सामग्री पर जाएँ

व्याकरणमहाभाष्य खण्ड 18

विकिपुस्तकानि तः



(पा-१,४.१.१; अकि-१,२९६.२-१०; रो-२,२९७-२९८; भा-२/१७) अन्यत्र सञ्ज्ञासमावेशान्नियमार्थम् वचनम् ।

(पा-१,४.१.१; अकि-१,२९६.२-१०; रो-२,२९७-२९८; भा-३/१७) अन्यत्र सञ्ज्ञासमावेशः भवति ।

(पा-१,४.१.१; अकि-१,२९६.२-१०; रो-२,२९७-२९८; भा-४/१७) क्वान्यत्र ।

(पा-१,४.१.१; अकि-१,२९६.२-१०; रो-२,२९७-२९८; भा-५/१७) लोके व्याकरणे च ।

(पा-१,४.१.१; अकि-१,२९६.२-१०; रो-२,२९७-२९८; भा-६/१७) लोके तावत् ।

(पा-१,४.१.१; अकि-१,२९६.२-१०; रो-२,२९७-२९८; भा-७/१७) इन्द्रः शक्रः पुरुहूतः पुरन्दरः ।

(पा-१,४.१.१; अकि-१,२९६.२-१०; रो-२,२९७-२९८; भा-८/१७) कन्दुः कोष्ठः कुशूलः इति ।

(पा-१,४.१.१; अकि-१,२९६.२-१०; रो-२,२९७-२९८; भा-९/१७) एकस्य द्रव्यस्य बह्व्यः सञ्ज्ञाः भवन्ति ।

(पा-१,४.१.१; अकि-१,२९६.२-१०; रो-२,२९७-२९८; भा-१०/१७) व्याकरणे अपि कर्तव्यम् हर्तव्यम् इति अत्र प्रत्ययकृत्कृत्यसञ्ज्ञानाम् समावेशः भवति ।

(पा-१,४.१.१; अकि-१,२९६.२-१०; रो-२,२९७-२९८; भा-११/१७) पाञ्चालः वैदेहः वैदर्भः इति अत्र प्रत्ययतद्धिततद्राजसञ्ज्ञानां समावेशः भवति ।

(पा-१,४.१.१; अकि-१,२९६.२-१०; रो-२,२९७-२९८; भा-१२/१७) अन्यत्र सञ्ज्ञासमावेशात् एतस्मात् कारणात् आ कडारात् अपि सञ्ज्ञानाम् समावेशः प्राप्नोति ।

(पा-१,४.१.१; अकि-१,२९६.२-१०; रो-२,२९७-२९८; भा-१३/१७) इष्यते च एका एव सञ्ज्ञा स्यात् इति ।

(पा-१,४.१.१; अकि-१,२९६.२-१०; रो-२,२९७-२९८; भा-१४/१७) तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् ।

