व्याकरणमहाभाष्य खण्ड 15

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-१/५५) कुतः अयम् वकारः ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-२/५५) यदि तावत् संहितया निर्देशः क्रियते भ्वादयः इति भवितव्यम् ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-३/५५) अथ असंहितया भू-आदयः इति भवितव्यम् ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-४/५५) अतः उत्तरम् पठति ॒ भूवादीनाम् वकारः अयम् मङ्गलार्थः प्रयुज्यते ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-५/५५) माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थम् वकारम् आगमम् प्रयुङ्क्ते ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-६/५५) मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति आयुष्मत्पुरुषाणि च ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-७/५५) अध्येतारः च सिद्धार्थाः यथा स्युः इति ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-८/५५) अथ आदिग्रहणम् किमर्थम् ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-९/५५) यदि तावत् पठ्यन्ते न अर्थः आदिग्रहणेन ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-१०/५५) अन्यत्र अपि हि अयम् पठन् आदिग्रहणम् न करोति ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-११/५५) क्व अन्यत्र ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-१२/५५) मृडमृदगुधकुषक्लिशवदवसः क्त्वा इति ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-१३/५५) अथ न पठ्यन्ते नतराम् अर्थः आदिग्रहणेन ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-१४/५५) न हि अपठिताः शक्याः आदिग्रहणेन विशेषयितुम् ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-१५/५५) एवम् तर्हि सिद्धे सति यत् आदिग्रहणम् करोति तत् ज्ञापयति आचार्यः अस्ति च पाठः बाह्यः च सूत्रात् इति ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-१६/५५) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-१७/५५) पाठेन धातुसञ्ज्ञा इति एतत् उपपन्नम् भवति ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-१८/५५) पाठेन धातुसञ्ज्ञायाम् समानशब्दप्रतिषेधः ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-१९/५५) पाठेन धातुसञ्ज्ञायाम् समानशब्दानाम् प्रतिषेधः वक्तव्यः ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-२०/५५) या इति धातुः या इति आबन्तः ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-२१/५५) वा इति धातुः वा इति निपातः ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-२२/५५) नु इति धातुः नु इति प्रत्ययः च निपातः च ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-२३/५५) दिव् इति धातुः दिव् इति प्रातिपदिकम् ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-२४/५५) किम् च स्यात् यदि एतेषाम् अपि धातुसञ्ज्ञा स्यात् ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-२५/५५) धातोः इति तव्यादीनाम् उत्पत्तिः प्रसज्येत ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-२६/५५) न एषः दोषः ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-२७/५५) साधने तव्यादयः विधीयन्ते साधनम् च क्रियायाः ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-२८/५५) क्रियाभावात् साधनाभावः ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-२९/५५) साधनाभावात् सत्याम् अपि धातुसञ्ज्ञायाम् तव्यादयः न भविष्यन्ति ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-३०/५५) इह तर्हि ॒ याः पश्य ॒ आतः धातोः इति लोपः प्रसज्येत ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-३१/५५) न एषः दोषः ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-३२/५५) अनापः इति एवम् सः ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-३३/५५) अस्य तर्हि वाशब्दस्य निपातस्य अधातुः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्रसज्येत ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-३४/५५) अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न स्यात् ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-३५/५५) न एषः दोषः ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-३६/५५) निपातस्य अनर्थकस्य प्रातिपदिकत्वम् चोदितम् ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-३७/५५) तत्र अनर्थकग्रहणम् न करिष्यते ॒ निपातः प्रातिपदिकम् इति एव ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-३८/५५) इह तर्हि ॒ त्रस्नू इति ॒ अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इति उवङादेशः प्रसज्येत ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-३९/५५) न एषः दोषः ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-४०/५५) आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययस्य उवङादेशः भवति इति यत् अयम् तत्र श्नुग्रहणम् करोति ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-४१/५५) अस्य तर्हि दिव्शब्दस्य अधातुः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्रसज्येत ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-४२/५५) अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न स्यात् ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-४३/५५) न एषः दोषः ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-४४/५५) आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते दिव्शब्दात् स्वादयः इति यत् अयम् दिवः सौ औत्त्वम् शास्ति ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-४५/५५) न एतत् अस्ति ज्ञापकम् ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-४६/५५) अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-४७/५५) किम् ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-४८/५५) दिव्शब्दः यत् प्रातिपदिकम् तदर्थम् एतत् स्यात् ॒ अक्षद्यूः इति ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-४९/५५) न वै अत्र इष्यते ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-५०/५५) अनिष्टम् च प्राप्नोति इष्टम् च न सिध्यति ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-५१/५५) एवम् तर्हि अननुबन्धकग्रहणे न सानुबन्धकस्य इति एवम् एतस्य न भविष्यति ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-५२/५५) एवम् अपि अननुबन्धकः दिव्शब्दः न अस्ति इति कृत्वा सानुबन्धकस्य ग्रहणम् विज्ञास्यते ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-५३/५५) परिमाणग्रहणम् च ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-५४/५५) परिमाणग्रहणम् च कर्तव्यम् ।

(पा-१,३.१.१; अकि-१,२५३.२-२५४.१२; रो-२,१७३-१७८; भा-५५/५५) इयान् अवधिः धातुसञ्ज्ञः भवति इति वक्तव्यम् कुतः हि एतत् भूशब्दः धातुसञ्ज्ञः भविष्यति न पुनः भ्वेध्शब्दः इति

