व्याकरणमहाभाष्य खण्ड 19

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-१/१०४) यू इति किमर्थम् ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-२/१०४) खट्वा माला ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-३/१०४) किम् च स्यात् ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-४/१०४) खट्वाबन्धुः मालाबन्धुः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-५/१०४) नदी बन्धुनि इति एषः स्वरः प्रसज्येत ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-६/१०४) इह च बहुखट्वकः इति नद्यृतः च इति नित्यः कप् प्रसज्येत ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-७/१०४) न एषः दोषः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-८/१०४) आचार्यप्रवृत्तिः ज्ञापयति न आपः नदीसञ्ज्ञा भवति इति यत् अयम् ङेः आम् नद्याम्नीभ्यः इति पृथक् आब्ग्रहणम् करोति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-९/१०४) इह तर्हि मात्रे मातुः इति आट् नद्याः इति आट् प्रसज्येत ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-१०/१०४) किम् पुनः इदम् दीर्घयोः ग्रहणम् आहोस्विद् ह्रस्वयोः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-११/१०४) किम् चातः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-१२/१०४) यदि दीर्घयोः ग्रहणम् यू इति निर्देशः न उपपद्यते ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-१३/१०४) दीर्घात् हि पूर्वसवर्णः प्रतिषिध्यते ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-१४/१०४) उत्तरत्र च विशेषणम् न प्रकल्पेत यू ह्रस्वौ इति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-१५/१०४) यदि यू न ह्रस्वौ ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-१६/१०४) अथ ह्रस्वौ न यू ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-१७/१०४) यू ह्रस्वौ चेति विप्रतिषिद्धम् ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-१८/१०४) अथ ह्रस्वयोः हे शकटे अत्र अपि प्रसज्येत ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-१९/१०४) न एषः दोषः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-२०/१०४) अवश्यम् अत्र विभाषा नदीसञ्ज्ञा एषितव्या ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-२१/१०४) उभयम् हि इष्यते ॒ हे शकटि हे शकटे इति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-२२/१०४) इह तर्हि शकटिबन्धुः इति नदी बन्धुनि इति एषः स्वरः प्रसज्येत ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-२३/१०४) इह च बहुशकटिः इति नद्यृतः चेति नित्यः कप् प्रसज्येत ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-२४/१०४) न एषः दोषः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-२५/१०४) ङिति ह्रस्वः च इति अयम् नियमार्थः भविष्यति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-२६/१०४) ङिति एव यू ह्रस्वौ नदीसञ्ज्ञौ भवतः न न्यत्र इति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-२७/१०४) कैमर्थक्यात् नियमः भवति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-२८/१०४) विधेयम् न अस्ति इति कृत्वा ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-२९/१०४) इह च अस्ति विधेयम् ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-३०/१०४) किम् ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-३१/१०४) नित्या नदीसञ्ज्ञा प्राप्ता सा विभाषा विधेया ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-३२/१०४) तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-३३/१०४) अथ अयम् नित्यः योगः स्यात् प्रकल्पेत नियमः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-३४/१०४) बाढम् प्रकल्पेत ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-३५/१०४) नित्यः तर्थि भविष्यति । तत् कथम् ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-३६/१०४) योगविभागः करिष्यते ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-३७/१०४) इदम् अस्ति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-३८/१०४) यू स्त्र्याख्यौ नदी न इयङुवङ्स्थानौ अस्त्री वामि ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-३९/१०४) ततः ङिति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-४०/१०४) ङिति च इयङुवङ्स्थानौ यू वा अस्त्री नदीसञ्ज्ञौ न भवतः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-४१/१०४) ततः ह्रस्वौ ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-४२/१०४) ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-४३/१०४) इयङुवङ्स्थानौ वा न इति च निवृत्तम् ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-४४/१०४) यदि एवम् शकटये अत्र गुणः न प्राप्नोति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-४५/१०४) द्वितीयः योगविभागः करिष्यते ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-४६/१०४) शेषग्रहणम् न करिष्यते ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-४७/१०४) कथम् ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-४८/१०४) इदम् अस्ति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-४९/१०४) यू स्त्र्याख्यौ नदी न इयङुवङ्स्थानौ अस्त्री वामि ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-५०/१०४) ततः ङिति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-५१/१०४) ङिति च इयङुवङ्स्थानौ यू वा अस्त्री नदीसञ्ज्ञौ न भवतः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-५२/१०४) ततः ह्रस्वौ ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-५३/१०४) ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-५४/१०४) ततः ह्रस्वौ ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-५५/१०४) ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-५६/१०४) इयङुवङ्स्थानौ वा न इति च निवृत्तम् ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-५७/१०४) ततः घि ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-५८/१०४) घिसञ्ज्ञौ च भवतः स्त्र्याख्यौ यू ह्रस्वौ ङिति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-५९/१०४) ततः असखि ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-६०/१०४) सखिवर्जितौ च यू ह्रस्वौ घिसञ्ज्ञौ भवतः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-६१/१०४) स्त्र्याख्यौ ङिति इति च निवृत्तम् ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-६२/१०४) यदि तर्हि शेषग्रहणम् न क्रियते न अर्थः एकेन अपि योगविभागेन ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-६३/१०४) अविशेषेण नदीसञ्ज्ञा उत्सर्गः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-६४/१०४) तस्याः ह्रस्वयोः घिसञ्ज्ञा बाधिका ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-६५/१०४) तस्याम् नित्यायाम् प्राप्तायाम् ङिति विभाषा आरभ्यते ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-६६/१०४) अथ वा पुनः अस्तु दीर्घयोः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-६७/१०४) ननु च उक्तम् निर्देशः न उपपद्यते ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-६८/१०४) दीर्घात् हि पूर्वसवर्णः प्रतिषिध्यते ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-६९/१०४) वा छन्दसि इति एवम् भविष्यति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-७०/१०४) छन्दसि इति उच्यते न च इदम् छन्दः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-७१/१०४) छन्दोवत् सूत्राणि भवन्ति इति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-७२/१०४) यत् अपि उच्यते उत्तरत्र विशेषेणम् न प्रकल्पेत यू ह्रस्वौ इति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-७३/१०४) यदि यू न ह्रस्वौ अथ ह्रस्वौ न यू ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-७४/१०४) यू ह्रस्वौ इति विप्रतिषिद्धम् इति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-७५/१०४) न एतत् विप्रतिषिद्धम् ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-७६/१०४) आह अयम् यू ह्रस्वौ इति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-७७/१०४) यदि यू न ह्रस्वौ ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-७८/१०४) अथ ह्रस्वौ न यू ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-७९/१०४) ते एवम् विज्ञास्यामः य्वोः यौ ह्रस्वौ इति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-८०/१०४) कौ च य्वोः ह्रस्वौ ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-८१/१०४) सवर्णौ ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-८२/१०४) अथ स्त्र्याख्यौ इति कः अयम् शब्दः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-८३/१०४) स्त्रियम् आचक्षाते स्त्र्याख्यौ ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-८४/१०४) यदि एवम् स्त्र्याख्यायौ इति प्राप्नोति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-८५/१०४) अनुपसर्गे हि कः विधीयते ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-८६/१०४) न तर्हि इदानीम् इदम् भवति यस्मिन् दश सहस्राणि पुत्रे जाते गवाम् ददौ ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-८७/१०४) ब्राह्मणेभ्यः प्रियाख्येभ्यः सः अयम् उञ्छेन जीवति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-८८/१०४) छन्दोवत् कवयः कुर्वन्ति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-८९/१०४) न हि एषा इष्टिः ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-९०/१०४) एवम् तर्हि कर्मसाधनः भविष्यति ॒ स्त्रियाम् आख्यायेते स्त्र्याख्यौ ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-९१/१०४) यदि कर्मसाधनः कृत्स्त्रियाः धातुस्त्रियाः च न सिध्यति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-९२/१०४) तन्त्र्यै लक्ष्म्यै श्रियै भ्रुवै ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-९३/१०४) एवम् तर्हि बहुव्रीहिः भविष्यति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-९४/१०४) स्त्रियाम् आख्या अनयोः स्त्र्याख्यौ ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-९५/१०४) एवम् अपि कृत्स्त्रियाः धातुस्त्रियाः च न सिध्यति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-९६/१०४) तन्त्र्यै लक्ष्म्यै श्रियै भ्रुवै ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-९७/१०४) एवम् तर्हि विच् भविष्यति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-९८/१०४) अथ वा पुनः अस्तु कः एव ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-९९/१०४) स्त्रियम् आचक्षाते स्त्र्याख्यौ इति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-१००/१०४) ननु च उक्तम् स्त्र्याख्यायौ इति प्राप्नोति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-१०१/१०४) अनुपसर्गे हि कः विधीयते ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-१०२/१०४) मूलविभुजादिपाठात् कः भविष्यति ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-१०३/१०४) एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् यस्मिन् दश सहस्राणि पुत्रे जाते गवाम् ददौ ।