(पा-१,४.१.१; अकि-१,२९६.२-१०; रो-२,२९७-२९८; भा-१५/१७) एवमर्थम् इदम् उच्यते ।

(पा-१,४.१.१; अकि-१,२९६.२-१०; रो-२,२९७-२९८; भा-१६/१७) अस्ति प्रयोजनम् एतत् ।

(पा-१,४.१.१; अकि-१,२९६.२-१०; रो-२,२९७-२९८; भा-१७/१७) किम् तर्हि इति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१/१६२) कथम् त्वेतत्सूत्रम् पठितव्यम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-२/१६२) किम् आ कडारात् एका सञ्ज्ञा इति आहोस्वित् प्राक् कडारात् परम् कार्यम् इति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-३/१६२) कुतः पुनः अयम् सन्देहः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-४/१६२) उभयथा हि आचार्येण शिष्याः सूत्रम् प्रतिपादिताः ॒ केचित् आ कडारात् एका सञ्ज्ञा इति , केचित् प्राक् कडारात् परम् कार्यम् इति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-५/१६२) कः च अत्र विशेषः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-६/१६२) तत्र एकसञ्ज्ञाधिकारे तद्वचनम् । तत्र एकसञ्ज्ञाधिकारे तत् वक्तव्यम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-७/१६२) किम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-८/१६२) एका सञ्ज्ञा भवति इति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-९/१६२) ननु च यस्य अपि परङ्कार्यत्वम् तेन अपि परग्रहणम् कर्तव्यम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१०/१६२) परार्थम् मम भविष्यति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-११/१६२) विप्रतिषेधे च इति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१२/१६२) मम अपि तर्हि एकग्रहणम् परार्थम् भविष्यति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१३/१६२) सरूपाणाम् एकशेषः एकविभक्तौ इति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१४/१६२) सञ्ज्ञाधिकारः च अयम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१५/१६२) तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः सञ्ज्ञायाः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१६/१६२) तत्र एतावत् वाच्यम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१७/१६२) आ कडारात् एका ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१८/१६२) किम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१९/१६२) एका सञ्ज्ञा भवति इति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-२०/१६२) अङ्गसञ्ज्ञया भपदसञ्ज्ञयोः असमावेशः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-२१/१६२) अण्गसञ्ज्ञया भपदसञ्ज्ञयोः समावेशः न प्राप्नोति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-२२/१६२) सार्पिष्कः बार्हिष्कः याजुष्कः धानुष्कः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-२३/१६२) बाभ्रव्यः माण्डव्य इति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-२४/१६२) अनवकाशे भपदसञ्ज्ञे अङ्गसञ्ज्ञां बाधेयाताम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-२५/१६२) परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-२६/१६२) यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-२७/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-२८/१६२) पूर्वे तस्य भपदसञ्ज्ञे परा अङ्गसञ्ज्ञा ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-२९/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-३०/१६२) एवम् स वक्ष्यति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-३१/१६२) यस्मात्प्रत्ययविधिः तदादि सुप्तिङन्तं पदम् नः क्ये सिति च ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-३२/१६२) स्वादिषु असर्वनामस्थाने यचि भम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-३३/१६२) तस्य अन्ते प्रत्यये अङ्गमिति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-३४/१६२) तत्र आरम्भसामर्थ्याच् च भपदसञ्ज्ञे परङ्कार्यत्वात् च अङ्गसञ्ज्ञा भविष्यति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-३५/१६२) ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि अङ्गसञ्ज्ञापूर्विके भपदसञ्ज्ञे ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-३६/१६२) कथम् ।अनुवृत्तिः क्रियते ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-३७/१६२) पर्यायः प्रसज्येत. एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-३८/१६२) कर्मधारयत्वे तत्पुरुषग्रहणम् । कर्मधारयत्वे तत्पुरुषग्रहणम् कर्तव्यम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-३९/१६२) तत्पुरुषः समानाधिकरणः कर्मधारयः इति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-४०/१६२) एकसञ्ज्ञाधिकारः इति चोदितम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-४१/१६२) अक्रियमाणे हि अनवकाशा कर्मधारयसञ्ज्ञा तत्पुरुषसञ्ज्ञाम् बाधेत ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-४२/१६२) परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-४३/१६२) यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-४४/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-४५/१६२) पूर्वा तस्य कर्मधारयसञ्ज्ञा परा तत्पुरुषसञ्ज्ञा ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-४६/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-४७/१६२) एवम् स वक्ष्यति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-४८/१६२) पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन कर्मधारयः इति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-४९/१६२) एवम् सर्वम् कर्मधारयप्रकरणम् अनुक्रम्य तस्य अन्ते श्रितादिः तत्पुरुषः इति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-५०/१६२) तत्र आरम्भसामर्थ्यात् च कर्मधारयसञ्ज्ञा परङ्कार्यत्वात् च तत्पुरुषसञ्ज्ञा भविष्यति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-५१/१६२) ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि तत्पुरुषसञ्ज्ञापूर्विका कर्मधारयसञ्ज्ञा ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-५२/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-५३/१६२) अनुवृत्तिः क्रियते ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-५४/१६२) पर्यायः प्रसज्येत ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-५५/१६२) एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-५६/१६२) तत्पुरुषत्वे द्विगुचग्रहणम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-५७/१६२) तत्पुरुषत्वे द्विगुचग्रहणम् कर्तव्यम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-५८/१६२) तत्पुरुषः द्विगुः च इति चकारः कर्तव्यः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-५९/१६२) अक्रियमाणे हि चकारे अनवकाशा द्विगुसञ्ज्ञा तत्पुरुषसञ्ज्ञाम् बाधेत ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-६०/१६२) परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-६१/१६२) यस्य पुनः परङ्कार्यत्वम् नियमानुपप्पतेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-६२/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-६३/१६२) पूर्वा तस्य द्विगुसञ्ज्ञा परा तत्पुरुषसञ्ज्ञा. कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-६४/१६२) एवं स वक्ष्यति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-६५/१६२) तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वः द्विगुः इति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-६६/१६२) एवम् सर्वम् द्विगुप्रकरणम् अनुक्रम्य तस्य अन्ते श्रितादिः तत्पुरुषः इति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-६७/१६२) तत्र आरम्भसामर्थ्यात् च द्विगुसञ्ज्ञा परङ्कार्यत्वात् च तत्पुरुषसञ्ज्ञा भविष्यति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-६८/१६२) ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि तत्पुरुषसञ्ज्ञापूर्विका द्विगुसञ्ज्ञा ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-६९/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-७०/१६२) अनुवृत्तिः क्रियते ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-७१/१६२) पर्यायः प्रसज्येत ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-७२/१६२) एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-७३/१६२) गतिदिवःकर्महेतुमत्सु चग्रहणम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-७४/१६२) गतिदिवःकर्महेतुमत्सु चग्रहणम् कर्तव्यम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-७५/१६२) उपसर्गाः क्रियायोगे गतिश्च इति चकारः कर्तव्यः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-७६/१६२) अक्रियमाणे हि चकारे अनवकाशः पसर्गसञ्ज्ञा गतिसञ्ज्ञाम् बाधेत ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-७७/१६२) परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-७८/१६२) यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-७९/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-८०/१६२) पूर्वा तस्य उपसर्गसञ्ज्ञा परा गतिसञ्ज्ञा ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-८१/१६२) अत्र आरम्भसामर्थ्यात् च उपसर्गसञ्ज्ञा परङ्कार्यत्वात् च गतिसञ्ज्ञा भविष्यति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-८२/१६२) ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य उपसर्गसञ्ज्ञापूर्विका गतिसञ्ज्ञा ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-८३/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-८४/१६२) अनुवृत्तिः क्रियते ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-८५/१६२) पर्यायः प्रसज्येत ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-८६/१६२) एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-८७/१६२) गतिसञ्ज्ञा अपि अनवकाशा सा वचनात् भविष्यति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-८८/१६२) सावकाशा गतिसञ्ज्ञा ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-८९/१६२) कः अवकाशः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-९०/१६२) ऊर्यादीनि अवकाशः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-९१/१६२) प्रादीनां या गतिसञ्ज्ञा सा अनवकाशा ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-९२/१६२) गति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-९३/१६२) दिवः कर्म ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-९४/१६२) साधकतमम् करणम् दिवः कर्म च इति चकारः कर्तव्यः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-९५/१६२) अक्रियमाणे हि चकारे अनवकाशा कर्मसञ्ज्ञा करणसञ्ज्ञाम् बाधेत ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-९६/१६२) परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-९७/१६२) यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-९८/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-९९/१६२) पूर्वा तस्य कर्मसञ्ज्ञा परा करणसञ्ज्ञा ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१००/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१०१/१६२) एवम् स वक्ष्यति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१०२/१६२) दिवः साधकतमम् कर्म ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१०३/१६२) ततः करणम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१०४/१६२) करणसञ्ज्ञाम् च भवति साधकतमम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१०५/१६२) दिव इति निवृत्तम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१०६/१६२) तत्र आरम्भसामर्थ्यात् च कर्मसञ्ज्ञा परङ्कार्यत्वात् च करणसञ्ज्ञा भविष्यति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१०७/१६२) ननु च यस्य अपि एकसञ्ज्ञाधिकारःतस्य अपि करणसञ्ज्ञापूर्विका कर्मसञ्ज्ञा ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१०८/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१०९/१६२) अनुवृत्तिः क्रियते ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-११०/१६२) पर्यायः प्रसज्येत ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१११/१६२) एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-११२/१६२) दिवः कर्म ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-११३/१६२) हेतुमत् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-११४/१६२) स्वतन्त्रः कर्ता तत्प्रयोजको हेतुः च इति चकारः कर्तव्यः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-११५/१६२) अक्रियमाणे हि चकारे अनवकाशा हेतुसञ्ज्ञा कर्तृसञ्ज्ञाम् बाधेत ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-११६/१६२) परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-११७/१६२) यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोर्भावः सिद्धः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-११८/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-११९/१६२) पूर्वा तस्य हेतुसञ्ज्ञा परा कर्तृसञ्ज्ञा ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१२०/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१२१/१६२) एवम् स वक्ष्यति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१२२/१६२) स्वतन्त्रः प्रयोजकः हेतुः इति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१२३/१६२) ततः कर्ता ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१२४/१६२) कर्तृसञ्ज्ञः च भवति स्वतन्त्रः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१२५/१६२) प्रयोजकः इति निवृत्तम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१२६/१६२) तत्र आरम्भसामर्थ्यात् च हेतुसञ्ज्ञा परङ्कार्यत्वात् च कर्तृसञ्ज्ञा भविष्यति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१२७/१६२) ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि कर्तृसञ्ज्ञापूर्विका हेतुसञ्ज्ञा ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१२८/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१२९/१६२) अनुवृत्तिः क्रियते ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१३०/१६२) पर्यायः प्रसज्येत ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१३१/१६२) एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१३२/१६२) गुरुलघुसञ्ज्ञे नदीघिसञ्ज्ञे ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१३३/१६२) गुरुलघुसञ्ज्ञे नदीघिसञ्ज्ञे बाधेयाताम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१३४/१६२) गार्गिबन्धुः वात्सीबन्धुः वैत्रम् विविनिय्य ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१३५/१६२) परवचने हि नियमानुपत्तेः उभयसञ्ज्ञाभावः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१३६/१६२) यस्य पुनः परङ्कार्यत्वम् नियमानुपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१३७/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१३८/१६२) पूर्वे तस्य नदीघिसञ्ज्ञे परे गुरुलघुसञ्ज्ञे ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१३९/१६२) तत्र आरम्भसामर्थ्यात् च नदीघिसञ्ज्ञे परङ्कार्यत्वात् च गुरुलघुसञ्ज्ञे भविष्यतः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१४०/१६२) ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि नदीघिसंघिसञ्ज्ञापूर्विके गुरुलघुसञ्ज्ञे ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१४१/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१४२/१६२) अनुवृत्तिः क्रियते ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१४३/१६२) पर्यायः प्रसज्येत ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१४४/१६२) एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१४५/१६२) परस्मैपदसञ्ज्ञाम् पुरुषसञ्ज्ञा । परस्मैपदसञ्ज्ञाम् पुरुषसञ्ज्ञा बाधेत ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१४६/१६२) परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१४७/१६२) यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्योभयोः सञ्ज्ञयोः भावः सिद्धः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१४८/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१४९/१६२) पूर्वा तस्य पुरुषसञ्ज्ञा परा परस्मैपदसञ्ज्ञा ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१५०/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१५१/१६२) एवं स वक्ष्यति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१५२/१६२) तिङः त्रीणि त्रीणि प्रथममध्योत्तमाः इति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१५३/१६२) एवम् सर्वम् पुरुषनियमम् अनुक्रम्य तस्य अन्ते लः परस्मैपदम् इति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१५४/१६२) तत्र आरम्भसामार्थ्यात् च पुरुषसञ्ज्ञा परङ्कार्यत्वात् च परस्मैपदसञ्ज्ञा भविष्यति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१५५/१६२) ननु च यस्य अपि एकसञ्ज्ञाधिकरः तस्य अपि परस्मैपदसञ्ज्ञापूर्विका पुरुषसञ्ज्ञा ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१५६/१६२) कथम् ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१५७/१६२) अनुवृत्तिः क्रियते ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१५८/१६२) पर्यायः प्रसज्येत. एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१५९/१६२) परस्मैपदसञ्ज्ञा अपि अनवकाशा सा वचनात् भविष्यति ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१६०/१६२) सावकाशा परस्मैपदसञ्ज्ञा ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१६१/१६२) कः अवकाशः ।

