व्याकरणमहाभाष्य खण्ड 14

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-१/२४) रूपग्रहणम् किमर्थम् ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-२/२४) समानानाम् एकशेष एकविभक्तौ इति इयति उच्यमाने यत्र एव सर्वम् समानम् शब्दः अर्थः च तत्र एव स्यात् ॒ वृक्षाः , प्लक्षाः इति ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-३/२४) इह न स्यात् ॒ अक्षाः ,. पादाः , माषाः इति ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-४/२४) रूपग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-५/२४) रूपम् निमित्तत्वेन आश्रीयते श्रुतौ च रूपग्रहणम् ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-६/२४) अथ एकग्रहणम् किमर्थम् ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-७/२४) सरूपाणाम् शेषः एकविभक्तौ इति इयति उच्यमाने द्विबह्वोः अपि शेषः प्रसज्येत ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-८/२४) एकग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-९/२४) अथ शेषग्रहणम् किमर्थम् ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-१०/२४) सरूपाणाम् एकः एकविभक्तौ इति इयति उच्यमाने आदेशः अयम् विज्ञायेत ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-११/२४) तत्र कः दोषः ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-१२/२४) अश्वः च अस्वः च अश्वौ ॒ आन्तर्यतः द्व्युदात्तवतः स्थानिनः द्व्युदात्तवान् आदेशः प्रसज्येत ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-१३/२४) लोप्यलोपिता च न प्रकल्पेत ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-१४/२४) तत्र कः दोषः ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-१५/२४) गर्गाः , वत्साः , बिदाः , उर्वाः ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-१६/२४) अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-१७/२४) मा भूत् एवम् ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-१८/२४) अञन्तम् यत् बहुषु यञन्तम् यत् बहुषु इति एवम् भविष्यति ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-१९/२४) न एवम् शक्यम् ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-२०/२४) इह हि दोषः स्यात्. ॒ काश्यपप्रतिकृतयः काश्यपाः इति ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-२१/२४) एकविभक्तौ इति किमर्थम् ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-२२/२४) पयः पयः जरयति ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-२३/२४) वासः वासः छादयति ।

(पा-१,२.६४.१; अकि-१,२३३.२-१४; रो-२,११४-११६; भा-२४/२४) ब्राह्मणाभ्याम् च कृतम् ब्राह्मणाभ्याम् च देहि इति ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-१/२२) किमर्थम् पुनः इदम् उच्यते ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-२/२२) प्रत्यर्थम् शब्दनिवेशात् न एकेन अनेकस्य अभिधानम् । प्रत्यर्थम् शब्दाः अभिनिविशन्ते ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-३/२२) किम् इदम् प्रत्यर्थम् इति ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-४/२२) अर्थम् अर्थम् प्रति प्रत्यर्थम् ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-५/२२) प्रत्यर्थम् शाब्दनिवेशात् एतस्मात् कारणात् न एकेन शब्देन अनेकस्य अर्थस्य अभिधानम् प्राप्नोति ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-६/२२) तत्र कः दोषः ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-७/२२) तत्र अनेकार्थाभिधाने अनेकशब्दत्वम् ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-८/२२) तत्र अनेकार्थाभिधाने अनेकशब्दत्वम् प्राप्नोति ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-९/२२) इष्यते च एकेन अपि अनेकस्य अभिधानम् स्यात् इति ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-१०/२२) तत् च अन्तरेण यत्नम् न सिध्यति ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-११/२२) तस्मात् एकशेषः ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-१२/२२) एवमर्थम् इदम् उच्यते ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-१३/२२) अस्ति प्रयोजनम् एतत् ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-१४/२२) किम् तर्हि इति ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-१५/२२) किम् इदम् प्रत्यर्थम् शब्दाः अभिनिवेशन्ते इति एतम् दृष्टान्तम् आस्थाय सरूपाणाम् एकशेषः आरभ्यते न पुनः अप्रत्यर्थम् शब्दाः अभिनिविशन्ते इति एतम् दृष्टान्तम् आस्थाय विरूपाणाम् अनेकशेषः आरभ्यते ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-१६/२२) तत्र एतत् स्यात् ॒ लघीयसी सरूपनिवृत्तिर्ः गरीयसी विरूपप्रतिपत्तिः इति ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-१७/२२) तत् च न ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-१८/२२) लघीयसी विरूपप्रतिपत्तिः ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-१९/२२) किम् कारणम् ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-२०/२२) यत्र हि बहूनाम् सरूपाणाम् एकः शिष्यते तत्र अवरतः द्वयोः सरूपयोः निवृत्तिः वक्तव्या स्यात् ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-२१/२२) एवम् अपि एतस्मिन् सति किम् चित् आचार्यः सुकरतरकम् मन्यते ।