(पा-१,४.३.१; अकि-१,३१२.२-३१३.२३; रो-२,३४०-३४४; भा-१०४/१०४) ब्राह्मणेभ्यः प्रियाख्येभ्यः सः अयम् उञ्छेन जीवति ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-१/५८) अथ आख्याग्रहणम् किमर्थम् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-२/५८) नदीसञ्ज्ञायाम् आख्याग्रहणम् स्त्रीविषयार्थम् । नदीसञ्ज्ञायाम् आख्याग्रहणम् स्त्रीविषयार्थम् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-३/५८) स्त्रीविषयौ एव यौ नित्यम् तयोः एव नदीसञ्ज्ञा यथा स्यात् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-४/५८) इह मा भूत् ग्रामण्ये सेनान्ये स्त्रियै इति ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-५/५८) प्रथमलिङ्गग्रहणम् च ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-६/५८) प्रथमलिङ्गग्रहणम् च कर्तव्यम् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-७/५८) प्रथमलिङ्गे यौ स्त्र्याखौ इति वक्तव्यम् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-८/५८) किम् प्रयोजनम् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-९/५८) प्रयोजनम् क्विब्लुप्समासाः । कुमार्यै ब्राह्मणाय ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-१०/५८) लुप् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-११/५८) खरकुट्यै ब्राह्मणाय ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-१२/५८) अतितन्त्र्यै ब्राह्मणाय अतिलक्ष्म्यै ब्राह्मणाय ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-१३/५८) तत् तर्हि वक्तव्यम् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-१४/५८) न वक्तव्यम् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-१५/५८) अवयवस्त्रीविषयत्वात् सिद्धम् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-१६/५८) अवयवः अत्र स्त्रीविषयः तदाश्रया नदीसञ्ज्ञा भविष्यति ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-१७/५८) अवयवस्त्रीविषयत्वात् सिद्धम् इति चेत् इयङुवङ्स्थानप्रतिषेधे यण्स्थानप्रतिषेधप्रसङ्गः अवयवस्य इयङुवङ्स्थानत्वात् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-१८/५८) अवयवस्त्रीविषयत्वात् सिद्धम् इति चेत् इयङुवङ्स्थानप्रतिषेधे यण्स्थानयोः अपि य्वोः प्रतिषेधः प्रसज्येत ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-१९/५८) आध्यै प्रध्यै ब्राह्मण्यै ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-२०/५८) किम् कारणम् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-२१/५८) अवयवस्य इयङुवङ्स्थानत्वात् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-२२/५८) अवयवः अत्र इयङुवङ्स्थानः ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-२३/५८) सिद्धम् त्वङ्गरूपग्रहणात् यस्य अङ्गस्य इयुवौ तत्प्रतिषेधात् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-२४/५८) सिद्धम् एतत् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-२५/५८) कथम् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-२६/५८) अङ्गरूपम् गृह्यते ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-२७/५८) यस्य अङ्गस्य इयुवौ भवतः तस्य इदम् ग्रहणम् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-२८/५८) न च एतस्य अङ्गस्य इयुवौ भवतः ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-२९/५८) ह्रस्वेयुव्स्थानप्रवृत्तौ च स्त्रीवचने ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-३०/५८) ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनौ एव नदीसञ्ज्ञौ भवतः इति वक्तव्यम् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-३१/५८) शकट्यै अतिशकट्यै ब्रामणाण्यै ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-३२/५८) क्व मा भूत् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-३३/५८) शकटये अतिशकटये ब्राह्मणाय ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-३४/५८) धेन्वै अतिधेन्वै ब्राह्मण्यै ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-३५/५८) क्व मा भूत् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-३६/५८) धेनवे अतिधेनवे ब्राह्मणाय ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-३७/५८) श्रियै अतिश्रियै ब्राह्मण्यै ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-३८/५८) क्व मा भूत् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-३९/५८) श्रिये अतिश्रिये ब्राह्मणाय ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-४०/५८) भ्रुवै अतिभ्रुवै ब्राह्मण्यै ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-४१/५८) क्व मा भूत् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-४२/५८) भ्रुवे अतिभ्रुवे ब्राह्मणाय ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-४३/५८) अपरः आह ॒ ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ अपि स्त्रीवचनौ एव नदीसञ्ज्ञौ भवतः इति वक्तव्यम् ॒ शकट्यै , अतिशकट्यै ब्रामणाण्यै ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-४४/५८) क्व मा भूत् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-४५/५८) शकटये अतिशकटये ब्राह्मणाय ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-४६/५८) धेन्वै अतिधेन्वै ब्राह्मण्यै ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-४७/५८) क्व मा भूत् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-४८/५८) धेनवे अतिधेनवे ब्राह्मणाय ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-४९/५८) श्रियै अतिश्रियै ब्राह्मण्यै ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-५०/५८) क्व मा भूत् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-५१/५८) श्रिये अतिश्रिये ब्राह्मणाय ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-५२/५८) भ्रुवै अतिभ्रुवै ब्राह्मण्यै ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-५३/५८) क्व मा भूत् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-५४/५८) भ्रुवे अतिभ्रुवे ब्राह्मणाय ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-५५/५८) किमर्थम् पुनः इदम् उच्यते ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-५६/५८) प्रथमलिङ्गग्रहणम् चोदितम् ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-५७/५८) तत् द्वेष्यम् विजानीयात् ॒ सर्वम् एतत् विकल्पते इति ।