(पा-१,४.१.२; अकि-१,२९६.११-२९९.२०; रो-२,२९८-३०८; भा-१६२/१६२) शतृक्वसू अवकाशः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-१/७३) परवचने सिति पदं भम् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-२/७३) परवचने सिति पदम् भसञ्ज्ञमपि प्राप्नोति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-३/७३) अयम् ते योनिः ऋत्वियः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-४/७३) प्रजम् विन्दाम ऋत्विजयाम् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-५/७३) आरम्भसामर्थ्यात् च पदसञ्ज्ञा परङ्कार्यत्वात् च भसञ्ज्ञा प्राप्नोति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-६/७३) गतिबुद्ध्यादीनाम् ण्यन्तानाम् कर्म कर्तृसञ्ज्ञम् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-७/७३) गतिबुद्ध्यादीआं ण्यन्तानाम् कर्म कर्तृसञ्ज्ञम् अपि प्राप्नोति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-८/७३) आरम्भसामर्थ्यात् च कर्मसञ्ज्ञा पदसञ्ज्ञा परङ्कार्यत्वात् च कर्तृसञ्ज्ञा प्राप्नोति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-९/७३) न एषः दोषः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-१०/७३) आचार्यप्रवृत्तिः ज्ञापयति न कर्मसञ्ज्ञायाम् कर्तृसञ्ज्ञा भवति इति यत् अयम् हृक्रोः अन्यतरस्याम् इति अन्तरस्याङ्ग्रहणम् करोति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-११/७३) शेषवचनम् च घिसञ्ज्ञानिवृत्त्यर्थम् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-१२/७३) शेषग्रहणम् च कर्तव्यम् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-१३/७३) शेषः घि असखि इति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-१४/७३) किम् प्रयोजनम् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-१५/७३) घिसाञ्ज्ञानिवृत्त्यर्थम् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-१६/७३) नदीसञ्ज्ञायाम् घिसञ्ज्ञा मा भूत् इति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-१७/७३) शकट्यै पद्धत्यै बुद्धयै धेन्वै ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-१८/७३) इतरथा हि परङ्कार्यत्वात् च घिसञ्ज्ञा आरम्भसामर्थ्यात् च ङिति ह्रस्वः च इति नदीसञ्ज्ञा ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-१९/७३) न वा असम्भवात् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-२०/७३) न वा असम्भवात् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-२१/७३) न वा कर्तव्यम् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-२२/७३) नदीसञ्ज्ञायाम् घिसञ्ज्ञा कस्मात् न भवति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-२३/७३) असम्भवात् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-२४/७३) कः असौ असम्भवः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-२५/७३) ह्रस्वलक्षणा हि नदीसञ्ज्ञा घिसञ्ज्ञायाम् च गुणः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-२६/७३) ह्रस्वलक्षणा हि नदीसञ्ज्ञा घिसञ्ज्ञायाम् च गुणेन भवितव्यम् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-२७/७३) तत्र वचनप्रामाण्यात् नदीसञ्ज्ञायाम् घिसञ्ज्ञाभावः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-२८/७३) तत्र वचनप्रामाण्यात् नदीसञ्ज्ञायाम् घिसञ्ज्ञा न भविष्यति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-२९/७३) किम् कारणम् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-३०/७३) आश्रयाभावात् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-३१/७३) आश्रयाभावात् नदीसञ्ज्ञायाम् घिसञ्ज्ञानिवृत्तिः इति चेत् यणादेशाभावः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-३२/७३) आश्रयाभावात् नदीसञ्ज्ञायाम् घिसञ्ज्ञानिवृत्तिः इति चेत् एवम् उच्यते यणादेशः अपि न प्राप्नोति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-३३/७३) न एषः दोषः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-३४/७३) नद्याश्रयत्वात् यणादेशस्य ह्रस्वस्य नदीसञ्ज्ञाभावः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-३५/७३) नद्याश्रयः यणादेशः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-३६/७३) यदा नदीसञ्ज्ञया घिसञ्ज्ञा बाधिता तत उत्तरकालम् यणादेशेन भवितव्यम् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-३७/७३) नद्याश्रयत्वात् यणादेशस्य ह्रस्वस्य नदीसञ्ज्ञा भविष्यति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-३८/७३) बहुव्रीह्यर्थम् तु । बह्व्रीहिप्रतिषेधार्थम् तु शेषग्रहणम् कर्तव्यम् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-३९/७३) शेषः बवुव्रीहिः इति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-४०/७३) किं प्रयोजनम् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-४१/७३) प्रयोजनमव्ययीभावोपमानद्विगुकृल्लोपेषु । अव्ययीभावे ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-४२/७३) उन्मत्तगङ्गम् लोहितगङ्गम् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-४३/७३) उपमाने ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-४४/७३) शस्त्रीश्यामा कुमुदश्येनी ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-४५/७३) द्विगु ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-४६/७३) पञ्चगवम् दशगवम् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-४७/७३) कृल्लोपे ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-४८/७३) निष्कौशाम्बिः निर्वाराणसिः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-४९/७३) तत्र शेषवचनात् दोषः सङ्ख्यासमानाधिकरणञ्समासेषु बहुव्रीहिप्रतिषेधः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-५०/७३) तत्र शेषवचनात् दोषः भवति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-५१/७३) सङ्ख्यासमानाधिकरणञ्समासेषु बहुव्रीहेः प्रतिषेधः प्राप्नोति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-५२/७३) सङ्ख्या ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-५३/७३) द्वीरावतीकः देशः त्रीरावतीकः देशः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-५४/७३) समानाधिकरण ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-५५/७३) वीर्पुरुषकः ग्रामः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-५६/७३) नञ्समासे ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-५७/७३) अब्राह्मणकः देशः अवृषलकः देशः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-५८/७३) कृल्लोपे च शेषवचनात् प्रादिभिः न बहुव्रीहिः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-५९/७३) कृल्लोपे च शेषवचनात् प्रादिभिः न प्राप्नोति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-६०/७३) प्रपतितपर्णः प्रपर्णकः प्रपतितपलाशः प्रपलाशकः इति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-६१/७३) अथ एकसञ्ज्ञाधिकारे कथम् सिध्यति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-६२/७३) एकसञ्ज्ञाधिकारे विप्रतिषेधाद् बहुव्रीहिः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-६३/७३) एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः भविष्यति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-६४/७३) एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः इति चेत् क्तार्थे प्रतिषेधः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-६५/७३) एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः इति चेत् क्तार्थे प्रतिषेधः वक्तव्यः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-६६/७३) निष्कौशाम्बिः निर्वाराणसिः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-६७/७३) तत्पुरुषः अत्र बाधकः भविष्यति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-६८/७३) तत्पुरुषः इति चेत् अन्यत्र क्तार्थात् प्रतिषेधः । तत्पुरुषः इति चेत् अन्यत्र क्तार्थात् प्रतिषेधः वक्तव्यः ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-६९/७३) प्रपतितपर्णः प्रपर्णकः प्रतितत्पलाशः प्रपलाशकः इति ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-७०/७३) सिद्धम् तु प्रादीनाम् क्तार्थे तत्पुरुषवचनात् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-७१/७३) सिद्धमेतत् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-७२/७३) कथम् ।