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-१/८४) यदि पुनः क्रियावचनः धातुः इति एतत् लक्षणम् क्रियेत ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-२/८४) का पुनः क्रिया ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-३/८४) ईहा ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-४/८४) का पुनः ईहा ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-५/८४) चेष्टा ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-६/८४) का पुनः चेष्टा ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-७/८४) व्यापारः ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-८/८४) सर्वथा भवान् शब्देन एव शब्दान् आचष्टे ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-९/८४) न किम् चिद् अर्थजातम् निदर्शयति ॒ एवञ्जातीयिका क्रिया इति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-१०/८४) क्रिया नाम इयम् अत्यन्तापरिदृष्टा ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-११/८४) अशक्या क्रिया पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-१२/८४) सा असौ अनुमानगम्या ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-१३/८४) कः असौ अनुमानः ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-१४/८४) इह सर्वेषु साधनेषु सन्निहितेषु कदा चित् पचति इति एतत् भवति कदाचित् न भवति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-१५/८४) यस्मिन् साधने सन्निहिते पचति इति एतत् भवति सा नूनम् क्रिया ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-१६/८४) अथ वा यया देवदत्तः इह भूत्वा पाटलिपुत्रे भवति सा नूनम् क्रिया ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-१७/८४) कथम् पुनः ज्ञायते क्रियावचनाः पचादयः इति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-१८/८४) यत् एषाम् करोतिना सामानाधिकरण्यम् ॒ किम् करोति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-१९/८४) पचति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-२०/८४) किम् करिष्यति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-२१/८४) पक्ष्यति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-२२/८४) किम् अकार्षीत् ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-२३/८४) अपाक्षीत् इति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-२४/८४) तत्र क्रियावचने उपसर्गप्रत्ययप्रतिषेधः ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-२५/८४) क्रियावचने धातौ उपसर्गप्रत्यययोः प्रतिषेधः वक्तव्यः ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-२६/८४) पचति प्रपचति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-२७/८४) किम् पुनः कारणम् प्राप्नोति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-२८/८४) सङ्घातेन अर्थगतेः ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-२९/८४) सङ्घातेन हि अर्थः गम्यते सप्रकृतिकेन सप्रत्ययकेन सोपसर्गेण च ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-३०/८४) अस्तिभवतिविद्यतीनाम् धातुत्वम् ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-३१/८४) अस्तिभवतिविद्यतीनाम् धातुसञ्ज्ञा वक्तव्या ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-३२/८४) यथा हि भवता करोतिना पचादीनाम् सामानाधिकरण्यम् निदर्शितम् न तथा अस्त्यादीनाम् निदर्श्यते ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-३३/८४) न हि भवति किम् करोति अस्ति इति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-३४/८४) प्रत्ययार्थस्य अव्यतिरेकात् प्रकृत्यन्तरेषु ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-३५/८४) प्रत्ययार्थस्य अव्यतिरेकात् प्रकृत्यन्तरेषु मन्यामहे धातुः एव क्रियाम् आह इति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-३६/८४) पचति पठति ॒ प्रकृत्यर्थः अन्यः च अन्यः च ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-३७/८४) प्रत्ययार्थः सः एव ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-३८/८४) धातोः च अर्थाभेदात् प्रत्ययान्तरेषु ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-३९/८४) धातोः च अर्थाभेदात् प्रत्ययान्तरेषु मन्यामहे धातुः एव क्रियाम् आह इति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-४०/८४) पक्ता पचनम् पाकः इति ॒ प्रत्ययार्थः अन्यः च अन्यः च भवति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-४१/८४) प्रकृत्यर्थः सः एव. कथम् पुनः ज्ञायते अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-४२/८४) सिद्धम् तु अन्वयव्यतिरेकाभ्याम् ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-४३/८४) अन्वयात् व्यतिरेकात् च ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-४४/८४) कः असौ अन्वयः व्यतिरेकः वा ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-४५/८४) इह पचति इति उक्ते कः चित् शब्दः श्रूयते ॒ पच्शब्दः चकारान्तः अतिशब्दः च प्रत्ययः ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-४६/८४) अर्थः अपि कः चित् गम्यते ॒ विक्लित्तिः कर्तृत्वम् एकत्वम् च ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-४७/८४) पठति इति उक्ते कः चित् शब्दः हीयते कः चित् उपजायते कः चित् अन्वयी ॒ पच्शब्दः हीयते पठ्शब्दः उपजायते अतिशब्दः अन्वयी ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-४८/८४) अर्थः अपि कः चित् हीयते कः चित् उपजायते कः चित् अन्वयी ॒ विक्लित्तिः हीयते पठिक्रिया उपजायते कर्तृत्वम् च एकत्वम् च अन्वयी ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-४९/८४) ते मन्यामहे ॒ यः शब्दः हीयते तस्य असौ अर्थः यः अर्थः हीयते ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-५०/८४) यः शब्दः उपजायते तस्य असौ अर्थः यः अर्थः उपजायते ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-५१/८४) यः शब्दः अन्वयी तस्य असौ अर्थः यः अर्थः अन्वयी ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-५२/८४) विषमः उपन्यासः ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-५३/८४) बहवः हि शब्दाः एकार्थाः भवन्ति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-५४/८४) तत् यथा ॒ इन्द्रः शक्रः पुरुहूतः पुरन्दरः , कन्दुः कोष्ठः कुशूलः इति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-५५/८४) एकः च शब्दः बह्वर्थः ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-५६/८४) तत् यथा ॒ अक्षाः पादाः माषाः इति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-५७/८४) अतः किम् न साधीयः अर्थवत्ता सिद्धा भवति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-५८/८४) न अपि ब्रूमः अर्थवत्ता न सिध्यति इति ।वर्णिता अर्थवत्ता अन्वयव्यतिरेकाभ्याम् एव ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-५९/८४) तत्र कुतः एतत् ॒ अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति न पुनः प्रकृतिः एव उभौ अर्थौ ब्रूयात् प्रत्ययः एव वा ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-६०/८४) सामान्यशब्दाः एते एवम् स्युः ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-६१/८४) सामान्यशब्दाः च न अन्तरेण प्रकरणम् विशेषम् वा विशेषेषु अवतिष्ठन्ते ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-६२/८४) यतः तु खलु नियोगतः पचति इति उक्ते स्वभावतः कस्मिन् चित् विशेषे पचतिशब्दः वर्तते अतः मन्यामहे न इमे सामान्यशब्दाः इति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-६३/८४) न चेत् सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-६४/८४) क्रियाविशेषकः उपसर्गः ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-६५/८४) पचति इति क्रिया गम्यते ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-६६/८४) ताम् प्रः विशिनष्टि ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-६७/८४) यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र धातुः उपसर्गम् व्यभिचरति यत्र न खलु तम् व्यभिचरति तत्र कथम् ॒ अध्येति , अधीते इति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-६८/८४) यदि अपि अत्र धातुः उपसर्गम् न व्यभिचरति उपसर्गः तु धातुम् व्यभिचरति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-६९/८४) ते मन्यामहे ॒ यः एव अस्य अधेः अन्यत्र अर्थः स इह अपि इति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-७०/८४) कः पुनः अन्यत्र अधेः अर्थः ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-७१/८४) अधिः उपरिभावे वर्तते ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-७२/८४) इह तर्हि व्यक्तम् अर्थान्तरम् गम्यते ॒ तिष्ठति प्रतिष्ठते इति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-७३/८४) तिष्ठति इति व्रजिक्रियायाः निवृत्तिः प्रतिष्ठते इति व्रजिक्रिया गम्यते ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-७४/८४) ते मन्यामहे उपसर्गकृतम् एतत् येन अत्र व्रजिक्रिया गम्यते ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-७५/८४) प्रः अयम् दृष्टापचारः आदिकर्मणि वर्तते ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-७६/८४) न च इदम् न अस्ति बह्वर्थाः अपि धातवः भवन्ति इति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-७७/८४) तत् यथा ॒ वपिः प्रकिरणे डृष्टः छेदने अपि वर्तते ॒ केशश्मश्रु वपति इति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-७८/८४) ईडिः स्तुतिचोदनायाच्ञासु दृष्टः प्रेरणे अपि वर्तते ॒ अग्निः वै इतः वृष्टिम् ईट्टे मरुतः अमुतः च्यावयन्ति इति ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-७९/८४) करोतिः अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे अपि वर्तते ॒ पृष्ठम् कुरु पाचौ , कुरु ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-८०/८४) उन्मृदान इति गम्यते ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-८१/८४) निक्षेपणे च अपि वर्तते ॒ कटे कुरु , घटे कुरु , अश्मानम् इतः कुरु ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-८२/८४) स्थापय इति गम्यते ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-८३/८४) एवम् इह अपि तिष्ठतिः एव व्रजिक्रियाम् आह तिष्ठतिः एव व्रजिक्रियायाः निवृत्तिम् ।