(पा-१,४.३.२; अकि-१,३१३.२३-३१५.३; रो-२,३४५-३४९; भा-५८/५८) तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनौ एव इति ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-१/३७) योगविभागः कर्तव्यः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-२/३७) षष्थीयुक्तः छन्दसि ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-३/३७) षष्थीयुक्तः पतिशब्दः छन्दसि घिसञ्ज्ञः भवति ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-४/३७) ततः वा ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-५/३७) वा छन्दसि सर्वे विधयो भवति ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-६/३७) सुपाम् व्यत्ययः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-७/३७) तिङाम् व्यत्ययः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-८/३७) वर्णव्यत्ययः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-९/३७) लिङ्गव्यत्ययः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-१०/३७) कालव्यत्ययः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-११/३७) पुरुषव्यत्ययः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-१२/३७) आत्मनेपदव्यत्ययः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-१३/३७) परस्मैपदव्यत्ययः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-१४/३७) सुपाम् व्यत्ययः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-१५/३७) युक्त मात असीत् धुरि दक्षिणायाः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-१६/३७) दक्षिणायाम् इति प्राप्ते ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-१७/३७) तिङाम् व्यत्ययः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-१८/३७) चषलम् ये अश्वयूपय तक्षति ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-१९/३७) तक्षन्ति इति प्राप्ते ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-२०/३७) वर्णव्यत्ययः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-२१/३७) त्रिष्टुभौजः शुभितम् उग्रवीरम् ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-२२/३७) सुहितमिति प्राप्ते ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-२३/३७) लिङ्गव्यत्ययः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-२४/३७) मधोः गृह्णाति मधोः तृप्ताः इव आसते ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-२५/३७) मधुनः इति प्राप्ते ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-२६/३७) कालव्यत्ययः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-२७/३७) श्वः अग्नीन् आधास्यमानेन श्वः सोमेन यक्षमाणेन ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-२८/३७) श्वः आधाता श्वः यष्टा इति प्राप्ते ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-२९/३७) पुरुषव्यत्ययः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-३०/३७) अधा सः वीरैः दशभिः वियूयाः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-३१/३७) वियूयात् इति प्राप्ते ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-३२/३७) आत्मनेपदव्यत्ययः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-३३/३७) ब्रह्मचारिणम् इच्छते ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-३४/३७) इच्छति इति प्राप्ते ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-३५/३७) परस्मैपदव्यत्ययः ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-३६/३७) प्रतीपम् अन्यः ऊर्मिः युध्यति । अन्वीपम् अन्यः ऊर्मिः युध्यति ।

(पा-१,४.९; अकि-१,३१५.५-१५; रो-२,३४९-३५०; भा-३७/३७) युध्यते इति प्राप्ते ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-१/६१) यस्मात् इति व्यपदेशाय ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-२/६१) अथ प्रत्ययग्रहणम् किमर्थम् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-३/६१) यस्मात् विधिः तदादि प्रत्यये अङ्गम् इति इयति उच्यमाने स्त्री इयती स्त्रीयति इति अत्र अपि प्रसज्येत ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-४/६१) प्रत्ययग्रहणे पुनः क्रियमाणे न दोषः भवति ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-५/६१) अथ विधिग्रहणम् किमर्थम् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-६/६१) यस्मात् प्रत्ययः तदादि प्रत्यये अङ्गम् इति इयति उच्यमाने दधि अधुना मधु अधुना अत्रापि प्रसज्येत ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-७/६१) विधिग्रहणेण पुनः क्रियमाणे न दोषः भवति ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-८/६१) तत् एतत् प्रत्ययग्रहणेन विधिग्रहणेन च समुदितेन क्रियते सन्नियोगः ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-९/६१) यस्मात् यः प्रत्ययः विधीयते तदादि तस्मिन् अङ्गसञ्ज्ञम् भवति इति ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-१०/६१) अथ तदादिग्रहणम् किमर्थम् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-११/६१) अङ्गसञ्ज्ञायाम् तदादिवचनम् स्यादिनुमर्थम् । अङ्गसञ्ज्ञायाम् तदादिग्रहणम् क्रियते स्याद्यर्थम् नुमर्थम् च ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-१२/६१) स्याद्यर्थम् तावत् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-१३/६१) करिष्यावः करिष्यामः ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-१४/६१) नुमर्थम् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-१५/६१) कुण्डानि वनानि ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-१६/६१) मित्सुटोः उपसम्ख्यानम् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-१७/६१) मित्वतः सुड्वतः च पसम्ख्यानम् कर्तव्यम् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-१८/६१) मित्वतः ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-१९/६१) भिनत्ति छिनत्ति अभिनत् अच्छिनत् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-२०/६१) सुड्वतः ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-२१/६१) सञ्चरकस्तु सञ्चस्करुः ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-२२/६१) किम् पुनः कारणम् न सिध्यति ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-२३/६१) सुटः बहिरङ्गत्वात् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-२४/६१) बहिरङ्गः सुट् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-२५/६१) अन्तरङ्गः गुणः ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-२६/६१) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-२७/६१) वक्ष्यति एतत् संयोगादेः गुणविधाने संयोगोपधग्रहणम् कृञर्थम् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-२८/६१) यदि संयोगोपधग्रहणम् क्रियते न अर्थः संयोगादिग्रहणेन ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-२९/६१) इह अपि सस्वरतुः सस्वरुः इति संयोगोपधस्य इति एव सिद्धम् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-३०/६१) भवेत् एवमर्थेन न अर्थः ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-३१/६१) इदम् तु न सिध्यति सञ्चकरतुः सञ्चस्करुः ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-३२/६१) किम् पुनः कारणम् न सिध्यति ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-३३/६१) इह तस्य वा ग्रहणम् भवति तदादेः वा न चेदम् तत् न अपि तदादि ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-३४/६१) सिद्धम् तु तदाद्यादिवचनात् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-३५/६१) सिद्धम् एतत् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-३६/६१) कथम् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-३७/६१) तदाद्यादि अङ्गसञ्ज्ञम् भवति इति वक्तव्यम् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-३८/६१) किम् इदम् तदाद्यादि इति ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-३९/६१) तस्य आदिः तदादिः , तदादिः आदिः यस्य तदिदम् तदाद्यादि इति ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-४०/६१) सः तर्हि तथा निर्देशः कर्तव्यः ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-४१/६१) न कर्तव्यः ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-४२/६१) उत्तरपदलोपः अत्र द्रष्टव्यः ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-४३/६१) तत् यथा ॒ उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखः , एवम् तदाद्यादि तदादि इति ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-४४/६१) तदेकदेशविज्ञानात् वा सिद्धम् । तदेकदेशविज्ञानात् वा सिद्धम् एतत् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-४५/६१) तदेकदेशभूतम् तद्ग्रहणेन गृह्यते. तद् यथा ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-४६/६१) गङ्गा यमुना देवदत्ता इति ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-४७/६१) अनेका नदी गङ्गाम् यमुनाम् च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-४८/६१) तथा देवदत्तास्थः गर्भः देवदत्ताग्रहणेन गृह्यते ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-४९/६१) विषमः उपन्यासः ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-५०/६१) इह के चित् शब्दाः अक्तपरिमाणानाम् अर्थानाम् वाचकाः भवन्ति ये एते सङ्ख्याशब्दाः परिमाणशब्दाः च ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-५१/६१) पञ्च सप्त इति ॒ एकेन अपि अपाये न भवन्ति ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-५२/६१) द्रोणः खारी आढकम् इति ॒ नैवा अधिके भवन्ति न च न्यूने ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-५३/६१) के चित् यावत् एव तत् भवति तावत् एव आहुः ये एते जातिशब्दाः गुणशब्दाः च ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-५४/६१) तैलम् घृतम् इति ॒ खार्याम् अपि भवन्ति द्रोणे अपि ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-५५/६१) शुक्लः नीलः कृष्णः इति ॒ हिमवति अपि भवति वटकणिकामात्रे अपि द्रव्ये ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-५६/६१) अङ्गसञ्ज्ञा च अपि अक्तपरिमाणानाम् क्रियते ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-५७/६१) सा केन अधिकस्य स्यात् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-५८/६१) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति यत् अयम् न इदमदसोः अकोः इति सककारयोः प्रतिषेधम् शास्ति ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-५९/६१) कथम् कृत्वा ज्ञापकम् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-६०/६१) इदमदसोः कार्यम् उच्यमानम् कः प्रसङ्गो यत् सककारयोः स्यात् ।

