व्याकरणमहाभाष्य खण्ड 12

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-१/३७) समाहारः स्वरितः इति उच्यते ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-२/३७) कस्य समाहारः स्वरितसञ्ज्ञः भवति ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-३/३७) अचोः इति आह ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-४/३७) समाहारः अचोः चेत् न अभावात् ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-५/३७) समाहारः अचोः चेत् तत् न ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-६/३७) किम् कारणम् ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-७/३७) अभावात् ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-८/३७) न हि अचोः समाहारः अस्ति ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-९/३७) ननु अयम् अस्ति गाङ्गेनूपे इति ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-१०/३७) न एषः अचोः समाहारः ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-११/३७) अन्यः अयम् उदात्तानुदात्तयोः स्थाने एकः आदिश्यते ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-१२/३७) एवम् तर्हि गुणयोः ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-१३/३७) गुणयोः चेत् न अच्प्रकरणात् ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-१४/३७) गुणयोः समहारः इति चेत् तत् न ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-१५/३७) किम् कारणम् ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-१६/३७) अच्प्रकरणात् ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-१७/३७) अच् इति वर्तते ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-१८/३७) सिद्धम् तु अच्समुदायस्य अभावात् तद्गुणे सम्प्रत्ययः ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-१९/३७) सिद्धम् एतत् ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-२०/३७) कथम् ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-२१/३७) अच्समुदायः न अस्ति इति कृत्वा तद्गुणस्य अचः समाहारगुणस्य सम्प्रत्ययः भविष्यति ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-२२/३७) कथम् पुनः समाहारः इति अनेन अच् शक्यः प्रतिनिर्देष्टुम् ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-२३/३७) मतुब्लोपः अत्र द्रष्टव्यः ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-२४/३७) तत् यथा पुष्पकाः एषाम् ते पुष्पकाः , कालकाः एषाम् ते कालकाः इति एवम् समाहारवान् समाहारः ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-२५/३७) अथ वा अकारः मत्वर्थीयः ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-२६/३७) तत् यथा तुन्दः , घाटः इति ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-२७/३७) यदि एवम् त्रैस्वर्यम् न प्रकल्पते ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-२८/३७) तत्र कः दोषः ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-२९/३७) त्रैस्वर्यम् अधीमहे इति एतत् न उपपद्यते ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-३०/३७) न एतत् गुणापेक्षम् ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-३१/३७) किम् तर्हि ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-३२/३७) अजपेक्षम् ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-३३/३७) त्रैस्वर्यम् अधीमहे ॒ त्रिप्रकारैः अज्भिः अधीमहे कैः चित् उदात्तगुणैः कैः चित् अनुदात्तगुणैः कैः चित् उभयगुणैः ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-३४/३७) तत् यथा ॒ शुक्लगुणः शुक्लः कृष्णगुणः कृष्णः ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-३५/३७) यः इदानीम् उभयगुणः सः तृतीयाम् आख्याम् लभते कल्माषः इति वा सारङ्गः इति वा ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-३६/३७) एवम् इह अपि उदात्तगुणः उदात्तः अनुदात्तगुणः अनुदात्तः ।

(पा-१,२.३१; अकि-१,२०७.१६-२०८.९; रो-२,४६-४८; भा-३७/३७) यः इदानीम् उभयवान् स तृतीयाम् आख्याम् लभते स्वरितः इति ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-१/३४) अर्धह्रस्वम् इति उच्यते ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-२/३४) तत्र दीर्घप्लुतयोः न प्राप्नोति ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-३/३४) कन्या शक्तिके३ शक्तिके ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-४/३४) न एषः दोषः ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-५/३४) मात्रचः अत्र लोपः द्रष्टव्यः ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-६/३४) अर्धह्रस्वमात्रम् अर्धह्रस्वम् इति ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-७/३४) किमर्थम् इदम् उच्यते ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-८/३४) आमिश्रीभूतम् इव इदम् भवति ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-९/३४) तत् यथा ॒ क्षीरोदके सम्पृक्ते* आमिश्रीभूतत्वात् न ज्ञायते ॒ कियत् क्षीरम् कियत् उदकम् कस्मिन् अवकाशे क्षीरम् कस्मिन् अवकाशे उदकम् इति ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-१०/३४) एवम् इह अपि आमिश्रीभूतत्वात् न ज्ञायते ॒ कियत् उदात्तम् कियत् अनुदात्तम् कस्मिन् अवकाशे उदात्तम् कस्मिन् अवकाशे अनुदात्तम् इति ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-११/३४) तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे ॒ इयत् उदात्तम् इयत् अनुदात्तम् अस्मिन् अवकाशे उदात्तम् अस्मिन् अवकाशे अनुदात्तम् इति ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-१२/३४) यदि अयम् एवम् सुहृत् किम् अन्यानि अपि एवञ्जातीयकानि न उपदिशति ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-१३/३४) कानि पुनः तानि ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-१४/३४) स्थानकरणानुप्रदानानि ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-१५/३४) व्याकरणम् नाम इयम् उत्तरा विद्या ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-१६/३४) सः असौ छन्दःशास्त्रेषु अभिविनीतः उपलब्ध्या अवगन्तुम् उत्सहते ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-१७/३४) यदि एवम् न अर्थः अनेन ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-१८/३४) इदम् अपि उपलब्ध्या गमिष्यति ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-१९/३४) सञ्ज्ञाकरणम् तर्हि इदम् ॒ तस्य स्वरितस्य आदितः अर्धह्रस्वम् उदात्तसञ्ज्ञम् इति ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-२०/३४) किम् कृतम् भवति ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-२१/३४) त्रिः उदात्तप्रदेशेषु स्वरितग्रहणम् न कर्तव्यम् भवति ॒ उदात्तस्वरितपरस्य सन्नतरः , उदात्तस्वरितयोः यणः स्वरितः अनुदात्तस्य न उदात्तस्वरितोदयम् इति ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-२२/३४) सञ्ज्ञाकरणम् हि नाम यतः न लघीयः ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-२३/३४) कुतः एतत् ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-२४/३४) लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-२५/३४) लघीयः च त्रिः उदात्तप्रदेशेषु स्वरितग्रहणम् न पुनः सञ्ज्ञाकरणम् ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-२६/३४) त्रिः उदात्तप्रदेशेषु स्वरितग्रहणे नव अक्षराणि सञ्ज्ञाकरणे पुनः एकादश ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-२७/३४) एवम् तर्हि उभयम् अनेन क्रियते अन्वाख्यानम् च सञ्ज्ञा च ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-२८/३४) कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-२९/३४) लभ्यम् इति आह ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-३०/३४) कथम् ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-३१/३४) अन्वर्थग्रहणम् विज्ञास्यते ॒ तस्य स्वरितस्य आदितः अर्धह्रस्व्रम् उदात्तसञ्ज्ञम् भवति इति ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-३२/३४) ऊर्ध्वम् आत्तम् इति च अतः उदात्तम् ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-३३/३४) यदि तर्हि सञ्ज्ञाकरणम् उदात्तादेः यत् उच्यते तत् स्वरितादेः अपि प्राप्नोति ।

