तते ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-२८/३६) एवम् अपि अकोषीत् , अमोषीत् ॒ अत्र अपि प्राप्नोति ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-२९/३६) न एतत् अस्ति प्रयोजनम् ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-३०/३६) झल् इति वर्तते ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-३१/३६) एवम् अपि अभैत्सीत् , अच्छैत्सीत् ॒ अत्र अपि प्राप्नोति ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-३२/३६) न एतत् अस्ति ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-३३/३६) इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-३४/३६) इदम् तर्हि प्रयोजनम् ॒ इह मा भूत् ॒ अद्राक्षीत् , अस्राक्षीत् ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-३५/३६) किम् च स्यात् ।

(पा-१,२.११; अकि-१,१९७.२४-१९८.१६; रो-२,२४-२५; भा-३६/३६) अकिल्लक्षणः अमागमः न स्यात् ।

(पा-१,२.१७; अकि-१,१९८.१८-१९९.४; रो-२,२५-२७; भा-१/१३) इत् च कस्य तकारेत्त्वम् ।

(पा-१,२.१७; अकि-१,१९८.१८-१९९.४; रो-२,२५-२७; भा-२/१३) कस्य हेतोः इकारः तपरः क्रियते ।

(पा-१,२.१७; अकि-१,१९८.१८-१९९.४; रो-२,२५-२७; भा-३/१३) दीर्घः मा भूत् ।

(पा-१,२.१७; अकि-१,१९८.१८-१९९.४; रो-२,२५-२७; भा-४/१३) दीर्घः मा भूत् इति ।

(पा-१,२.१७; अकि-१,१९८.१८-१९९.४; रो-२,२५-२७; भा-५/१३) ऋते अपि सः ।

(पा-१,२.१७; अकि-१,१९८.१८-१९९.४; रो-२,२५-२७; भा-६/१३) अन्तरेण अपि आरम्भम् सिद्धः अत्र दीर्घः ॒ घुमास्थागापाजहाति इति ।

(पा-१,२.१७; अकि-१,१९८.१८-१९९.४; रो-२,२५-२७; भा-७/१३) अनन्तरे प्लुतः मा भूत् ।

(पा-१,२.१७; अकि-१,१९८.१८-१९९.४; रो-२,२५-२७; भा-८/१३) इदम् तर्हि प्रयोजनम् ॒ अनन्तरे प्लुतः मा भूत् इति ।

(पा-१,२.१७; अकि-१,१९८.१८-१९९.४; रो-२,२५-२७; भा-९/१३) कुतः नु खलु एतत् अनन्तरार्थे आरम्भे ह्रस्वः भविष्यति न पुनः प्लुतः इति ।

(पा-१,२.१७; अकि-१,१९८.१८-१९९.४; रो-२,२५-२७; भा-१०/१३) प्लुतः च विषये स्मृतः ।

(पा-१,२.१७; अकि-१,१९८.१८-१९९.४; रो-२,२५-२७; भा-११/१३) विषये खलु प्लुतः उच्यते ।

(पा-१,२.१७; अकि-१,१९८.१८-१९९.४; रो-२,२५-२७; भा-१२/१३) यदा च सः विषयः भवितव्यम् एव तदा प्लुतेन ।

(पा-१,२.१७; अकि-१,१९८.१८-१९९.४; रो-२,२५-२७; भा-१३/१३) इत् च कस्य तकारेत्त्वम् दीर्घः मा भूत् ऋते अपि सः । अनन्तरे प्लुतः मा भूत् प्लुतः च विषये स्मृतः