(पा-१,३.१.२; अकि-१,२५४.१३-२५६.१७; रो-२,१७९-१८५; भा-८४/८४) अयम् तर्हि दोषः ॒ अस्तिभवतिविद्यतीनाम् धातुत्वम् इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-१/७०) यदि पुनः भाववचनः धातुः इति एवम् लक्षणम् क्रियेत ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-२/७०) कथम् पुनः ज्ञायते भाववचनाः पचादयः इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-३/७०) यत् एषाम् भवतिना सामानाधिकरण्यम् ॒ भवति पचति , भवति पक्ष्यति , भवति अपाक्षीत् इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-४/७०) कः पुनः भावः ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-५/७०) भवतेः स्वपदार्थः भवनम् भावः इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-६/७०) यदि भवतेः स्वपदार्थः भवनम् भावः विप्रतिषिद्धानाम् धातुसञ्ज्ञा न प्राप्नोति ॒ भेदः , छेदः ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-७/७०) अन्यः हि भावः अन्यः हि अभावः ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-८/७०) आतः च अन्यः भावः अन्यः अभावः इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-९/७०) यः हि यस्य भावम् इच्छति सः न तस्य अभावम् यस्य च अभावम् न तस्य भावम् ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-१०/७०) पचादीनाम् च धातुसञ्ज्ञा न प्राप्नोति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-११/७०) यथा हि भवता क्रियावचने धातौ करोतिना पचादीनाम् सामानाधिकरण्यम् निदर्शितम् न तथा भाववचने धातौ निदर्श्यते ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-१२/७०) करोतिः पचाचीनाम् सर्वान् कालान् सर्वान् पुरुषान् सर्वाणि च वचनानि अनुवर्तते ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-१३/७०) भवतिः पुनः वर्तमानकालम् च एव एकत्वम् च ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-१४/७०) का तर्हि इयम् वाचोयुक्तिः ॒ भवति पचति , भवति पक्ष्यति , भवति अपाक्षीत् इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-१५/७०) एषा एषा वाचोयुक्तिः ॒ पचादयः क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-१६/७०) यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र अन्या च अन्या च क्रिया यत्र खलु सा एव क्रिया तत्र कथम् ॒ भवेत् अपि भवेत् , स्यात् अपि स्यात् इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-१७/७०) अत्र अपि अन्यत्वम् अस्ति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-१८/७०) कुतः ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-१९/७०) कालभेदात् साधनभेदात् च ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-२०/७०) एकस्य अत्र भवतेः भवतिः साधनम् सर्वकालः च प्रत्ययः ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-२१/७०) अपरस्य बाह्यम् साधनम् वर्तमानकालः च प्रत्ययः ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-२२/७०) यावता अत्र अपि अन्यत्वम् अस्ति पचादयः च क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति अस्तु अयम् कर्तृसाधनः ॒ भवति इति भावः इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-२३/७०) किम् कृतम् भवति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-२४/७०) विप्रतिषिद्धानाम् धातुसञ्ज्ञा सिद्धा भवति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-२५/७०) भवेत् विप्रतिषिद्धानाम् धातुसञ्ज्ञा सिद्धा स्यात् प्रातिपदिकानाम् अपि प्राप्नोति ॒ वृक्षः , प्लक्षः इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-२६/७०) किम् कारणम् ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-२७/७०) एतानि अपि हि भवन्ति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-२८/७०) एवम् तर्हि कर्मसाधनः भविष्यति ॒ भाव्यते यः सः भावः इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-२९/७०) क्रिया च एव हि भाव्यते स्वभावसिद्धम् तु द्रव्यम् ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-३०/७०) एवम् अपि भवेत् केषाम् चित् न स्यात् यानि न भाव्यन्ते ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-३१/७०) ये तु एते सम्बन्धिशब्दाः तेषाम् प्राप्नोति ॒ माता पिता भ्राता इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-३२/७०) सर्वथा वयम् प्रातिपदिकपर्युदासात् न मुच्यामहे ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-३३/७०) पठिष्यति हि आचार्यः ॒ भूवादिपाठः प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-३४/७०) यावता पठिष्यति पचादयः च क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति अस्तु अयम् कर्तृसाधनः ॒ भवति इति भावः ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-३५/७०) किम् वक्तव्यम् एतत् ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-३६/७०) न हि ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-३७/७०) कथम् अनुच्यमानम् गंस्यते ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-३८/७०) एतेन एव अभिहितम् सूत्रेण भूवादयः धातवः इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-३९/७०) कथम् ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-४०/७०) न इदम् आदिग्रहणम् ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-४१/७०) वदेः अयम् औणादिकः इञ् कर्तृसाधनः ॒ भुवम् वदन्ति इति भूवादयः इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-४२/७०) भाववचने तदर्थप्रत्ययप्रतिषेधः ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-४३/७०) भाववचने धातौ तदर्थस्य प्रत्ययस्य प्रतिषेधः वक्तव्यः ॒ शिश्ये इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-४४/७०) किम् च स्यात् ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-४५/७०) अशिति इति आत्त्वम् प्रसज्येत ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-४६/७०) तत् हि धातोः विहितम् ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-४७/७०) इतरेतराश्रयम् च प्रत्यये भाववचनत्वम् तस्मात् च प्रत्ययः ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-४८/७०) इतरेतराश्रयम् च भवति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-४९/७०) का इतरेतराश्रयता ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-५०/७०) प्रत्यये भाववचनत्वम् तस्मात् च प्रत्ययः ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-५१/७०) उत्पन्ने हि प्रत्यये भाववचनत्वम् गम्यते सः च तावत् भाववचनात् उत्पन्नः ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-५२/७०) तत् एतत् इतरेतराश्रयम् भवति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-५३/७०) इतरेतराश्रयाणि च न प्रकल्पन्ते ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-५४/७०) सिद्धम् तु नित्यशब्दत्वात् अनाश्रित्य भाववचनत्वम् प्रत्ययः ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-५५/७०) सिद्धम् एतत् ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-५६/७०) कथम् ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-५७/७०) नित्याः शब्दाः ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-५८/७०) नित्येषु च शब्देषु अनाश्रित्य भाववचनत्वम् प्रत्ययः उत्पद्यते ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-५९/७०) प्रथमभावग्रहणम् च ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-६०/७०) प्रथमभावग्रहणम् च कर्तव्यम् ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-६१/७०) प्रथमम् यः भावम् आह इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-६२/७०) कुतः पुनः प्राथम्यम् ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-६३/७०) किम् शब्दतः आहोस्वित् अर्थतः ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-६४/७०) किम् च अतः ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-६५/७०) यदि शब्दतः सनादीनाम् धातुसञ्ज्ञा न प्राप्नोति ॒ पुत्रीयति वस्त्रीयति इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-६६/७०) अथ अर्थतः सिद्धा सनादीनाम् धातुसञ्ज्ञा सः एव तु दोषः भवति ॒ भाववचने तदर्थप्रत्ययप्रतिषेधः इति ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-६७/७०) एवम् तर्हि न एव अर्थतः न एव शब्दतः ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-६८/७०) किम् तर्हि ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-६९/७०) अभिधानतः ।

(पा-१,३.१.३; अकि-१,२५६.१८-२५८.६; रो-२,१८५-१९२; भा-७०/७०) सुमध्यमे अभिधाने यः प्रथमम् भावम् आह.

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-१/२६) इह ये एव भाववचने धातौ दोषाः ते एव क्रियावचने अपि ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-२/२६) तत्र ते एव परिहाराः ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-३/२६) तत्र इदम् अपरिहृतम् ॒ अस्तिभवतिविद्यतीनाम् धातुत्वम् इति ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-४/२६) तस्य परिहारः ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-५/२६) काम् पुनः क्रियाम् भवान् मत्वा आह अस्तिभवतिविद्यतीनाम् धातुसञ्ज्ञा न प्राप्नोति इति ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-६/२६) किम् यत् तत् देवदत्तः कंसपात्र्याम् पाणिना ओदनम् भुङ्क्ते इति ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-७/२६) न ब्रूमः कारकाणि क्रिया इति ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-८/२६) किम् तर्हि ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-९/२६) कारकाणाम् प्रवृत्तिविशेषः क्रिया ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-१०/२६) अन्यथा च कारकाणि शुष्कौदने प्रवर्तन्ते अन्यथा च मांसौदने ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-११/२६) यदि एवम् सिद्धा अस्तिभवतिविद्यतीनाम् धातुसञ्ज्ञा ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-१२/२६) अन्यथा हि कारकाणि अस्तौ प्रवर्तन्ते अन्यथा हि म्रियतौ ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-१३/२६) षट् भावविकाराः इति ह स्म आह भगवान् वार्ष्यायणिः ॒ जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यति इति ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-१४/२६) सर्वथा स्थितः इति अत्र धातुसञ्ज्ञा न प्राप्नोति ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-१५/२६) बाह्यः हि एभ्यः तिष्ठतिः ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-१६/२६) एवम् तर्हि क्रियायाः क्रिया निवर्तिका भवति द्रव्यम् द्रव्यस्य निवर्तकम् ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-१७/२६) एवम् हि कः चित् कम् चित् पृच्छति ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-१८/२६) किमवस्थः देवदत्तस्य व्याधिः इति ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-१९/२६) सः आह ॒ वर्धते इति ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-२०/२६) अपरः आह ॒ अपक्षीयते इति ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-२१/२६) अपरः आह ॒ स्थितः इति ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-२२/२६) स्थितः इति उक्ते वर्धतेः च अपक्षीयतेः च निवृत्तिः भवति ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-२३/२६) अथ वा न अन्तरेण क्रियाम् भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-२४/२६) अस्त्यादिभिः च अपि भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-२५/२६) अथ वा न अन्यत् प्र्ष्टेन अन्यत् आख्येयम् ।