(पा-१,२.३२.१; अकि-१,२०८.११-२०९.४; रो-२,४८-५०; भा-३४/३४) अन्वाख्यानम् एव तर्हि इदम् मन्दबुद्धेः ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-१/२९) स्वरितस्यार्धह्रस्वोदात्तात् आ उदात्तस्वरितपरस्यसन्नतरात् ऊर्ध्वम् उदात्तादनुदात्तस्यस्वरितात् कार्यम् स्वरितात् इति सिद्ध्यर्थम् ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-२/२९) स्वरितस्यार्धह्रस्वोदात्तात् आ उदात्तस्वरितपरस्यसन्नतरः इति एतस्मात् सूत्रात् इदम् सूत्रकाण्डम् ऊर्ध्वम् उदात्तात् अनुदात्तस्य स्वरितः इति अतः कार्यम् ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-३/२९) किम् प्रयोजनम् ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-४/२९) स्वरितात् इति सिद्ध्यर्थम् ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-५/२९) स्वरितात् इति सिद्धिः यथा स्यात् ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-६/२९) स्वरितात् संहितायाम् अनुदात्तानाम् इति ॒ इमम् मे गङ्गे यमुने सरस्वति शुतुद्रि ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-७/२९) क्व तर्हि स्यात् ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-८/२९) यः सिद्धः स्वरितः ॒ कार्यम् देवदत्तयज्ञदत्तौ ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-९/२९) स्वरितोदात्तार्थम् च ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-१०/२९) स्वरितोदात्तार्थम् च तत्र एव कर्तव्यम् ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-११/२९) न सुब्रह्मण्यायाम् स्वरितस्य तु उदात्तः ॒ इन्द्र अगच्छ ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-१२/२९) क्व तर्हि स्यात् ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-१३/२९) यः सिद्धः स्वरितः ॒ सुब्रह्मण्योम् इन्द्र अगच्छ ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-१४/२९) स्वरितोदात्तात् च अस्वरितार्थम् ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-१५/२९) स्वरितोदात्तात् च अस्वरितार्थम् तत्र एव कर्तव्यम् ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-१६/२९) इन्द्र अगच्छ हरिवः अगच्छ ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-१७/२९) स्वरितपरसन्नतरार्थम् च ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-१८/२९) स्वरितपरसन्नतरार्थम् च तत्र एव कर्तव्यम् ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-१९/२९) उदात्तस्वरितपरस्य सन्नतरः ॒ मणवक जटिलकाध्यापक न्यङ् ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-२०/२९) क्व तर्हि स्यात् ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-२१/२९) यः सिद्धः स्वरितः ॒ मणवक जटिलकाभिरूपक क्व ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-२२/२९) तत् तर्हि वक्तव्यम् ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-२३/२९) न वक्तव्यम् ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-२४/२९) देवब्रह्मणोः अनुदात्तवचनम् ज्ञापकम् स्वरितात् इति सिद्धत्वस्य ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-२५/२९) देवब्रह्मणोः अनुदात्तवचनम् ज्ञापकम् सिद्धः इह स्वरितः इति ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-२६/२९) यदि एतत् ज्ञाप्यते स्वरितोदात्तपरस्य अनुदात्तस्य स्वरितत्वम् प्राप्नोति ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-२७/२९) न ब्रूमः देवब्रह्मणोः अनुदात्तवचनम् ज्ञापकम् सिद्धः इह स्वरितः इति ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-२८/२९) किम् तर्हि ।

(पा-१,२.३२.२; अकि-१,२०९.५-२५; रो-२,५०-५२; भा-२९/२९) परम् एतत् काण्डम् इति ।

(पा-१,२.३३.१; अकि-१,२१०.२-४ ऋईई.५३; भा-१/५) किम् इदम् पारिभाषिक्याः सम्बुद्धेः ग्रहणम् ॒ एकवचनम् सम्बुद्धिः आहोस्वित् अन्वर्थग्रहणम् ॒ सम्बोधनम् सम्बुद्धिः इति ।

(पा-१,२.३३.१; अकि-१,२१०.२-४ ऋईई.५३; भा-२/५) किम् च अतः ।

(पा-१,२.३३.१; अकि-१,२१०.२-४ ऋईई.५३; भा-३/५) यदि पारिभाषिक्याः देवाः ब्रह्माणः इति अत्र न प्राप्नोति ।

(पा-१,२.३३.१; अकि-१,२१०.२-४ ऋईई.५३; भा-४/५) अथ अन्वर्थग्रहणम् न दोषः ।

(पा-१,२.३३.१; अकि-१,२१०.२-४ ऋईई.५३; भा-५/५) यथा न दोषः तथा अस्तु ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-१/३०) किम् पुनः इयम् एकश्रुतिः उदात्ता आहोस्वित् अनुदात्ता ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-२/३०) न उदात्ता ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-३/३०) कथम् ज्ञायते ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-४/३०) यत् अयम् उच्चैस्तराम् वा वषट्कारः इति आह ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-५/३०) कथम् कृत्वा ज्ञापकम् ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-६/३०) अतन्त्रम् तरनिर्देशः ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-७/३०) यावत् उच्चैः तावत् उच्चैस्तराम् इति ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-८/३०) यदि तर्हि न उदात्ता अनुदात्ता ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-९/३०) अनुदात्ता च न ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-१०/३०) कथम् ज्ञायते ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-११/३०) यत् अयम् उदात्तस्वरितपरस्य सन्नतरः इति आह ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-१२/३०) कथम् कृत्वा ज्ञापकम् ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-१३/३०) अतन्त्रम् तरनिर्देशः ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-१४/३०) यावत् सन्नः तावत् सन्नतरः इति ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-१५/३०) सा एषा ज्ञापकाभ्याम् उदात्तानुदात्तयोः मध्यम् एकश्रुतिः अन्तरालम् ह्रियते ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-१६/३०) अपरः आह ॒ किम् पुनः इयम् एकश्रुतिः उदात्ता उत अनुदात्ता ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-१७/३०) उदात्ता ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-१८/३०) कथम् ज्ञायते ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-१९/३०) यत् अयम् उच्चैस्तराम् वा वषट्कारः इति आह ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-२०/३०) कथम् कृत्वा ज्ञापकम् ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-२१/३०) तन्त्रम् तरनिर्देशः ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-२२/३०) उच्चैः दृष्ट्वा उच्चैस्तराम् इति एतत् भवति ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-२३/३०) यदि तर्हि उदात्ता न अनुदात्ता ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-२४/३०) अनुदात्ता च ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-२५/३०) कथम् ज्ञायते ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-२६/३०) यत् अयम् उदात्तस्वरितपरस्य सन्नतरः इति आह ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-२७/३०) कथम् कृत्वा ज्ञापकम् ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-२८/३०) तन्त्रम् तरनिर्देशः ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-२९/३०) सन्नम् दृष्ट्वा सन्नतरः इति एतत् भवति ।

(पा-१,२.३३.२; अकि-१,२१०.५-१७; रो-२,५३-५४; भा-३०/३०) ते एते तन्त्रे तरनिर्देशे सप्त स्वराः भवन्ति ॒ उदात्तः , उदात्ततरः , अनुदात्तः , अनुदात्तरः , स्वरितः , स्वरिते यः उदात्तः सः अन्येन विशिष्तः , एकश्रुतिः सप्तमः ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-१/२३) सुब्रह्मण्यायम् ओकारः उदात्तः ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-२/२३) सुब्रह्मण्यायम् ओकारः उदात्तः भवति ॒ सुब्रह्मण्योम् ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-३/२३) आकारः आख्याते परादिः च ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-४/२३) आकारः आख्याते परादिः च उदात्तः भवति ॒ इन्द्र अगच्छ ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-५/२३) हरिवः अगच्छ ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-६/२३) वाक्यादौ च द्वे द्वे ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-७/२३) वाक्यादौ च द्वे द्वे उदात्ते भवतः ॒ इन्द्र अगच्छ ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-८/२३) हरिवः अगच्छ ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-९/२३) मघवन्वर्जम् । अगच्छ मघवन् ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-१०/२३) सुत्यापराणाम् अन्तः ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-११/२३) सुत्यापराणाम् अन्तः उदात्तः भवति ॒ द्व्यहे सुत्यम् ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-१२/२३) त्र्यहे सुत्यम् ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-१३/२३) असौ इति अन्तः ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-१४/२३) असौ इति अन्तः उदात्तः भवति ॒ गार्ग्यः यजते ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-१५/२३) वात्स्यः यजते ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-१६/२३) अमुष्य इति अन्तः । अमुष्य इति अन्तः ॒ दाक्षेः पित यजते ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-१७/२३) स्यान्तस्य उपोत्तमम् च ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-१८/२३) स्यान्तस्य उपोत्तमम् उदात्तम् भवति अन्तः च ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-१९/२३) गार्ग्यस्य पित यजते ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-२०/२३) वात्स्यस्य पित यजते ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-२१/२३) वा नामधेयस्य ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-२२/२३) वा नामधेयस्य स्यान्तस्य उपोत्तमम् उदात्तम् भवति ॒ देवदत्तस्य पित यजते ।