(पा-१,४.१३.१; अकि-१,३१५.१७-३१७.४; रो-२,३५१-३५६; भा-६१/६१) पश्यति तु आचार्यः तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति ततः सककारयोः प्रतिषेधम् शास्ति ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-१/४५) अथ द्वितीयम् प्रत्ययग्रहणम् किमर्थम् ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-२/४५) प्रत्ययग्रहणम् पदादौ अप्रसङ्गार्थम् ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-३/४५) प्रत्ययग्रहणम् क्रियते पदादौ अङ्गसञ्ज्ञा मा भूत् इति ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-४/४५) किम् च स्यात् ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-५/४५) स्त्र्यर्थम् , श्र्यर्थम् , भ्वर्थम् ॒ अङ्गस्य इति इयङुवङौ स्याताम् ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-६/४५) परिमाणार्थम् च ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-७/४५) परिमाणार्थम् च द्वितीयम् प्रत्ययग्रहणम् क्रियते ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-८/४५) यस्मात् प्रत्ययविधिः तदादि अङ्गम् इति इयति उच्यमाने दाशतयस्य अपि अङ्गसञ्ज्ञा प्रसज्येत ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-९/४५) तत् तर्हि कर्तव्यम् ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-१०/४५) न कर्तव्यम् ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-११/४५) केन इदानीम् अङ्गकार्यम् भविष्यति ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-१२/४५) प्रत्यये इति प्रकृत्य अङ्गकार्यम् अध्येष्ये ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-१३/४५) प्रत्यये इति प्रकृत्य अङ्गकार्यम् अधीषे प्राकरोत् उपैहिष्ट उपसर्गात् पूर्वौ अडाटौ प्राप्नुतः ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-१४/४५) सिद्धम् तु प्रत्ययग्रहणे यस्मात् सः तदादितदन्तविज्ञानात् ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-१५/४५) सिद्धम् एतत् ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-१६/४५) कथम् ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-१७/४५) प्रत्ययग्रहणे यस्मात् सः प्रत्ययः विहितः तदादेः तदन्तस्य च ग्रहणम् भवति इति एषा परिभाषा कर्तव्या ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-१८/४५) कः पुनः अत्र विशेषः एषा परिभाषा क्रियेत प्रत्ययग्रहणम् वा ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-१९/४५) अवश्यम् एषा परिभाषा कर्तव्या ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-२०/४५) बहूनि एतस्याः परिभाषायाः प्रयोजनानि ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-२१/४५) प्रयोजनम् धातुप्रातिपदिकप्रत्ययसमासतद्धितविधिस्वराः ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-२२/४५) धातु ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-२३/४५) देवदत्तः चिकीर्षति ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-२४/४५) सङ्घातस्य धातुसञ्ज्ञा प्राप्नोति ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-२५/४५) प्रातिपदिक ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-२६/४५) देवदत्त्ः गार्ग्यः ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-२७/४५) सङ्घातस्य प्रातिपदिकसञ्ज्ञा प्राप्नोति ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-२८/४५) प्रत्यय ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-२९/४५) महान्तम् पुत्रम् इच्छति ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-३०/४५) सम्घातात् प्रत्ययोत्पत्तिः प्राप्नोति ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-३१/४५) समास ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-३२/४५) ऋद्धस्य राज्ञः पुरुषः ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-३३/४५) सम्घातस्य समाससञ्ज्ञा प्राप्नोति ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-३४/४५) तद्धितविधि ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-३५/४५) देवदत्तः गार्ग्यायणः ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-३६/४५) सम्घातात् तद्धितोत्पत्तिः प्राप्नोति ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-३७/४५) स्वर ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-३८/४५) देवदत्तः गार्ग्यः ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-३९/४५) सम्घात्स्य ञ्नित्यादिः नित्यम् इति आद्युदात्तत्वम् प्राप्नोति ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-४०/४५) प्रत्ययग्रहणे यस्मात् स तदादेः तदन्तस्य ग्रहणम् भवति इति न दोषः भवति ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-४१/४५) सा तर्हि एषा परिभाषा कर्तव्या ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-४२/४५) न कर्तव्या ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-४३/४५) एवम् वक्ष्यामि ॒ यस्मात् प्रत्ययविधिः तदादि प्रत्यये गृह्यमाणे गृह्यते ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-४४/४५) ततः अङ्गम् ।