(पा-१,४.१.३; अकि-१,२९९.२१-३०१.२०; रो-२,३०८-३१३; भा-७३/७३) प्रादीनाम् क्तार्थे तत्पुरुषः भवति इति वक्तव्यम् ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-१/४८) कानि पुनः अस्य योगस्य प्रयोजनानि ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-२/४८) प्रयोजनम् ह्रस्वसञ्ज्ञाम् दीर्घप्लुतौ ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-३/४८) ह्रस्वसञ्ज्ञाम् दीर्घप्लुतसञ्ज्ञे बाधेते ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-४/४८) तिङ्सार्वधातुकम् लिङ्लिटोः आर्धधातुकम् ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-५/४८) तिङः सार्वधातुकसञ्ज्ञाम् लिङ्लिटोःार्धधातुसञ्ज्ञा बाधते ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-६/४८) अपत्यम् वृद्धम् युवा ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-७/४८) अपत्यम् वृद्धम् यवुसञ्ज्ञा बाधते ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-८/४८) घिम् नदी ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-९/४८) घिसञ्ज्ञाम् नदीसञ्ज्ञा बाधते ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-१०/४८) लघु गुरु ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-११/४८) लघुसञ्ज्ञाम् गुरुसञ्ज्ञा बाधते ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-१२/४८) पदम् भम् ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-१३/४८) पदसञ्ज्ञाम् भसञ्ज्ञा बाधते ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-१४/४८) अपादाद्नम् उत्तराणि धनुषा विध्यति कंसपात्र्याम् भुङ्क्ते गाम् दोग्धि धनुः विध्यति इति ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-१५/४८) अपादानसञ्ज्ञाम् उत्तराणि कारकाणि बाधन्ते ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-१६/४८) क्व ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-१७/४८) धनुषा विध्यति ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-१८/४८) कंसपात्र्याम् भुङ्क्ते ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-१९/४८) गाम् दोग्धि ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-२०/४८) धनुः विध्यति ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-२१/४८) धनुषा विध्यति इति अपाययुक्तत्वात् च ध्रुवमपाये अपादानम् इति अपादानसञ्ज्ञा प्राप्नोति साधकतमम् करणम् इति च करणसञ्ज्ञा ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-२२/४८) करणसञ्ज्ञा परा सा भवति ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-२३/४८) कंसपात्र्याम् भुङ्क्ते इति अत्र अपायुक्तत्वात् च ध्रुवमपाये अपादानमिति अपादानसञ्ज्ञा प्राप्नोति आधारः अधिकरणम् इति च अधिकरणसञ्ज्ञा ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-२४/४८) अधिकरणसञ्ज्ञा परा सा भवति ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-२५/४८) गाम् दोग्धि इति अत्र अपायुक्तत्वात् च अपादानसञ्ज्ञा प्राप्नोति कर्तुरीप्सिततमम् कर्म ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-२६/४८) इति च कर्मसञ्ज्ञा ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-२७/४८) कर्मसञ्ज्ञा परा सा भवति ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-२८/४८) धनुः विध्यति इति अत्र अपाययुक्तत्वात् च अपादानसञ्ज्ञा प्राप्नोति स्वतन्त्रः कर्ता इति च ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-२९/४८) कर्तृसञ्ज्ञा परा सा भवति ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-३०/४८) क्रुधद्रुहोः उप्सृष्टयोः कर्म संप्रदानम् । क्रुधद्रुहोः उप्सृष्टयोः कर्मसञ्ज्ञा संप्रदानसञ्ज्ञाम् बाधते ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-३१/४८) करणम् पराणि साधु असिः छिनत्ति ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-३२/४८) करणसञ्ज्ञाम् पराणि आणि बाधन्ते ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-३३/४८) क्व ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-३४/४८) धनुः विध्यति ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-३५/४८) असिः छिनत्ति इति ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-३६/४८) अधिकरणम् कर्म गेहम् प्रविशति । अधिकरणसञ्ज्ञाम् कर्मसञ्ज्ञा बाधते ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-३७/४८) क्व ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-३८/४८) गेहम् प्रविशति इति ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-३९/४८) अधिकरणम् कर्ता स्थाली पचति ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-४०/४८) अधिकरणसञ्ज्ञाम् कर्मसञ्ज्ञा बाधते ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-४१/४८) क्व ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-४२/४८) स्थाली पचति इति ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-४३/४८) अध्युपसृष्टम् कर्म । अध्युपसृष्टम् कर्म अधिकरणसञ्ज्ञाम् बाधते ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-४४/४८) गत्युपसर्गसञ्ज्ञे कर्मप्रवचनीयसञ्ज्ञा ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-४५/४८) गत्युपसर्गसञ्ज्ञे कर्मप्रवचनीयसञ्ज्ञा बाधते ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-४६/४८) परस्मैपदम् आत्मनेपदम् । परस्मैपदसञ्ज्ञाम् आत्मनेपदसञ्ज्ञा बाधते ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-४७/४८) समाससञ्ज्ञाः च ।

(पा-१,४.१.४; अकि-१,३०१.२१-३०३.१४; रो-२,३१३-३१७; भा-४८/४८) समाससञ्ज्ञाः च याः याः पराः अनवकाशाः च ताः ताः पूर्वाः सावकाशाः च बाधन्ते ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-१/२७) अर्थवत् प्रातिपदिकम् । अर्थवत् प्रातिपदिकसञ्ज्ञम् भवति ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-२/२७) गुणवचनम् च ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-३/२७) गुणवचनसञ्ज्ञम् च भवति अर्थवत् ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-४/२७) समासकृत्तद्धिताव्ययसर्वनाम असर्वलिङ्गा जातिः ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-५/२७) ४१॥समास । समाससञ्ज्ञा च वक्तव्या ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-६/२७) कृत् ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-७/२७) कृत्सञ्ज्ञा च वक्तव्या ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-८/२७) तद्धित ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-९/२७) तद्धितसञ्ज्ञा च वक्तव्या ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-१०/२७) अव्यय ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-११/२७) अव्ययसञ्ज्ञा च वक्तव्या ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-१२/२७) सर्वनाम ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-१३/२७) सर्वनामसञ्ज्ञा च वक्तव्या ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-१४/२७) असर्वलिङ्गा जातिः इति एतत् च वक्तव्यम् ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-१५/२७) सङ्ख्या ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-१६/२७) सङ्ख्यासञ्ज्ञा च वक्तव्या ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-१७/२७) डु च ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-१८/२७) डुसञ्ज्ञा च वक्तव्या ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-१९/२७) का पुनः डुसञ्ज्ञा ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-२०/२७) षट्सञ्ज्ञा ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-२१/२७) एकद्रव्योपनिवेशिनी सञ्ज्ञा ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-२२/२७) एकद्रव्योपनिवेशिनी सञ्ज्ञा इति एतत् च वक्तव्यम् ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-२३/२७) किमर्थम् इदमुच्यते ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-२४/२७) यथान्यासे एव भूयिष्ठाः सञ्ज्ञाः क्रियन्ते ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-२५/२७) सन्ति च एव अत्र काः चित् अपूर्वाः सञ्ज्ञाः ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-२६/२७) अपि च एतेन आनुपूर्व्येण सन्निविष्टानाम् बाधनम् यथा स्यात् ।