(पा-१,३.१.४; अकि-१,२५८.७-२१; रो-२,१९३-१९६; भा-२६/२६) तेन न भविष्यति किम् करोति अस्ति इति ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-१/३४) अथ यदि एव क्रियावचनः धातुः इति एषः पक्षः अथ अपि भाववचनः धातुः किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-२/३४) गतम् इति आह ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-३/३४) कथम् ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-४/३४) अयम् आदिशब्दः अस्ति एव व्यवस्थायाम् वर्तते ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-५/३४) तत् यथा ॒ देवदत्तादीन् समुपविष्टान् आह ॒ देवदत्तादयः आनीयन्ताम् इति ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-६/३४) ते उत्थाप्य आनीयन्ते ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-७/३४) अस्ति प्रकारे वर्तते ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-८/३४) तत् यथा ॒ देवदत्तादयः आढ्याः अभिरूपाः दर्शनीयाः पक्षवन्तः ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-९/३४) देवदत्तप्रकाराः इति गम्यते ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-१०/३४) प्रत्येकम् च आदिशब्दः परिसमाप्यते ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-११/३४) भ्वादयः इति च वादयः इति च ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-१२/३४) तत् यदा तावत् क्रियावचनः धातुः इति एषः पक्षः तदा भू इति अत्र यः आदिशब्दः सः व्यवस्थायाम् वर्तते वा इति अत्र यः आदिशब्दः सः प्रकारे ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-१३/३४) भू इति एवमादयः वा इति एवम्प्रकाराः इति ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-१४/३४) यदा तु भाववचनः धातुः इति एषः पक्षः तदा वा इति अत्र यः आदिशब्दः सः व्यवस्थायाम् भू इति अत्र यः आदिशब्दः सः प्रकारे ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-१५/३४) वा इति एवमादयः भू इति एवम्प्रकाराः इति ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-१६/३४) यदि तर्हि लक्षणम् क्रियते न इदानीम् पाठः कर्तव्यः ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-१७/३४) कर्तव्यः च ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-१८/३४) किम् प्रयोजनम् ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-१९/३४) भूवादिपाठः प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-२०/३४) भूवादिपाठः कर्तव्यः ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-२१/३४) किम् प्रयोजनम् ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-२२/३४) प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-२३/३४) प्रातिपदिकनिवृत्त्यर्थः आणपयत्यादिनिवृत्त्यर्थः च ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-२४/३४) के पुनः आणपयत्यादयः ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-२५/३४) आणपयति वट्टति वड्ढति इति ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-२६/३४) स्वरानुबन्धज्ञापनाय च ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-२७/३४) स्वरानुबन्धज्ञापनाय च पाठः कर्तव्यः ॒ स्वरान् अनुबन्धान् च ज्ञास्यामि इति ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-२८/३४) न हि अन्तरेण पाथम् स्वराः अनुबन्धाः वा शक्याः विज्ञातुम् ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-२९/३४) ये तु एते न्याय्यविकरणाः उदात्ताः अननुबन्धकाः पठ्यन्ते एतेषाम् पाठः शक्यः अकर्तुम् ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-३०/३४) एतेषाम् अपि अवश्यम् आणपयत्यादिनिवृत्त्यर्थः पाठः कर्तव्यः ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-३१/३४) न कर्तव्यः ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-३२/३४) शिष्टप्रयोगात् आणपयत्यादीनाम् निवृत्तिः भविष्यति ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-३३/३४) सः च अवश्यम् शिष्टप्रयोगः उपास्यः ये अपि पठ्यन्ते तेषाम् अपि विपर्यासनिवृत्त्यर्थः ।

(पा-१,३.१.५; अकि-१,२५८.२२-२५९.१४; रो-२,१९६-१९८; भा-३४/३४) लोके हि कृष्यर्थे कसिम् प्रयुञ्जते दृश्यर्थे च दिशिम् ।

(पा-१,३.२.१; अकि-१,२५९.१६-२३; रो-२,१९८-१९९; भा-१/११) उपदेशे इति किमर्थम् ।

(पा-१,३.२.१; अकि-१,२५९.१६-२३; रो-२,१९८-१९९; भा-२/११) अभ्रे आम्̐ अपः ॒ उद्देशे यः अनुनासिकः तस्य मा भूत् इति ।

(पा-१,३.२.१; अकि-१,२५९.१६-२३; रो-२,१९८-१९९; भा-३/११) कः पुनः उद्देशोपदेशयोः विशेषः ।

(पा-१,३.२.१; अकि-१,२५९.१६-२३; रो-२,१९८-१९९; भा-४/११) प्रत्यक्षम् आख्यानम् उपदेशः , गुणैः प्रापणम् उद्देशः ।

(पा-१,३.२.१; अकि-१,२५९.१६-२३; रो-२,१९८-१९९; भा-५/११) प्रत्यक्षम् तावत् आख्यानम् उपदेशः ।

(पा-१,३.२.१; अकि-१,२५९.१६-२३; रो-२,१९८-१९९; भा-६/११) तत् यथा ॒ अगोज्ञाय कः चित् गाम् सख्थनि कर्णे वा गृहीत्वा उपदिशति ॒ अयम् गौः इति ।

(पा-१,३.२.१; अकि-१,२५९.१६-२३; रो-२,१९८-१९९; भा-७/११) सः प्रत्यक्षम् आख्यातम् आह ॒ उपदिष्टः मे गौः इति ।

(पा-१,३.२.१; अकि-१,२५९.१६-२३; रो-२,१९८-१९९; भा-८/११) गुणैः प्रापणम् उद्देशः ।

(पा-१,३.२.१; अकि-१,२५९.१६-२३; रो-२,१९८-१९९; भा-९/११) तत् यथा ॒ कः चित् कम् चित् आह ॒ देवदत्तम् मे भवान् उद्दिशतु इति ।

(पा-१,३.२.१; अकि-१,२५९.१६-२३; रो-२,१९८-१९९; भा-१०/११) सः इहस्थः पाटलिपुत्रस्थम् देवदत्तम् उद्दिशति ॒ अङ्गदी कुण्डली किरीटी व्यूढोरस्कः वृत्तबाहुः लोहिताक्षः तुङ्गनासः चित्राभरणः ईदृशः देवदत्तः इति ।