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-१/६८) न सेट् इति कृते अकित्त्वे ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-२/६८) न सेट् इति एव सिद्धम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-३/६८) न अर्थः क्त्वाग्रहणेन ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-४/६८) निष्ठायम् अपि तर्हि प्राप्नोति ॒ गुधितः गुधितवान् इति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-५/६८) निष्ठायाम् अवधारणात् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-६/६८) निष्ठायाम् अवधारणात् न भविष्यति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-७/६८) किम् अवधारणम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-८/६८) निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः इति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-९/६८) परोक्षायाम् तर्हि प्राप्नोति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-१०/६८) किम् च स्यात् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-११/६८) पपिव पपिम ॒ क्ङिति इति आकारलोपः न स्यात् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-१२/६८) मा भूत् एवम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-१३/६८) इटि इति एवम् भविष्यति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-१४/६८) इदम् तर्हि ॒ जग्मिव जघ्निव ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-१५/६८) क्ङिति इति उपधालोपः न स्यात् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-१६/६८) ज्ञापकात् न परोक्षायाम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-१७/६८) ज्ञापकात् परोक्षायाम् न भविष्यति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-१८/६८) किम् ज्ञापकम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-१९/६८) सनि झल्ग्रहणम् विदुः ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-२०/६८) यत् अयम् इकः झल् इति झल्ग्रहणम् करोति तत् ज्ञापयति आचार्यः औपदेशिकस्य कित्त्वस्य प्रतिषेधः न आतिदेशिकस्य इति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-२१/६८) कथम् कृत्वा ज्ञापकम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-२२/६८) झल्ग्रहणस्य एतत् प्रयोजनम् ॒ इह मा भूत् ॒ शिशयिषते इति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-२३/६८) यदि च अत्र आतिदेशिकस्य कित्त्वस्य प्रतिषेधः स्यात् झल्ग्रहणम् अनर्थकम् स्यात् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-२४/६८) अस्तु अत्र कित्त्वम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-२५/६८) न सेट् इति प्रतिषेधः भविष्यति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-२६/६८) पश्यति तु आचार्यः औपदेशिकस्य कित्त्वस्य प्रतिषेधः न आतिदेशिकस्य इति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-२७/६८) ततः झल्ग्रहणम् करोति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-२८/६८) न एतत् अस्ति प्रयोजनम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-२९/६८) उत्तरार्थम् एतत् स्यात् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-३०/६८) स्थाघ्वोः इत् च झलादौ यथा स्यात् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-३१/६८) इह मा भूत् ॒ उपास्थायिषाताम् उपास्थायिषत ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-३२/६८) इत्त्वम् कित्सन्नियोगेन ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-३३/६८) कित्सन्नियोगेन इत्त्वम् उच्यते ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-३४/६८) तेन असति कित्त्वे इत्त्वम् न भविष्यति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-३५/६८) रेण तुल्यम् सुधीवनि ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-३६/६८) तत् यथा सुधीवा सुपीवा ॒ ङीप्सन्नियोगेन रः उच्यमानः असति ङीपि न भवति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-३७/६८) अथ वा अस्तु अत्र इत्त्वम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-३८/६८) का रूपसिद्धिः ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-३९/६८) वृद्धौ कृतायाम् आयादेशः भविष्यति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-४०/६८) वस्वर्थम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-४१/६८) वस्वर्थम् तर्हि क्त्वाग्रहणम् कर्तव्यम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-४२/६८) वसौ हि औपदेशिकम् कित्त्वम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-४३/६८) किम् च स्यात् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-४४/६८) पपिवान् पपिमान् ॒ क्ङिति इति आकारलोपः न स्यात् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-४५/६८) मा भूत् एवम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-४६/६८) इटि इति एवम् भविष्यति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-४७/६८) इदम् तर्हि ॒ जग्मिवान् , जघ्निवान् ॒ क्ङिति इति उपधालोपः न स्यात् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-४८/६८) किदतीदेशात् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-४९/६८) अस्तु अत्र औपदेशिकस्य कित्त्वस्य प्रतिषेधः ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-५०/६८) आतिदेशिकस्य कित्त्वम् भविष्यति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-५१/६८) यत्र तर्हि तत् प्रतिषिध्यते ॒ अञ्जेः आजिवान् इति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-५२/६८) एवम् तर्हि छान्दस्ः क्वसुः लिट् च छन्दसि सार्वधातुकम् अपि भवति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-५३/६८) तत्र सार्वधातुकम् अपित् ङित् भवति इति ङिति उपधालोपः भविष्यति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-५४/६८) निगृहीतिः ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-५५/६८) निगृहीतिः प्रयोजनम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-५६/६८) इदम् तर्हि प्रयोजनम् ॒ इह मा भूत् ॒ निगृहीतिः , उपसन्निहितिः , निकुचितिः ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-५७/६८) तत् तर्हि क्त्वाग्रहणम् कर्तव्यम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-५८/६८) न कर्तव्यम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-५९/६८) क्त्वा च विग्रहात् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-६०/६८) उपरिष्टात् योगविभागः करिष्यते ॒ न सेट् निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-६१/६८) मृषः तितिक्षायाम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-६२/६८) उदुपधात् भावादिकर्मणोः अन्यतरस्याम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-६३/६८) ततः पूङः ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-६४/६८) पूङः निष्ठा सेट् न कित् भवति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-६५/६८) ततः क्त्वा ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-६६/६८) क्त्वा च सेट् न कित् भवति ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-६७/६८) पूङ् इति निवृत्तम् ।

(पा-१,२.१८; अकि-१,१९९.६-२००.२४; रो-२,२७-३१; भा-६८/६८) न सेट् इति कृते अकित्त्वे निष्ठायाम् अवधारणात् । ज्ञापकात् न परोक्षायाम् सनि झल्ग्रहणम् विदुः ॥ इत्त्वम् कित्सन्नियोगेन रेण तुल्यम् सुधीवनि । वस्वर्थम् किदतीदेशात् निगृहीतिः क्त्वा च विग्रहात् ॥