(पा-१,४.१.५; अकि-१,३०३.१५-३०४.९; रो-२,३१७-३१९; भा-२७/२७) गुणवचनसञ्ज्ञायाः च एताभिः बाधनम् यथा स्यात् इति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-१/८६) विप्रतिषेधः इति कः अयम् शब्दः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-२/८६) विप्रतिपूर्वात् सिद्धेः कर्मव्यतिहारे कर्मव्यतिहारे घञ् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-३/८६) इतरेतरप्रतिषेधः विप्रतिषेधः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-४/८६) अन्योन्यप्रतिषेधः विप्रतिषेधः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-५/८६) कः पुनः विप्रतिषेधः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-६/८६) द्वौ प्रसङ्गौ अन्यार्थौ एकस्मिन् सः विप्रतिषेधः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-७/८६) द्वौ प्रसण्गौ यदा अन्यार्थौ भवतः एकस्मिन् च युगपत् प्राप्त्नुतः सः विप्रतिषेधः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-८/८६) क्व पुनः अन्यार्थौ क्व च एकस्मिन् युगपत् प्राप्नुतः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-९/८६) वृक्षाभ्याम् , वृक्षेषु इति अन्यार्थौ वृक्षेभ्यः इति अत्र युगपत् प्राप्नुतः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-१०/८६) किम् च स्यात् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-११/८६) एकस्मिन् युगपदसम्भवात् पूर्वपरप्राप्तेः उभयप्रसङ्गः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-१२/८६) एकस्मिन् युगपदसम्भवात्पूर्वस्याः च परस्याः च प्राप्तेः उभयप्रसङ्गः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-१३/८६) इदम् विप्रतिषिद्धम् यत् उच्यते एकस्मिन् युगपदसम्भवात्पूर्वपरप्राप्तेः उभयप्रसङ्गः इति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-१४/८६) कथम् हि एकस्मिन् च नाम युगपदसम्भवः स्यात् पूर्वस्याः च परस्याःच प्राप्तेः उभयप्रसङ्गः च स्यात् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-१५/८६) न एतत् विप्रतिषिद्धम् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-१६/८६) यत् उच्यते एकस्मिन् युगपदसम्भवात् इति कार्ययोः युगपदसम्भवः शास्त्रयोः उभयप्रसङ्गः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-१७/८६) तृजादिभिः तुल्यम् । तृजादिभिः तुल्यम् पर्यायः प्राप्नोति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-१८/८६) तत् यथा तृजादयः पर्यायेण भवन्ति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-१९/८६) किम् पुनः कारणम् तृजादयः पर्यायेण भवन्ति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-२०/८६) अनवयप्रसङ्गात् प्रतिपदम् विधेः च ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-२१/८६) अनवयवेन प्रसज्यन्ते प्रतिपदम् च विधीयन्ते ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-२२/८६) अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-२३/८६) अप्रतिपत्तिः वा पुनः उभयोः शास्त्रयोः स्यात् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-२४/८६) किम् कारणम् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-२५/८६) तुल्यबलत्वात् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-२६/८६) तुल्यबले हि उभे शास्त्रे ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-२७/८६) तत् यथा ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-२८/८६) द्वयोः तुल्यबलयोः एकः प्रेष्यः भवति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-२९/८६) सः तयोः पर्यायेण कार्यम् करोति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-३०/८६) यदा तम् उभौ युगपत् प्रेषयतः नानादिक्षु च कार्ये भवतः तदा यदि असौ अविरोधार्थी भवति ततः उभयोः न करोति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-३१/८६) किम् पुनः कारणम् उभयोः न करोति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-३२/८६) यौगपद्यासम्भवात् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-३३/८६) न अस्ति यौगपद्येन सम्भवः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-३४/८६) तत्र प्रतिपत्त्यर्थम् वचनम् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-३५/८६) तत्र प्रतिपत्त्यर्थम् इदम् वक्तव्यम् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-३६/८६) तव्यदादीनाम् तु अप्रसिद्धिः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-३७/८६) तव्यदादीनाम् तु कार्यस्य अप्रसिद्धिः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-३८/८६) न हि किम् चित् तव्यदादिषु नियमकारि शास्त्रम् आरभ्यते येन तव्यदादयः स्युः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-३९/८६) यः च भवता हेतुः व्यपदिष्टः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति तुल्यः स तव्यदादिषु ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-४०/८६) न एषः दोषः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-४१/८६) अनवकाशाः तव्यदादयः उच्यन्ते च ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-४२/८६) ते वचनात् भविष्यन्ति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-४३/८६) यः च भवता हेतुः व्यपदिष्टः तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति तुल्यः स तव्यदादिषु ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-४४/८६) एतावत् इह सूत्रम् विप्रतिषेधे परम् इति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-४५/८६) पठिष्यति हि आचार्यः सकृद्गतौ विर्प्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-४६/८६) पुनः च पठिष्यति पुनः प्रसङ्गविज्ञानात् सिद्धम् इति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-४७/८६) किम् पुनः इयता सूत्रेण उभयम् लभ्यम् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-४८/८६) लभ्यम् इति आह ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-४९/८६) कथम् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-५०/८६) इह भवता द्वौ हेतू व्यपदिष्टौ ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-५१/८६) तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति च अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति च ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-५२/८६) तत् यदा तावत् एषः हेतुः तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति तदा विप्रतिषेढे परम् इति अनेन किम् क्रियते ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-५३/८६) नियमः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-५४/८६) विप्रतिषेधे परम् एव भवति इति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-५५/८६) तदा एतत् उपपन्नम् भवति सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-५६/८६) यदा तु एषः हेतुः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति तदा विप्रतिषेधे परम् इति अनेन किम् क्रियते ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-५७/८६) द्वारम् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-५८/८६) विप्रतिषेधे परम् तावत् भवति तस्मिन् क्र्टे यदि पूर्वम् अपि प्राप्नोति तत् अपि भवति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-५९/८६) तदा एतत् उपपन्नम् भवति पुनःप्रसङ्गविज्ञानात् सिद्धम् इति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-६०/८६) विप्रतिषेधे परम् इति उक्त्वा अङ्गाधिकारे पूर्वम् इति वक्तव्यम् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-६१/८६) किम् कृतम् भवति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-६२/८६) पूर्वविप्रतिषेधाः न पठितव्याः भवन्ति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-६३/८६) गुणवृद्ध्यौत्वतृज्वद्भावेभ्यः नुम् पूर्वविप्रतिषिद्धम् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-६४/८६) नुमचिरतृज्वद्भावेभ्यः नुट् इति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-६५/८६) कथम् ये परविप्रतिषेधाः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-६६/८६) इत्त्वोत्त्वाभ्याम् गुणवृद्धी भवतः विप्रतिषेधेन इति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-६७/८६) सूत्रम् च भिद्यते ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-६८/८६) यथान्यासम् एव अस्तु ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-६९/८६) कथम् ये पूर्वविप्रतिषेधाः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-७०/८६) विप्रतिषेधे परम् इति एव सिद्धम् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-७१/८६) कथम् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-७२/८६) परशब्दः अयम् बह्वर्थः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-७३/८६) अस्ति एव व्यवस्थायाम् वर्तते ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-७४/८६) तत् यथा पूर्वः परः इति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-७५/८६) अस्ति अन्यार्थे वर्तते ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-७६/८६) परपुत्रः परभार्या ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-७७/८६) अन्यपुत्रः अन्यभार्या इति गम्यते ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-७८/८६) अस्ति प्राधान्ये वर्तते ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-७९/८६) तत् यथा परम् इयं ब्राह्माणी अस्मिन् कुटुम्बे ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-८०/८६) प्रधानम् इति गम्यते ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-८१/८६) अस्ति इष्टवाची परशब्दः ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-८२/८६) तत् यथा ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-८३/८६) परम् धाम गतः इति ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-८४/८६) इष्टम् धाम इति गम्यते ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-८५/८६) तत् यः इष्टवाची परशब्दः तस्य इदम् ग्रहणम् ।