(पा-१,३.२.१; अकि-१,२५९.१६-२३; रो-२,१९८-१९९; भा-११/११) सः गुणैः प्राप्यमाणम् आह ॒ उद्दिष्टः मे देवदत्तः इति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-१/६३) इत्सञ्ज्ञायाम् सर्वप्रसङ्गः अविशेषात् ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-२/६३) इत्सञ्ज्ञायाम् सर्वप्रसङ्गः ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-३/६३) सर्वस्य अनुनासिकस्य इत्सञ्ज्ञा प्राप्नोति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-४/६३) अस्य अपि प्राप्नोति ॒ अभ्रे आम्̐ अपः ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-५/६३) किम् कारणम् ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-६/६३) अविशेषात् ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-७/६३) न हि कः चित् विशेषः ॒ उपादीयते एवञ्जातीयकस्य अनुनासिकस्य इत्सञ्ज्ञा भवति इति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-८/६३) अनुपादीयमाने विशेषे सर्वप्रसङ्गः ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-९/६३) किम् उच्यते अनुपादीयमाने विशेषे इति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-१०/६३) कथम् न नाम उपादीयते यदा उपदेशे इति उच्यते ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-११/६३) लक्षणेन हि उपदेशः ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-१२/६३) सङ्कीर्णौ उद्देशोपदेशौ ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-१३/६३) प्रत्यक्षम् आख्यानम् उद्देशः गुणैः च प्रापणम् उपदेशः ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-१४/६३) प्रत्यक्षम् तावत् आख्यानम् उद्देशः ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-१५/६३) तत् यथा ॒ कः चित् कम् चित् आह ॒ अनुवाकम् मे भवान् उद्दिशतु इति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-१६/६३) सः तस्मै आचष्टे ॒ इषेत्वकम् अधीष्व ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-१७/६३) शन्नोदेवीयम् अधीष्व इति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-१८/६३) सः प्रत्यक्षम् आख्यातम् आह ॒ उद्दिष्टः मे अनुवाकः ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-१९/६३) तम् अध्येष्ये इति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-२०/६३) गुणैः च प्रापणम् उपदेशः ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-२१/६३) तत् यथा ॒ कः चित् कम् चित् आह ॒ ग्रामन्तरम् गमिष्यामि ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-२२/६३) पन्थानम् मे भवान् उपदिशतु इति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-२३/६३) सः तस्मै आचष्टे ॒ अमुष्मिन् अवकाशे हस्तदक्षिणः ग्रहीतव्यः , अमुष्मिन् हस्तवामः इति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-२४/६३) सः गुणैः प्राप्यमाणम् आह ॒ उपदिष्टः मे पन्थाः इति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-२५/६३) एवम् एतौ सङ्कीर्णौ उद्देशोपदेशौ ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-२६/६३) एवम् तर्हि इत्कार्याभावात् इत्सञ्ज्ञा न भविष्यति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-२७/६३) ननु च लोपः एव इत्कार्यम् स्यात् ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-२८/६३) अकार्यम् लोपः ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-२९/६३) इह हि शब्दस्य द्व्यर्थः उपदेशः ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-३०/६३) कार्यार्थः वा भवति उपदेशः श्रवणार्थः वा ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-३१/६३) कार्यम् च इह न अस्ति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-३२/६३) कार्ये च असति यदि श्रवणम् अपि न स्यात् उपदेशः अनर्थकः स्यात् ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-३३/६३) इदम् अस्ति इत्कार्यम् ॒ अभ्रे आम्̐ अटितः ॒ अनन्तरलक्षणायाम् इत्सञ्ज्ञायाम् सत्याम् आदितः च इति इट्प्रतिषेधः प्रसज्येत ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-३४/६३) सिद्धम् तु उपदेशने अनुनासिकवचनात् ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-३५/६३) सिद्धम् एतत् कथम् ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-३६/६३) उपदेशने यः अनुनासिकः सः इत्सञ्ज्ञः भवति इति वक्तव्यम् ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-३७/६३) किम् पुनः उपदेशनम् ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-३८/६३) शास्त्रम् ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-३९/६३) सिध्यति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-४०/६३) सूत्रम् तर्हि भिद्यते ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-४१/६३) यथान्यासम् एव अस्तु ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-४२/६३) ननु च उक्तम् इत्सञ्ज्ञायाम् सर्वप्रसङ्गः अविशेषात् इति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-४३/६३) न एषः दोषः ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-४४/६३) उपदेशः इति घञ् अयम् करणसाधनः ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-४५/६३) न सिध्यति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-४६/६३) परत्वात् ल्युट् प्राप्नोति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-४७/६३) न ब्रूमः अकर्तरि च कारके सञ्ज्ञायाम् इति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-४८/६३) किम् तर्हि ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-४९/६३) हलः च इति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-५०/६३) तत्र अपि सञ्ज्ञायाम् इति वर्तते ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-५१/६३) न च एषा सञ्ज्ञा ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-५२/६३) प्रायवचनात् असञ्ज्ञायाम् अपि भविष्यति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-५३/६३) प्रायवचनात् सञ्ज्ञायाम् एव स्यात् वा न वा ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-५४/६३) न हि उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-५५/६३) यदि न उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् कल्याण्यादीनाम् इनङ् कुलटायाः वा इनङ् विभाषा न प्राप्नोति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-५६/६३) इनङ् एव अत्र प्रधानम् ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-५७/६३) विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-५८/६३) इह तर्हि ॒ वाकिनादीनाम् कुक् च पुत्रात् अन्यतरस्याम् इति कुक् विभाषा न प्राप्नोति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-५९/६३) अत्र अपि कुक् एव प्रधानम् ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-६०/६३) विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-६१/६३) एवम् न च इदम् अकृतम् भवति न उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् इति न च कः चित् दोषः भवति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-६२/६३) एवम् च कृत्वा घञ् न प्राप्नोति ।

(पा-१,३.२.२; अकि-१,२५९.२४-२६१.३; रो-२,१९९-२०२; भा-६३/६३) एवम् तर्हि कृत्यल्युटः बहुलम् इति एवम् अत्र घञ् भविष्यति ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-१/२६) हलन्त्ये सर्व्प्रसङ्गः सर्वान्त्यत्वात् ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-२/२६) हलन्त्ये सर्व्प्रसङ्गः ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-३/२६) सर्वस्य हलः इत्सञ्ज्ञा प्राप्नोति ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-४/२६) किम् कारणम् ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-५/२६) सर्वान्त्यत्वात् ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-६/२६) सर्वः हि हल् तम् तम् अवधिम् प्रति अन्त्यः भवति ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-७/२६) सिद्धम् तु व्यवसितान्त्यत्वात् ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-८/२६) सिद्धम् एतत् ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-९/२६) कथम् ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-१०/२६) व्यवसितान्त्यत्वात् ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-११/२६) व्यवसितान्त्यः हल् इत्सञ्ज्ञः भवति इति वक्तव्यम् ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-१२/२६) के पुनः व्यवसिताः ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-१३/२६) धातुप्रातिपदिकप्रत्ययनिपातागमादेशाः ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-१४/२६) सिध्यति ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-१५/२६) सूत्रम् तर्हि भिद्यते ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-१६/२६) यथान्यासम् एव अस्तु ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-१७/२६) ननु च उक्तम् हलन्त्ये सर्व्प्रसङ्गः सर्वान्त्यत्वात् इति ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-१८/२६) न एषः दोषः ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-१९/२६) आह अयम् हल् अन्त्यम् इत्सञ्ज्ञम् भवति इति ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-२०/२६) सर्वः च हल् तम् तम् अवधिम् प्रति अन्त्यः भवति ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-२१/२६) तत्र प्रकर्षगतिः विज्ञास्यते ॒ साधीयः यः अन्त्यः इति ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-२२/२६) कः च साधीयः ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-२३/२६) यः व्यवसितान्त्यः ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-२४/२६) अथ वा सापेक्षः अयम् निर्देशः क्रियते ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-२५/२६) न च अन्यत् किम् चित् अपेक्ष्यम् अस्ति ।

(पा-१,३.३.१; अकि-१,२६१.५-१५; रो-२,२०२-२०३; भा-२६/२६) ते व्यवसितम् एव अपेक्षिष्यामहे ।