(पा-१,२.३७; अकि-१,२१०.१९-२११.१४; रो-२,५५-५६; भा-२३/२३) देवदत्तस्य पित यजते ।

(पा-१,२.३८; अकि-१,२११.१६-१७; रो-२,५६-५७; भा-१/३) देवब्रह्मणोः अनुदात्तत्वम् एके ।

(पा-१,२.३८; अकि-१,२११.१६-१७; रो-२,५६-५७; भा-२/३) देवब्रह्मणोः अनुदात्तत्वम् एके इच्छन्ति ॒ देवाः ब्रह्माणः ।

(पा-१,२.३८; अकि-१,२११.१६-१७; रो-२,५६-५७; भा-३/३) देवाः ब्रह्माणः ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-१/३१) स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः ऐकश्रुत्यवचनम् ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-२/३१) स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः ऐकश्रुत्यम् वक्तव्यम् ॒ अग्निवेश्यः पचति ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-३/३१) किम् पुनः कारणम् न सिध्यति ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-४/३१) बहुवचनेन निर्देशः क्रियते ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-५/३१) तेन बहूनाम् ऐकश्रुत्यम् स्यात् द्व्येकयोः न स्यात् ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-६/३१) न एषः दोषः ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-७/३१) न अत्र निर्देशः तन्त्रम् ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-८/३१) कथम् पुनः तेन एव निर्देशः क्रियते तत् च अतन्त्रम् स्यात् ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-९/३१) तत्कारी च भवान् तद्द्वेषी च ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-१०/३१) नान्तरीयकत्वात् अत्र बहुवचनेन निर्देशः क्रियते ॒ अवश्यम् कया चित् विभक्त्या केन चित् वचनेन निर्देशः कर्तव्यः इति ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-११/३१) तत् यथा ॒ कः चित् अन्नार्थी शालिकलापम् सपलालम् सतुषम् आहरति नान्तयीयकत्वात् ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-१२/३१) सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-१३/३१) तथा कः चित् मांसार्थी मत्स्यान् सकण्टकान् सशकलान् आहरति नान्तयीयकत्वात् ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-१४/३१) सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-१५/३१) एवम् इह अपि नान्तरीयकत्वात् बहुवचनेन निर्देशः क्रियते ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-१६/३१) अविशेषेण ऐकश्रुत्यम् ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-१७/३१) अविशेषेण ऐकश्रुत्यम् इति चेत् व्यवहितानाम् अप्रसिद्धिः ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-१८/३१) अविशेषेण ऐकश्रुत्यम् इति चेत् व्यवहितानाम् ऐकश्रुत्यम् न प्राप्नोति ॒ इमम् मे गङ्गे यमुने सरस्वति शुतुद्रि ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-१९/३१) अनेकम् अपि इति तु वचनात् सिद्धम् ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-२०/३१) अनेकम् अपि एकम् अपि स्वरितात् परम् संहितायाम् एकश्रुति भवति इति वक्तव्यम् ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-२१/३१) सिध्यति ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-२२/३१) सूत्रम् तर्हि भिद्यते ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-२३/३१) यथान्यासम् एव अस्तु ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-२४/३१) ननु च उक्तम् ॒ स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः ऐकश्रुत्यवचनम् ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-२५/३१) अविशेषेण ऐकश्रुत्यम् व्यवहितानाम् अप्रसिद्धिः इति ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-२६/३१) न एषः दोषः ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-२७/३१) कथम् ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-२८/३१) एकशेषनिर्देशः अयम् अनुदात्तस्य च ॒ अनुदात्तयोः च अनुदात्तानाम् च अनुदात्तानाम् इति ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-२९/३१) एवम् अपि षट्प्रभृतीनाम् एव प्राप्नोति ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-३०/३१) षट्प्रभृतिषु एकशेषः परिसमाप्यते ।

(पा-१,२.३९; अकि-१,२११.१९-२१२.१७; रो-२,५७-५९; भा-३१/३१) प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति द्व्येकयोः अपि भविष्यति ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-१/५३) अपृक्तसञ्ज्ञायाम् हल्ग्रहणम् स्वादिलोपे हलः अग्रहणार्थम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-२/५३) अपृक्तसञ्ज्ञायाम् हल्ग्रहणम् कर्तव्यम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-३/५३) एकहल् प्रत्ययः अपृक्तसञ्ज्ञः भवति इति वक्तव्यम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-४/५३) किम् प्रयोजनम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-५/५३) स्वादिलोपे हलः अग्रहणार्थम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-६/५३) स्वादिलोपे हलः ग्रहणम् न कर्तव्यम् भवति ॒ हल्ङ्याब्भ्यः दीर्घात् सुतिसि अपृक्तम् हल् इति अपृक्तस्य इति एव सिद्धम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-७/५३) अणिञोः लुगर्थम् अल्ग्रहणम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-८/५३) अणिञोः लुगर्थम् अल्ग्रहणम् कर्तव्यम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-९/५३) किम् प्रयोजनम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-१०/५३) अणिञोः लुकि ग्रहणम् न कर्तव्यम् भवति ॒ ण्यक्षत्रियार्षञितः यूनि लुक् अणिञोः इति अपृक्तस्य इति एव सिद्धम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-११/५३) अणिञोः लुगर्थम् इति चेत् णे अतिप्रसङ्गः ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-१२/५३) अणिञोः लुगर्थम् इति चेत् णे अतिप्रसङ्गः भवति ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-१३/५३) इह अपि प्राप्नोति ॒ फाण्टाहृतेः अपत्यम् माणवकः प्ःाण्टाहृतः इति ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-१४/५३) णवचनसामार्थ्यात् न भविष्यति ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-१५/५३) वचनप्रामाण्यात् इति चेत् फग्निवृत्त्यर्थम् वचनम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-१६/५३) वचनप्रामाण्यात् इति चेत् फग्निवृत्त्यर्थम् एतत् स्यात् ॒ फक् अतः मा भूत् इति ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-१७/५३) पैलादिषु वचनात् सिद्धम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-१८/५३) यदि एतावत् प्रयोजनम् स्यात् पैलादिषु एव पाठम् कुर्वीत ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-१९/५३) तत्र पाठात् अन्येषाम् अपि फकः निवृत्तिः भवति ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-२०/५३) एवम् सिद्धे सति यत् अयम् णम् शास्ति तत् ज्ञापयति आचार्यः न अस्य लुक् भवति इति ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-२१/५३) तानि एतानि त्रीणि ग्रहणानि भवन्ति ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-२२/५३) अपृक्तसञ्ज्ञायाम् हल्ग्रहणम् कर्तव्यम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-२३/५३) स्वादिलोपे हलः ग्रहणम् न कर्तव्यम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-२४/५३) अणिञोः लुकि ग्रहणम् कर्तव्यम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-२५/५३) अल्ग्रहणे अपि वै क्रियमाणे तानि एव त्रीणि ग्रहणानि भवन्ति ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-२६/५३) अपृक्तसञ्ज्ञायाम् अल्ग्रहणम् कर्तव्यम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-२७/५३) स्वादिलोपे हलः ग्रहणम् कर्तव्यम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-२८/५३) अणिञोः लुकि ग्रहणम् न कर्तव्यम् भवति ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-२९/५३) अपृक्तग्रहणम् कर्तव्यम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-३०/५३) तत्र न अस्ति लाघवकृतः विशेषः ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-३१/५३) अयम् अस्ति विशेषः ॒ अल्ग्रहणे क्रियमाणे एकग्रहणम् न करिष्यते ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-३२/५३) कस्मात् न भवति दर्विः , जागृविः ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-३३/५३) अल् एव यः प्रत्ययः ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-३४/५३) किम् वक्तव्यम् एतत् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-३५/५३) न हि ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-३६/५३) कथम् अनुच्यमानम् गंस्यते ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-३७/५३) अल्ग्रहणसामर्थ्यात् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-३८/५३) यदि यः अल् च अन्यः च तत्र स्यात् अल्ग्रहणम् अनर्थकम् स्यात् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-३९/५३) हल्ग्रहणे अपि क्रियमाणे एकग्रहणम् न करिष्यते ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-४०/५३) कस्मात् न भवति दर्विः जागृविः ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-४१/५३) हल् एव यः प्रत्ययः ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-४२/५३) किम् वक्तव्यम् एतत् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-४३/५३) न हि ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-४४/५३) कथम् अनुच्यमानम् गंस्यते ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-४५/५३) हल्ग्रहणसामर्थ्यात् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-४६/५३) यदि यः हल् च अन्यः च तत्र स्यात् हल्ग्रहणम् अनर्थकम् स्यात् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-४७/५३) अस्ति अन्यत् हल्ग्रहणस्य प्रयोजनम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-४८/५३) किम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-४९/५३) हलन्तस्य यथा स्यात् अलन्तस्य मा भूत् इति ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-५०/५३) एवम् तर्हि सिद्धे सति यत् अल्ग्रहणे क्रियमाणे एकग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत्र वर्णग्रहणे जातिग्रहणम् भवति इति ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-५१/५३) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-५२/५३) दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् इति उक्तम् ।