(पा-१,४.२.१; अकि-१,३०४.११-३०६.१०; रो-२,३१९-३२५; भा-८६/८६) विप्रतिषेधे परम् यत् इष्टम् तत् भवति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१/१९७) अन्तरङ्गम् च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-२/१९७) अन्तरङ्गम् च बलीयः भवति इति वक्तव्यम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-३/१९७) किम् प्रयोजनम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-४/१९७) प्रयोजनम् यणेकादेशेत्त्वोत्त्वानि गुणवृद्धिद्विर्वचनाल्लोपस्वरेभ्यः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-५/१९७) गुणात् यणादेशः ॒ स्योनः , स्योना ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-६/१९७) गुणः च प्राप्नोति यणादेः च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-७/१९७) परत्वात् गुणः स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-८/१९७) यणादेशः भवत्यन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-९/१९७) वृद्धेः यणादेशः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१०/१९७) द्यौकामिः स्यौकामिः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-११/१९७) वृद्धिः च प्राप्नोति यणादेः च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१२/१९७) परत्वात् वृद्धिः स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१३/१९७) यणादेशः भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१४/१९७) द्विर्वचनात् यणादेशः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१५/१९७) दुद्यूषति सुस्यूषति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१६/१९७) द्विर्वचनम् च प्राप्नोति यणादेः च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१७/१९७) नित्यत्वात् द्विर्वचनम् स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१८/१९७) यणादेशः भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१९/१९७) अल्लोपस्य च यणादेशस्य च न अस्ति सम्प्रधारणा ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-२०/१९७) स्वरात् यणादेशः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-२१/१९७) द्यौकामिः स्यौकामिः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-२२/१९७) स्वरः च प्राप्नोति यणादेः च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-२३/१९७) परत्वात् स्वरः स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-२४/१९७) यणादेशः भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-२५/१९७) गुणात् एकादेशः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-२६/१९७) काद्रवेयः मन्त्रम् अपश्यत् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-२७/१९७) गुणः च प्राप्नोति एकादेशः च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-२८/१९७) परत्वात् गुणः स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-२९/१९७) एकादेशः भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-३०/१९७) वृद्धेः एकादेशः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-३१/१९७) वैक्ष्माणिः सौस्थितिः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-३२/१९७) वृद्धिः च प्राप्नोति एकादेशः च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-३३/१९७) परत्वात् वृद्धिः स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-३४/१९७) एकादेशः भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-३५/१९७) द्विर्वचनात् एकादेशः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-३६/१९७) ज्ञाया ओदनः ज्ञौदनः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-३७/१९७) ज्ञौदनम् इच्छति ज्ञौदनीयति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-३८/१९७) ज्ञौदनीयतेः सन् जुज्ञौदनीयिषति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-३९/१९७) द्विर्वचनम् च प्राप्नोति एकादेशः च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-४०/१९७) नित्यत्वात् द्विर्वचनम् स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-४१/१९७) एकादेशः भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-४२/१९७) अल्लोपात् एकादेशः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-४३/१९७) शुना शुने ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-४४/१९७) अल्लोपः च प्राप्नोति एकादेशः च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-४५/१९७) परत्वात् अल्लोपः स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-४६/१९७) एकादेशः भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-४७/१९७) न एतत् अस्ति प्रयोजनम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-४८/१९७) न अस्ति अत्र विशेषः अल्लोपेन वा निवृत्तौ सत्याम् पूर्वत्वेन वा ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-४९/१९७) अयम् अस्ति विशेषः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-५०/१९७) अल्लोपेन निवृत्तौ सत्याम् उदात्तनिवृत्तिस्वरः प्रसज्येत ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-५१/१९७) न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-५२/१९७) किम् कारणम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-५३/१९७) न गोश्वन्साववर्ण इति प्रतिषेधात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-५४/१९७) न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-५५/१९७) कस्य तर्हि ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-५६/१९७) तृतीयादिस्वरस्य ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-५७/१९७) यत्र तर्हि तृतीयादिस्वरः न अस्ति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-५८/१९७) शुनः पश्य इति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-५९/१९७) एवम् तर्हि न लाक्षणिकस्य प्रतिषेधम् शिष्मः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-६०/१९७) किम् तर्हि ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-६१/१९७) येन केन चित् लक्षणेन प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-६२/१९७) यत्र तर्हि विभक्तिः न अस्ति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-६३/१९७) बह्हुशुनी इति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-६४/१९७) यदि पुनः अयम् उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः विज्ञायेत ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-६५/१९७) न एवम् शक्यम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-६६/१९७) इह अपि प्रसज्येत ॒ कुमारी इति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-६७/१९७) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति नोदात्तनिवृत्तिस्वरः शुनि अवतरति इति यत् अयम् श्वन्शब्दम् गौरादिषु पठति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-६८/१९७) अन्तोदात्तार्थम् यत्नम् करोति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-६९/१९७) सिद्धम् हि स्यान् ङीपा एव ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-७०/१९७) स्वरात् एकादेकादेशः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-७१/१९७) सौत्थितिः वैक्ष्माणिः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-७२/१९७) स्वरः च प्राप्नोति एकादेशः च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-७३/१९७) परत्वात्स्वरः स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-७४/१९७) एकादेशः भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-७५/१९७) गुणस्य च इत्त्वोत्त्वयोः च न अस्ति सम्प्रधारणा ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-७६/१९७) वृद्धेः इत्त्वोत्त्वे ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-७७/१९७) स्तौर्णिः पौर्तिः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-७८/१९७) वृद्धिः च प्राप्नोति इत्त्वोत्त्वे च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-७९/१९७) परत्वात् वृद्धिः स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-८०/१९७) इत्त्वोत्त्वे भवतः अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-८१/१९७) द्विर्वचनात् इत्त्वोत्त्वे ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-८२/१९७) आतेस्तीर्यते आपोपूर्यते ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-८३/१९७) द्विर्वचनम् च प्राप्नोति इत्त्वोत्त्वे च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-८४/१९७) नित्यत्वात् द्विर्वचनम् स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-८५/१९७) इत्त्वोत्त्वे भवतः अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-८६/१९७) अल्लोपस्य च इत्त्वोत्त्वयोः च न अस्ति सम्प्रधारणा ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-८७/१९७) स्वरे नास्ति विशेषः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-८८/१९७) इण्ङिशीनाम् आत् गुणः सवर्णदीर्घत्वात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-८९/१९७) इण्ङिशीनाम् आत् गुणः सवर्णदीर्घत्वात् प्रयोजनम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-९०/१९७) अयजे इन्द्रम् अवपे इन्द्रम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-९१/१९७) वृक्षे इन्द्रम् प्लक्षे इन्द्रम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-९२/१९७) ये इन्द्रम् ते इन्द्रम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-९३/१९७) आत् गुणः च प्राप्नोति सवर्णदीर्घत्वम् च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-९४/१९७) परत्वात् सवरणदीर्घत्वम् स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-९५/१९७) आत् गुणः भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-९६/१९७) न वा सवर्णदीर्घत्वस्य अनवकाशत्वात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-९७/१९७) न वा एतत् अन्तरङ्गेण अपि सिध्यति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-९८/१९७) किम् कारणम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-९९/१९७) सवर्णदीर्घत्वस्य अनवकाशत्वात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१००/१९७) अनवकाशम् सवर्णदीर्घत्वम् आत् गुणम् बाधेत ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१०१/१९७) न