(पा-१,४.१३.२; अकि-१,३१७.५-३१८.४; रो-२,३५६-३५९; भा-४५/४५) अङ्गसञ्ज्ञम् च भवति यस्मा त्प्रत्ययविधिः तदादि प्रत्यये ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-१/१९) यदि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उच्यते अवतपेनकुलस्थितम् ते एतत् उदकेविशीर्णम् ते एतत् सगतिकेन सनकुलेन च समासः न प्राप्नोति ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-२/१९) एवम् तर्हि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उक्त्वा ततः वक्ष्यामि ॒ कृद्ग्रहणे गतिकारकपूर्वस्य अपि ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-३/१९) कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति ति एषा परिभाषा कर्तव्या ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-४/१९) कानि एतस्याः परिभाषायाः प्रयोजनानि ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-५/१९) प्रयोजनम् समासतद्धितविधिस्वराः ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-६/१९) समास ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-७/१९) अवतपेनकुलस्थितम् ते एतत् उदकेविशीर्णम् ते एतत् सगतिकेन सनकुलेन च समासः सिद्धः भवति ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-८/१९) समास ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-९/१९) तद्धितविधि ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-१०/१९) साङ्कूटिनम् व्यावक्रोशी ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-११/१९) सम्घातात् तद्धितोपत्तिः सिद्धा भवति ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-१२/१९) तद्धितविधि ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-१३/१९) स्वर ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-१४/१९) दूरात् आगतः दूरादागतः इति ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-१५/१९) अन्तः थाथघञ्क्ताजबित्रकाणाम् इति एषः स्वरः सिद्धः भवति ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-१६/१९) कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति न दोषः भवति ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-१७/१९) सा तर्हि एषा परिभाषा कर्तव्या ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-१८/१९) न कर्तव्या ।

(पा-१,४.१३.३; अकि-१,३१८.५-१८; रो-२,३५९-३६०; भा-१९/१९) आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाष इति यत् अयम् गतिः अनन्तरः इति अनन्तरग्रहणम् करोति ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-१/२१) अन्तग्रहणम् किमर्थम् न सुप्तिङ् पदम् इति एव उच्यते ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-२/२१) केन इदानीम् तदन्तानाम् भविष्यति ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-३/२१) तदन्तविधिना ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-४/२१) अतः उत्तरम् पठति ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-५/२१) पदसञ्ज्ञायाम् अन्तवचनम् अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-६/२१) पदसञ्ज्ञायाम् अन्तग्रहणम् क्रियते ज्ञापकार्थम् ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-७/२१) किम् ज्ञाप्यम् ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-८/२१) एतत् ज्ञापयति आचार्यः अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिः न भवति इति ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-९/२१) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-१०/२१) तरप्तमौ घः ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-११/२१) तरप्तमबन्तस्य घसञ्ज्ञा न भवति ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-१२/२१) किम् च स्यात् ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-१३/२१) कुमारी गौरितरा ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-१४/२१) घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वम् प्रसज्येत ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-१५/२१) यदि एतत् ज्ञाप्यते सनाद्यन्ताः धातवः इति अन्तग्रहणम् कर्तव्यम् ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-१६/२१) कृत्तद्धितसमासाः च इति अन्तग्रहणम् कर्तव्यम् ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-१७/२१) इदम् तृतीयम् ज्ञापकार्थम् ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-१८/२१) द्वे तावत् क्रियेते न्यासे एव ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-१९/२१) यत् अपि उच्यते कृत्तद्धितसमासाः च इति अन्तग्रहणम् कर्तव्यम् इति ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-२०/२१) न कर्तव्यम् ।

(पा-१,४.१४; अकि-१,३१८.२०-३१९.६; रो-२,३६१-३६२; भा-२१/२१) अर्थवत् इति वर्तते कृत्तद्धान्तम् च एव अर्थवत् न केवलाः कृतः तद्धिताः वा ।

(पा-१,४.१५; अकि-१,३१९.८-९; रो-२,३६३; भा-१/५) किमर्थम् इदम् उच्यते न सुबन्तम् पदम् इति एव सिद्धम् ।

(पा-१,४.१५; अकि-१,३१९.८-९; रो-२,३६३; भा-२/५) नियमार्थः अयमारम्भः ।

(पा-१,४.१५; अकि-१,३१९.८-९; रो-२,३६३; भा-३/५) नान्तमेव क्ये पदसञ्ज्ञम् भवति न अन्यत् ।

(पा-१,४.१५; अकि-१,३१९.८-९; रो-२,३६३; भा-४/५) क्व मा भूत् ।

(पा-१,४.१५; अकि-१,३१९.८-९; रो-२,३६३; भा-५/५) वाच्यति स्रुच्यति

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-१/२५) असर्वनामस्थाने इति उच्यते ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-२/२५) तत्र ते राजा तक्षा असर्वनामस्थाने इति पदसञ्ज्ञायाः प्रतिषेधः प्रसज्येत ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-३/२५) न अप्रतिषेधात् ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-४/२५) न अयम् प्रसज्यप्रतिषेधः सर्वनामस्थाने न इति ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-५/२५) किम् तर्हि ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-६/२५) पर्युदासः अयम् यत् अन्यत् सर्वनामस्थानात् इति ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-७/२५) सर्वनामस्थाने अव्यापारः ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-८/२५) यदि केन चित्प्राप्नोति तेन भविष्यति ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-९/२५) पूर्वेण च प्राप्नोति ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-१०/२५) अप्राप्तेः वा ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-११/२५) अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-१२/२५) कुतः एतत् ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-१३/२५) अन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-१४/२५) पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-१५/२५) ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-१६/२५) न उत्सहते प्रतिषिद्धा सती बाधितुम् ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-१७/२५) अथ वा योगविभागः करिष्यते ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-१८/२५) स्वादिषु पूर्वम् पदसञ्ज्ञम् भवति ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-१९/२५) ततः सर्वनामस्थाने अयचिपूर्वम् पदसञ्ज्ञम् भवति ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-२०/२५) ततो भम् ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-२१/२५) भसञ्ज्ञम् च भवति यजादौ असर्वनामस्थाने इति ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-२२/२५) यदि तर्हि सौ अपि पदम् भवति एचः प्लुतविकारे पदान्तग्रहणम् चोदितम् इह मा भूत् भद्रम् करोषि गौः इति तस्मिन् क्रियमाणे अपि प्राप्नोति ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-२३/२५) वाक्यपदयोः अन्त्यस्य इति एवम् तत् ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-२४/२५) भुवद्वद्भ्यः धारयद्भ्यः एतयोः पदसञ्ज्ञा वक्तव्या ।