(पा-१,२.४१; अकि-१,२१२.१९-२१३.२४; रो-२,५९-६२; भा-५३/५३) तत् उपपन्नम् भवति ।

(पा-१,२.४२; अकि-१,२१४.२-११; रो-२,६२-६३; भा-१/१५) तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासैकार्थत्वात् अप्रसिद्धिः ।

(पा-१,२.४२; अकि-१,२१४.२-११; रो-२,६२-६३; भा-२/१५) तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासस्य एकार्थत्वात् सञ्ज्ञायाः अप्रसिद्धिः ।

(पा-१,२.४२; अकि-१,२१४.२-११; रो-२,६२-६३; भा-३/१५) एकः अयम् अर्थः तत्पुरुषः नाम अनेकार्थाश्रयम् च सामानाधिकरण्यम् ।

(पा-१,२.४२; अकि-१,२१४.२-११; रो-२,६२-६३; भा-४/१५) सिद्धम् तु पदसामानाधिकरण्यात् ।

(पा-१,२.४२; अकि-१,२१४.२-११; रो-२,६२-६३; भा-५/१५) सिद्धम् एतत् ।

(पा-१,२.४२; अकि-१,२१४.२-११; रो-२,६२-६३; भा-६/१५) कथम् ।

(पा-१,२.४२; अकि-१,२१४.२-११; रो-२,६२-६३; भा-७/१५) तत्पुरुषः समानाधिकरणपदः कर्मधारयसञ्ज्ञः भवति इति वक्तव्यम् ।

(पा-१,२.४२; अकि-१,२१४.२-११; रो-२,६२-६३; भा-८/१५) सिध्यति ।

(पा-१,२.४२; अकि-१,२१४.२-११; रो-२,६२-६३; भा-९/१५) सूत्रम् तर्हि भिद्यते ।

(पा-१,२.४२; अकि-१,२१४.२-११; रो-२,६२-६३; भा-१०/१५) यथान्यासम् एव अस्तु ।

(पा-१,२.४२; अकि-१,२१४.२-११; रो-२,६२-६३; भा-११/१५) ननु च उक्तम् तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासैकार्थत्वात् अप्रसिद्धिः इति ।

(पा-१,२.४२; अकि-१,२१४.२-११; रो-२,६२-६३; भा-१२/१५) न एषः दोषः ।

(पा-१,२.४२; अकि-१,२१४.२-११; रो-२,६२-६३; भा-१३/१५) अयम् तत्पुरुषः अस्ति प्राथमकल्पिकः यस्मिन् ऐकपद्यम् ऐकस्वर्यम् एकविभक्तिकत्वम् च ।

(पा-१,२.४२; अकि-१,२१४.२-११; रो-२,६२-६३; भा-१४/१५) अस्ति तादर्थ्यात् ताच्छब्द्यम् ॑ तत्पुरुषार्थानि पदानि तत्पुरुषः इति ।

(पा-१,२.४२; अकि-१,२१४.२-११; रो-२,६२-६३; भा-१५/१५) तत् यः तादर्थ्यात् ताच्छब्द्यम् तस्य इह ग्रहणम् ।

(पा-१,२.४३.१; अकि-१,२१४.१३-२२; रो-२,६३-६४; भा-१/११) प्रथमानिर्दिष्टम् समासे उपसजनम् इति चेत् अनिर्देशात् प्रथमायाः समासे सञ्ज्ञाप्रसिद्धिः ।प्रथमानिर्दिष्टम् समासे उपसजनम् इति चेत् अनिर्देशात् प्रथमायाः समासे सञ्ज्ञायाः अप्रसिद्धिः ।

(पा-१,२.४३.१; अकि-१,२१४.१३-२२; रो-२,६३-६४; भा-२/११) न हि कष्टादीनाम् समासे प्रथमाम् पश्यामः ।

(पा-१,२.४३.१; अकि-१,२१४.१३-२२; रो-२,६३-६४; भा-३/११) सिद्धम् तु समासविधाने वचनात् ।

(पा-१,२.४३.१; अकि-१,२१४.१३-२२; रो-२,६३-६४; भा-४/११) सिद्धम् एतत् ।

(पा-१,२.४३.१; अकि-१,२१४.१३-२२; रो-२,६३-६४; भा-५/११) कथम् ।

(पा-१,२.४३.१; अकि-१,२१४.१३-२२; रो-२,६३-६४; भा-६/११) समासविधाने प्रथमानिर्दिष्टम् उपसर्जनसञ्ज्ञम् भवति इति वक्तव्यम् ।

(पा-१,२.४३.१; अकि-१,२१४.१३-२२; रो-२,६३-६४; भा-७/११) तत् तर्हि वक्तव्यम् ।

(पा-१,२.४३.१; अकि-१,२१४.१३-२२; रो-२,६३-६४; भा-८/११) न वा तादर्थ्यात् ताच्छब्द्यम् ।

(पा-१,२.४३.१; अकि-१,२१४.१३-२२; रो-२,६३-६४; भा-९/११) न वा वक्तव्यम् ।

(पा-१,२.४३.१; अकि-१,२१४.१३-२२; रो-२,६३-६४; भा-१०/११) किम् कारणम् ।

(पा-१,२.४३.१; अकि-१,२१४.१३-२२; रो-२,६३-६४; भा-११/११) तादर्थ्यात् ताच्छब्द्यम् भवति. समासार्थम् शास्त्रम् समासः इति ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-१/३१) यस्य विधौ प्रथमानिर्देशः ततः अन्यत्र अपि उपसर्जनसञ्ज्ञाप्रसङ्गः ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-२/३१) यस्य विधौ प्रथमानिर्देशः क्रियते ततः अन्यत्र अपि तस्य उपसर्जनसञ्ज्ञा प्राप्नोति ॒ रज्ञः कुमारीम् राजकुमारीम् श्रितः ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-३/३१) श्रितादिसमासे द्वितीयान्तम् प्रथमानिर्दिष्टम् ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-४/३१) तस्य षष्ठीसमासे अपि उपसर्जनसञ्ज्ञा प्राप्नोति ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-५/३१) सिद्धम् तु यस्य विधौ तम् प्रति इति वचनात् ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-६/३१) सिद्धम् एतत् ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-७/३१) कथम् ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-८/३१) यस्य विधौ यत् प्रथमानिर्दिष्टम् तम् प्रति तत् उपसर्जनसञ्ज्ञम् भवति इति वक्तव्यम् ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-९/३१) तत् तर्हि वक्तव्यम् ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-१०/३१) न वक्तव्यम् ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-११/३१) उपसर्जनम् इति महती सञ्ज्ञा क्रियते ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-१२/३१) सञ्ज्ञा च नाम यतः न लघीयः ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-१३/३१) कुतः एतत् ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-१४/३१) लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-१५/३१) तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-१६/३१) अप्रधानम् उपसर्जनम् इति ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-१७/३१) प्रधानम् उपसर्जनम् इति च सम्बन्धिशब्दौ एतौ ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-१८/३१) तत्र सम्बन्धात् एतत् गन्तव्यम् ॒ यम् प्रति यत् अप्रधानम् तम् प्रति तत् उपसर्जनस्ञ्ज्ञम् भवति इति ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-१९/३१) अथ यत्र द्वे षष्ठ्यन्ते कस्मात् तत्र प्रधानस्य उपसर्जनसञ्ज्ञा न भवति ॒ राज्ञः पुरुषस्य राजपुरुषस्य इति ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-२०/३१) षष्ठ्यन्तयोः उपसर्जनत्वे उक्तम् ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-२१/३१) किम् उक्तम् ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-२२/३१) षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य अपूर्वनिपातः इति ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-२३/३१) एवम् न च इदम् अकृतम् भवेत् उप्सर्जनम् पूर्वम् इति अर्थः च अभिन्नः इति कृत्वा प्रधानस्य पूर्वनिपातः न भविष्यति ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-२४/३१) यदि अपि तावत् एतत् उपसर्जनकार्यम् परिहृतम् इदम् अपरम् प्राप्नोति ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-२५/३१) राज्ञः कुमार्याः राजकुमार्याः ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-२६/३१) गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् प्राप्नोति ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-२७/३१) उक्तम् वा ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-२८/३१) किम् उक्तम् ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-२९/३१) परवत् लिङ्गम् इति शब्दशब्दार्थौ इति ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-३०/३१) तत्र औपदेशिकस्य ह्रस्वत्वम् ।