(पा-१,३.३.२; अकि-१,२६१.१६-२६२.३; रो-२,२०३-२०५; भा-१/१६) लकारस्य अनुबन्धाज्ञापितत्वात् हल्ग्रहणाप्रसिद्धिः ।

(पा-१,३.३.२; अकि-१,२६१.१६-२६२.३; रो-२,२०३-२०५; भा-२/१६) लकारस्य अनुबन्धत्वेन अज्ञापितत्वात् हल्ग्रहणाप्रसिद्धिः ।

(पा-१,३.३.२; अकि-१,२६१.१६-२६२.३; रो-२,२०३-२०५; भा-३/१६) हल् अन्त्यम् इत्सञ्ज्ञम् भवति इति उच्यते ।

(पा-१,३.३.२; अकि-१,२६१.१६-२६२.३; रो-२,२०३-२०५; भा-४/१६) लकारस्य एव तावत् इत्सञ्ज्ञा न प्राप्नोति ।

(पा-१,३.३.२; अकि-१,२६१.१६-२६२.३; रो-२,२०३-२०५; भा-५/१६) सिद्धम् तु लकारनिर्देशात् ।

(पा-१,३.३.२; अकि-१,२६१.१६-२६२.३; रो-२,२०३-२०५; भा-६/१६) सिद्धम् एतत् ।

(पा-१,३.३.२; अकि-१,२६१.१६-२६२.३; रो-२,२०३-२०५; भा-७/१६) कथम् ।

(पा-१,३.३.२; अकि-१,२६१.१६-२६२.३; रो-२,२०३-२०५; भा-८/१६) लकारनिर्देशः कर्तव्यः ।

(पा-१,३.३.२; अकि-१,२६१.१६-२६२.३; रो-२,२०३-२०५; भा-९/१६) हल् अन्त्यम् इत्सञ्ज्ञम् भवति लकारः च इति वक्तव्यम् ।

(पा-१,३.३.२; अकि-१,२६१.१६-२६२.३; रो-२,२०३-२०५; भा-१०/१६) एकशेषनिर्देशात् वा ।

(पा-१,३.३.२; अकि-१,२६१.१६-२६२.३; रो-२,२०३-२०५; भा-११/१६) अथ वा एकशेषनिर्देशः अयम् ।

(पा-१,३.३.२; अकि-१,२६१.१६-२६२.३; रो-२,२०३-२०५; भा-१२/१६) हल् च हल् च हल् ।

(पा-१,३.३.२; अकि-१,२६१.१६-२६२.३; रो-२,२०३-२०५; भा-१३/१६) हल् अन्त्यम् इत्सञ्ज्ञम् भवति इति ।

(पा-१,३.३.२; अकि-१,२६१.१६-२६२.३; रो-२,२०३-२०५; भा-१४/१६) अथ वा ल्̥कारस्य एव इदम् गुणभूतस्य ग्रहणम् ।

(पा-१,३.३.२; अकि-१,२६१.१६-२६२.३; रो-२,२०३-२०५; भा-१५/१६) तत्र उपदेशे अच् अनुनासिक इत् इति इत्सञ्ज्ञा भविष्यति ।

(पा-१,३.३.२; अकि-१,२६१.१६-२६२.३; रो-२,२०३-२०५; भा-१६/१६) अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति लकारस्य इत्सञ्ज्ञा इति यत् अयम् णलम् लितम् करोति ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-१/२८) प्रातिपदिकप्रतिषेधः अकृत्तद्धिते ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-२/२८) अकृत्तद्धितान्तस्य प्रातिपदिकस्य प्रतिषेधः वक्तव्यः ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-३/२८) उदश्वित् शक्र्ट् इति ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-४/२८) अकृत्तद्धितान्तस्य इति किमर्थम् ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-५/२८) कुम्भकारः नगरकारः औपगवः कापटवः ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-६/२८) इदर्थाभावात् सिद्धम् ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-७/२८) इत्कार्याभावात् अत्र इत्सञ्ज्ञ न भविष्यति ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-८/२८) इदम् अस्ति इत्कार्यम् तित्स्वरितम् इति स्वरितत्वम् यथा स्यात् ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-९/२८) न एतत् अस्ति ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-१०/२८) प्रत्ययग्रहणम् तत्र चोदयिष्यति ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-११/२८) इदम् तर्हि ॒ राजा तक्षा ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-१२/२८) ञ्निति आद्युदात्तत्वम् यथा स्यात् ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-१३/२८) ञ्निति इति उच्यते ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-१४/२८) तत्र व्यपवर्गाभावात् न भविष्यति ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-१५/२८) इदम् तर्हि स्वः ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-१६/२८) उपोत्तमम् रिति एषः स्वरः यथा स्यात् ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-१७/२८) स्वरितकरणसामर्थ्यात् न भविष्यति ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-१८/२८) न्यङ्स्वरौ स्व्रितौ इति ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-१९/२८) इह तर्हि अन्तः ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-२०/२८) उत्तमशब्दः त्रिप्रभृतिषु वर्तते ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-२१/२८) न च अत्र त्रिप्रभृतयः सन्ति ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-२२/२८) इह तर्हि सनुतः ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-२३/२८) उपोत्तमम् रिति इति एषः स्वरः यथा स्यात् ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-२४/२८) अन्तोदात्तनिपातनम् करिष्यते ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-२५/२८) सः च निपातस्वरः रित्स्वरस्य बाधकः भविष्यति ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-२६/२८) एतत् च अत्र युक्तम् यत् इत्कार्याभावात् इत्सञ्ज्ञा न स्यात् ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-२७/२८) यत्र इत्कार्यम् भवति भवति तत्र इत्सञ्ज्ञा ।

(पा-१,३.३.३; अकि-१,२६२.४-१७; रो-२,२०५-२०७; भा-२८/२८) तत् यथा आगस्त्यकौण्डिन्ययोः अगस्तिकुण्डिनच् ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-१/२६) विभक्तौ तवर्गप्रतिषेधः अतद्धिते ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-२/२६) विभक्तौ तवर्गप्रतिषेधः अतद्धिते इति वक्तव्यम् ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-३/२६) इह मा भूत् ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-४/२६) किमः अत् क्वे प्रेप्सन् दीप्यसे क्व अर्धमासाः इति ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-५/२६) सः तर्हि प्रतिषेधः वक्तव्यः ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-६/२६) न वक्तव्यः ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-७/२६) आचार्यप्रवृत्तिः ज्ञापायति न विभक्तौ तद्धिते प्रतिषेधः भवति इति यत् अयम् इदमः थमुः इति मकारस्ये इत्सञ्ज्ञापरित्राणार्थम् उकारम् अनुबन्धम् करोति ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-८/२६) यदि एतत् ज्ञाप्यते इदानीम् इति अत्र अपि प्राप्नोति ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-९/२६) इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-१०/२६) इदम् अस्ति इत्कार्यम् मित् अचः अन्त्यात् परः इति अचाम् अन्त्यात् परः यथा स्यात् ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-११/२६) इश्भावे कृते न अस्ति विशेषः मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-१२/२६) सः एव तावत् इश्भावः न प्राप्नोति ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-१३/२६) किम् कारणम् ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-१४/२६) प्राक् दिशः प्रत्ययेषु इति उच्यते ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-१५/२६) कः पुनः अर्हति इश्भावम् प्राग् दिशः प्रत्ययेषु वक्तुम् ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-१६/२६) किम् तर्हि ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-१७/२६) प्राक् दिशः अर्थेषु इश्भावः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः प्रत्ययोत्पत्तिः ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-१८/२६) एवम् तर्हि तदः अपि अयम् वक्तव्यः ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-१९/२६) तदः च मित् अचः अन्त्यात् परत्वेन न सिध्यति ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-२०/२६) ननु च अत्र अपि अत्वे कृते न अस्ति विशेषः मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-२१/२६) तत् हि अत्त्वम् न प्राप्नोति ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-२२/२६) किम् कारणम् ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-२३/२६) विभक्तौ इति उच्यते ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-२४/२६) एवम् तर्हि यकारान्तः दानीम् करिष्यते ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-२५/२६) किम् यकारः न श्रूयते ।