(पा-१,२.२१; अकि-१,२०१.२-४; रो-२,३१; भा-१/४) इह कस्मात् न भवति ।

(पा-१,२.२१; अकि-१,२०१.२-४; रो-२,३१; भा-२/४) गुधितः गुधितवान् इति ।

(पा-१,२.२१; अकि-१,२०१.२-४; रो-२,३१; भा-३/४) उदुपधात् शपः ।

(पा-१,२.२१; अकि-१,२०१.२-४; रो-२,३१; भा-४/४) शब्विकरणेभ्यः इष्यते ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-१/२१) पूङः क्त्वानिष्ठयोः इटि वाप्रसङ्गः सेट्प्रकरणात् ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-२/२१) पूङः क्त्वानिष्ठयोः इटि विभाषा प्राप्नोति ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-३/२१) किम् कारणम् ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-४/२१) सेट्प्रकरणात् ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-५/२१) सेट् इति वर्तते ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-६/२१) न वा सेट्त्वस्य अकिदाश्रयत्वात् अनिटि वा कित्त्वम् ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-७/२१) न वा एषः दोषः ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-८/२१) किम् कारणम् ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-९/२१) सेट्त्वस्य अकिदाश्रयत्वात् ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-१०/२१) अकिदाश्रयम् सेट्त्वम् ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-११/२१) यदा अकित्त्वम् तदा इटा भवितव्यम् ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-१२/२१) सेट्त्वस्य अकिदाश्रयत्वात् अनिटि एव विभाषा कित्त्वम् भविष्यति ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-१३/२१) इड्विधौ पूङः ग्रहणम् क्रियते ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-१४/२१) तेन वचनात् इट् सेट्प्रकरणात् च इटि एव विभाषा कित्त्वम् प्राप्नोति ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-१५/२१) इड्विधौ हि अग्रहणम् ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-१६/२१) इड्विधौ हि पूङः ग्रहणम् न कर्तव्यम् भवति ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-१७/२१) भारद्वाजीयाः पठन्ति ॒ नित्यम् अकित्त्वम् इडाद्योः । क्त्वाग्रहणम् उत्तरार्थम् । नित्यम् अकित्त्वम् इडाद्योः सिद्धम् ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-१८/२१) कथम्. विभाषामध्ये अयम् योगः क्रियते ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-१९/२१) विभाषामध्ये च ये विधयः ते नित्याः भवन्ति ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-२०/२१) किमर्थम् तर्हि क्त्वाग्रहणम् ।

(पा-१,२.२२; अकि-१,२०१.६-१९; रो-२,३१-३२; भा-२१/२१) क्त्वाग्रहणम् उत्तरार्थम् । उत्तरार्थम् क्त्वाग्रहणम् क्रियते ॒ नोपधात् थपान्तात् वा वञ्चिलुञ्च्यृतः च इति ।

(पा-१,२.२५; अकि-१,२०१.२१; रो-२,३३; भा-१/२) काश्यपग्रहणम् किमर्थम्. काश्यपग्रहणम् पूजार्थम् ।

(पा-१,२.२५; अकि-१,२०१.२१; रो-२,३३; भा-२/२) वा इति एव हि वर्तते ।

(पा-१,२.२६; अकि-१,२०२.२-७; रो-२,३३; भा-१/१३) किम् इदम् रलः क्त्वासनोः कित्त्वम् विधीयते आहोस्वित् प्रतिषिध्यते ।

(पा-१,२.२६; अकि-१,२०२.२-७; रो-२,३३; भा-२/१३) किम् च अतः ।

(पा-१,२.२६; अकि-१,२०२.२-७; रो-२,३३; भा-३/१३) यदि विधीयते क्त्वाग्रहणम् अनर्थकम् ।

(पा-१,२.२६; अकि-१,२०२.२-७; रो-२,३३; भा-४/१३) कित् एव हि क्त्वा ।

(पा-१,२.२६; अकि-१,२०२.२-७; रो-२,३३; भा-५/१३) अथ प्रतिषिध्यते सन्ग्रहणम् अनर्थकम् ।

(पा-१,२.२६; अकि-१,२०२.२-७; रो-२,३३; भा-६/१३) अकित् एव हि सन् ।

(पा-१,२.२६; अकि-१,२०२.२-७; रो-२,३३; भा-७/१३) अतः उत्तरम् पठति ॒ रलः क्त्वासनोः कित्त्वम् ।

(पा-१,२.२६; अकि-१,२०२.२-७; रो-२,३३; भा-८/१३) रलः क्त्वासनोः कित्त्वम् विधीयते ।

(पा-१,२.२६; अकि-१,२०२.२-७; रो-२,३३; भा-९/१३) ननु च उक्तम् ॒ क्त्वाग्रहणम् अनर्थकम् ।

(पा-१,२.२६; अकि-१,२०२.२-७; रो-२,३३; भा-१०/१३) कित् एव हि क्त्वा इति ।

(पा-१,२.२६; अकि-१,२०२.२-७; रो-२,३३; भा-११/१३) न अनर्थकम् ।

(पा-१,२.२६; अकि-१,२०२.२-७; रो-२,३३; भा-१२/१३) न क्त्वा सेट् इति प्रतिषेधः प्राप्नोति ।

(पा-१,२.२६; अकि-१,२०२.२-७; रो-२,३३; भा-१३/१३) तद्बाधनार्थम् ।

(पा-१,२.२७.१; अकि-१,२०२.९-१५; रो-२,३४; भा-१/१४) अयुक्तः अयम् निर्देशः ।

(पा-१,२.२७.१; अकि-१,२०२.९-१५; रो-२,३४; भा-२/१४) ऊ इति अनेन कालः प्रतिनिर्दिश्यते ऊ इति अयम् च वर्णः ।