(पा-१,४.१७; अकि-१,३१९.११-२२; रो-२,३६३-३६४; भा-२५/२५) भुवद्वद्भ्यः धारयद्वद्भ्यः ।

(पा-१,४.१८; अकि-१,३२०.२-१४; रो-२,३६५-३६६; भा-१/१८) भसञ्ज्ञायाम् उत्तरपदलोपे षषः प्रतिषेधः ।

(पा-१,४.१८; अकि-१,३२०.२-१४; रो-२,३६५-३६६; भा-२/१८) भसञ्ज्ञायाम् उत्तरपदलोपे षषः प्रतिषेधः वक्तव्यः ।

(पा-१,४.१८; अकि-१,३२०.२-१४; रो-२,३६५-३६६; भा-३/१८) अनुकम्पितः षडड्गुलिः षडिकः ।

(पा-१,४.१८; अकि-१,३२०.२-१४; रो-२,३६५-३६६; भा-४/१८) सिद्धम् अचः स्थानिवत्त्वात् ।

(पा-१,४.१८; अकि-१,३२०.२-१४; रो-२,३६५-३६६; भा-५/१८) सिद्धम् एतत् ।

(पा-१,४.१८; अकि-१,३२०.२-१४; रो-२,३६५-३६६; भा-६/१८) कथम् ।

(पा-१,४.१८; अकि-१,३२०.२-१४; रो-२,३६५-३६६; भा-७/१८) अचः स्थानिवद्भावात् भसञ्ज्ञा न भविष्यति ।

(पा-१,४.१८; अकि-१,३२०.२-१४; रो-२,३६५-३६६; भा-८/१८) इह अपि तर्हि प्राप्नोति ।

(पा-१,४.१८; अकि-१,३२०.२-१४; रो-२,३६५-३६६; भा-९/१८) वागाशीर्दत्तः वाचिकः इति ।

(पा-१,४.१८; अकि-१,३२०.२-१४; रो-२,३६५-३६६; भा-१०/१८) वक्ष्यति एतत् ॒ सिद्धम् एकाक्षरपूर्वपदानाम् उत्तरपदलोपवचनात् इति ।

(पा-१,४.१८; अकि-१,३२०.२-१४; रो-२,३६५-३६६; भा-११/१८) इह अपि तर्हि प्राप्नोति षडड्गुलिः षडिकः इति ।

(पा-१,४.१८; अकि-१,३२०.२-१४; रो-२,३६५-३६६; भा-१२/१८) वक्ष्यति एतत् ॒ षषः ठाजादिवचनात् सिद्धम् इति ।

(पा-१,४.१८; अकि-१,३२०.२-१४; रो-२,३६५-३६६; भा-१३/१८) नभोङ्गिरोमनुषाम् वति उपसम्ख्यानम् ।

(पा-१,४.१८; अकि-१,३२०.२-१४; रो-२,३६५-३६६; भा-१४/१८) नभोङ्गिरोमनुषाम् वति उपसम्ख्यानम् कर्तव्यम् ।

(पा-१,४.१८; अकि-१,३२०.२-१४; रो-२,३६५-३६६; भा-१५/१८) नभस्वत् अङ्गिरस्वत् मनुष्वत् ।

(पा-१,४.१८; अकि-१,३२०.२-१४; रो-२,३६५-३६६; भा-१६/१८) वृषण् वस्वश्वयोः ।

(पा-१,४.१८; अकि-१,३२०.२-१४; रो-२,३६५-३६६; भा-१७/१८) वृषण् इति एतस्य वस्वशयोः भसञ्ज्ञा वक्तव्या ।

(पा-१,४.१८; अकि-१,३२०.२-१४; रो-२,३६५-३६६; भा-१८/१८) वृषण्वसुः वृषणश्वस्य यत् शिरः वृषणश्वस्य मेने ।

(पा-१,४.१९; अकि-१,३२०.१६-२१; रो-२,३६६-३६७; भा-१/९) अर्थग्रहणम् किमर्थम् न तसौ मतौ इति एव उच्येत ।

(पा-१,४.१९; अकि-१,३२०.१६-२१; रो-२,३६६-३६७; भा-२/९) तसौ मतौ इति इयति उच्यमाने इहैव स्यात् पयस्वान् यशस्वान् ।

(पा-१,४.१९; अकि-१,३२०.१६-२१; रो-२,३६६-३६७; भा-३/९) इह न स्यात् पयस्वी यशस्वी ।

(पा-१,४.१९; अकि-१,३२०.१६-२१; रो-२,३६६-३६७; भा-४/९) अर्थग्रहणे पुनः क्रियमाणे मतुपि च सिद्धम् भवति यः च न्यः तेन समानार्थः तस्मिन् च ।

(पा-१,४.१९; अकि-१,३२०.१६-२१; रो-२,३६६-३६७; भा-५/९) यदि अर्थग्रहणम् क्रियते पयस्वान् यशस्वान् अत्र न प्राप्नोति ।

(पा-१,४.१९; अकि-१,३२०.१६-२१; रो-२,३६६-३६७; भा-६/९) किम् कारणम् ।

(पा-१,४.१९; अकि-१,३२०.१६-२१; रो-२,३६६-३६७; भा-७/९) न हि मतुप् मत्वर्थे वर्तते ।

(पा-१,४.१९; अकि-१,३२०.१६-२१; रो-२,३६६-३६७; भा-८/९) मतुप् अपि मत्वर्थे वर्तते ।

(पा-१,४.१९; अकि-१,३२०.१६-२१; रो-२,३६६-३६७; भा-९/९) तत् यथा देवदत्तशालायाम् ब्राह्मणा आनीयन्ताम् इति उक्ते यदि देवदत्तः पि ब्राह्मणः भवति सः अपि आनीयते ।