(पा-१,२.६४.२; अकि-१,२३३.१५-२३४.५; रो-२,११७-११९; भा-२२/२२) सुकरतरकम् च एकशेषारम्भम् मन्यते ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१/१८६) किम् पुनः अयम् एकविभक्तौ एकशेषः भवति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-२/१८६) एवम् भवितुम् अर्हति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-३/१८६) एकविभक्तौ इति चेत् न अभावाद् विभक्तेः । एकविभक्तौ इति चेत् तत् न ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-४/१८६) किम् कारणम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-५/१८६) अभावात् विभक्तेः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-६/१८६) न हि समुदायात् परा विभक्तिः अस्ति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-७/१८६) किम् कारणम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-८/१८६) अप्रातिपदिकत्वात् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-९/१८६) ननु च अर्थवत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा भविष्यति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१०/१८६) नियमात् न प्राप्नोति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-११/१८६) अर्थवत्समुदयानाम् समासग्रहणम् नियमार्थम् इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१२/१८६) यदि पुनः पृथक् सर्वेषाम् विभक्तिपराणाम् एकशेषः उच्येत ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१३/१८६) पृथक् सर्वेषाम् इति चेत् एकशेषे पृथक् विभक्त्युपलब्धिः तदाश्रयत्वात् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१४/१८६) पृथक् सर्वेषाम् इति चेत् एकशेषे पृथक् विभक्त्युपलब्धिः प्राप्नोति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१५/१८६) किम् उच्यते एकशेषे पृथक् विभक्त्युपलब्धिः इति यावता समयः कृतः ॒ न केवला प्रकृतिः प्रयोक्तव्या न केवलः प्रत्ययः इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१६/१८६) तदाश्रयत्वात् प्राप्नोति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१७/१८६) यत्र हि प्रकृतिनिमित्ता प्रत्ययनिवृत्तिः तत्र अप्रत्ययिकायाः प्रकृतेः प्रयोगः भवति अग्निचित् सोमसुत् इति यथा ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१८/१८६) यत्र च प्रत्ययनिमित्ता प्रकृतिनिवृत्तिः तत्र अप्रकृतिकस्य प्रत्ययस्य प्रयोगः भवति अधुना , इयान् इति यथा ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१९/१८६) अस्तु संयोगान्तलोपेन सिद्धम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-२०/१८६) कुतः नु खलु एतत् परयोः वृक्षशब्दयोः निवृत्तिः भविष्यति न पुनः पूर्वयोः इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-२१/१८६) तत्र एतत् स्यात् ॒ पूर्वनिवृत्तव् अपि सत्याम् संयोगादिलोपेन सिद्धम् इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-२२/१८६) न सिध्यति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-२३/१८६) तत्र अवरतः द्वयोः सकारयोः श्रवणम् प्रसज्येत. यत्र च संयोगान्तलोपः न अस्ति तत्र च न सिध्यति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-२४/१८६) क्व च संयोगान्तलोपः न अस्ति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-२५/१८६) द्विवचनबहुवचनयोः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-२६/१८६) यदि पुनः समासे एकशेषः उच्येत ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-२७/१८६) किम् कृतम् भवति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-२८/१८६) कः चित् वचनलोपः परिहृतः भवति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-२९/१८६) तत् तर्हि समासग्रहणम् कर्तव्यम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-३०/१८६) न कर्तव्यम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-३१/१८६) प्रकृतम् अनुवर्तते ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-३२/१८६) क्व प्रकृतम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-३३/१८६) तिष्यपुनर्वस्वोः नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-३४/१८६) समासे इति चेत् स्वरसमासान्तेषु दोषः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-३५/१८६) समासे इति चेत् स्वरसमासान्तेषु दोषः भवति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-३६/१८६) स्वर ॒ अश्वः च अश्वः च अश्वौ. समासान्तोदात्तत्वे कृते एकशेषः प्राप्नोति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-३७/१८६) इदम् इह सम्प्रधार्यम् ॒ समासान्तोदात्तत्त्वम् क्रियताम् एकशेषः इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-३८/१८६) किम् अत्र कर्तव्यम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-३९/१८६) परत्वात् समासान्तोदात्तत्वम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-४०/१८६) समासान्तोदात्तत्वे च दोषः भवति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-४१/१८६) स्वर ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-४२/१८६) समासान्त ॒ ऋक् च ऋक् च ऋचौ ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-४३/१८६) समासान्ते कृते असारूप्यात् एकशेषः न प्राप्नोति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-४४/१८६) इदम् इह सम्प्रधार्यम् ॒ समासान्तः क्रियताम् एकशेषः इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-४५/१८६) किम् अत्र कर्तव्यम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-४६/१८६) परत्वात् समासान्तः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-४७/१८६) समासान्ते च दोषः भवति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-४८/१८६) अङ्गाश्रये च एकशेषवचनम् । अङ्गाश्रये च कार्ये एकशेषः वक्तव्यः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-४९/१८६) स्वसा च स्वसारौ च स्वसारः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-५०/१८६) अङ्गाश्रये कृते असारूप्यात् एकशेषः न प्राप्नोति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-५१/१८६) इदम् इह सम्प्रधार्यम् ॒ अङ्गाश्रयम् क्रियताम् एकशेषः इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-५२/१८६) किम् अत्र कर्तव्यम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-५३/१८६) परत्वात् अङ्गाश्रयम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-५४/१८६) तिङ्समासे तिङ्समासवचनम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-५५/१८६) तिङ्समासे तिङ्समासः वक्तव्यः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-५६/१८६) एकम् तिङ्ग्रहणम् अनर्थकम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-५७/१८६) समासे तिङ्समासः इति एव सिद्धम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-५८/१८६) न अनर्थकम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-५९/१८६) तिङ्समासे प्रकृते तिङ्समासः वक्तव्यः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-६०/१८६) तिङ्विधिप्रतिषेधः च ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-६१/१८६) तिङ् च कः चित् विधेयः कः चित् प्रतिषेध्यः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-६२/१८६) पचति च पचति च पचतः ॒ तःशब्दः विधेयः तिशब्दः प्रतिषेध्यः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-६३/१८६) यदि पुनः असमासे एकशेषः उच्येत ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-६४/१८६) असमासे वचनलोपः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-६५/१८६) यदि असमासे वचनलोपः वक्तव्यः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-६६/१८६) ननु च उत्पतता एव वचनलोपम् चोदिताः स्मः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-६७/१८६) द्विवचनबहुवचनविधिम् द्वन्द्वप्रतिषेधम् च वक्ष्यति तदर्थम् पुनः चोद्यते ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-६८/१८६) द्विवचनबहुवचनविधिः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-६९/१८६) द्विवचनबहुवचनानि विधेयानि ॒ वृक्षः च वृक्षः च वृक्षौ , वृक्षः च वृक्षः च वृक्षः च वृक्षाः इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-७०/१८६) द्वन्द्वप्रतिषेधः च ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-७१/१८६) द्वन्द्वस्य च प्रतिषेधः वक्तव्यः ॒ वृक्षः च वृक्षः च वृक्षौ , वृक्षः च वृक्षः च वृक्षः च वृक्षाः इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-७२/१८६) चार्थे द्वन्द्वः इति द्वन्द्वः प्राप्नोति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-७३/१८६) न एषः दोषः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-७४/१८६) अनवकाशः एकशेषः द्वन्द्वम् बाधिष्यते ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-७५/१८६) सावकाशः एकशेषः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-७६/१८६) कः अवकाशः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-७७/१८६) तिङन्तानि अवकाशः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-७८/१८६) यदि पुनः पृथक् सर्वेषाम् विभक्त्यन्तानाम् एकशेषः उच्येत ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-७९/१८६) किम् कृतम् भवति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-८०/१८६) कः चित् वचनलोपः परिहृतः भवति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-८१/१८६) विभक्त्यन्तानाम् एकशेषे विभक्त्यन्तानाम् एकशेषे विभक्त्यन्तानाम् एव तु निवृत्तिः भवति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-८२/१८६) एकविभक्त्यन्तानाम् इति तु पृथग्विभक्तिप्रतिषेधार्थम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-८३/१८६) एकविभक्त्यन्तानाम् इति तु वक्तव्यम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-८४/१८६) किम् प्रयोजनम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-८५/१८६) पृथग्विभक्तिप्रतिषेधार्थम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-८६/१८६) पृथग्विभक्त्यन्तानाम् मा भूत् ॒ ब्राह्मणाभ्याम् च कृतम् ब्राह्मणाभ्याम् च देहि ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-८७/१८६) न वा अर्थविप्रतिषेधात् युगपद्वचनाभावः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-८८/१८६) न वा एषः दोषः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-८९/१८६) किम् कारणम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-९०/१८६) अर्थविप्रतिषेधात् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-९१/१८६) विप्रतिषिद्धौ एतौ अर्थौ कर्ता संप्रदानम् इति अशक्यौ युगपत् निर्देष्टुम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-९२/१८६) तयोः विप्रतिषिद्धत्वात् युगपद्वचनम् न भविष्यति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-९३/१८६) अनेकार्थाश्रयः च पुनः एकशेषः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-९४/१८६) अनेकम् अर्थम् सम्प्रत्याययिष्यामि इति एकशेषः आरभ्यते ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-९५/१८६) तस्मात् न एकशब्दत्वम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-९६/१८६) तस्मात् एकशब्दत्वम् न भविष्यति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-९७/१८६) अयम् तर्हि दोषः ॒ कः चित् वचनलोपः द्विवचनबहुवचनविधिः द्वन्द्वप्रतिषेधः च इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-९८/१८६) यदि पुनः प्रातिपदिकानाम् एकशेषः उच्येत ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-९९/१८६) किम् कृतम् भवति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१००/१८६) वचनलोपः परिहृतः भवति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१०१/१८६) प्रातिपदिकानाम् एकशेषे मातृमात्रोः प्रतिषेधः सरूपत्वात् । प्रातिपदिकानाम् एकशेषे मातृमात्रोः प्रतिषेधः वक्तव्यः ॒ माता च जनयित्री मातारौ च धान्यस्य मातृमातारः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१०२/१८६) किम् कारणम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१०३/१८६) सरूपत्वात् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१०४/१८६) सरूपाणि हि एतानि प्रातिपदिकानि ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१०५/१८६) किम् उच्यते प्रातिपदिकानाम् एकशेषे मातृमात्रोः प्रतिषेधः वक्तव्यः इति न पुनः यस्य अपि विभक्त्यन्तानाम् एकशेषः तेन अपि मातृमात्रोः प्रतिषेधः वक्तव्यः स्यात् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१०६/१८६) तस्य अपि हि एतानि क्व चित् विभक्त्यन्तानि सरूपाणि ॒ मातृभ्याम् च मातृभ्यां च इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१०७/१८६) अथ मतम् एतत् विभक्त्यन्तानाम् सारूप्ये भवितव्यम् एव एकशेषेण इति प्रातिपदिकानाम् एव एकशेषे दोषः भवति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१०८/१८६) एवम् च कृत्वा चोद्यते ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१०९/१८६) हरितहरिणश्येतश्येनरोहितरोहिणानाम् स्त्रियाम् उपसङ्ख्यानम् । हरितहरिणश्येतश्येनरोहितरोहिणानाम् स्त्रियाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-११०/१८६) हरितस्य स्त्री हरिणी हरिणस्य अपि हरिणी , हरिणी च हरिणी च हरिण्यौ ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१११/१८६) श्येतस्य स्त्री श्येनी श्येनस्य अपि श्येनी , श्येनी च श्येनी च श्येन्यौ ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-११२/१८६) रोहितस्य स्त्री रोहिणी रोहिणस्य अपि रोहिणी , रोहिणी च रोहिणी च रोहिण्यौ ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-११३/१८६) न वा पदस्य अर्थे प्रयोगात् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-११४/१८६) न वा एषः दोषः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-११५/१८६) किम् कारणम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-११६/१८६) पदस्य अर्थे प्रयोगात् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-११७/१८६) पदम् अर्थे प्रयुज्यते विभक्त्यन्तम् च पदम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-११८/१८६) रूपम् च इह आश्रीयते ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-११९/१८६) रूपनिर्ग्रहः च शब्दस्य न अन्तरेण लौकिकम् प्रयोगम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१२०/१८६) तस्मिन् च लौकिके प्रयोगे सरूपाणि एतानि ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१२१/१८६) अपरः आह ॒ न वा पदस्य अर्थे प्रयोगात् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१२२/१८६) न वा एषः पक्षः एव अस्ति प्रातिपदिकानाम् एकशेषः इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१२३/१८६) किम् काराणम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१२४/१८६) पदस्य अर्थे प्रयोगात् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१२५/१८६) पदम् अर्थे प्रयुज्यते विभक्त्यन्तम् च पदम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१२६/१८६) रूपम् च इह आश्रीयते रूपनिर्ग्रहः च शब्दस्य न अन्तरेण लौकिकम् प्रयोगम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१२७/१८६) तस्मिन् च लौकिके प्रयोगे प्रातिपदिकानाम् प्रयोगः न अस्ति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१२८/१८६) अथ अनेन पक्षेण अर्थः स्यात् ॒ प्रातिपदिकानाम् एकशेषः इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१२९/१८६) बाढम् अर्थः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१३०/१८६) किम् वक्तव्यम् एतत् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१३१/१८६) न हि ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१३२/१८६) कथम् अनुच्यमानम् गंस्यते ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१३३/१८६) एतेन एव अभिहितम् सूत्रेण सरूपाणाम् एकशेषः एकविभक्तौ इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१३४/१८६) कथम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१३५/१८६) विभक्तिः सारूप्येण आश्रीयते ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१३६/१८६) अनैमित्तिकः एकशेषः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१३७/१८६) एकविभक्तौ यानि सरूपाणि तेषाम् एकशेषः भवति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१३८/१८६) क्व ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१३९/१८६) यत्र वा तत्र वा इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१४०/१८६) अथ अनेन पक्षेण अर्थः स्यात् ॒ विभक्त्यन्तानाम् एकशेषः इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१४१/१८६) बाढम् अर्थः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१४२/१८६) किम् वक्तव्यम् एतत् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१४३/१८६) न हि ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१४४/१८६) कथम् अनुच्यमानम् गंस्यते ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१४५/१८६) एतत् अपि एतेन एव अभिहितम् सूत्रेण सरूपाणाम् एकशेषः एकविभक्तौ इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१४६/१८६) कथम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१४७/१८६) न इदम् पारिभाषिक्याः विभक्तेः ग्रहणम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१४८/१८६) किम् तर्हि ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१४९/१८६) अन्वर्थग्रहणम् ॒ विभागः विभक्तिः इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१५०/१८६) एकविभागे यानि सरूपाणि तेषाम् एकशेषः भवति इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१५१/१८६) ननु च उक्तं ॒ कः चित् वचनलोपः द्विवचनबहुवचनविधिः द्वन्द्वप्रतिषेधः च इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१५२/१८६) न एषः दोषः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१५३/१८६) यत् तावत् उच्यते कः चित् वचनलोपः द्विवचनबहुवचनविधिःिति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१५४/१८६) सहविवक्षायाम् एकशेषः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१५५/१८६) युगपद्विवक्षायाम् एकशेषेण भवितव्यम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१५६/१८६) न तर्हि इदानीम् इदम् भवति ॒ वृक्षः च वृक्षः च वृक्षौ , वृक्षः च वृक्षः च वृक्षः च वृक्षाः इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१५७/१८६) न एतत् सहविवक्षायाम् भवति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१५८/१८६) अथ अपि निदर्शयितुम् बुद्धिः एवम् निदर्शयितव्यम् ॒ वृक्षौ च वृक्षौ च वृक्षौ , वृक्षाः च वृक्षाः च वृक्षाः च वृक्षाः इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१५९/१८६) यत् अपि उच्यते द्वन्द्वप्रतिषेधः च वक्तव्यः इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१६०/१८६) न एषः दोषः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१६१/१८६) अनवकाशः एकशेष्ः द्वन्द्वम् बाधिष्यते ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१६२/१८६) ननु च उक्तम् सावकाशः एकशेषः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१६३/१८६) कः अवकाशः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१६४/१८६) तिङन्तानि अवकाशः इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१६५/१८६) न तिङन्तानि एकशेषारम्भम् प्रयोजयन्ति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१६६/१८६) किम् काऋअणम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१६७/१८६) यथाजातीयकानाम् द्वितीयस्य पदस्य प्रयोगे सामर्थ्यम् अस्ति तथाजातीयकानाम् एकशेषः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१६८/१८६) न च तिङन्तानाम् द्वितीयस्य पदस्य प्रयोगे सामर्थ्यम् अस्ति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१६९/१८६) किम् कारणम् ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१७०/१८६) एका हि क्रिया ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१७१/१८६) एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१७२/१८६) यदि तर्हि एका क्रिया द्विवचनबहुवचनानि न सिध्यन्ति ॒ पचतः पचन्ति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१७३/१८६) न एतानि क्रियापेक्षाणि ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१७४/१८६) किम् तर्हि ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१७५/१८६) साधनापेक्षाणि ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१७६/१८६) अथ वा पुनः अस्तु एकविभक्तौ इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१७७/१८६) ननु च उक्तम् एकविभक्तौ इति चेत् न अभावात् विभक्तेः इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१७८/१८६) न एषः दोषः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१७९/१८६) परिहृतम् एतत् ॒ अर्थवत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा भविष्यति इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१८०/१८६) ननु च उक्तम् नियमात् न प्राप्नोति अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् इति ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१८१/१८६) न एषः दोषः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१८२/१८६) तुल्यजातीयस्य नियमः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१८३/१८६) कः च तुल्यजातीयः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१८४/१८६) यथाजातीयकानाम् समासः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१८५/१८६) कथञ्जातीयकानाम् समासः ।