(पा-१,३.४; अकि-१,२६२.१९-२६३.९; रो-२,२०७-२०९; भा-२६/२६) लुप्तनिर्दिष्टः यकारः ।

(पा-१,३.७.१; अकि-१,२६३.११-१८; रो-२,२०९; भा-१/१२) चुञ्चुप्चणपोः चकारप्रतिषेधः ।

(पा-१,३.७.१; अकि-१,२६३.११-१८; रो-२,२०९; भा-२/१२) चुञ्चुप्चणपोः चकारस्य प्रतिषेधः वक्तव्यः ।

(पा-१,३.७.१; अकि-१,२६३.११-१८; रो-२,२०९; भा-३/१२) केशचुञ्चुः केशचणः ।

(पा-१,३.७.१; अकि-१,२६३.११-१८; रो-२,२०९; भा-४/१२) इत्कार्याभावात् सिद्धम् ।

(पा-१,३.७.१; अकि-१,२६३.११-१८; रो-२,२०९; भा-५/१२) इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति ।

(पा-१,३.७.१; अकि-१,२६३.११-१८; रो-२,२०९; भा-६/१२) इदम् अस्ति इत्कार्यम् चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।

(पा-१,३.७.१; अकि-१,२६३.११-१८; रो-२,२०९; भा-७/१२) पित्करणम् इदानीम् किमर्थम् स्यात् ।

(पा-१,३.७.१; अकि-१,२६३.११-१८; रो-२,२०९; भा-८/१२) पित्करणम् किमर्थम् इति चेत् पर्यायार्थम् ।

(पा-१,३.७.१; अकि-१,२६३.११-१८; रो-२,२०९; भा-९/१२) पित्करणम् किमर्थम् इति चेत् पर्यायार्थम् एतत् स्यात् ।

(पा-१,३.७.१; अकि-१,२६३.११-१८; रो-२,२०९; भा-१०/१२) एवम् तर्हि यकारादी चुञ्चुप्चणपौ ।

(पा-१,३.७.१; अकि-१,२६३.११-१८; रो-२,२०९; भा-११/१२) किम् यकारः न श्रूयते ।

(पा-१,३.७.१; अकि-१,२६३.११-१८; रो-२,२०९; भा-१२/१२) लुप्तनिर्दिष्टः यकारः ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-१/२६) इरः उपसङ्ख्यानम् ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-२/२६) इरः उपसङ्ख्यानम् कर्तव्यम् ॒ रुधिर् ॒ अरुधत् , अरौत्सीत् ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-३/२६) अवयवग्रहणात् सिद्धम् ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-४/२६) रेफस्य अत्र हलन्त्यम् इति इत्सञ्ज्ञा भविष्यति इकारस्य उपदेशे अच् अनुनासिकः इति ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-५/२६) अवयवग्रहणात् इति चेत् इदिद्विधिप्रसङ्गः ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-६/२६) अवयवग्रहणात् इति चेत् इदिद्विधिप्रसङ्गः प्राप्नोति ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-७/२६) भेत्ता छेत्ता ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-८/२६) इदितः नुम् धातोः इति नुम् प्राप्नोति ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-९/२६) यदि पुनः अयम् इदिद्विधिः कुम्भीधान्यन्यायेन विज्ञायेत ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-१०/२६) तत् यथा ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-११/२६) कुम्भीधान्यः श्रोत्रियः इति उच्यते ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-१२/२६) यस्य कुम्भ्याम् एव धान्यम् सः कुम्भीधान्यः ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-१३/२६) यस्य पुनः कुम्भ्याम् च अन्यत्र च न असौ कुम्भीधान्यः ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-१४/२६) न अयम् इदिद्विधिः कुम्भीधान्यन्यायेन शक्यः विज्ञातुम् ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-१५/२६) इह हि दोषः स्यात् ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-१६/२६) टुनदि नन्दथुः इति ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-१७/२६) एवम् तर्हि न एवम् विज्ञायते इकारः इत् यस्य सः अयम् इदित् तस्य इदितः इति ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-१८/२६) कथम् तर्हि ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-१९/२६) इकारः एव इत् इदित् इदिदन्तस्य इति ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-२०/२६) अथ वा ऋ̄कारस्य एव इदम् इर्त्वभूतस्य ग्रहणम् ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-२१/२६) तत्र उपदेशे अच् अनुनासिकः इत् इति इत्सञ्ज्ञा भविष्यति ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-२२/२६) अथ वा आचार्यप्रवृत्तिः ज्ञापयति न एवञ्जातीयकानाम् इदिद्विधिः भवति इति यत् अयम् इरितः कान् चित् नुमनुषक्तान् पठति ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-२३/२६) उबुन्दिर् निशामने ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-२४/२६) स्कन्दिर् गतिशोषणयोः ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-२५/२६) अथ वा आचार्यप्रवृत्तिः ज्ञापयति इर्शब्दस्य इत्सञ्ज्ञा भवति इति यत् अयम् इरितः वा इति आह ।

(पा-१,३.७.२; अकि-१,२६३.१९-२६४.१०; रो-२,२१०-२११; भा-२६/२६) अथ वा अन्ते इति वर्तते ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-१/२४) तस्यग्रहणम् किमर्थम् ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-२/२४) इत्सञ्ज्ञकः प्रतिनिर्दिश्यते ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-३/२४) न एतत् अस्ति प्रयोजनम् ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-४/२४) प्रकृतम् इत् इति वर्तते ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-५/२४) क्व प्रकृतम् ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-६/२४) उपदेशे अच् अनुनासिकः इत् इति ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-७/२४) तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-८/२४) अर्थात् विभक्तिविपरिणामः भविष्यति ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-९/२४) तत् यथा ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-१०/२४) उच्चानि देवदत्तस्य गृहाणि ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-११/२४) आमन्त्रयस्व एनम् ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-१२/२४) देवदत्तम् इति गम्यते ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-१३/२४) देवदत्तस्य गावः अश्वाः हिरण्यम् इति ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-१४/२४) आढ्यः वैधवेयः ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-१५/२४) देवदत्तः इति गम्यते ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-१६/२४) पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-१७/२४) एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-१८/२४) इदम् तर्हि प्रयोजनम् ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-१९/२४) ये अनेकालः इत्सञ्ज्ञाः तेषाम् लोपः सर्वादेशः यथा स्यात् ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-२०/२४) अथ क्रियमाणे अपि च तस्यग्रहणे कथम् इव लोपः सर्वादेशः लभ्यः ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-२१/२४) लभ्यः इति आह ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-२२/२४) कुतः ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-२३/२४) वचनप्रामाण्यात् ।