(पा-१,२.४३.२; अकि-१,२१५.१-२१; रो-२,६४-६७; भा-३१/३१) आतिदेशिकस्य श्रवणम् भविष्यति ।

(पा-१,२.४४.१; अकि-१,२१५ २३-२१६.५; रो-२,६७-६८; भा-१/१५) द्वितीयादीनाम् अपि अनेन उपसर्जनसञ्ज्ञा प्राप्नोति ।

(पा-१,२.४४.१; अकि-१,२१५ २३-२१६.५; रो-२,६७-६८; भा-२/१५) तत्र कः दोषः ।

(पा-१,२.४४.१; अकि-१,२१५ २३-२१६.५; रो-२,६७-६८; भा-३/१५) तत्र अपूर्वनिपाते इति प्रतिषेधः प्रसज्येत ।

(पा-१,२.४४.१; अकि-१,२१५ २३-२१६.५; रो-२,६७-६८; भा-४/१५) न अप्रतिषेधात् ।

(पा-१,२.४४.१; अकि-१,२१५ २३-२१६.५; रो-२,६७-६८; भा-५/१५) न अयम् प्रसज्यप्रतिषेधः ॒ पूर्वनिपाते न इति ।

(पा-१,२.४४.१; अकि-१,२१५ २३-२१६.५; रो-२,६७-६८; भा-६/१५) किम् तर्हि ।

(पा-१,२.४४.१; अकि-१,२१५ २३-२१६.५; रो-२,६७-६८; भा-७/१५) पर्युदासः अयम् ॒ यत् अन्यत् पूर्वनिपातात् इति ।

(पा-१,२.४४.१; अकि-१,२१५ २३-२१६.५; रो-२,६७-६८; भा-८/१५) पूर्वनिपाते अव्यापारः ।

(पा-१,२.४४.१; अकि-१,२१५ २३-२१६.५; रो-२,६७-६८; भा-९/१५) यदि केन चित् प्राप्नोति तेन भविष्यति ।

(पा-१,२.४४.१; अकि-१,२१५ २३-२१६.५; रो-२,६७-६८; भा-१०/१५) पूर्वेण च प्राप्नोति ।

(पा-१,२.४४.१; अकि-१,२१५ २३-२१६.५; रो-२,६७-६८; भा-११/१५) तेन भविष्यति ।

(पा-१,२.४४.१; अकि-१,२१५ २३-२१६.५; रो-२,६७-६८; भा-१२/१५) अप्राप्तेः वा ।

(पा-१,२.४४.१; अकि-१,२१५ २३-२१६.५; रो-२,६७-६८; भा-१३/१५) अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते ।

(पा-१,२.४४.१; अकि-१,२१५ २३-२१६.५; रो-२,६७-६८; भा-१४/१५) कुतः एतत् ।

(पा-१,२.४४.१; अकि-१,२१५ २३-२१६.५; रो-२,६७-६८; भा-१५/१५) अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति

(पा-१,२.४४.२; अकि-१,२१६.६-११; रो-२,६८; भा-१/८) एकविभक्तौ अषष्ठ्यन्तवचनम् ।

(पा-१,२.४४.२; अकि-१,२१६.६-११; रो-२,६८; भा-२/८) एकविभक्तौ अषष्ठ्यन्तानाम् इति वक्तव्यम् ।

(पा-१,२.४४.२; अकि-१,२१६.६-११; रो-२,६८; भा-३/८) इह मा भूत् ॒ अर्धम् पिप्पल्याः अर्धपिप्पली इति ।

(पा-१,२.४४.२; अकि-१,२१६.६-११; रो-२,६८; भा-४/८) उक्तम् वा ।

(पा-१,२.४४.२; अकि-१,२१६.६-११; रो-२,६८; भा-५/८) किम् उक्तम् ।

(पा-१,२.४४.२; अकि-१,२१६.६-११; रो-२,६८; भा-६/८) परवत् लिङ्गम् इति शब्दशर्दार्थौ इति ।

(पा-१,२.४४.२; अकि-१,२१६.६-११; रो-२,६८; भा-७/८) तत्र औपदेशिकस्य ह्रस्वत्वम् ।

(पा-१,२.४४.२; अकि-१,२१६.६-११; रो-२,६८; भा-८/८) आतिदेशिकस्य श्रवणम् भविष्यति ।

(पा-१,२.४४.३; अकि-१,२१६.१२-१६; रो-२,६८; भा-१/७) कानि पुनः अस्य योगस्य प्रयोजनानि ।

(पा-१,२.४४.३; अकि-१,२१६.१२-१६; रो-२,६८; भा-२/७) प्रयोजनम् द्विगुप्राप्तापन्नालम्पूर्वोपसर्गाः क्तार्थे ।

(पा-१,२.४४.३; अकि-१,२१६.१२-१६; रो-२,६८; भा-३/७) द्विगुः ॒ पञ्चभिः गोभिः क्रीतः पञ्चगुः ।

(पा-१,२.४४.३; अकि-१,२१६.१२-१६; रो-२,६८; भा-४/७) प्राप्तापन्न ॒ प्राप्तः जिविकाम् प्राप्तजीविकः ।

(पा-१,२.४४.३; अकि-१,२१६.१२-१६; रो-२,६८; भा-५/७) आपन्नः जीविकाम् आपन्नजीविकः ।

(पा-१,२.४४.३; अकि-१,२१६.१२-१६; रो-२,६८; भा-६/७) अलम्पूर्व ॒ अलम् कुमार्यै अलङ्कुमारिः ।

(पा-१,२.४४.३; अकि-१,२१६.१२-१६; रो-२,६८; भा-७/७) उपसर्गाः क्तार्थे ॒ निष्कौशाम्बिः निर्वाराणसिः ।

(पा-१,२.४५.१; अकि-१,२१७.२-१०; रो-२,६९-७१; भा-१/१५) अर्थवत् इति व्यपदेशाय ॒ वर्णानाम् च मा भूत् इति ।

(पा-१,२.४५.१; अकि-१,२१७.२-१०; रो-२,६९-७१; भा-२/१५) किम् च स्यात् ।

(पा-१,२.४५.१; अकि-१,२१७.२-१०; रो-२,६९-७१; भा-३/१५) वनम् , धनम् इति नलोपः प्रातिपदिकान्तस्य इति नलोपः प्रसज्येत ।