(पा-१,२.६४.३; अकि-१,२३४.६-२३८.१७; रो-२,११९-१३३; भा-१८६/१८६) सुबन्तानाम्

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-१/३०) सर्वत्र अपत्यादिषु उपसङ्ख्यानम् ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-२/३०) सर्वेषु पक्षेषु अपत्यादिषु उपसङ्ख्यानम् कर्तव्यम् ॒ भिक्षाणाम् समूहः भैक्षम् इति ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-३/३०) सर्वत्र इति उच्यते प्रातिपदिकाणाम् च एकशेषे सिद्धम् ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-४/३०) अपत्यादिषु इति उच्यते बहवः च अपत्यादयः ॒ गर्गस्य अपत्यम् बहवः गर्गाः ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-५/३०) एका प्रकृतिः बहवः च यञः ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-६/३०) असारूप्यात् एकशेषः न प्राप्नोति ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-७/३०) ननु च यथा एव बहवः यञः एवम् प्रकृतयः अपि बह्व्यः स्युः ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-८/३०) न एवम् शक्यम् ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-९/३०) इह हि दोषः स्यात् ॒ गर्गाः , वत्साः , बिदाः , उर्वाः इति ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-१०/३०) अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-११/३०) मा भूत् एवम् ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-१२/३०) अञन्तम् यत् बहुषु यञन्तम् यत् बहुषु इति एवम् भविष्यति ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-१३/३०) ननु च उक्तम् ॒ न एवम् शक्यम् ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-१४/३०) इह हि दोषः स्यात् ॒ काश्यपप्रतिकृतयः काश्यपाः इति ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-१५/३०) न एषः दोषः ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-१६/३०) लौकिकस्य तत्र गोत्रस्य ग्रहणम् न च एतत् लौकिकम् गोत्रम् ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-१७/३०) अथ वा पुनः अस्तु एका प्रकृतिः बहवः च यञः ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-१८/३०) ननु च उक्तम् ॒ असारूप्यात् एकशेषः न प्राप्नोति इति ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-१९/३०) सिद्धम् तु समानार्थानाम् एकशेषवचनात् ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-२०/३०) सिद्धम् एतत् ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-२१/३०) कथम् ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-२२/३०) समानार्थानाम् एकशेषः भवति इति वक्तव्यम् ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-२३/३०) यदि समानार्थानाम् एकशेषः उच्यते कथम् अक्षाः , पादाः , माषाः इति ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-२४/३०) नानार्थानाम् अपि सरूपाणाम् ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-२५/३०) नानार्थानाम् अपि सरूपाणाम् एकशेष्ः वक्तव्यः ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-२६/३०) एकार्थानाम् अपि विरूपाणाम् ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-२७/३०) एकार्थानाम् अपि विरूपाणाम् एकशेषः वक्तव्यः ॒ वक्रदण्डः च कुटिलदण्डः च वक्रदण्डौ कुटिलदण्डाउ इति वा ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-२८/३०) स्वरभिन्नानाम् यस्य उत्तरस्वरविधिः ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-२९/३०) स्वरभिन्नानाम् यस्य उत्तरस्वरविधिः तस्य एकशेषः वक्तव्यः ।

(पा-१,२.६४.४; अकि-१,२३८.१८-२३९.११; रो-२,१३३-१३६; भा-३०/३०) अक्षः च अक्षः च अक्षौ , मीमंसकः च मीमांसकः च मीमंसकौ ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-१/४०) इह कस्मात् न भवति ॒ एकः च एकः च , द्वौ च द्वौ च इति ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-२/४०) सङ्ख्यायाः अर्थासम्प्रत्ययात् अन्यपदार्थत्वात् च अनेकशेषः ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-३/४०) सङ्ख्यायाः अर्थासम्प्रत्ययात् एकशेषः न भविष्यति ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-४/४०) न हि एकौ इति अनेन अर्थः गम्यते ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-५/४०) अन्यपदार्थत्वात् च सङ्ख्यायाः एकशेषः न भविष्यति ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-६/४०) एकः च एकः च इति अस्य द्वौ इति अर्थः ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-७/४०) द्वौ च द्वौ च इति अस्य चत्वारः इति अर्थः ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-८/४०) न एतौ स्तः परिहारौ ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-९/४०) यत् तावत् उच्यते सङ्ख्यायाः अर्थासम्प्रत्ययात् इति ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-१०/४०) अर्थासम्प्रत्यये अपि एकशेषः भवति ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-११/४०) तत् यथा ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-१२/४०) गार्ग्यः च गार्ग्यायणः च गार्ग्यौ ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-१३/४०) न च उच्यते वृद्धयुवानौ इति भवति च एकशेषः ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-१४/४०) यत् अपि उच्यते ॒ अन्यपदार्थत्वात् च इति ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-१५/४०) अन्यपदार्थे अपि एकशेषः भवति ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-१६/४०) तत् यथा ॒ विंशतिः च विंशतिः च विंशती इति ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-१७/४०) तयोः चत्वारिंशत् इति अर्थः ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-१८/४०) एवम् तर्हि न इमौ पृथक् परिहारौ ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-१९/४०) एकपरिहारः अयम् ॒ सङ्ख्यायाः अर्थासम्प्रत्ययात् अन्यपदार्थत्वात् च इति ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-२०/४०) यत्र हि अर्थासम्प्रत्ययः एव वा अन्यपदार्थता एव वा भवति तत्र एकशेषः गार्ग्यौ विंशती इति यथा ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-२१/४०) अथ वा न इमे एकशेषशब्दाः ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-२२/४०) यदि तर्हि न इमे एकशेषशब्दाः समुदायशब्दाः तर्हि भवन्ति ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-२३/४०) तत्र कः दोषः ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-२४/४०) एकवचनम् प्राप्नोति ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-२५/४०) एकार्थाः हि समुदायाः भवन्ति ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-२६/४०) तत् यथा यूथम् , शतम् , वनम् इति ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-२७/४०) सन्तु तर्हि एकशेषशब्दाः ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-२८/४०) किङ्कृतम् सारूप्यम् ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-२९/४०) अन्योन्यकृतम् सारूप्यम् ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-३०/४०) सन्ति पुनः के चित् अन्ये अपि शब्दाः येषाम् अन्योन्यकृतः भावः ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-३१/४०) सन्ति इति आह ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-३२/४०) तद् यथा माता पिता भ्राता इति ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-३३/४०) विषमः उपन्यासः ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-३४/४०) सकृत् एते शब्दाः प्रवृत्ताः अपायेषु अपि वर्तन्ते ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-३५/४०) इह पुनः एकेन अपि अपाये न भवति चत्वारः इति ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-३६/४०) अन्यत् इदानीम् एतत् उच्यते सकृत् एते शब्दाः प्रवृत्ताः अपायेषु अपि वर्तन्ते इति ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-३७/४०) यत् तु भवान् अस्मान् चोदयति सन्ति पुनः के चित् अन्ये अपि शब्दाः येषाम् अन्योन्यकृत्ः भावः इति तत्र एते अस्माभिः उपन्यस्ताः ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-३८/४०) तत्र एतत् भवान् आह सकृत् एते शब्दाः प्रवृत्ताः अपायेषु अपि वर्तन्ते इति ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-३९/४०) एतत् च वार्त्तम् ।

(पा-१,२.६४.५; अकि-१,२३९.१२-२४०.११; रो-२,१३६-१३९; भा-४०/४०) एकैकः न उद्यन्तुम् भारम् शक्नोति यत् कथम् तत्र । एकैकः कर्ता स्यात् सर्वे वा स्युः कथम् युक्तम् ॥ कारणम् उद्यमनम् चेत् न उद्यच्छति च अन्तरेण तत् तुल्यम् । तस्मात् पृथक् पृथक् ते कर्तारः सव्यपेक्षाः तु ॥

(पा-१,२.६४.६; अकि-१,२४०.१२-१५; रो-२,१४०; भा-१/४) प्रथममध्यमोत्तमानाम् एकशेषः सरूपत्वात् ।