एतत् अन्तरङ्गे अस्ति अनवकाशम् परम् इति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१०२/१९७) इह अपि स्योनः , स्योना इति शक्यम् वक्तुम् न वा परत्वात् गुणस्य इति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१०३/१९७) ऊङापोः एकादेशः ईत्वलोपाभ्याम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१०४/१९७) ऊङापोः एकादेशः ईत्वलोपाभ्याम् भवति अन्तरङ्गतः प्रयोजनम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१०५/१९७) ईत्वात् एकादेशः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१०६/१९७) खट्वीयति मालीयति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१०७/१९७) ईत्वम् च प्राप्नोति एकादेशः च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१०८/१९७) परत्वात् ईत्वम् स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१०९/१९७) एकादेशः भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-११०/१९७) लोपात् एकादेशः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१११/१९७) कामण्डलेयः भाद्रबाहेयः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-११२/१९७) लोपः च प्राप्नोति एकादेशः च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-११३/१९७) परत्वात् लोपः स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-११४/१९७) एकादेशः भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-११५/१९७) अथ किमर्थम् ईत्वलोपाभ्याम् इति उच्यते न लोपेत्वाभ्यामिति एव उच्येत ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-११६/१९७) सङ्ख्यातानुदेशः मा भूत् इति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-११७/१९७) आपः अपि एकादेशः लोपे प्रयोजयति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-११८/१९७) चौडिः बालाकिः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-११९/१९७) आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि अयवायावेकादेशतुग्विधिभ्यः । आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि अयवायावेकादेशतुग्विधिभ्यः भवन्ति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१२०/१९७) वेञ् वानीयम् शो शानीयम् ग्लै ग्लानीयम् म्लै म्लानीयम् ग्लाच्छत्त्रम् च्लाच्छत्रम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१२१/१९७) आत्त्वम् च प्राप्नोति एते च विधयः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१२२/१९७) परत्वात् एते विधयः स्युः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१२३/१९७) आत्त्वम् भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१२४/१९७) नपुंसकोपसर्जनह्रस्वत्वम् च प्रयोजनम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१२५/१९७) अतिरि अत्र अतिनु अत्र अतिरिच्छत्त्रम् अतिनुच्छत्रम् आराशस्त्रि इदम् धानाशष्कुलि इदम् निष्कौशाम्बि इदम् निर्वाराणसि इदम् निष्कौशाम्बिच्छत्रम् निर्वाराणासिच्छत्रम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१२६/१९७) नपुंसकोपसर्जनह्रस्वत्वम् च प्राप्नोति एते च विधयः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१२७/१९७) परत्वात् एते विधयः स्युः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१२८/१९७) नपुंसकोपसर्जनह्रस्वत्वम् भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१२९/१९७) तुक् यणेकादेशगुणवृद्ध्यौत्त्वदीर्घत्वेत्वमुमेत्त्त्वरीविधिभ्यः । यणेकादेशगुणवृद्ध्यौत्त्वदीर्घत्वेत्वमुमेत्त्त्वरीविधिभ्यः तुक् भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१३०/१९७) यणादेशात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१३१/१९७) अग्निचित् अत्र सोमसुत् अत्र ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१३२/१९७) एकादेशात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१३३/१९७) अग्निचित् इदम् सोमसुत् उदकम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१३४/१९७) गुणात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१३५/१९७) अग्निचिते सोमसुते ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१३६/१९७) वृद्धेः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१३७/१९७) प्रऋच्छकः प्रार्च्छकः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१३८/१९७) औत्त्वात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१३९/१९७) अग्निचिति सोमसुति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१४०/१९७) दीर्घत्वात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१४१/१९७) जगद्भ्याम् जनगद्भ्याम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१४२/१९७) ईत्वात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१४३/१९७) जगत्यति जनगत्यति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१४४/१९७) मुमः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१४५/१९७) अग्निचिन्मन्यः सोमसुन्मन्यः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१४६/१९७) एत्वात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१४७/१९७) जगद्भ्यः जनगद्भ्यः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१४८/१९७) रीविधेः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१४९/१९७) सुकृत्यति पापक्र्ट्यति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१५०/१९७) अनङानङ्भ्याम् च इति वक्तव्यम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१५१/१९७) सुकृत् सुकृत्द्दुष्क्र्टौ ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१५२/१९७) तुक् च प्राप्नोति एते च विधयः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१५३/१९७) परत्वात् एते विधयः स्युः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१५४/१९७) तुक् भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१५५/१९७) इयङादेशः गुणात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१५६/१९७) इयङादेशः गुणात् भवति अन्तरङ्गतः प्रयोजनम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१५७/१९७) धियति रियति ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१५८/१९७) इयङादेशः च प्राप्नोति गुणः च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१५९/१९७) परत्वात् गुणः स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१६०/१९७) इयङादेशः भवति अन्तरण्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१६१/१९७) उवङादेशः च इति वक्तव्यम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१६२/१९७) प्रादुद्रुवत् प्रासुस्रुवत् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१६३/१९७) श्वेः सम्प्रसारणपूर्वत्वम् यणादेशात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१६४/१९७) श्वेः सम्प्रसारणपूर्वत्वम् यणादेशात् भवति अन्तरण्गतः प्रयोजनम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१६५/१९७) शुशुवतुः शुशुवुः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१६६/१९७) पूर्वत्वम् च प्राप्नोति यणादेशः च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१६७/१९७) परत्वात् यणादेशः स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१६८/१९७) पूर्वत्वम् भवति अन्तरण्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१६९/१९७) ह्वः आकारलोपात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१७०/१९७) ह्वः आकारलोपात् पूर्वत्वम् भवति अन्तरङ्गतः प्रयोजनम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१७१/१९७) जुहुवतुः जुहुवुः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१७२/१९७) पूर्वत्वम् च प्राप्नोति आकारलोपः च परत्वात् आकारलोपः स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१७३/१९७) पूर्वत्वम् भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१७४/१९७) स्वरः लोपात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१७५/१९७) स्वरः लोपात् भवति अन्तरङ्गतः प्रयोजनम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१७६/१९७) औपगवी सौदामनी ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१७७/१९७) स्वरः च प्राप्नोति लोपः च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१७८/१९७) परत्वात् लोपः स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१७९/१९७) स्वरः भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१८०/१९७) प्रत्ययविधिः एकादेशात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१८१/१९७) प्रत्ययविधिः एकादेशात् भवति अन्तरङ्गतः प्रयोजनम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१८२/१९७) अग्निः इन्द्रः वायुः उदकम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१८३/१९७) प्रत्ययविधिः च प्राप्नोति एकादेशः च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१८४/१९७) परत्वात् एकादेशः स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१८५/१९७) । प्रत्ययविधिः भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१८६/१९७) यणादेशात् च इति वक्तव्यम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१८७/१९७) अग्निः अत्र वायुः अत्र ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१८८/१९७) लादेशः वर्णविधेः । लादेशः वर्णविधेः भवति अन्तरङ्गतः प्रयोजनम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१८९/१९७) पचतु अत्र पठ्तु अत्र ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१९०/१९७) लादेशः च प्राप्नोति यणादेशः च ।परत्वात् यणादेशः स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१९१/१९७) लादेशः भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१९२/१९७) तत्पुरुषान्तोदात्तत्वम् पूर्वपदप्रकृतिस्वरात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१९३/१९७) तत्पुरुषान्तोदात्तत्वम् पूर्वपदप्रकृतिस्वरात् भवति अन्तरङ्गतः प्रयोजनम् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१९४/१९७) पूर्वशालाप्रियः अपरशालाप्रियः टत्पुरुषान्तोदात्तत्वम् च प्राप्नोति पूर्वपदप्रकृतिस्वरत्वम् च ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१९५/१९७) परत्वात् पूर्वपदप्रकृतिस्वरत्वम् स्यात् ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१९६/१९७) तत्पुरुषान्तोदात्तत्वम् भवति अन्तरङ्गतः ।