(पा-१,२.४५.१; अकि-१,२१७.२-१०; रो-२,६९-७१; भा-४/१५) अधातुः इति किमर्थम् ।

(पा-१,२.४५.१; अकि-१,२१७.२-१०; रो-२,६९-७१; भा-५/१५) अहन् वृत्रम् इति ।

(पा-१,२.४५.१; अकि-१,२१७.२-१०; रो-२,६९-७१; भा-६/१५) अधातुः इति शक्यम् अकर्तुम् ।

(पा-१,२.४५.१; अकि-१,२१७.२-१०; रो-२,६९-७१; भा-७/१५) कस्मात् न भवति अहन् वृत्रम् इति ।

(पा-१,२.४५.१; अकि-१,२१७.२-१०; रो-२,६९-७१; भा-८/१५) आचार्यप्रवृत्तिः ज्ञापयति न धातोः प्रातिपदिकसञ्ज्ञा भवति इति यत् अयम् सुपः धातुप्रातिपदिकयोः इति धातुग्रहणम् करोति ।

(पा-१,२.४५.१; अकि-१,२१७.२-१०; रो-२,६९-७१; भा-९/१५) न एतत् अस्ति ज्ञापकम् ।

(पा-१,२.४५.१; अकि-१,२१७.२-१०; रो-२,६९-७१; भा-१०/१५) प्रतिषिद्धार्थम् एतत् स्यात् ॒ अपि काकः श्येनायते इति ।

(पा-१,२.४५.१; अकि-१,२१७.२-१०; रो-२,६९-७१; भा-११/१५) अप्रत्ययः इति किमर्थम् ।

(पा-१,२.४५.१; अकि-१,२१७.२-१०; रो-२,६९-७१; भा-१२/१५) काण्डे कुड्ये ।

(पा-१,२.४५.१; अकि-१,२१७.२-१०; रो-२,६९-७१; भा-१३/१५) अप्रत्ययः इति शक्यम् अकर्तुम् ।

(पा-१,२.४५.१; अकि-१,२१७.२-१०; रो-२,६९-७१; भा-१४/१५) कस्मात् न भवति काण्डे कुड्ये* इति ।

(पा-१,२.४५.१; अकि-१,२१७.२-१०; रो-२,६९-७१; भा-१५/१५) कृत्तद्धितग्रहणम् नियमार्थम् भविष्यति ॒ कृत्तद्धितान्तस्य एव प्रत्ययान्तस्य प्रातिपदिकसञ्ज्ञा भवति न अन्यस्य इति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-१/६६) अर्थवति अनेकपदप्रसङ्गः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-२/६६) अर्थवति प्रातिपदिकसञ्ज्ञायाम् अनेकस्य अपि पदस्य प्रातिपदिकसञ्ज्ञा प्राप्नोति ॒ दश दाडिमानि षट् अपूपाः कुण्डम् अजाजिनम् पललपिण्डः अधोरुकम् एतत् कुमार्याः स्फैयकृतस्य पिता प्रतिशीनः इति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-३/६६) समुदायः अनर्थकः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-४/६६) समुदायः अनर्थकः इति चेत् अवयवार्थवत्त्वात् समुदायार्थवत्त्वम् यथा लोके ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-५/६६) समुदायः अनर्थकः इति चेत् अवयवैः अर्थवद्भिः समुदायाः अपि अर्थवन्तः भवन्ति यथा लोके ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-६/६६) तत् यथा लोके आढ्यम् इदम् नगरम् , गोमत् इदम् नगरम् इति उच्यते न च तत्र सर्वे आढ्याः भवन्ति सर्वे वा गोमन्तः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-७/६६) यथा लोके इति उच्यते लोके च अवयवाः एव अर्थवन्तः न समुदायः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-८/६६) आतः च अवयवाः एव अर्थवन्तः न समुदायः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-९/६६) यस्य हि तत् द्रव्यम् भवति सः तेन कार्यम् करोति यस्य च गावः सन्ति सः तासाम् क्षीरम् घृतम् च उपभुङ्क्ते ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-१०/६६) अन्यैः एतत् द्रष्टुम् अपि अशक्यम् ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-११/६६) का तर्हि इयम् वाचोयुक्तिः ॒ आढ्यम् इदम् नगरम् , गोमत् इदम् इति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-१२/६६) एषा एषा वाचोयुक्तिः ॒ इह तावत् आढ्यम् इदम् नगरम् इति अकारः मत्वर्थीयः ॒ आढ्याः अस्मिन् सन्ति इति तत् इदम् आढ्यम् इति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-१३/६६) गोमत् इदम् इति मत्वन्तात् मत्वर्थीयः लुप्यते ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-१४/६६) एवम् अपि वाक्यप्रतिषेधः अर्थवत्त्वात् ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-१५/६६) वाक्यस्य प्रातिपदिकस्ञ्ज्ञायाः प्रतिषेधः वक्तव्यः ॒ देवदत्त गाम् अभ्याज शुक्लाम् ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-१६/६६) देवदत्त गाम् अभ्याज कृष्णाम् इति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-१७/६६) किम् कारणम् ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-१८/६६) अर्थवत्त्वात् ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-१९/६६) अर्थवत् हि एतत् वाक्यम् भवति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-२०/६६) न वै पदार्थात् अन्यस्य अर्थस्य उपलब्धिः भवति वाक्ये ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-२१/६६) पदार्थात् अन्यस्य अनुपलब्धिः इति चेत् पदार्थाभिसम्बन्धस्य उपलब्धिः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-२२/६६) पदार्थात् अन्यस्य अनुपलब्धिः इति चेत् एवम् उच्यते ॒ पदार्थाभिसम्बन्धस्य उपलब्धिः भवति वाक्ये ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-२३/६६) इह देवदत्त इति उक्ते कर्ता निर्दिष्टः कर्म क्रियागुणौ च अनिर्दिष्टौ ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-२४/६६) गाम् इति उक्ते कर्म निर्दिष्टम् कर्ता क्रियागुणौ च अनिर्दिष्टौ ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-२५/६६) अभ्याज इति उक्ते क्रिया निर्दिष्टा कर्तृकर्मणी गुणः च अनिर्दिष्टः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-२६/६६) शुक्लाम् इति उक्ते गुणः निर्दिष्टः कर्तृकर्मणी क्रिया च अनिर्दिष्टा ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-२७/६६) इह इदानीम् देवदत्त गाम् अभ्याज शुक्लाम् इति उक्ते सर्वम् निर्दिष्टम् भवति ॒ देवदत्तः एव कर्ता न अन्यः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-२८/६६) गौः एव कर्म न अन्यत् ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-२९/६६) अभ्याजिः एव क्रिया न अन्या ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-३०/६६) शुक्लाम् एव न कृष्णाम् इति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-३१/६६) एतेषाम् पदानाम् सामान्ये वर्तमानानाम् यद्विशेषे अवस्थानम् सः वाक्यार्थः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-३२/६६) तस्मात् प्रतिषेधः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-३३/६६) तस्मात् प्रतिषेधः वक्तव्यः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-३४/६६) न वक्तव्यः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-३५/६६) अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-३६/६६) अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् भविष्यति ॒ समासः एव अर्थवताम् समुदायायानाम् प्रातिपदिकसञ्ज्ञः भवति न अन्यः इति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-३७/६६) यदि नियमः क्रियते प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसञ्ज्ञा न प्राप्नोति ॒ बहुपटवः , उच्चकैः इति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-३८/६६) किम् पुनः अत्र प्रातिपदिकसञ्ज्ञया प्रार्थ्यते ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-३९/६६) प्रातिपदिकात् इति स्वाद्युत्पत्तिः यथा स्यात् ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-४०/६६) न एषः दोषः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-४१/६६) यथा एव अत्र अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न भवति एवम् लुक् अपि न भविष्यति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-४२/६६) तत्र या एव अन्तर्वर्तिनी विभक्तिः तस्याः एव श्रवणम् भविष्यति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-४३/६६) न एवम् शक्यम् ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-४४/६६) स्वरे हि दोषः स्यात् ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-४५/६६) बहुपटवः इति एवम् स्वरः प्रसज्येत बहुपटवः इति च इष्यते ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-४६/६६) पठिष्यति हि आचार्यः ॒ चितः सप्रकृतेः बह्वकजर्थम् इति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-४७/६६) तस्याम् पुनः लुप्तायम् या अन्या विभक्तिः उत्पद्यते तस्याः प्रकृत्यनेकदेशत्वात् अन्तोदात्तत्वम् न भविष्यति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-४८/६६) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसञ्ज्ञा इति यत् अयम् अप्रययः इति प्रतिषेधम् शास्ति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-४९/६६) सः च तदन्तप्रतिषेधः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-५०/६६) सः तर्हि ज्ञापकार्थः प्रत्ययप्रतिषेधः वक्तव्यः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-५१/६६) ननु च अयम् प्राप्त्यर्थः अपि वक्तव्यः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-५२/६६) न अर्थः प्राप्त्यर्थेन ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-५३/६६) कृत्तद्धितग्रहणम् नियमार्थम् भविष्यति ॒ कृत्तद्धितान्तस्य एव प्रत्ययान्तस्य प्रातिपदिकसञ्ज्ञा भविष्यति न अन्यस्य प्रत्ययान्तस्य इति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-५४/६६) सः एषः अनन्यार्थः प्रत्ययप्रतिषेधः वक्तव्यः प्रकृतिप्रत्ययसमुदायस्य वा प्रातिपदिकसञ्ज्ञा वक्तव्या ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-५५/६६) उभयम् न वक्तव्यम् ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-५६/६६) तुल्यजातीयस्य नियमः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-५७/६६) कः च तुल्यजातीयः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-५८/६६) यथाजातीयकानाम् समासः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-५९/६६) कथञ्जातीयकानाम् समासः ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-६०/६६) सुबन्तानाम् ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-६१/६६) सुप्तिङ्समुदायस्य तर्हि प्रातिपदिकसञ्ज्ञा प्राप्नोति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-६२/६६) सुप्तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा आरभ्यते ॒ जहि कर्मणा बहुलम् आभीक्ष्ण्ये कर्तारम् च अभिदधाति इति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-६३/६६) तत् नियमार्थम् भविष्यति ॒ एतस्य एव सुप्तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा भवति न अन्यस्य इति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-६४/६६) तिङ्समुदायस्य तर्हि प्रातिपदिकसञ्ज्ञा प्राप्नोति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-६५/६६) तिङ्समुदायस्य अपि प्रातिपदिकसञ्ज्ञा आरभ्यते ॒ आख्यातम् आख्यातेन क्रियासातत्ये इति ।