(पा-१,४.२०; अकि-१,३२०.२३; रो-२,३६७; भा-१/२) उभयसञ्ज्ञान्यपि इति वक्तव्यम् ।

(पा-१,४.२०; अकि-१,३२०.२३; रो-२,३६७; भा-२/२) सः सुष्ठुभा सः ऋक्वता गणेन ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-१/६०) बहुषु बहुवचनम् इति उच्यते ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-२/६०) केषु बहुषु ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-३/६०) अर्थेषु ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-४/६०) यदि एवम् वृक्षः प्लक्षः अत्र अपि प्राप्नोति ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-५/६०) बहवः ते अर्थाः मूलम् स्कन्धः फलम् पलाशम् इति ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-६/६०) एवम् तर्हि एकवचनम् द्विवचनम् बहुवचनमिति शब्दसञ्ज्ञाः एताः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-७/६०) येषु अर्थेषु स्वादयः विधीयन्ते तेषु बहुषु ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-८/६०) केषु च अर्थेषु स्वादयः विधीयन्ते ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-९/६०) कर्मादिषु ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-१०/६०) न वै कर्मादयः विभक्त्यर्थाः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-११/६०) के तर्हि ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-१२/६०) एकत्वादयः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-१३/६०) एकत्वादिषु अपि वै विभक्यर्थेषु अवश्यम् कर्मादयः निमित्तत्वेन उपादेयाः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-१४/६०) कर्मणः एकत्वे कर्मणः द्वित्वे कर्मणः बहुत्वे इति ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-१५/६०) सः तर्हि तथा निर्देशः कर्तव्यः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-१६/६०) न हि अन्तरेण भावप्रत्ययम् गुणप्रधानः भवति निर्देशः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-१७/६०) इह च ॒ इति एके मन्यन्ते , तत् एके मन्यन्ते इति परत्वात् एकवचनम् प्राप्नोति ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-१८/६०) बहुषु बहुवचनम् इति एषः योगः परः करिष्यते ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-१९/६०) सूत्रविपर्यासः कृतः भवति ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-२०/६०) इह च ॒ बहुः ओदनः , बहुः सूपः इति परत्वात् बहुवचनम् प्राप्नोति ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-२१/६०) न एषः दोषः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-२२/६०) यत् तावत् उच्यते न हि अन्तरेण भावप्रययम् गुणप्रधानः भवति निर्देशः इति तन् न ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-२३/६०) अन्तरेण अपि भावप्रत्ययम् गुणप्रधानः भवति निर्देशः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-२४/६०) कथम् ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-२५/६०) इह कदा चित् गुणः गुणिविशेषकः भवति ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-२६/६०) तत् यथा पटः शुक्लः इति ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-२७/६०) कदा चित् च गुणिना गुणः व्य्पदिश्यते ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-२८/६०) पठस्य शुक्लः इति ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-२९/६०) तत् यदा तावत् गुणः गुणिविशेषकः भवति पटः शुक्लः इति तदा सामानाधिकरण्यम् गुणगुणिनोः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-३०/६०) तदा न अन्तरेण भावप्रत्ययम् गुणप्रधानः भवति निर्देशः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-३१/६०) यदा तु गुणिना गुणः व्यपदिश्यते पटस्य शुक्लः इति स्वप्रधानः तदा गुणः भवति ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-३२/६०) तदा द्रव्ये षष्ठी ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-३३/६०) तदा अन्तरेण भावप्रत्ययम् गुअणप्रधानः भवति निर्देशः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-३४/६०) न च इह वयम् एकत्वादिभिः कर्मादीन् विशेषयिष्यामः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-३५/६०) किम् तर्हि ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-३६/६०) कर्मादिभिः एकत्वादीन् विशेषयिष्यामः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-३७/६०) कथम् ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-३८/६०) एकस्मिन् एकवचनम् ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-३९/६०) कस्यैकस्मिन् ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-४०/६०) कर्मणः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-४१/६०) द्वयोः द्विवचनम् ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-४२/६०) कयोः द्वयोः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-४३/६०) कर्मणोः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-४४/६०) बहुषु बहुवचनम् ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-४५/६०) केषाम् बहुषु ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-४६/६०) कर्मणाम् इति ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-४७/६०) कथम् बहुषु बहुवचनमिति ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-४८/६०) एतत् एव ज्ञापयति आचार्यः नानाधिकरणवाची यः बहुशब्दः तस्य इदम् ग्रहणम् न वैपुल्यवाचिनः इति ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-४९/६०) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-५०/६०) यत् उक्तम् बहुः ओदनः बहुः सूपः इति परत्वात् बहुवचनम् प्राप्नोति इति स दोषः न भवति ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-५१/६०) यत् अप्युच्यते इति एके मन्यन्ते तत् एके मन्यन्त इति परत्वात् एकवचनम् प्राप्नोति इति न एषः दोषः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-५२/६०) एकशब्दः अयम् बह्वर्थः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-५३/६०) अस्ति एव सम्ख्यावाची ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-५४/६०) तत् यथा एकः द्वौ बहवः इति ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-५५/६०) अस्ति असहायवाची ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-५६/६०) तत् यथा एकाग्नयः एकहलानि एकाकिभिः क्षुद्रकैः जितम् इति ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-५७/६०) अस्ति अन्यार्थे वर्तते ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-५८/६०) तत् यथा सधमादः द्युम्नः एकाः ताः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-५९/६०) अन्याः इति अर्थः ।

(पा-१,४.२१.१; अकि-१,३२१.२-२७; रो-२,३६८-३७२; भा-६०/६०) तत् यः अन्यार्थे वर्तते तस्य एषः प्रयोगः ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-१/३७) किमर्थम् पुनः इदम् उच्यते ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-२/३७) सुप्तिङाम् अविशेषविधानात् दृष्तविप्रयोगत्वात् च नियमार्थम् वचनम् । सुपः अविशेषेण प्रातिपदिकमात्रात् विधीयन्ते ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-३/३७) तिङः अविशेषेण धातुमात्रात् विधीयन्ते ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-४/३७) तत्र एतत् स्यात् यदि अप्यविशेषेण विधीयन्ते न एव विप्रयोगः लक्ष्यते इति ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-५/३७) दृष्टविप्रयोगत्वात् च ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-६/३७) दृश्यते खलु अपि विप्रयोगः ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-७/३७) तद्यथा ॒ अक्षीणि मे दर्शनीयानि , पादाः मे सुकुमाराः इति ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-८/३७) सुप्तिङोः अविशेषविधानात् दृष्टविप्रयोगत्वात् च व्यतिकरः प्राप्नोति ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-९/३७) इष्यते च अव्यतिकरः स्यात् इति ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-१०/३७) तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-११/३७) एवमर्थम् इदम् उच्यते ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-१२/३७) अथ एतस्मिन् नियमार्थे सति किम् पुनः अयम् प्रत्ययनियमः ॒ एकस्मिन् एव एकवचनम् , द्वयोः एव द्विवचनम् , बहुषु एव बहुवचनम् इति ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-१३/३७) आहोस्वित् अर्थनियमः ॒ एकस्मिन् एकवचनम् एव , द्वयोः द्विवचनम् एव , बहुषु बहुवचनम् एव इति ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-१४/३७) कः च अत्र विशेषः ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-१५/३७) तत्र प्रत्ययनियमे अव्ययानाम् पदसञ्ज्ञाभावः असुबन्तत्वात् ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-१६/३७) तत्र प्रत्ययनियमे अव्ययानाम् पदसञ्ज्ञा न प्राप्नोति ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-१७/३७) उच्चैः नीचैः इति ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-१८/३७) किम् कारणम् ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-१९/३७) असुबन्तत्वात् ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-२०/३७) अर्थनियमे सिद्धम् ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-२१/३७) अर्थनियमे सिद्धम् भवति ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-२२/३७) अस्तु अर्थनियमः ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-२३/३७) अथ वा पुनः अस्तु प्रत्ययनियमः ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-२४/३७) ननु च उक्तम् ॒ तत्र प्रत्ययनियमे अव्ययानाम् पदसञ्ज्ञाभावः असुबन्तत्वात् इति ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-२५/३७) न एषः दोषः ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-२६/३७) सुपाम् कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङाम् । सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-२७/३७) तथा तिङाम् ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-२८/३७) प्रसिद्धः नियमः तत्र ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-२९/३७) प्रसिद्धः तत्र नियमः ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-३०/३७) नियमः प्रकृतेषु वा ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-३१/३७) अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-३२/३७) के च प्रकृताः ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-३३/३७) एकत्वादयः ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-३४/३७) एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-३५/३७) द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-३६/३७) बहुषु एव बहुवचनम् न द्वयोः न एकस्मिन् इति ।