(पा-१,२.२७.१; अकि-१,२०२.९-१५; रो-२,३४; भा-३/१४) तत्र अयुक्तम् वर्णस्य कालेन सह सामनाधिकरण्यम् ।

(पा-१,२.२७.१; अकि-१,२०२.९-१५; रो-२,३४; भा-४/१४) कथम् तर्हि निर्देशः कर्तव्यः ।

(पा-१,२.२७.१; अकि-१,२०२.९-१५; रो-२,३४; भा-५/१४) ऊकालकालस्य इति ।

(पा-१,२.२७.१; अकि-१,२०२.९-१५; रो-२,३४; भा-६/१४) किम् इदम् ऊकालकालस्य इति ।

(पा-१,२.२७.१; अकि-१,२०२.९-१५; रो-२,३४; भा-७/१४) ऊ इति एतस्य कालः ऊकालः ।

(पा-१,२.२७.१; अकि-१,२०२.९-१५; रो-२,३४; भा-८/१४) ऊकालः कालः अस्य ऊकालकालः इति ।

(पा-१,२.२७.१; अकि-१,२०२.९-१५; रो-२,३४; भा-९/१४) सः तर्हि तथा निर्देशः कर्तव्यः ।

(पा-१,२.२७.१; अकि-१,२०२.९-१५; रो-२,३४; भा-१०/१४) न कर्तव्यः ।

(पा-१,२.२७.१; अकि-१,२०२.९-१५; रो-२,३४; भा-११/१४) उत्तरपदलोपः अत्र द्रष्टव्यः ।

(पा-१,२.२७.१; अकि-१,२०२.९-१५; रो-२,३४; भा-१२/१४) तत् यथा उष्ट्रमुखम् मुखम् अस्य उष्ट्रमुखः , खरमुखः एवम् ऊकालकालः ऊकालः इति ।

(पा-१,२.२७.१; अकि-१,२०२.९-१५; रो-२,३४; भा-१३/१४) अथ वा साहचर्यात् ताच्छब्द्यम् भविष्यति ।