(पा-१,२.४५.२; अकि-१,२१७.११-२१९.९; रो-२,७१-७७; भा-६६/६६) तत् नियमार्थम् भविष्यति ॒ एतस्य एव तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा भवति न अन्यस्य इति ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-१/४०) अर्थवत्ता न उपपद्यते केवलेन अवचनात् ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-२/४०) अर्थवत्ता न उपपद्यते वृक्षशब्दस्य ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-३/४०) किम् कारणम् ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-४/४०) केवलेन अवचनात् ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-५/४०) न केवलेन वृक्षशब्देन अर्थः गम्यते ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-६/४०) केन तर्हि ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-७/४०) सप्रत्ययकेन ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-८/४०) न वा प्रत्ययेन नित्यसम्बन्धात् केवलस्य अप्रयोगः ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-९/४०) न वा एषः दोषः ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-१०/४०) किम् कारणम् ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-११/४०) प्रत्ययेन नित्यसम्बन्धात् ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-१२/४०) नित्यसम्बन्धौ एतौ अर्थौ प्रकृतिः प्रत्ययः इति ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-१३/४०) प्रत्ययेन नित्यसम्बन्धात् केवलस्य अप्रयोगः न भविष्यति ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-१४/४०) अन्यत् भवान् पृष्टः अन्यत् आचष्टे ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-१५/४०) आम्रान् पृष्टः कोविदारान् आचष्टे ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-१६/४०) अर्थवत्ता न उपपद्यते केवलेन अवचनात् इति भवान् अस्माभिः चोदितः केवलस्य अप्रयोगे हेतुम् आह ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-१७/४०) एवम् च किल नाम कृत्वा चोद्यते ॒ समुदायस्य अर्थे प्रयोगात् अवयवानाम् अप्रसिद्धिः इति ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-१८/४०) सिद्धम् तु अन्वयव्यतिरेकाभ्याम् ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-१९/४०) सिद्धम् एतत् ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-२०/४०) कथम् ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-२१/४०) अन्वयात् व्यतिरेकात् च ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-२२/४०) कः असौ अन्वयः व्यतिरेकः वा ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-२३/४०) इह वृक्षः इति उक्ते कः चित् शब्दः श्रूयते ॒ वृक्षशब्दः अकारान्तः सकारान्तः च प्रत्ययः ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-२४/४०) अर्थः अपि कः चित् गम्यते ॒ मूलस्कन्धफलपलाशवान् एकत्वम् च ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-२५/४०) वृक्षौ इति उक्ते कः चित् शब्दः हीयते कः चित् उपजायते कः चित् अन्वयी ॒ सकारः हीयते , औकारः उपजायते वृक्षशब्दः अकारान्तः अन्वयी ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-२६/४०) अर्थः अपि कः चित् हीयते कः चित् उपजायते कः चित् अन्वयी ॒ एकत्वम् हीयते द्वित्वम् उपजायते मूलस्कन्धफलपलाशवान् अन्वयी ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-२७/४०) ते मन्यामहे ॒ यः शब्दः हीयते तस्य असौ अर्थः यः अर्थः हीयते ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-२८/४०) यः शब्दः उपजायते तस्य असौ अर्थः यः अर्थः उपजायते ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-२९/४०) यः शब्दः अन्वयी तस्य असौ अर्थः यः अर्थः अन्वयी. विषमः उपन्यासः ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-३०/४०) बहवः हि शब्दाः एकार्थाः भवन्ति ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-३१/४०) तत् यथा ॒ इन्द्रः शक्रः पुरुहूतः पुरन्दरः , कन्दुः कोष्ठः कुशूलः इति ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-३२/४०) एकः च शब्दः बह्वर्थः ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-३३/४०) तत् यथा ॒ अक्षाः पादाः माषाः इति ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-३४/४०) अतः किम् न साधीयः अर्थवत्ता सिद्धा भवति ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-३५/४०) न ब्रूमः अर्थवत्ता न सिध्यति इति ।वर्णिता अर्थवत्ता अन्वयव्यतिरेकाभ्याम् एव ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-३६/४०) तत्र कुतः एतत् ॒ अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति न पुनः प्रकृतिः एव उभौ अर्थौ ब्रूयात् प्रत्ययः एव वा ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-३७/४०) सामान्यशब्दाः एते एवम् स्युः ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-३८/४०) सामान्यशब्दाः च न अन्तरेण विशेषम् प्रकरणम् वा विशेषेषु अवतिष्ठन्ते ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-३९/४०) यतः तु नियोगतः वृक्षः इति उक्ते स्वभावतः कस्मिन् चिद् अर्थे प्रतीतिः उपजायते अतः मन्यामहे न इमे सामान्यशब्दाः इति ।