(पा-१,४.२.२; अकि-१,३०६.११-३०९.२३; रो-२,३२५-३३५; भा-१९७/१९७) एतानि अस्याः परिभाषायाः प्रयोजनानि यदर्थम् एषा परिभाषा कर्तव्या ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-१/६०) यदि सन्ति प्रयोजनानि इति एषा परिभाषा क्रियते ननु च इयम् अपि कर्तव्या असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-२/६०) किम् प्रयोजनम् ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-३/६०) पचावेदम् पचामेदम् ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-४/६०) असिद्धत्वात् बहिरङ्गलक्षणस्य गुणस्य अन्तरण्गलक्षणम् ऐत्वम् मा भूत् इति ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-५/६०) उभे तर्हि कर्तव्ये ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-६/६०) न इति आह ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-७/६०) अनया एव सिद्धम् ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-८/६०) इह अपि स्योनः स्योना इति असिद्धत्वात् बहिरङ्गलक्षणस्य गुणस्य अन्तरङ्गलक्षणः यणादेशो भविष्यति ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-९/६०) यदि असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति उच्यते अक्षद्यूः हिरण्यद्यूः असिद्धत्वात् असिद्धत्वात् बहिरङ्गलक्षणस्य ऊठः अन्तरङ्गलक्षणः यणादेशः न प्राप्नोति ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-१०/६०) न एषः दोषः ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-११/६०) असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति उक्त्वा ततः वक्ष्यामि न अजानन्तर्ये बहिष्ट्वप्रक्ल्̥प्तिः इति ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-१२/६०) सा तर्हि एषा परिभाषा कर्तव्या ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-१३/६०) न कर्तव्या ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-१४/६०) आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् षत्वतुकोः असिद्धः इति आह ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-१५/६०) इयम् तर्हि परिभाषा कर्तव्या असिद्धम् बहिरङ्गलक्षणमन्तरङ्गलक्षणे इति ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-१६/६०) एषा च न कर्तव्या ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-१७/६०) आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् वाहः ऊठ् इति ऊठम् शास्ति ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-१८/६०) तस्य दोषः पूर्वपदोत्तरपदयोः वृद्धिस्वरौ एकादेशात् ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-१९/६०) तस्य एतस्य लक्षणस्य दोषः पूर्वपदोत्तरपदयोः वृद्धिस्वरौ एकादेशात् अन्तरङ्गतः अभिनिर्वृत्तात् न प्राप्नुतः ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-२०/६०) पूर्वैषुकामशमः अपरैषुकामशमः गुडोदकम् तिलोदकम् ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-२१/६०) उदके अकेवले इति पूर्वोत्तरपदयोः व्यपवर्गाभावात् न स्यात् ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-२२/६०) न एषः दोषः ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-२३/६०) आचार्यप्रवृत्तिः ज्ञापयति पूर्वोत्तरपदयोः तावत् कार्यम् भवति न एकादेशः इति यत् अयम् न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-२४/६०) कथम् कृत्वा ज्ञापकम् ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-२५/६०) इन्द्रे द्वौ अचौ ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-२६/६०) तत्र एकः यस्य ईति च इति लोपेन ह्रियते अपरः एकादेशेन ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-२७/६०) ततः अनच्कः इन्द्रः सम्पन्नः ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-२८/६०) तत्र कः प्रसङ्गः वृद्धेः ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-२९/६०) पश्यति तु आचार्यः पूर्वपदोत्तरपद्योः तावत्कार्यम् भवति न एकादेशः इति ततः न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-३०/६०) यणादेशात् इयुवौ । यणादेशात् इयुवौ अन्तरङ्गतः अभिनिर्वृत्तात् न प्राप्नुतः ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-३१/६०) वैयाकरणः सौवश्वः इति ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-३२/६०) लक्षणम् हि भवति य्वोः वृद्धिप्रसङ्गे इयुवौ भवतः इति ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-३३/६०) न एषः दोषः ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-३४/६०) अनवकाशौ इयुवौ ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-३५/६०) अचि इति उच्यते ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-३६/६०) किम् पुनः कारणम् अचि ति उच्यते ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-३७/६०) इह मा भूताम् ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-३८/६०) ऐतिकायनः औपगवः इति ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-३९/६०) स्ताम् अत्र इयुवौ लोपः व्योः वलि इति लोपः भविष्यति ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-४०/६०) यत्र तर्हि लोपः न अस्ति ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-४१/६०) प्रैयमेधः प्रैयम्गवः इति ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-४२/६०) उसि पररूपात् च ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-४३/६०) उसि पररूपात् च अन्तरङ्गतः अभिनिर्वृत्तात् इयादेशः न प्राप्नोति ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-४४/६०) पचेयुः यजेयुः ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-४५/६०) न एषः दोषः ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-४६/६०) न एवम् विज्ञायते या इति एतस्य इय् भवति इति ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-४७/६०) कथम् तर्हि ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-४८/६०) यास् इति एतस्य इय् भवति इति ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-४९/६०) लुक् लोपयणयवायावेकादेशेभ्यः ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-५०/६०) लोपयणयवायावेकादेशेभ्यः लुक् बलीयान् इति वक्तव्यम् ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-५१/६०) लोपात् ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-५२/६०) गोमान् प्रियः अस्य गोमत्प्रियः यवमत्प्रियः ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-५३/६०) गोमान् इव आचरति गोमत्यते यवमत्यते ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-५४/६०) यणादेशात् ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-५५/६०) ग्रामण्यः कुलम् ग्रामणिकुलम् सेनान्यः कुलम् सेनानिकुलम् ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-५६/६०) अयवायावेकादेशेभ्यः ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-५७/६०) गवे हितम् गोहितम् रायः कुलम् रैकुलम् नावः कुलम् नौकुलम् वृकाद्भयम् वृकभयम् ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-५८/६०) लुक् च प्राप्नोति एते च विधयः ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-५९/६०) परत्वात् एते विधयः स्युः ।

(पा-१,४.२.३; अकि-१,३०९.२३-३११.११; रो-२,३३५-३३९; भा-६०/६०) लुक् बलीयान् इति वक्तव्यम् लुक् यथा स्यात् ।