(पा-१,२.२७.१; अकि-१,२०२.९-१५; रो-२,३४; भा-१४/१४) कालसहचरितः वर्णः अपि कालः एव ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-१/९१) ह्रस्वादिषु समसङ्ख्याप्रसिद्धिः निर्देशवैषम्यात् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-२/९१) ह्रस्वादिषु समसङ्ख्यत्वस्य अप्रसिद्धिः ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-३/९१) किम् कारणम् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-४/९१) निर्देशवैषम्यात् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-५/९१) तिस्रः सञ्ज्ञाः एका सञ्ज्ञी ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-६/९१) वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-७/९१) सिद्धम् तु समस्ङ्ख्यत्वात् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-८/९१) सिद्धम् एतत् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-९/९१) कथम् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-१०/९१) समसङ्ख्यत्वात् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-११/९१) कथम् समसङ्ख्यत्वम् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-१२/९१) त्रयाणाम् हि विकारनिर्देशः ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-१३/९१) त्रयाणाम् अयम् प्रश्लिष्टनिर्देशः ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-१४/९१) कथम् पुनः ज्ञायते त्रयाणाम् अयम् प्रश्लिष्टनिर्देशः इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-१५/९१) तिसृणाम् सञ्ज्ञानाम् करणसामर्थ्यात् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-१६/९१) यदि अपि तावत् तिसृणाम् सञ्ज्ञानाम् करणसामर्थ्यात् ज्ञायते त्रयाणाम् अयम् प्रश्लिष्टनिर्देशः इति कुतः तु एतत् ॒ एतेन आनुपूर्व्येण सन्निविष्टानाम् सञ्ज्ञाः भविष्यन्ति इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-१७/९१) आदौ मात्रिकः ततः द्विमात्रः ततः त्रिमात्रः इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-१८/९१) न पुनः मात्रिकः मध्ये वा अन्ते वा स्यात् तथा द्विमात्रः आदौ वा अन्ते वा स्यात् तथा त्रिमात्रः आदौ वा मध्ये वा स्यात् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-१९/९१) अयम् तावत् त्रिमात्रः अशक्यः आदौ वा मध्ये वा कर्तुम् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-२०/९१) कुतः ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-२१/९१) प्लुताश्रयः हि प्रकृतिभावः प्रसज्येत ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-२२/९१) मात्रिकद्विमात्रिकयोः अपि घ्यन्तम् पूर्वम् निपतति इति मात्रिकस्य पूर्वनिपातः भविष्यति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-२३/९१) यत् तावत् उच्यते अयम् तावत् त्रिमात्रः अशक्यः आदौ वा मध्ये वा कर्तुम् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-२४/९१) प्लुताश्रयः हि प्रकृतिभावः प्रसज्येत इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-२५/९१) प्लुताश्रयः प्रकृतिभावः प्लुतसञ्ज्ञा च अनेन एव ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-२६/९१) यदि च त्रिमात्रः आदौ वा मध्ये वा स्यात् प्लुतसञ्ज्ञा एव अस्य न स्यात् कुतः प्रत्कृतिभावः ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-२७/९१) यत् अपि उच्यते मात्रिकद्विमात्रिकयोः अपि घ्यन्तम् पूर्वम् निपतति इति मात्रिकस्य पूर्वनिपातः भविष्यति इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-२८/९१) ह्रस्वाश्रया हि घिसञ्ज्ञा ह्रस्वसञ्ज्ञा च अनेन एव. यदि च मात्रिकः मध्ये वा अन्ते वा स्यात् ह्रस्वसञ्ज्ञा एव अस्य न स्यात् कुतः घिसञ्ज्ञा कुतः पूर्वनिपातः ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-२९/९१) एवम् एषा व्यवस्था न प्रकल्पते ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-३०/९१) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न मात्रिकः अन्ते भवति इति यत् अयम् विभाषा पृष्टप्रतिवचने हेः इति मात्रिकस्य प्लुतम् शास्ति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-३१/९१) कथम् कृत्वा ज्ञापकम् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-३२/९१) यः अन्ते सः प्लुतसञ्ज्ञकः ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-३३/९१) यदि च मात्रिकः अन्ते स्यात् प्लुतसञ्ज्ञा अस्य स्यात्. तत्र मात्राकालस्य मात्राकालवचनम् अनर्थकम् स्यात् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-३४/९१) मध्ये तर्हि स्यात् इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-३५/९१) अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न मात्रिकः मध्ये भवति इति यत् अयम् अतः दीर्घः यञि सुपि च इत् दीर्घत्वम् शास्ति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-३६/९१) कथम् कृत्वा ज्ञापकम् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-३७/९१) यः मध्ये सः दीर्घसञ्ज्ञकः ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-३८/९१) यदि च मात्रिकः मध्ये स्यात् दीर्घसञ्ज्ञा अस्य स्यात् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-३९/९१) तत्र मात्राकालस्य मात्राकालवचनम् अनर्थकम् स्यात् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-४०/९१) द्विमात्रः तर्हि अन्ते स्यात् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-४१/९१) अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न द्विमात्रः अन्ते भवति इति यत् अयम् ओम् अभ्यादाने इति द्विमात्रिकस्य प्लुतम् शास्ति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-४२/९१) कथम् कृत्वा ज्ञापकम् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-४३/९१) यः अन्ते सः प्लुतसञ्ज्ञकः ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-४४/९१) यदि च द्विमात्रिकः अन्ते स्यात् प्लुतसञ्ज्ञा अस्य स्यात् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-४५/९१) तत्र द्विमात्रकालस्य द्विमात्रकालवचनम् अनर्थकम् स्यात् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-४६/९१) मात्रिकेण च अस्य पूर्वनिपातः बाधितः इति कृत्वा क्व अन्यत्र उत्सहते भवितुम् अन्यत् अतः मध्यात् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-४७/९१) एवम् एषा व्यवस्था प्रक्ल्̥प्ता ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-४८/९१) भवेत् व्यवस्था प्रक्ल्̥प्ता ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-४९/९१) दीर्घप्लुतयोः तु पूर्वसञ्ज्ञाप्रसङ्गः । दीर्घप्लुतयोः अपि पूर्वसञ्ज्ञा प्राप्नोति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-५०/९१) का ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-५१/९१) ह्रस्वसञ्ज्ञा ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-५२/९१) किम् कारणम् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-५३/९१) अण् सवर्णान् गृह्णाति इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-५४/९१) सिद्धम् तु तपरनिर्देशात् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-५५/९१) सिद्धम् एतत् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-५६/९१) कथम् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-५७/९१) तपरनिर्देशः कर्तव्यः ॒ उदूकालः इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-५८/९१) यदि एवम् द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपसङ्ख्यानम् कालभेदात् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-५९/९१) द्रुतादिषु च उक्तम् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-६०/९१) किम् उत्क्तम् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-६१/९१) सिद्धम् तु ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-६२/९१) अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात् वृत्तयः विशिष्यन्ते इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-६३/९१) सः तर्हि तपरनिर्देशः कर्तव्यः ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-६४/९१) न कर्तव्यः ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-६५/९१) इह कालग्रहणम् क्रियते ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-६६/९१) यावत् च तपरकरणम् तावत् कालग्रहणम् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-६७/९१) प्रत्येकम् च कालशब्दः परिसमाप्यते ॒ उकालः ऊकालः ऊ३कालः इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-६८/९१) अथ वा एकसञ्ज्ञाधिकारे अयम् योगः कर्तव्यः ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-६९/९१) तत्र एका सञ्ज्ञा भवति या परा अनवकाशा च इति एवम् हि दीर्घप्लुतयोः पूर्वसञ्ज्ञा न भविष्यति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-७०/९१) अथ वा स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा इति अयम् योगः प्रत्याख्यायते ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-७१/९१) तत्र यत् एतत् अशब्दसञ्ज्ञा इति एतत् यया विभक्त्या निर्दिश्यमानम् अर्थवत् भवति तया निर्दिष्टम् अनुवर्तिष्यते ॒ अणुदित् सवर्णस्य च अप्रत्ययः अशब्दसञ्ज्ञायाम् इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-७२/९१) अथ वा ह्रस्वसञ्ज्ञावचनसामर्थ्यात् दीर्घप्लुतयोः पूर्वसञ्ज्ञा न भविष्यति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-७३/९१) ननु च इदम् प्रयोजनम् स्यात् ॒ सञ्ज्ञया विधाने नियमम् वक्ष्यामि इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-७४/९१) ह्रस्वसञ्ज्ञया यत् उच्यते तत् अचः स्थाने यथा स्यात् इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-७५/९१) स्यात् एतत् प्रयोजनम् यदि किञ्चित्कराणि ह्रस्वशासनानि स्युः ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-७६/९१) यतः तु खलु यावत् अज्ग्रहणम् तावत् ह्रस्वग्रहणम् अतः अकिञ्चित्कराणि ह्रस्वशासनानि ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-७७/९१) इदम् तर्हि प्रयोजनम् ॒ एचः इक् ह्रस्वादेशे इति वक्ष्यामि इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-७८/९१) अनुच्यमाने हि एतस्मिन् ह्रस्वप्रदेशेषु एचः इक् भवति इति वक्तव्यम् स्यात् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-७९/९१) ह्रस्वः नपुंसके प्रातिपदिकस्य एचः इक् भवति इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-८०/९१) णौ चङि उपधायाः ह्रस्वः एचः इक् भवति इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-८१/९१) ह्रस्वः हलादिः शेषः एचः इक् भवति इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-८२/९१) सञ्ज्ञा च नाम यतः न लघीयः ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-८३/९१) कुतः एतत् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-८४/९१) लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-८५/९१) लघीयः च त्रिः ह्रस्वप्रदेशेषु एचः इक् भवति इति न पुनः सञ्ज्ञाकरणम् ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-८६/९१) त्रिः ह्रस्वप्रदेशेषु एचः इक् भवति इति षट् ग्रहणानि ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-८७/९१) सञ्ज्ञाकरणे पुनः अष्टौ ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-८८/९१) ह्रस्वसञ्ज्ञा वक्तव्या ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-८९/९१) त्रिः ह्रस्वप्रदेशेषु ह्रस्वग्रहणम् कर्तव्यम् ह्रस्वः ह्रस्वः ह्रस्वः इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-९०/९१) एचः इक् ह्रस्वादेशे इति ।