(पा-१,३.९.१; अकि-१,२६४.१२-२०; रो-२,२११-२१२; भा-२४/२४) तस्यग्रहणसामर्थ्यात् ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-१/४०) इतः लोपे णल्क्त्वानिष्ठासु उपसङ्ख्यानम् इत्प्रतिषेधात् ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-२/४०) इतः लोपे णल्क्त्वानिष्ठासु उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-३/४०) णल् ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-४/४०) अहम् पपच ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-५/४०) क्त्वा ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-६/४०) देवित्वा सेवित्वा ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-७/४०) निष्ठा ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-८/४०) शयितः शयितवान् ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-९/४०) किम् पुनः कारणम् न सिध्यति ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-१०/४०) इत्प्रतिषेधात् ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-११/४०) प्रतिषिध्यते अत्र इत्सञ्ज्ञा ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-१२/४०) णल् उत्तमः णित् वा भवति ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-१३/४०) क्त्वा सेट् न कित् भवति ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-१४/४०) निष्ठा सेट् न कित् भवति इति ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-१५/४०) सिद्धम् तु णलादीनाम् ग्रहणप्रतिषेधात् । सिद्धम् एतत् ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-१६/४०) कथम् ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-१७/४०) णलादीनाम् ग्रहणानि प्रतिषिधन्ते ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-१८/४०) णल् उत्तमः वा णिद्ग्रहणेन गृह्यते ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-१९/४०) क्त्वा सेट् न किद्ग्रहणेन गृह्यते ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-२०/४०) निष्ठा सेट् न किद्ग्रहणेन गृह्यते इति ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-२१/४०) निर्दिष्टलोपात् वा ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-२२/४०) निर्दिष्टलोपात् वा सिद्धम् एव ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-२३/४०) अथ वा निर्दिष्टस्य अयम् लोपः क्रियते ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-२४/४०) तस्मात् सिद्धम् एतत् ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-२५/४०) तत्र तुस्मानाम् प्रतिषेधः ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-२६/४०) तत्र तुस्मानाम् प्रतिषेधः वक्तव्यः ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-२७/४०) तस्मात् तस्मिन् यस्मात् यस्मिन् वृक्षाः प्लक्षाः अचिनवम् असुनवम् अकरवम् ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-२८/४०) न वा उच्चारणसामर्थ्यात् ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-२९/४०) न वा वक्तव्यः ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-३०/४०) किम् कारणम् ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-३१/४०) उच्चारणसामर्थ्यात् अत्र लोपः न भविष्यति ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-३२/४०) अनुबन्धलोपे भावाभावयोः विप्रतिषेधात् अप्रसिद्धिः । अनुबन्धलोपे भावाभावयोः विरोधात् अप्रसिद्धिः ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-३३/४०) न ज्ञायते केन अभिप्रायेण प्रसजति केन निवृत्तिम् करोति इति ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-३४/४०) सिद्धम् तु अपवादन्यायेन ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-३५/४०) सिद्धम् एतत् ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-३६/४०) कथम् ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-३७/४०) अपवादन्यायेन ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-३८/४०) किम् पुनः इह तथा यथा उत्सर्गापवादौ ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-३९/४०) भावः हि कार्याऋथः नन्यार्थः लोपः ।

(पा-१,३.९.२; अकि-१,२६४.२१-२६५.१७; रो-२,२१२-२१४; भा-४०/४०) कार्यम् करिष्यामि इति अनुबन्धः आसज्यते कार्याद् अन्यन् मा भूत् इति लोपः ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-१/६३) अथ यस्य अनुबन्धः आसज्यते किम् सः तस्य एकान्तः भवति आहोस्वित् अनेकान्तः ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-२/६३) एकान्तः तत्र उपलब्धेः ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-३/६३) एकान्तः इति आह ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-४/६३) कुतः ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-५/६३) तत्र उपलब्धेः ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-६/६३) तत्रस्थः हि असौ उपलभ्यते ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-७/६३) तत् यथा वृक्षस्था शाखा वृक्षैकान्ता उपलभ्यते ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-८/६३) तत्र असरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशः अनाकारान्तत्वात् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-९/६३) तत्र असरूपविधौ दोषः भवति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-१०/६३) कर्मणि अण् आतः अनुपसर्गे कः इति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-११/६३) कण्विषये अण् अपि प्राप्नोति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-१२/६३) सर्वादेशे च दोषः भवति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-१३/६३) दिवः औत् सर्वादेशः प्राप्नोति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-१४/६३) दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-१५/६३) अदाब्दैपौ इति वक्तव्यम् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-१६/६३) किम् पुनः कारणम् न सिध्यति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-१७/६३) अनाकारान्तत्वात् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-१८/६३) ननु च आत्त्वे कृते भविष्यति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-१९/६३) तत् हि आत्त्वम् न प्राप्नोति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-२०/६३) किम् कारणम् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-२१/६३) अनेजन्तत्वात् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-२२/६३) अस्तु तर्हि अनेकान्तः ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-२३/६३) अनेकान्ते वृत्तिविशेषः ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-२४/६३) यदि अनेकान्तः वृत्तिविशेषः न सिध्यति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-२५/६३) किति णिति इति कार्याणि न सिध्यन्ति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-२६/६३) किम् हि सः तस्य इत् भवति येन इत्कृतम् स्यात् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-२७/६३) एवम् तर्हि अनन्तरः ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-२८/६३) अनन्तरः इति चेत् पूर्वपरयोः इत्कृतप्रसङ्गः ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-२९/६३) अनन्तरः इति चेत् पूर्वपरयोः इत्कृतम् प्राप्नोति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-३०/६३) वुञ्छण् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-३१/६३) सिद्धम् तु व्यवसितपाठात् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-३२/६३) सिद्धम् एतत् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-३३/६३) कथम् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-३४/६३) व्यवसितपाठः कर्तव्यः ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-३५/६३) वुञ् छण् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-३६/६३) सः च अवश्यम् व्यवसितपाठः कर्तव्यः ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-३७/६३) इतरथा हि एकान्ते अपि सन्देहः ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-३८/६३) अक्रियमाणे व्यवसितपाठे एकान्ते अपि सन्देहः स्यात् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-३९/६३) तत्र न ज्ञायते किम् अयम् पूर्वस्य भवति आहोस्वित् परस्य इति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-४०/६३) सन्देहमात्रम् एतत् भवति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-४१/६३) सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-४२/६३) पूर्वस्य इति व्याख्यास्यमः ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-४३/६३) वृत्तात् वा ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-४४/६३) वृत्तात् वा पुनः सिद्धम् एतत् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-४५/६३) वृद्धिमन्तम् आद्युदात्तम् दृष्ट्वा ञित् इति व्यवसेयम् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-४६/६३) अन्तोदात्तम् दृष्ट्वा कित् इति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-४७/६३) युक्तम् पुनः यत् वृत्तिनिमित्तकः अनुबन्धः स्यात् न अनुबन्धनिमित्तकेन नाम वृत्तेन भवितव्यम् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-४८/६३) वृत्तिनिमित्तकः एव अनुबन्धः ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-४९/६३) वृत्तिज्ञः हि आचार्यः अनुबन्धान् आसजति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-५०/६३) उभयम् इदम् अनुबन्धेषु उक्तम् एकान्ताः अनेकान्ताः इति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-५१/६३) किम् अत्र न्याय्यम् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-५२/६३) एकान्ताः इति न्याय्यम् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-५३/६३) कुतः एतत् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-५४/६३) अत्र हि हेतुः व्यपदिष्टः ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-५५/६३) यत् च नाम सहेतुकम् तत् न्याय्यम् ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-५६/६३) ननु च उक्तम् तत्र असरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशः अनाकारान्तत्वात् इति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-५७/६३) असरूपविधौ तावत् न दोषः ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-५८/६३) आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् असारूप्यम् भवति इति यत् अयम् ददातिदधात्योः विभाषा इति विभाषा शम् शास्ति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-५९/६३) यत् अपि उक्तम् सर्वादेशे इति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-६०/६३) अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् अनेकाल्त्वम् भवति इति यत् अयम् शित् सर्वस्य इति आह ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-६१/६३) यत् अपि उक्तम् दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः इति ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-६२/६३) न कर्तव्यः ।

(पा-१,३.९.३; अकि-१,२६५.१८-२६७.६; रो-२,२१४-२१७; भा-६३/६३) आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् अनेजन्तत्वम् भवति इति यत् अयम् उदीचाम् माङः व्यतीहारे इति मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् करोति ।