(पा-१,२.४५.३; अकि-१,२१९.१०-२२०.८; रो-२,७७-७९; भा-४०/४०) न चेत् सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-१/२३) किम् पुनः इमे वर्णाः अर्थवन्तः आहोस्वित् अनर्थकाः ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-२/२३) वर्णस्य अर्थवदनर्थकत्वे उक्तम् ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-३/२३) किम् उक्तम् ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-४/२३) अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् अर्थदर्शनात् ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-५/२३) वर्णव्यत्यये च अर्थान्तरगमनात् ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-६/२३) वर्णानुपलब्धौ च अनर्थगतेः ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-७/२३) सङ्घातार्थवत्त्वात् च ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-८/२३) सङ्घातस्य ऐकार्थ्यात् सुबभावः वर्णात् ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-९/२३) अनर्थकाः तु प्रतिवर्णम् अर्थानुपलब्धेः ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-१०/२३) वर्णव्यत्ययापायोपजनविकारेषु अर्थदर्शनात् इति ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-११/२३) तत्र इदम् अपरिहृतम् ॒ सङ्घातार्थवत्त्वात् च इति ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-१२/२३) तस्य परिहारः ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-१३/२३) सङ्घातार्थवत्त्वात् च इति चेत् दृष्टः हिअतदर्थेन गुणेन गुणिनः अर्थभावः ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-१४/२३) सङ्घातार्थवत्त्वात् च इति चेत् दृश्यते हि पुनः अतदर्थेन गुणेन गुणिनः अर्थभावः ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-१५/२३) तत् यथा ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-१६/२३) एकः तन्तुः त्वक्त्राणे असमर्थः तत्समुदायः च कम्बलः समर्थः ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-१७/२३) एकः तण्डुलः क्षुत्प्रतिघाते असमर्थः तत्समुदायः च वर्धतिकम् समर्थः ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-१८/२३) एकः च बल्वजः बन्धने असमर्थः तत्समुदायः च रज्जुः समर्था भवति ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-१९/२३) विषमः उपन्यासः ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-२०/२३) भवति हि तत्र या च यावती च अर्थमात्रा ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-२१/२३) भवति हि किम् चित् प्रति एकः तन्तुः त्वक्त्राणे समर्थः एकः च तण्डुलः क्षुत्प्रतिघाते समर्थः एकः च बल्वजः बन्धने समर्थः ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-२२/२३) इमे पुनः वर्णाः अत्यन्ताय एव अनर्थकाः ।

(पा-१,२.४५.४; अकि-१,२२०.९-२४; रो-२,७९-८०; भा-२३/२३) यथा तर्हि रथाङ्गानि विहृतानि प्रत्येकम् व्रजिक्रियाम् प्रति असमर्थानि भवन्ति तत्समुदायः च रथः समर्थः एवम् एषाम् वर्णानाम् समुदायाः अर्थवन्तः अवयवाः अनर्थकाः इति ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-१/२१) निपातस्य अनर्थकस्य प्रातिपदिकत्वम् ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-२/२१) निपातस्य अनर्थकस्य प्रातिपदिकसञ्ज्ञा वक्तव्या ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-३/२१) खञ्जति निखञ्जति लम्बते प्रलम्बते ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-४/२१) किम् पुनः अत्र प्रातिपदिकसञ्ज्ञया प्रार्थ्यते ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-५/२१) प्रातिपदिकात् इति स्वाद्युत्पत्तिः , सुबन्तम् पदम् इति पदसञ्ज्ञा , पदस्य पदात् इति निघातः यथा स्यात् ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-६/२१) न एतत् अस्ति प्रयोजनम् ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-७/२१) सत्याम् अपि प्रातिपदिकसञ्ज्ञायाम् स्वाद्युत्पत्तिः न प्राप्नोति ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-८/२१) किम् कारणम् ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-९/२१) न हि प्रातिपदिकसञ्ज्ञायाम् एव स्वाद्युत्पत्तिः प्रतिबद्धा ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-१०/२१) किम् तर्हि ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-११/२१) एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एषाम् एकत्वादयः सन्ति ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-१२/२१) न एषः दोषः ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-१३/२१) अविशेषेण उत्पद्यन्ते ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-१४/२१) उत्पन्नानाम् नियमः क्रियते ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-१५/२१) अथ वा प्रकृतार्थान् अपेक्ष्य नियमः ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-१६/२१) के च प्रकृताः ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-१७/२१) एकत्वादयः ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-१८/२१) एकस्मिन् एव अर्थे एकवचनम् न द्वयोः न बहुषु ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-१९/२१) द्वयोः एव द्विवचनम् न एकस्मिन् न बहुषु ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-२०/२१) बहुषु एव अर्थेषु बहुवचनम् न एकस्मिन् न द्वयोः इति ।

(पा-१,२.४५.५; अकि-१,२२०.२५-२२१.१०; रो-२,८१-८२; भा-२१/२१) अथ वा आचार्यप्रवृत्तिः ज्ञापयति अनर्थकानाम् अपि एतेषाम् भवति अर्थवत्कृतम् इति यत् अयम् अधिपरी* अनर्थकौ इति अनर्थकयोः गत्युपसर्गसञ्जाबाधिकाम् कर्मप्रवचनीयसञ्ज्ञाम् शास्ति

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-१/३४) किम् पुनः अयम् पर्युदासः ॒ यत् अन्यत् प्रत्ययात् आहोस्वित् प्रसज्य अयम् प्रतिषेधः ॒ प्रत्ययः न इति ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-२/३४) कः च अत्र विशेषः ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-३/३४) अप्रत्ययः इति चेत् तिबेकादेशे प्रतिषेधः अन्तवत्त्वात् ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-४/३४) अप्रत्ययः इति चेत् तिबेकादेशे प्रतिषेधः वक्तव्यः ॒ काण्डे कुड्ये ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-५/३४) किम् कारणम् ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-६/३४) अन्तवत्त्वात् ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-७/३४) तिबतिपोः एकादेशः अतिपः अन्तवत् स्यात् ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-८/३४) अस्ति अन्यत् तिपः इति कृत्वा प्रातिपदिकसञ्ज्ञा प्राप्नोति ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-९/३४) अस्तु तर्हि प्रसज्यप्रतिषेधः ॒ प्रत्ययः न इति ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-१०/३४) न प्रत्ययः इति चेत् ऊङेकादेशे प्रतिषेधः आदिवत्त्वात् ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-११/३४) न प्रत्ययः इति चेत् ऊङेकादेशे प्रतिषेधः प्राप्नोति ॒ ब्रह्मबन्धूः ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-१२/३४) किम् कारणम् ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-१३/३४) आदिवत्त्वात् ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-१४/३४) प्रत्ययाप्रत्यययोः प्रत्ययस्य आदिवत् स्यात् ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-१५/३४) तत्र प्रत्ययः न इति प्रतिषेधः प्राप्नोति ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-१६/३४) न एषः दोषः ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-१७/३४) आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते ऊङन्तात् स्वादयः इति यत् अयम् न ऊङ्धात्वोः इति विभक्तिस्वरस्य प्रतिषेधम् शाश्ति ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-१८/३४) अथ वा द्वे हि अत्र प्रातिपदिकसञ्ज्ञे ॒ अवयवस्य अपि समुदायस्य अपि ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-१९/३४) तत्र अवयवस्य या प्रातिपदिकसञ्ज्ञा तया अन्तवद्भावात् स्वाद्युत्पत्तिः भविष्यति ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-२०/३४) सुब्लोपे च प्रत्ययलक्षणत्वात् ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-२१/३४) सुब्लोपे च प्रत्ययलक्षणेन प्रतिषेधः प्राप्नोति ॒ राजा तक्षा ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-२२/३४) प्रत्ययलक्षणेन प्रत्ययः न इति प्रतिषेधः प्राप्नोति ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-२३/३४) न एषः दोषः ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-२४/३४) आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन प्रतिषेधः भवति इति यत् अयम् न ङिसम्बुद्ध्योः इति प्रतिषेधम् शास्ति ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-२५/३४) अथ वा पुनः अस्तु पर्युदासः ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-२६/३४) ननु च उक्तम् ॒ अप्रत्ययः इति चेत् तिबेकादेशे प्रतिषेधः अन्तवत्त्वात् इति ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-२७/३४) प्रसज्यप्रतिषेधे अपि एषः दोषः ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-२८/३४) द्वे हि अत्र प्रातिपदिकसञ्ज्ञे ॒ अवयवस्य अपि समुदायस्य अपि ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-२९/३४) गृह्यते च प्रातिपदिकाप्रातिपदिकयोः एकादेशः प्रातिपदिकग्रहणेन ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-३०/३४) तस्मात् उभाभ्याम् अपि वक्तव्यम् स्यात् ॒ ह्रस्वः नपुंसके यत् तस्य इति ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-३१/३४) किम् च नपुंसके ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-३२/३४) नपुंसकम् यस्य गुणः ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-३३/३४) कस्य च नपुंसकम् गुणः ।

(पा-१,२.४५.६; अकि-१,२२१.११-२२२.७; रो-२,८२-८५; भा-३४/३४) प्रातिपदिकस्य ।