(पा-१,२.६४.६; अकि-१,२४०.१२-१५; रो-२,१४०; भा-२/४) प्रथममध्यमोत्तमानाम् एकशेषः वक्तव्यः ॒ पचति च पचसि च पचथः , पचसि च पचामि च पचावः , पचति च पचसि च पचामि च पचामः ।

(पा-१,२.६४.६; अकि-१,२४०.१२-१५; रो-२,१४०; भा-३/४) किम् पुनः कारणम् न सिध्यति ।

(पा-१,२.६४.६; अकि-१,२४०.१२-१५; रो-२,१४०; भा-४/४) असरूपत्वात् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-१/६१) द्विवचनबहुवचनाप्रसिद्धिः च एकार्थत्वात् । द्विवचनबहुवचनयोः च अप्रसिद्धिः ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-२/६१) किम् कारणम् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-३/६१) एकार्थत्वात् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-४/६१) एकः अयम् अवशिष्यते ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-५/६१) तेन अनेन तदर्थेन भवितव्यम् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-६/६१) किमर्थेन ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-७/६१) यदर्थः एकः ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-८/६१) किमर्थः च एकः ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-९/६१) एकः एकार्थः ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-१०/६१) न ऐकार्थ्यम् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-११/६१) न अयम् एकार्थः ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-१२/६१) किम् तर्हि ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-१३/६१) द्व्यर्थः बह्वर्थः च ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-१४/६१) न ऐकार्थ्यम् इति चेत् आरम्भानर्थक्यम् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-१५/६१) न ऐकार्थ्यम् इति चेत् एकशेषारम्भः अनर्थकः स्यात् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-१६/६१) इह हि शब्दस्य स्वाभाविकी वा अनेकार्थता स्यात् वाचनिकी वा ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-१७/६१) तत् यदि तावत् स्वाभाविकी अशिष्यः एकशेषः एकेन उक्तत्वात् । अशिष्यः एकशेषः ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-१८/६१) किम् कारणम् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-१९/६१) एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-२०/६१) अथ वाचनिकी तत् वक्तव्यम् ॒ एकः अयम् अविशिष्यते सः च द्व्यर्थः भवति बह्वर्थः च इति ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-२१/६१) न वक्तव्यम् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-२२/६१) सिद्धम् एकशेषः इति एव ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-२३/६१) कथम् पुनः एकः अयम् अविशिष्यते इति अनेन द्व्यर्थता बह्वर्थता वा शक्या लब्धुम् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-२४/६१) तत् च एकशेषकृतम् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-२५/६१) न हि अन्तरेण तद्वाचिनः शब्दस्य प्रयोगम् तस्य अर्थस्य गतिः भवति ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-२६/६१) पश्यामः च पुनः अन्तरेण अपि तद्वाचिनः शब्दस्य प्रयोगम् तस्य अर्थस्य गतिः भवति इति अग्निचित् सोमसुत् इति यथा ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-२७/६१) ते मन्यामहे ॒ लोपकृतम् एतत् येन अत्र अन्तरेण अपि तद्वाचिनः शब्दस्य प्रयोगम् तस्य अर्थस्य गतिः भवतिति ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-२८/६१) एवम् इह अपि एकशेषकृतम् एतत् येन अत्र एकः अयम् अवशिष्यते इति अनेन द्व्यर्थता बह्वर्थता वा भवति ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-२९/६१) उच्येत तर्हि न तु गम्येत ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-३०/६१) यः हि गाम् अश्वः इति ब्रूयात् अश्वम् वा गौः इति न जातु चित् सम्प्रत्ययः स्यात् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-३१/६१) तेन अनेकार्थाभिधाने यत्नम् कुर्वता अवश्यम् लोकः पृष्ठतः अनुगन्तव्यः ॒ केषु अर्थेषु लौकिकाः कान् शब्दान् प्रयुञ्जते इति ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-३२/६१) लोके च एकस्मिन् वृक्षः इति प्रयुञ्जते द्वयोः वृक्षौ इति बहुषु वृक्षाः इति ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-३३/६१) यदि तर्हि लोकः अवश्यम् शब्देषु प्रमाणम् किमर्थम् एकशेषः आरभ्यते ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-३४/६१) अथ किमर्थम् लोपः आरभ्यते ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-३५/६१) प्रत्ययलक्षणम् आचार्यः प्रार्थयमानः लोपम् आरभते ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-३६/६१) एकशेषारम्भे पुनः अस्य न किम् चित् प्रयोजनम् अस्ति ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-३७/६१) ननु च उक्तम् ॒ प्रत्यर्थम् शब्दनिवेशात् न एकेन अनेकस्य अभिधानम् इति ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-३८/६१) यदि च एकेन शब्देन अनेकस्य अर्थस्य अभिधानम् स्यात् न प्रत्यर्थम् शब्दनिवेशः कृतः स्यात् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-३९/६१) प्रत्यर्थम् शब्दनिवेशात् एकेन अनेकस्य अभिधानात् अप्रत्यर्थम् इति चेत् तत् अपि प्रत्यर्थम् एव ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-४०/६१) प्रत्यर्थम् शब्दनिवेशात् एकेन अनेकस्याभिधानात् अप्रत्यर्थम् इति चेत् एवम् उच्यते ॒ यत् अपि एकेन अनेकस्य अभिधानम् भवति तत् अपि प्रत्यर्थम् एव ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-४१/६१) यत् अपि हि अर्थौ अर्थौ प्रति तत् अपि प्रत्यर्थम् एव ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-४२/६१) यत् अपि हि अर्थान् अर्थान् प्रति तत् अपि प्रत्यर्थम् एव ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-४३/६१) यावताम् अभिधानम् तावताम् प्रयोगः न्याय्यः ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-४४/६१) यावताम् अर्थानाम् अभिधानम् भवति तावताम् शब्दानाम् प्रयोगः इति एषः पक्षः न्याय्यः ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-४५/६१) यावताम् अभिधानम् तावताम् प्रयोगः न्याय्यः इति चेत् एकेन अपि अनेकस्य अभिधानम् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-४६/६१) यावताम् अभिधानम् तावताम् प्रयोगः न्याय्यः इति चेत् एवम् उच्यते ॒ एषः अपि न्याय्यः एव यत् अपि एकेन अपि अनेकस्य अभिधानम् भवति ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-४७/६१) यदि तर्हि एकेन अनेकस्य अभिधानम् भवति प्लक्षन्यग्रोधौ ॒ एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-४८/६१) एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगेण न भवितव्यम् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-४९/६१) किम् कारणम् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-५०/६१) उक्तार्थानाम् अप्रयोगः इति ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-५१/६१) एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् अनुक्तत्वात् प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः । एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् अनुक्तः प्लक्षेण न्यग्रोधार्थः इति कृत्वा न्यग्रोधशब्दः प्रयुज्यते ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-५२/६१) कथम् अनुक्तः यावता इदानीम् एव उक्तम् एकेन अपि अनेकस्य अभिधानम् भवति इति ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-५३/६१) सरूपाणाम् एकेन अपि अनेकस्य अभिधानम् भवति न विरूपाणाम् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-५४/६१) किम् पुनः कारणम् सरूपाणाम् एकेन अपि अनेकस्य अभिधानम् भवति न पुनः विरूपाणाम् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-५५/६१) अभिधानम् पुनः स्वाभाविकम् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-५६/६१) स्वाभाविकम् अभिधानम् ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-५७/६१) उभयदर्शनात् च ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-५८/६१) उभयम् खलु अपि दृश्यते ॒ विरूपाणाम् अपि एकेन अनेकस्य अभिधानम् भवति ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-५९/६१) तत् यथा ॒ द्यवा ह क्षमा ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-६०/६१) द्यवा चित् अस्मै पृथिवी नमेते इति ।