(पा-१,२.२७.२; अकि-१,२०२.१६-२०४.२४; रो-२,३४-४०; भा-९१/९१) सः अयम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तस्य एतत् प्रयोजनम् दीर्घप्लुतयोः तु पूर्वसञ्ज्ञा मा भूत् इति ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-१/३९) किम् अयम् अलोन्त्यशेषः आहोस्वित् अलोन्त्यापवादः ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-२/३९) कथम् च अयम् तच्छेषः स्यात् कथम् वा तदपवादः ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-३/३९) यदि एकम् वाक्यम् तत् च इदम् च ॒ अलः अन्त्यस्य विधयः भवन्ति अचः ह्रस्वदीर्घप्लुताः अन्त्यस्य इति ततः अयम् तच्छेशः ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-४/३९) अथ नाना वाक्यम् ॒ अलः अन्त्यस्य विधयः भवन्ति , अचः ह्रस्वदीर्घप्लुताः अन्त्यस्य अनन्त्यस्य च इति ततः अयम् तदपवादः ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-५/३९) कः च अत्र विशेषः ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-६/३९) ह्रस्वादिविधिः अलः अन्त्यस्य इति चेत् वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु अज्ग्रहणम् ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-७/३९) ह्रस्वादिविधिः अलः अन्त्यस्य इति चेत् वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु अज्ग्रहणम् कर्तव्यम् ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-८/३९) वचिप्रच्छ्योः दीर्घः अचः इति वक्तव्यम् ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-९/३९) अनन्त्यत्वात् न प्राप्नोति ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-१०/३९) शमादीनाम् दीर्घः अचः इति वक्तव्यम् ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-११/३९) अनन्त्यत्वात् न प्राप्नोति ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-१२/३९) हनिगम्योः दीर्घः अचः इति वक्तव्यम् ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-१३/३९) अनन्त्यत्वात् न प्राप्नोति ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-१४/३९) अस्तु तर्हि तदपवादः ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-१५/३९) अचः चेत् नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अनन्त्यप्रतिषेधः ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-१६/३९) अचः चेत् नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अनन्त्यप्रतिषेधः वक्तव्यः ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-१७/३९) ह्रस्वः नपुंसके प्रातिपदिकस्य ॒ यथा इह भवति ॒ रै ॒ अतिरि नौ ॒ अतिनौ एवम् सुवाक् ब्राह्मणकुलम् इति अत्र अपि प्राप्नोति ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-१८/३९) अकृत्सार्वधातुकयोः दीर्घः ॒ यथा इह भवति ॒ चीयते स्तूयते एवम् भिद्यते अत्र अपि प्राप्नोति ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-१९/३९) नामि दीर्घः ॒ यथा इह भवति ॒ अग्नीनाम् , वायूनाम् एवम् अत्र अपि प्राप्नोति ॒ षण्णाम् ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-२०/३९) न एषः दोषः ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-२१/३९) नोपध्यायाः इति एतत् नियमार्थम् भविष्यति ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-२२/३९) प्रकृतस्य एषः नियमः स्यात्. किम् च प्रकृतम् ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-२३/३९) नामि इति ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-२४/३९) तेन भवेत् इह नियमात् न स्यात् ॒ षण्णाम् ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-२५/३९) अन्यते तन्यते अत्र अपि प्राप्नोति ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-२६/३९) अथ अपि एवम् नियमः स्यात् ॒ नोपधायाः नामि एव इति एवम् अपि भवेत् इह नियमात् न स्यात् ॒ अन्यते तन्यते ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-२७/३९) षण्णाम् इति अत्र प्राप्नोति ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-२८/३९) अथ अपि उभयतः नियमः स्यात् ॒ नोपधायाः एव नामि नामि एव नोपदध्यायाः इति एवम् अपि भिद्यते सुवाक् ब्राह्मणकुलम् इत अत्र अपि प्राप्नोति ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-२९/३९) एवम् तर्हि ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयात् अचः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-३०/३९) किम् कृतम् भवति ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-३१/३९) द्वितीया षष्ठी प्रादुः भाव्यते ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-३२/३९) तत्र कामचारः ॒ गृह्यमाणेन वा अचम् विशेषयितुम् अचा वा गृह्यमाणः ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-३३/३९) यावता कामचारः इह तावत् वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु गृह्यमाणेन अचम् विशेषयिष्यामः ॒ एषाम् अचः दीर्घः भवति इति ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-३४/३९) इह इदानीम् नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अचा गृह्यमाणम् विशेषयिष्यामः ॒ नपुंसकस्य ह्रस्वः भवति अचः ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-३५/३९) अजन्तस्य इति ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-३६/३९) अकृत्सार्वधातुकयोः दीर्घः अचः ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-३७/३९) अजन्तस्य इति ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-३८/३९) नामि दीर्घः भवति अचः ।