(पा-१,२.६४.७; अकि-१,२४०.१६-२४२.९; रो-२,१४०-१४४; भा-६१/६१) विरूपाणाम् किल नाम एकेन अनेकस्य अभिधानम् स्यात् किम् पुनः सरूपाणाम् ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-१/५४) आकृत्यभिधानात् वा एकम् विभक्तौ वाजप्यायनः ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-२/५४) आकृत्यभिधानात् वा एकम् शब्दम् विभक्तौ वाजप्यायनः आचार्यः न्याय्यम् मन्यते ॒ एका आकृतिः सा च अभिधीयते इति ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-३/५४) कथम् पुनः ज्ञायते एका आकृतिः सा च अभिधीयते इति ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-४/५४) प्रख्याविशेषात् । न हि गौः इति उक्ते विशेषः प्रख्यायते शुक्ला नीला कपिला कपोतिका इति ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-५/५४) यदि अपि तावत् प्रख्याविशेषात् ज्ञायते एका आकृतिः इति कुतः तु एतत् सा अभिधीयते इति ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-६/५४) अव्यपवर्गगतेः च ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-७/५४) अव्यपवर्गगतेः च मन्यामहे आकृतिः अभिधीयते इति ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-८/५४) न हि गौः इति उक्ते व्यपवर्गः गम्यते शुक्ला नीला कपिला कपोतिका इति ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-९/५४) ज्ञायते च एकोपदिष्टम् । ज्ञायते खलु अपि एकोपदिष्टम् ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-१०/५४) गौः अस्य कदा चित् उपदिष्टः भवति ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-११/५४) सः तम् अन्यस्मिन् देशे अन्यस्मिन् काले अन्यस्याम् च वयोवस्थायाम् दृष्ट्वा जानाति अयम् गौः इति ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-१२/५४) कः पुनः अस्य विशेषः प्रख्याविशेषात् इति अतः ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-१३/५४) तस्य एव उपोद्बलकम् एतत् ॒ प्रख्याविशेषात् ज्ञायते च एकोपदिष्टम् इति ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-१४/५४) धर्मशास्त्रम् च तथा । एवम् च कृत्वा धर्मशास्त्रम् प्रवृत्तम् ॒ ब्राह्मणः न हन्तव्यः ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-१५/५४) सुरा न पेया इति ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-१६/५४) ब्राह्मणमात्रम् न हन्यते सुरामात्रम् च न पीयते ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-१७/५४) यदि द्रव्यम् पदार्थः स्यात् एकम् ब्राह्मणम् अहत्वा एकाम् च सुराम् अपीत्वा अन्यत्र कामचारः स्यात् ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-१८/५४) कः पुनः अस्य विशेषः अव्यपवर्गगतेः च इति अतः ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-१९/५४) तस्य एव उपोद्बलकम् एतत् ॒ अव्यपवर्गगतेः च धर्मशास्त्रम् च तथा इति ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-२०/५४) अस्ति च एकम् अनेकाधिकरणस्थम् युगपत् ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-२१/५४) अस्ति खलु अपि एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-२२/५४) किम् ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-२३/५४) आदित्यः ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-२४/५४) तद् यथा एकः आदित्यः अनेकाधिकरणस्थः युगपत् उपलभ्यते ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-२५/५४) विषमः उपन्यासः ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-२६/५४) न एकः द्रष्टा आदित्यम् अनेकाधिकरणस्थम् युगपत् उपलभते ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-२७/५४) एवम् तर्हि इतीन्द्रवत् विषयः । तत् यथा एकः इन्द्रः अनेकस्मिन् क्रतुशते आहूतः युगपत् सर्वत्र भवति एवम् आकृतिः अपि युगपत् सर्वत्र भविष्यति ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-२८/५४) अवश्यम् च एतत् एवम् विज्ञेयम् एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते इति. न एकम् अनेकाधिकरणस्थम् युगपत् इति चेत् तथा एकशेषे ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-२९/५४) यः हि मन्यते न एकम् अनेकाधिकरणस्थम् युगपद् उपलभ्यते इति एकशेषे तस्य दोषः स्यात् ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-३०/५४) एकशेषे अपि न एकः वृक्षशब्दः अनेकम् अर्थम् युगपत् अभिदधीत ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-३१/५४) अवश्यम् च एतत् एवम् विज्ञेयम् आकृतिः अभिधीयते इति ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-३२/५४) द्रव्याभिधाने हि आकृत्यसम्प्रत्ययः ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-३३/५४) द्रव्याभिधाने सति आकृतेः असम्प्रत्ययः स्यात् ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-३४/५४) तत्र कः दोषः ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-३५/५४) तत्र असर्वद्रव्यगतिः ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-३६/५४) तत्र असर्वद्रव्यगतिः प्राप्नोति ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-३७/५४) असर्वद्रव्यगतौ कः दोषः ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-३८/५४) गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति ॒ एकः शास्त्रोक्तम् कुर्वीत अपरः अशास्त्रोक्तम् ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-३९/५४) अशास्त्रोक्ते च क्रियमाणे विगुणम् कर्म भवति ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-४०/५४) विगुणे च कर्मणि फलानवाप्तिः ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-४१/५४) ननु च यस्य अपि आकृतिः पदार्थः तस्य अपि यदि अनवयवेन चोद्यते न च अनुबध्यते विगुणम् कर्म भवति ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-४२/५४) विगुणे च कर्मणि फलानवाप्तिः ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-४३/५४) एका आकृतिः इति च प्रतिज्ञा हीयेत ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-४४/५४) यत् च अस्य पक्षस्य उपादाने प्रयोजनम् एकशेषः न वक्तव्यः इति सः च इदानीम् वक्तव्यः भवति ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-४५/५४) एवम् तर्हि अनवयवेन चोद्यते प्रत्येकम् च परिसमाप्यते यथा आदित्यः ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-४६/५४) ननु च यस्य अपि द्रव्यम् पदार्थः तस्य अपि अनवयवेन चोद्यते प्रत्येकम् च परिसमाप्यते ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-४७/५४) एकशेषः त्वया वक्तव्यः ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-४८/५४) त्वया अपि तर्हि द्विवचनबहुवचनानि साध्यानि ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-४९/५४) चोदनायाम् च एकस्य उपाधिवृत्तेः ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-५०/५४) चोदनायाम् च एकस्य उपाधिवृत्तेः मन्यामहे आकृतिः अभिधीयते इति ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-५१/५४) आग्नेयम् अष्टाकपालम् निर्वपेत् ॒ एकम् निरुप्य द्वितीयस् तृतीयः च निरुप्यते ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-५२/५४) यदि च द्रव्यम् पदार्थः स्यात् एकम् निरुप्य द्वितीयस्य तृतीयस्य च निर्वपणम् न प्रकल्पेत ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-५३/५४) कः पुनः एतयोः जातिचोदनयोः विशेषः ।

(पा-१,२.६४.८; अकि-१,२४२.१०-२४४.७; रो-२,१४४-१५०; भा-५४/५४) एका निर्वृत्तेन अपरा निर्वर्त्येन ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-१/२१) द्रव्याभिधानम् व्याडिः । द्रव्याभिधानम् व्याडिः आचार्यः न्याय्यम् मन्यते ॒ द्रव्यम् अभिधीयते इति ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-२/२१) तथा च लिङ्गवचनसिद्धिः ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-३/२१) एवम् च कृत्वा लिङ्गवचनानि सिद्धानि भवन्ति ॒ ब्राह्मणी ब्राह्मणः , ब्राह्मणौ ब्राह्मणाः इति ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-४/२१) चोदनासु च तस्य आरम्भात् ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-५/२१) चोदनासु च तस्य आरम्भात् मन्यामहे द्रव्यम् अभिधीयते इति ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-६/२१) गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति ॒ आकृतौ चोदितायाम् द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-७/२१) न च एकम् अनेकाधिकरणस्थम् युगपत् ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-८/२१) न खलु अपि एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-९/२१) न हि एकः देवदत्तः युगपत् स्रुघ्ने भवति मथुरायाम् च ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-१०/२१) विनाशे प्रादुर्भावे च सर्वम् तथा स्यात् ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-११/२१) किम् ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-१२/२१) विनश्येत् च प्रादुः ष्यात् च ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-१३/२१) श्वा मृतः इति श्वा नाम लोके न प्रचरेत् ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-१४/२१) गौः जातः इति सर्वम् गोभूतम् अनवकाशम् स्यात् ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-१५/२१) अस्ति च वैरूप्यम् ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-१६/२१) अस्ति खलु अपि वैरूप्यम् ॒ गौः च गौः च खण्डः मुण्डः इति ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-१७/२१) तथा च विग्रहः ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-१८/२१) एवम् च कृत्वा विग्रहः उपपन्नः भवति ॒ गौः च गौः च इति ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-१९/२१) व्यर्थेषु च मुक्तसंशयम् ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-२०/२१) व्यर्थेषु च मुक्तसंशयम् भवति ।

(पा-१,२.६४.९; अकि-१,२४४.८-२४५.५; रो-२,१५०-१५२; भा-२१/२१) आकृतौ अपि पदार्थे एकशेषः वक्तव्यः ॒ अक्षाः , पादाः , माषाः इति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-१/९५) लिङ्गवचनसिद्धिः गुणस्य अनित्यत्वात् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-२/९५) लिङ्गवचनानि सिद्धानि भवन्ति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-३/९५) कुतः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-४/९५) गुणस्य अनित्यत्वात् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-५/९५) अनित्याः गुणाः अपायिनः उपायिनः च ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-६/९५) किम् ये एते शुक्लादयः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-७/९५) न इति आह ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-८/९५) स्त्रीपुंनपुंसकानि सत्त्वगुणाः एकत्वद्वित्वबहुत्वानि च ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-९/९५) कदा चित् आकृतिः एकत्वेन युज्यते कदा चित् द्वित्वेन कदा चित् बहुत्वेन कदा चित् स्त्रीत्वेन कदा चित् पुंस्त्वेन कदाचित् नपुंसकत्वेन ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-१०/९५) भवेत् लिङ्गपरिहारः उपपन्नः वचनपरिहारः तु न उपपद्यते ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-११/९५) यदि हि कदा चित् आकृतिः एकत्वेन युज्यते कदा चित् द्वित्वेन कदा चित् बहुत्वेन एका आकृतिः इति प्रतिज्ञा हीयेत ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-१२/९५) यत् च अस्य पक्षस्य उपादाने प्रयोजनम् उक्तम् एकशेषः न वक्तव्यः इति सः च इदानीम् वक्तव्यः भवति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-१३/९५) एवम् तर्हि लिङ्गवचनसिद्धिः गुणविवक्षानित्यत्वात् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-१४/९५) लिङ्गवचनानि सिद्धानि भवन्ति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-१५/९५) कुतः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-१६/९५) गुणविवक्षायाः अनित्यत्वात् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-१७/९५) अनित्या गुणविवक्षा ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-१८/९५) कदा चित् आकृतिः एकत्वेन विवक्षिता भवति कदा चित् द्वित्वेन कदा चित् बहुत्वेन कदा चित् स्त्रीत्वेन कदा चित् पुंस्त्वेन कदा चित् नपुंसकत्वेन ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-१९/९५) भवेत् लिङ्गपरिहारः उपपन्नः वचनपरिहारः तु न उपपद्यते ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-२०/९५) यदि कदा चित् आकृतिः एकत्वेन विवक्षिता भवति कदा चित् द्वित्वेन कदा चित् बहुत्वेन एका आकृतिः इति प्रतिज्ञा हीयेत ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-२१/९५) यत् च अस्य पक्षस्य उपादाने प्रयोजनम् उक्तम् एकशेषः न वक्तव्यः इति सः च इदानीम् वक्तव्यः भवति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-२२/९५) लिङ्गपरिहारः च अपि न उपपद्यते ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-२३/९५) किम् कारणम् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-२४/९५) आविष्टलिङ्गा जातिः यत् लिङ्गम् उपादाय प्रवर्तते उत्पत्तिप्रभृति आ विनाशात् तत् लिङ्गम् न जहाति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-२५/९५) तस्मात् न वैयाकरणैः शक्यम् लौकिकम् लिङ्गम् आस्थातुम् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-२६/९५) अवश्यम् कः चित् स्वकृतान्तः आस्थेयः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-२७/९५) कः असौ स्वकृतान्तः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-२८/९५) संस्त्यानप्रसवौ लिङ्गम् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-२९/९५) संस्त्यानप्रसवौ लिङ्गम् आस्थेयौ ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-३०/९५) किम् इदम् संस्त्यानप्रसवौ इति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-३१/९५) संस्त्याने स्त्यायतेः ड्रट् ॒ स्त्री । सूतेः सप् प्रसवे पुमान् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-३२/९५) ननु च लोके अपि स्त्यायतेः एव स्त्री सूतेः च पुमान् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-३३/९५) अधिकरणसाधना लोके स्त्री ॒ स्त्यायति अस्याम् गर्भः इति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-३४/९५) कर्तृसाधनः च पुमान् ॒ सूते पुमान् इति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-३५/९५) इह पुनः उभयम् भावसाधनम् ॒ स्त्यानम् प्रवृत्तिः च ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-३६/९५) कस्य पुनः स्त्यानम् स्त्री प्रवृत्तिः वा पुमान् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-३७/९५) गुणानाम् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-३८/९५) केषाम् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-३९/९५) शब्दस्पर्शरूपरसगन्धानाम् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-४०/९५) सर्वाः च पुनः मूर्तयः एवमात्मिकाः संस्त्यानप्रसवगुणाः शब्दस्पर्शरूपरसगन्धवत्यः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-४१/९५) यत्र अल्पीयांसः गुणाः तत्र अवरतः त्रयः ॒ शब्दः स्पर्शः रूपम् इति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-४२/९५) रसगन्धौ न सर्वत्र ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-४३/९५) प्रवृत्तिः खलु अपि नित्या ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-४४/९५) न हि इह कः चित् अपि स्वस्मिन् आत्मनि मुहूर्तम् अपि अवतिष्ठते ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-४५/९५) वर्धते यावत् अनेन वर्धितव्यम् अपचयेन वा युज्यते ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-४६/९५) तत् च उभयम् सर्वत्र ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-४७/९५) यदि उभयम् सर्वत्र कुतः व्यवस्था ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-४८/९५) विवक्षातः. संस्त्यानविवक्षायाम् स्त्री प्रसवविवक्षायाम् पुमान् उभयोः अपि अविवक्षायाम् नपुंसकम् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-४९/९५) तत्र लिङ्गवचनसिद्धिः गुणविवक्षानित्यत्वात् इति लिङ्गपरिहारः उपपन्नः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-५०/९५) वचनपरिहारः तु न उपपद्यते ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-५१/९५) वचनपरिहारः च अपि उपपन्नः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-५२/९५) इदम् तावत् अयम् प्रष्टव्यः ॒ अथ यस्य द्रव्यम् पदार्थः कथम् तस्य एकवचनद्विवचनबहुवचनानि भवन्ति इति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-५३/९५) एवम् सः वक्ष्यति ॒ एकस्मिन् एकवचनम् द्वयोः द्विवचनम् बहुषु बहुवचनम् इति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-५४/९५) यदि तस्य अपि वाचनिकानि न स्वाभाविकानि अहम् अपि एवम् वक्ष्यामि ॒ एकस्मिन् एकवचनम् द्वयोः द्विवचनम् बहुषु बहुवचनम् इति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-५५/९५) न हि आकृतिपदार्थिकस्य द्रव्यम् न पदार्थः द्वव्यपदार्थिकस्य वा आकृतिः न पदार्थः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-५६/९५) उभयोः उभयम् पदार्थः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-५७/९५) कस्य चित् तु किम् चित् प्रधानभूतम् किम् चित् गुणभूतम् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-५८/९५) आकृतिपदार्थिकस्य आकृतिः प्रधानभूता द्रव्यम् गुणभूतम् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-५९/९५) द्रव्यपदार्थिकस्य द्रव्यम् प्रधानभूतम् आकृतिः गुणभूता ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-६०/९५) गुणवचनवत् वा ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-६१/९५) गुणवचनवत् वा लिङ्गवचनानि भविष्यन्ति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-६२/९५) तत् यथा गुणवचनानाम् शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति ॒ शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-६३/९५) यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-६४/९५) एवम् इह अपि यत् असौ द्रव्यम् श्रिता आकृतिः तस्य यत् लिङ्गम् वचनम् च तत् आकृतेः अपि भविष्यति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-६५/९५) अधिकरणगतिः साहचर्यात् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-६६/९५) आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि भविष्यन्ति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-६७/९५) न च एकम् अनेकाधिकरणस्थम् युगपत् इति आदित्यवत् विषयः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-६८/९५) न खलु अपि एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते इति आदित्यवत् विषयः भविष्यति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-६९/९५) तत् यथा एकः आदित्यः अनेकाधिकरणस्थः युगपत् उपलभ्यते ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-७०/९५) विषमः उपन्यासः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-७१/९५) न एकः द्रष्टा अनेकाधिकरणस्थम् आदित्यम् युगपत् उपलभते ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-७२/९५) एवम् तर्हि इतीन्द्रवत् विषयः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-७३/९५) तद् यथा एकः इन्द्रः अनेकस्मिन् क्रतुशते आहूतः युगपत् सर्वत्र भवति एवम् आकृतिः युगपत् सर्वत्र भविष्यति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-७४/९५) अविनाशः अनाश्रितत्वात् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-७५/९५) द्रव्यविनाशे आकृतेः अविनाशः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-७६/९५) कुतः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-७७/९५) अनाश्रितत्वात् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-७८/९५) अनाश्रिता आकृतिः द्रव्यम् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-७९/९५) किम् उच्यते अनाश्रितत्वात् इति यत् इदानीम् एव उक्तम् अधिकरणगतिः साहचर्यात् इति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-८०/९५) एवम् तर्हि अविनाशः अनैकात्म्यात् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-८१/९५) द्रव्यविनाशे आकृतेः अविनाशः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-८२/९५) कुतः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-८३/९५) अनैकात्म्यात् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-८४/९५) अनेकः आत्मा आकृतेः द्रव्यस्य च ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-८५/९५) तत् यथा वृक्षस्थः अवतानः वृक्षे छिन्ने अपि न विनश्यति ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-८६/९५) वैरूप्यविग्रहौ द्रव्यभेदात् । वैरूप्यविग्रहौ अपि द्रव्यभेदात् भविष्यतः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-८७/९५) व्यर्थेषु च सामान्यात् सिद्धम् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-८८/९५) विभिन्नार्थेषु च सामान्यात् सिद्धम् सर्वम् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-८९/९५) अश्नोतेः अक्षः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-९०/९५) पद्यतेः पादः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-९१/९५) मिमीतेः माषः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-९२/९५) तत्र क्रियासामान्यात् सिद्धम् ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-९३/९५) अपरः तु आह ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-९४/९५) पुराकल्पे एतत् आसीत् षोडश माषाः कार्षापणम् षोडशफलाःच माषशम्बट्यः ।

(पा-१,२.६४.१०; अकि-१,२४५.६-२४७.१६; रो-२,१५३-१५९; भा-९५/९५) तत्र संख्यासामान्यात् सिद्धम् ।

(पा-१,२.६५; अकि-१,२४७.१८-२०; रो-२,१६०; भा-१/३) इह कस्मात् न भवति ॒ अजः च बर्करः च , अश्वः च किशोरः च , उष्ट्रः च करभः च इति ।

(पा-१,२.६५; अकि-१,२४७.१८-२०; रो-२,१६०; भा-२/३) तल्लक्षणः चेत् एव विशेषः इति उच्यते न च अत्र तल्लक्षणः एव विशेषः ।

(पा-१,२.६५; अकि-१,२४७.१८-२०; रो-२,१६०; भा-३/३) तल्लक्षणः एव विशेषः यत् समानायाम् आकृतौ शब्दभेदः ।

(पा-१,२.६६.१; अकि-१,२४७.२२-२४८.३; रो-२,१६१; भा-१/७) इदम् सर्वेषु स्त्रीग्रहणेषु विचार्यते ॒ स्त्रीग्रहणे स्त्रीप्रत्ययग्रहणम् वा स्यात् स्त्र्यर्थग्रहणम् वा स्त्रीशब्दग्रहणम् वा इति ।

(पा-१,२.६६.१; अकि-१,२४७.२२-२४८.३; रो-२,१६१; भा-२/७) किम् च अतः ।

(पा-१,२.६६.१; अकि-१,२४७.२२-२४८.३; रो-२,१६१; भा-३/७) यदि प्रत्ययग्रहणम् वा शब्दग्रहणम् वा गार्गी च गार्ग्यायणौ च गर्गाः ॒ केन यशब्दः न श्रूयेत ।

(पा-१,२.६६.१; अकि-१,२४७.२२-२४८.३; रो-२,१६१; भा-४/७) अस्त्रियाम् इति हि लुक् उच्यते ।

(पा-१,२.६६.१; अकि-१,२४७.२२-२४८.३; रो-२,१६१; भा-५/७) इह च गार्गी च गार्ग्यायणौ च गर्गान् पश्य ॒ तस्मात् शसः नः पुंसि इति नत्वम् न प्राप्नोति ।

(पा-१,२.६६.१; अकि-१,२४७.२२-२४८.३; रो-२,१६१; भा-६/७) अथ अर्थग्रहणम् न दोषः भवति ।

(पा-१,२.६६.१; अकि-१,२४७.२२-२४८.३; रो-२,१६१; भा-७/७) यथा न दोषः तथा अस्तु

(पा-१,२.६६.२; अकि-१,२४८.४-६; रो-२,१६१; भा-१/४) इह कस्मात् न भवति ॒ अजा च बर्करः च , वडवा च किशोरः च , उष्ट्री च करभः च इति ।

(पा-१,२.६६.२; अकि-१,२४८.४-६; रो-२,१६१; भा-२/४) तल्लक्षणः चेत् एव विशेषः इति उच्यते ।

(पा-१,२.६६.२; अकि-१,२४८.४-६; रो-२,१६१; भा-३/४) न च अत्र तल्लक्षणः एव विशेषः ।

(पा-१,२.६६.२; अकि-१,२४८.४-६; रो-२,१६१; भा-४/४) तल्लक्षणः एव विशेषः यत् समानायाम् आकृतौ शब्दभेदः ।

(पा-१,२.६७; अकि-१,२४८.८-१०; रो-२,१६२; भा-१/४) इह कस्मात् न भवति ॒ हंसः च वरटा च कच्छपः च डुली च , र्श्यः च रोहित् च इति ।