(पा-१,२.२८.१; अकि-१,२०४.२६-२०६.२; रो-२,४०-४१; भा-३९/३९) अजन्तस्य इति ।

(पा-१,२.२८.२; अकि-१,२०६.३-१२; रो-२,४१-४३; भा-१/१५) इह कस्मात् न भवति ॒ द्यौः , पन्थाः , सः इति ।

(पा-१,२.२८.२; अकि-१,२०६.३-१२; रो-२,४१-४३; भा-२/१५) सञ्ज्ञया विधाने नियमः ।

(पा-१,२.२८.२; अकि-१,२०६.३-१२; रो-२,४१-४३; भा-३/१५) सञ्ज्ञया ये विधीयन्ते तेषु नियमः ।

(पा-१,२.२८.२; अकि-१,२०६.३-१२; रो-२,४१-४३; भा-४/१५) किम् वक्तव्यम् एतत् ।

(पा-१,२.२८.२; अकि-१,२०६.३-१२; रो-२,४१-४३; भा-५/१५) न हि ।

(पा-१,२.२८.२; अकि-१,२०६.३-१२; रो-२,४१-४३; भा-६/१५) कथम् अनुच्यमानम् गंस्यते ।

(पा-१,२.२८.२; अकि-१,२०६.३-१२; रो-२,४१-४३; भा-७/१५) अच् इति वर्तते ।

(पा-१,२.२८.२; अकि-१,२०६.३-१२; रो-२,४१-४३; भा-८/१५) तत्र एवम् अभिसम्बन्धः करिष्यते ॒ अचः अच् भवति ह्रस्वः दीर्घः प्लुतः इति एवम् भाव्यमनः इति ।

(पा-१,२.२८.२; अकि-१,२०६.३-१२; रो-२,४१-४३; भा-९/१५) अथ पूर्वस्मिन् योगे अज्ग्रहणे सति किम् प्रयोजनम् ।

(पा-१,२.२८.२; अकि-१,२०६.३-१२; रो-२,४१-४३; भा-१०/१५) अज्ग्रहणम् संयोगाच्समुदायनिवृत्त्यर्थम् ।

(पा-१,२.२८.२; अकि-१,२०६.३-१२; रो-२,४१-४३; भा-११/१५) अज्ग्रहणम् क्रियते संयोग्निवृत्त्यर्थम् अच्समुदायनिवृत्त्यर्थम् च ।

(पा-१,२.२८.२; अकि-१,२०६.३-१२; रो-२,४१-४३; भा-१२/१५) संयोग्निवृत्त्यर्थम् तावत् ॒ प्रतक्ष्य प्ररक्ष्य ।

(पा-१,२.२८.२; अकि-१,२०६.३-१२; रो-२,४१-४३; भा-१३/१५) ह्रस्वस्य पिति कृति तुक् इति तुक् मा भूत् इति ।

(पा-१,२.२८.२; अकि-१,२०६.३-१२; रो-२,४१-४३; भा-१४/१५) अच्समुदायनिवृत्त्यर्थम् ॒ तितौच्छत्रम् , तितौच्छाया ।