(पा-१,२.६७; अकि-१,२४८.८-१०; रो-२,१६२; भा-२/४) तल्लक्षणः चेत् एव विशेषः इति उच्यते ।

(पा-१,२.६७; अकि-१,२४८.८-१०; रो-२,१६२; भा-३/४) न च अत्र तल्लक्षणः एव विशेषः ।

(पा-१,२.६७; अकि-१,२४८.८-१०; रो-२,१६२; भा-४/४) तल्लक्षणः एव विशेषः यत् समानायाम् आकृतौ शब्दभेदः ।

(पा-१,२.६८.१; अकि-१,२४८.१२-१८; रो-२,१६२; भा-१/११) किमर्थम् इदम् उच्यते न पुमान् स्त्रिया इति एव सिद्धम् ।

(पा-१,२.६८.१; अकि-१,२४८.१२-१८; रो-२,१६२; भा-२/११) न सिध्यति ।

(पा-१,२.६८.१; अकि-१,२४८.१२-१८; रो-२,१६२; भा-३/११) तल्लक्षणः चेत् एव विशेषः इति उच्यते ।

(पा-१,२.६८.१; अकि-१,२४८.१२-१८; रो-२,१६२; भा-४/११) न च अत्र तल्लक्षणः एव विशेषः ।

(पा-१,२.६८.१; अकि-१,२४८.१२-१८; रो-२,१६२; भा-५/११) तल्लक्षणः एव विशेषः यत् समानायाम् आकृतौ शब्दभेदः ।

(पा-१,२.६८.१; अकि-१,२४८.१२-१८; रो-२,१६२; भा-६/११) एवम् तर्हि सिद्धे सति यत् इमम् योगम् शास्ति तत् ज्ञापयति आचार्यः ॒ यत्र ऊर्ध्वम् प्रकृतेः तल्लक्षणः एव विशेषः तत्र एकशेषः भवति इति ।

(पा-१,२.६८.१; अकि-१,२४८.१२-१८; रो-२,१६२; भा-७/११) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-१,२.६८.१; अकि-१,२४८.१२-१८; रो-२,१६२; भा-८/११) हंसः च वरटा च , कच्छपः च डुली च , र्श्यः च रोहित् च इति अत्र एकशेषः न भवति ।

(पा-१,२.६८.१; अकि-१,२४८.१२-१८; रो-२,१६२; भा-९/११) पूर्वयोः योगयोः भूयान् परिहारः ।

(पा-१,२.६८.१; अकि-१,२४८.१२-१८; रो-२,१६२; भा-१०/११) यावत् ब्रूयात् गोत्रम् यूना इति तावत् वृद्धः यूना इति ।

(पा-१,२.६८.१; अकि-१,२४८.१२-१८; रो-२,१६२; भा-११/११) पूर्वसूत्रे गोत्रस्य वृद्धम् इति सञ्ज्ञा क्रियते ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-१/२७) असरूपाणाम् युवस्थविरस्त्रीपुंसानाम् विशेषस्य अविवक्षितत्वात् सामान्यस्य च विवक्षितत्वात् सिद्धम् । असरूपाणाम् युवस्थविरस्त्रीपुंसानाम् विशेषः च अविवक्षितः सामान्यम् च विवक्षितम् ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-२/२७) विशेषस्य अविवक्षितत्वात् सामान्यस्य च विवक्षितत्वात् सरूपाणाम् एकशेषः एकविभक्तौ इति एव सिद्धम् ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-३/२७) पुमान् स्त्रिया इह कस्मात् न भवति ॒ ब्राह्मणवत्सा च ब्राह्मणीवत्सः च इति ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-४/२७) ब्राह्मणवत्साब्राह्मणीवत्सयोः विभक्तिपरस्य विशेषवाचकत्वात् अनेकशेषः ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-५/२७) ब्राह्मणवत्साब्राह्मणीवत्सयोः लिङ्गस्य विभक्तिपरस्य विशेषवाचकत्वात् एकशेषः न भविष्यति ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-६/२७) यत्र लिङ्गम् विभक्तिपरम् एव विशेषवाचकम् तत्र एकशेषः भवति ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-७/२७) न अत्र लिङ्गम् विभक्तिपरम् एव विशेषवाचकम् ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-८/२७) यदि तर्हि यत्र लिङ्गम् विभक्तिपरम् एव विशेषवाचकम् तत्र एकशेषः भवति इह न प्राप्नोति ॒ कारकः च कारिका च कारकौ ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-९/२७) न हि अत्र लिङ्गम् विभक्तिपरम् एव विशेषवाचकम् ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-१०/२७) कथम् पुनः इदम् विज्ञायते ॒ शब्दः या स्त्री तल्लक्षणः चेत् एव विशेषः इति आहोस्वित् अर्थः या स्त्री तल्लक्षणः चेत् एव विशेषः इति ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-११/२७) किम् च अतः ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-१२/२७) यदि विज्ञायते शब्दः या स्त्री तल्लक्षणः चेत् एव विशेषः इति सिद्धम् कारकः च कारिका च कारकौ ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-१३/२७) इदम् तु न सिध्यति ॒ गोमान् च गोमती च गोमन्तौ ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-१४/२७) अथ विज्ञायते अर्थः या स्त्री तल्लक्षणः चेत् एव विशेषः इति सिद्धम् गोमान् च गोमती च गोमन्तौ ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-१५/२७) इदम् तु न सिध्यति ॒ कारकः च कारिका च कारकौ ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-१६/२७) उभयथा अपि पटुः च पट्वी च पटू* इति एतत् न सिध्यति ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-१७/२७) एवम् तर्हि न एवम् विज्ञायते शब्दः या स्त्री तल्लक्षणः चेत् एव विशेषः इति न अपि अर्थः या स्त्री तल्लक्षणः चेत् एव विशेषः इति ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-१८/२७) कथम् तर्हि ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-१९/२७) शब्दार्थौ या स्त्री तत्सद्भावेन च तल्लक्षणः विशेषः आश्रीयते ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-२०/२७) एवम् च कृत्वा इह अपि प्राप्तिः ॒ ब्राह्मणवत्सा च ब्राह्मणीवत्सः च इति ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-२१/२७) एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-२२/२७) किम् ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-२३/२७) तत् इति अनुवर्तते ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-२४/२७) तत् इति अनेन प्रकृतौ स्त्रीपुंसौ प्रतिनिर्दिश्येते ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-२५/२७) कौ च प्रकृतौ ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-२६/२७) प्रधाने ।

(पा-१,२.६८.२; अकि-१,२४८.१९-२४९.२०; रो-२,१६३-१६५; भा-२७/२७) प्रधानम् या शब्दस्त्री प्रधानम् या अर्थस्त्री इति ।

(पा-१,२.६९; अकि-१,२४९.२२-२५०.१०; रो-२,१६६-१६७; भा-१/१७) अयम् योगः शक्यः अवक्तुम् ।

(पा-१,२.६९; अकि-१,२४९.२२-२५०.१०; रो-२,१६६-१६७; भा-२/१७) कथम् शुक्लः च कम्बलः शुक्लम् च वस्त्रम् तत् इदम् शुक्लम् , ते* इमे शुक्ले , शुक्लः च कम्बलः शुक्ला च बृहतिका शुक्लम् च वस्त्रम् तत् इदम् शुक्लम् , तानि इमनि शुक्लानि ।

(पा-१,२.६९; अकि-१,२४९.२२-२५०.१०; रो-२,१६६-१६७; भा-३/१७) प्रधाने कार्यसम्प्रत्ययात् शेषः ।

(पा-१,२.६९; अकि-१,२४९.२२-२५०.१०; रो-२,१६६-१६७; भा-४/१७) प्रधाने कार्यसम्प्रत्ययात् शेषः भविष्यति ।

(पा-१,२.६९; अकि-१,२४९.२२-२५०.१०; रो-२,१६६-१६७; भा-५/१७) किम् च प्रधानम् ।

(पा-१,२.६९; अकि-१,२४९.२२-२५०.१०; रो-२,१६६-१६७; भा-६/१७) नपुंसकम् ।

(पा-१,२.६९; अकि-१,२४९.२२-२५०.१०; रो-२,१६६-१६७; भा-७/१७) कथम् पुनः ज्ञायते नपुंसकम् प्रधानम् इति ।

(पा-१,२.६९; अकि-१,२४९.२२-२५०.१०; रो-२,१६६-१६७; भा-८/१७) एवम् हि दृश्यते लोके ॒ अनिर्ज्ञाते अर्थे गुणसन्देहे च नपुंसकलिङ्गम् प्रयुज्यते ।

(पा-१,२.६९; अकि-१,२४९.२२-२५०.१०; रो-२,१६६-१६७; भा-९/१७) किम् जातम् इति उच्यते ।

(पा-१,२.६९; अकि-१,२४९.२२-२५०.१०; रो-२,१६६-१६७; भा-१०/१७) द्वयम् च एव हि जायते स्त्री वा पुमान् वा ।

(पा-१,२.६९; अकि-१,२४९.२२-२५०.१०; रो-२,१६६-१६७; भा-११/१७) तथा विदूरे अव्यक्तम् आरूपम् दृष्ट्वा वक्तारः भवन्ति महिषीरूपम् इव ब्राह्मणीरूपम् इव ।

(पा-१,२.६९; अकि-१,२४९.२२-२५०.१०; रो-२,१६६-१६७; भा-१२/१७) प्रधाने कार्यसम्प्रत्ययात् नपुंसकस्य शेषः भविष्यति ।

(पा-१,२.६९; अकि-१,२४९.२२-२५०.१०; रो-२,१६६-१६७; भा-१३/१७) इदम् तर्हि प्रयोजनम् ॒ एकवत् च अस्य अन्यतरस्याम् इति वक्ष्यामि इति ।

(पा-१,२.६९; अकि-१,२४९.२२-२५०.१०; रो-२,१६६-१६७; भा-१४/१७) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,२.६९; अकि-१,२४९.२२-२५०.१०; रो-२,१६६-१६७; भा-१५/१७) आकृतिवाचित्वात् एकवचनम् ।