(पा-१,२.२८.२; अकि-१,२०६.३-१२; रो-२,४१-४३; भा-१५/१५) दीर्घात् पदान्तात् वा इति विभाषा मा भूत् ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-१/२३) किम् षष्ठीनिर्दिष्टम् अज्ग्रहणम् अनुवर्तते उताहो न ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-२/२३) किम् च अतः ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-३/२३) यदि अनुवर्तते हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् इति परिभाषा न प्रकल्पते ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-४/२३) कथम् हलः नाम स्वरप्राप्तिः स्यात् ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-५/२३) एवम् तर्हि निवृत्तम् ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-६/२३) बहूनि एतस्याः परिभाषायाः प्रयोजनानि ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-७/२३) अथ प्रथमानिर्दिष्टम् अज्ग्रहणम् अनुवर्तते उताहो न ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-८/२३) किम् च अर्थः अनुवृत्त्या ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-९/२३) बाढम् अर्थः यदि एते व्यञ्जनस्य अपि गुणाः लक्ष्यन्ते ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-१०/२३) ननु च प्रत्यक्षम् उपलभ्यन्ते ॒ इषे त्वा ऊर्जे त्वा ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-११/२३) न एते व्यञ्जनस्य गुणाः ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-१२/२३) अचः एते गुणाः ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-१३/२३) तत्सामीप्यात् तु व्यञ्जनम् अपि तद्गुणम् उपलभ्यते ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-१४/२३) तत् यथा ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-१५/२३) द्वयोः रक्तयोः वस्त्रयोः मध्ये शुक्लम् वस्त्रम् तद्गुणम् उपलभ्यते बदरपिटके रिक्तकः लोहकंसः तद्गुणः उपलभ्यते ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-१६/२३) कुतः नु खलु एतत् अचः एते गुणाः ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-१७/२३) तत्सामीप्यात् तु व्यञ्जनम् अपि तद्गुणम् उपलभ्यते इति ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-१८/२३) न पुनः व्यञ्जनस्य एते गुणाः स्युः ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-१९/२३) तत्सामीप्यात् तु अच् अपि तद्गुणः उपलभ्यते इति ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-२०/२३) अन्तरेण अपि व्यञ्जनम् अचः एव एते गुणाः लक्ष्यन्ते ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-२१/२३) न पुनः अन्तरेण अचम् व्यञ्जनस्य उच्चारणम् अपि भवति ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-२२/२३) अन्वर्थम् खलु अपि निर्वचनम् ॒ स्वयम् राजन्ते स्वराः ।

(पा-१,२.२९-३०.१; अकि-१,२०६.१४-२५; रो-२,४३-४५; भा-२३/२३) अन्वक् भवति व्यञ्जनम् इति ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-१/२८) उच्चनीचस्य अनवस्थितत्वात् सञ्ज्ञाप्रसिद्धिः ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-२/२८) इदम् उच्चनीचम् अनवस्थितपदर्थकम् ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-३/२८) तत् एव हि कम् चित् प्रति उच्चैः भवति कम् चित् प्रति नीचैः ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-४/२८) एवम् कम् चित् कः चित् अधीयानम् आह ॒ किम् उच्चैः रोरूयसे ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-५/२८) अथ नीचैः वर्तताम् इति ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-६/२८) तम् एव तथा अधीयानम् अपरः आह ॒ किम् अन्तर्दन्तकेन अधीषे ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-७/२८) उच्चैः वर्तताम् इति ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-८/२८) एवम् उच्चनीचम् अनवस्थितपदर्थकम् ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-९/२८) तस्य अनवस्थानात् सञ्ज्ञायाः अप्रसिद्धिः ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-१०/२८) एवम् तर्हि लक्षणम् करिष्यते ॒ आयामः दारुण्यम् अणुता खस्य इति उच्चैःकराणि शब्दस्य ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-११/२८) आयामः गात्राणाम् निग्रहः ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-१२/२८) दारुण्यम् स्वरस्य दारुणता रूक्षता ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-१३/२८) अणुता खस्य कण्ठस्य संवृतता ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-१४/२८) उच्चैःकराणि शब्दस्य ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-१५/२८) अथ नीचैःकराणि शब्दस्य ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-१६/२८) अन्ववसर्गः मार्दवम् उरुता खस्य इति नीचैःकराणि शब्दस्य ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-१७/२८) अन्ववसर्गः गात्राणाम् शिथिलता ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-१८/२८) मार्दवम् स्वरस्य मृदुता स्निग्धता ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-१९/२८) उरुता खस्य महत्ता कण्ठस्य ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-२०/२८) इति नीचैःकराणि शब्दस्य ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-२१/२८) एतत् अपि अनैकान्तिकम् ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-२२/२८) यत् अल्पप्राणस्य सर्वोच्चैः तत् महाप्राणस्य सर्वनीचैः ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-२३/२८) सिद्धम् तु समानप्रक्रमवचनात् ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-२४/२८) सिद्धम् एतत् ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-२५/२८) कथम् ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-२६/२८) समाने प्रक्रमे इति वक्तव्यम् ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-२७/२८) कः पुनः प्रक्रमः ।

(पा-१,२.२९-३०.२; अकि-१,२०७.१-१७; रो-२,४५-४६; भा-२८/२८) उरः कण्ठः शिरः इति ।