(पा-१,२.६९; अकि-१,२४९.२२-२५०.१०; रो-२,१६६-१६७; भा-१६/१७) आकृतिवाचित्वात् एकवचनम् भविष्यति ।

(पा-१,२.६९; अकि-१,२४९.२२-२५०.१०; रो-२,१६६-१६७; भा-१७/१७) यदा द्रव्याभिधानम् तदा द्विवचनबहुवचने भविष्यतः ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-१/२७) किमर्थम् इदम् उच्यते न पुमान् स्त्रिया इति एव सिद्धम् ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-२/२७) भ्रातृपुत्रपितृश्वशुराणाम् कारणात् द्रव्ये शब्दनिवेशः ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-३/२७) भ्रातृपुत्रपितृश्वशुराणाम् कारणात् द्रव्ये शब्दनिवेशः भवति ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-४/२७) भ्रातृपुत्रपितृश्वशुराणाम् कारणाद् द्रव्ये शब्दनिवेशः इति चेत् तुल्यकारणत्वात् सिद्धम् ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-५/२७) यदि तावत् बिभर्ति इति भ्राता स्वसरि अपि एतत् भवति ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-६/२७) तथा यदि पुनाति प्रीणाति इति वा पुत्रः दुहितरि अपि एतत् भवति ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-७/२७) तथा यदि पाति पालयति इति वा पिता मातरि अपि एतत् भवति ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-८/२७) तथा यदि आशु आप्तव्यः श्वशुरः श्वश्र्वाम् अपि एतत् भवति ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-९/२७) दर्शनम् वै हेतुः ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-१०/२७) न हि स्वसरि भ्रातृशब्दः दृश्यते ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-११/२७) दर्शनम् हेतुः इति चेत् तुल्यम् ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-१२/२७) दर्शनम् हेतुः इति चेत् तुल्यम् एतत् भवति ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-१३/२७) स्वसरि अपि भ्रातृशब्दः दृश्यताम् ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-१४/२७) तुल्यम् हि कारणम् ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-१५/२७) न वै एषः लोके सम्प्रत्ययः ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-१६/२७) न हि लोके भ्राता आनीयताम् इति उक्ते स्वसा आनीयते ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-१७/२७) तद्विषयम् च ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-१८/२७) तद्विषयम् च एतत् द्रष्टव्यम् भवति ॒ स्वसरि भ्रातृत्वम् ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-१९/२७) किंविषयम् ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-२०/२७) एकशेषविषयम् ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-२१/२७) युक्तम् पुनः यत् नियतविषयाः शब्दाः स्युः ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-२२/२७) बाढम् युक्तम् ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-२३/२७) अन्यत्र अपि तद्विषयदर्शनात् ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-२४/२७) अन्यत्र अपि तद्विषयाः शब्दाः दृश्यन्ते ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-२५/२७) तत् यथा ॒ समाने रक्ते वर्णे गौः लोहितः इति भवति अश्वः शोणः इति ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-२६/२७) समाने च काले वर्णे गौः कृष्णः इति भवति अश्वः हेमः इति ।

(पा-१,२.६८, ७०-७१; अकि-१,२५०.१३-२५१.७; रो-२,१६८-१६९; भा-२७/२७) समाने च शुक्ले वर्णे गौः श्वेतः इति भवति अश्वः कर्कः इति ।

(पा-१,२.७२.१; अकि-१,२५१.९-१४; रो-२,१६९-१७०; भा-१/८) त्यदादितः शेषे पुन्नपुंसकतः लिङ्गवचनानि ।

(पा-१,२.७२.१; अकि-१,२५१.९-१४; रो-२,१६९-१७०; भा-२/८) त्यदादितः शेषे पुन्नपुंसकतः लिङ्गवचनानि भवन्ति ।

(पा-१,२.७२.१; अकि-१,२५१.९-१४; रो-२,१६९-१७०; भा-३/८) सा च देवदत्तः च तौ सा च कुण्डे च तानि ।

(पा-१,२.७२.१; अकि-१,२५१.९-१४; रो-२,१६९-१७०; भा-४/८) अद्वन्द्वतत्पुरुषविशेषणानाम् ।

(पा-१,२.७२.१; अकि-१,२५१.९-१४; रो-२,१६९-१७०; भा-५/८) अद्वन्द्वतत्पुरुषविशेषणानाम् इति वक्तव्यम् ।

(पा-१,२.७२.१; अकि-१,२५१.९-१४; रो-२,१६९-१७०; भा-६/८) इह मा भूत् ।

(पा-१,२.७२.१; अकि-१,२५१.९-१४; रो-२,१६९-१७०; भा-७/८) सः च कुक्कुटः सा च मयूरी कुक्कुटमयूर्यौ ते ।

(पा-१,२.७२.१; अकि-१,२५१.९-१४; रो-२,१६९-१७०; भा-८/८) अर्धम् पिप्पल्याः तत् अर्धपिप्पली च सा अर्धपिप्पल्यौ ते ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-१/३१) अयम् अपि योगः शक्यः अवक्तुम् ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-२/३१) कथम् ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-३/३१) त्यदादीनाम् सामान्यार्थत्वात् ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-४/३१) त्यदादीनाम् सामान्यम् अर्थः ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-५/३१) आतः च सामान्यम् ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-६/३१) देवदत्ते अपि हि सः इति एतत् भवति यज्ञदत्ते अपि ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-७/३१) त्यदादीनाम् सामान्यार्थत्वात् शेषः भविष्यति ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-८/३१) इदम् तर्हि प्रयोजनम् ॒ परस्य शेषम् वक्ष्यामि इति ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-९/३१) परस्य च उभयवाचित्वात् ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-१०/३१) उभयवाचि परम् ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-११/३१) पूर्वशेषदर्शनात् च ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-१२/३१) पूर्वस्य खलु अपि शेषः दृश्यते ॒ सः च यः च तौ आनय , यौ आनय इति ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-१३/३१) इदम् तर्हि प्रयोजनम् ॒द्वन्द्वः मा भूत् इति ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-१४/३१) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-१५/३१) सामान्यविशेषवाचिनोः च द्वन्द्वाभावात् सिद्धम् । सामान्यविशेषवाचिनोः च द्वन्द्वः न भवति इति वक्तव्यम् ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-१६/३१) यदि सामान्यविशेषवाचिनोः द्वन्द्वः न भवति इति उच्यते शूद्राभीरम् , गोबलीवर्दम् , तृणोलपम् इति न सिध्यति ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-१७/३१) न एषः दोषः ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-१८/३१) इह तावत् शूद्राभीरम् इति ॒ आभीराः जात्यन्तराणि ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-१९/३१) गोबलीवर्दम् इति ॒ गावः उत्कालितपुंस्काः वाहाय च विक्रयाय च ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-२०/३१) स्त्रियः एव अवशिष्यन्ते ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-२१/३१) तृणोलपम् इति ॒ अपाम् उलपम् इति नामधेयम् ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-२२/३१) तत् तर्हि वक्तव्यम् ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-२३/३१) न वक्तव्यम् ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-२४/३१) सामान्येन उक्तत्वात् विशेषस्य प्रयोगः न भविष्यति ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-२५/३१) सामान्येन उक्तत्वात् तस्य अर्थस्य विशेषस्य प्रयोगेण न भवितव्यम् ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-२६/३१) किम् कारणम् ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-२७/३१) उक्तार्थानाम् अप्रयोगः इति ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-२८/३१) न तर्हि इदानीम् इदम् भवति ॒ तम् ब्राह्मणम् आनय गार्ग्यम् इति ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-२९/३१) भवति यदा नियोगतः तस्य एव आनयनम् भवति ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-३०/३१) एवम् तर्हि येन एव खलु अपि हेतुना एतत् वाक्यम् भवति तम् ब्राह्मणम् आनय गार्ग्यम् इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति ।

(पा-१,२.७२.२; अकि-१,२५१.१५-२५२.११; रो-२,१७०-१७१; भा-३१/३१) तस्मात् सामान्यविशेषवाचिनोः द्वन्द्वः न भवति इति वक्तव्यम् ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-१/१९) अयम् अपि योगः शक्यः अवक्तुम् ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-२/१९) कथम् गावः इमाः चरन्ति , अजाः इमाः चरन्ति ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-३/१९) गावः उत्कालितपुंस्काः वाहाय च विक्रयाय च ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-४/१९) स्त्रियः एव अवशिष्यन्ते ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-५/१९) इदम् तर्हि प्रयोजनम् ॒ ग्राम्येषु इति वक्ष्यामि इति ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-६/१९) इह मा भूत् ॒ न्यङ्कवः इमे , शूकराः इमे इति ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-७/१९) कः पुनः अर्हति अग्राम्याणाम् पुंसः उत्कालयितुम् ये ग्रहीतुम् अशक्याः ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-८/१९) कुतः एव वाहाय च विक्रयाय च ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-९/१९) इदम् तर्हि प्रयोजनम् ॒ पशुषु इति वक्ष्यामि इति ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-१०/१९) इह मा भूत् ॒ ब्राह्मणाः इमे , वृषलाः इमे ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-११/१९) कः पुनः अर्हति अपशूनाम् पुंसः उत्कालयितुम् ये अशक्याः वाहाय च विक्रयाय च ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-१२/१९) इदम् तर्हि प्रयोजनम् ॒ सङ्घेषु इति वक्ष्यामि इति ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-१३/१९) इह मा भूत् ॒ एतौ गावः चरतः ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-१४/१९) कः पुनः अर्हति निर्ज्ञाते अर्थे अन्यथा प्रयोक्तुम् ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-१५/१९) इदम् तर्हि प्रयोजनम् ॒ अतरुणेषु इति वक्ष्यामि इति ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-१६/१९) इह मा भूत् ॒ उरणकाः इमे , बर्कराः इमे इति ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-१७/१९) कः पुनः अर्हति तरुणानाम् पुंसः उत्कालयितुम् ये अशक्याः वाहाय च विक्रयाय च ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-१८/१९) अनेकशफेषु इति वक्तव्यम् इह मा भूत् ॒ अश्वाः चरन्ति ।

(पा-१,२.७३; अकि-१,२५२.१३-२३; रो-२,१७२; भा-१९/१९) गर्दभाः चरन्ति इति ।