(पा-१,४.२१.२; अकि-१,३२२.१-२५; रो-२,३७२-३७५; भा-३७/३७) अथ वा आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते अव्ययेभ्यः स्वादयः इति यत् अयम् अव्ययात् आप्सुपः इति अव्ययात् लुकम् शास्ति ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-१/४९) किम् इदम् कारके इति ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-२/४९) सञ्ज्ञानिर्देशः ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-३/४९) किम् वक्तव्यम् एतत् ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-४/४९) न हि ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-५/४९) कथम् अनुच्यमानम् गंस्यते ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-६/४९) इह हि व्याकरणे ये वा एते लोके प्रतीतपदार्थकाः शब्दाः तैः निर्देशाः क्रियन्ते पशुः अपत्यम् देवता इति याः वा एताः कृत्रिमाः टिघुघभसञ्ज्ञाः ताभिः ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-७/४९) न च अयम् लोके ध्रुवादीनाम् प्रतीतपदार्थकः शब्दः न खलु अपि कृत्रिमा सञ्ज्ञा अन्यत्र अविधानात् ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-८/४९) सञ्ज्ञाधिकारः च अयम् ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-९/४९) तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः सञ्ज्ञायाः ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-१०/४९) कारके इति सञ्ज्ञानिर्देशः चेत्सञ्ज्ञिनः अपि निर्देशः ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-११/४९) कारके इति सञ्ज्ञानिर्देशः चेत्सञ्ज्ञिनः अपि निर्देशः कर्तव्यः ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-१२/४९) साधकम् निर्वर्तकम् कारकसञ्ज्ञम् भवति इति वक्तव्यम् ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-१३/४९) इतरथा हि अनिष्टप्रसङ्गः ग्रामस्य समीपात् आगच्छति इति अकारकस्य । इतरथा हि अनिष्टम् प्रसज्येत ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-१४/४९) अकारकस्य अपि अपादादनसञ्ज्ञा प्रसज्येत ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-१५/४९) क्व ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-१६/४९) ग्रामस्य समीपात् आगच्छति इति ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-१७/४९) न एषः दोषः ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-१८/४९) न अत्र ग्रामः अपाययुक्तः ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-१९/४९) किम् तर्हि ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-२०/४९) समीपम् ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-२१/४९) यदा च ग्रामः अपाययुक्तः भवति भवति तदा अपादानसञ्ज्ञा ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-२२/४९) तत् यथा ग्रामात् आगच्छति इति ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-२३/४९) कर्मसञ्ज्ञाप्रसङ्गः अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-२४/४९) कर्मसञ्ज्ञा च प्राप्नोति अकथितस्य. क्व ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-२५/४९) ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-२६/४९) न एषः दोषः ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-२७/४९) अयम् अकथितशब्दः अस्ति एव सङ्कीर्तिते वर्तते ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-२८/४९) तत् यथा कः चित् कम् चित् सञ्चक्ष्य आह असौ अत्र अकथितः ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-२९/४९) असंकीर्तितः इति गम्यते ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-३०/४९) अस्ति अप्राधान्ये वर्तते ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-३१/४९) तत् यथा अकथितः असौ ग्रामे अकथितः असौ नगरे इति उच्यते यः यत्र अप्रधानः भवति ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-३२/४९) तत् यदा अप्राधान्ये अकथित्शब्दः वर्तते तदा एषः दोषः कर्मसञ्ज्ञाप्रसङ्गः अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-३३/४९) अपादानम् च वृक्षस्य पर्णम् पतति इति ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-३४/४९) अपादानसञ्ज्ञा च प्राप्नोति ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-३५/४९) क्व ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-३६/४९) वृक्षस्य पर्णम् पतति ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-३७/४९) कुड्यस्य पिण्डः पतति इति ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-३८/४९) ना वा अपायस्याविवक्षितत्वात् ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-३९/४९) न वा एषः दोषः ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-४०/४९) किम् कारणम् ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-४१/४९) अपायस्य अविवक्षितत्वात् ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-४२/४९) न अत्र अपायः विवक्षितः ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-४३/४९) किम् तर्हि ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-४४/४९) सम्बन्धः ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-४५/४९) यदा च अपायः विवक्षितः भवति भवति तदा अपादानसञ्ज्ञा ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-४६/४९) तत् यथा ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-४७/४९) वृक्षात् पर्णम् पतति इति ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-४८/४९) सम्बन्धस्तु तदा न विवक्षितः भवति ।

(पा-१,४.२३.१; अकि-१,३२३.२-३२४.५; रो-२,३७६-३७९; भा-४९/४९) न ज्ञायते कङ्कस्य वा कुररस्य वा इति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-१/९३) अयम् तर्हि दोषः कर्मसञ्ज्ञाप्रसङ्गः च अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-२/९३) न एषः दोषः ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-३/९३) कारकः इति महती सञ्ज्ञा क्रियते ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-४/९३) सञ्ज्ञा च नाम यतः न लघीयः ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-५/९३) कुतः एतत् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-६/९३) लघ्वर्थम् हि सञ्ज्ञाकारणम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-७/९३) तत्र महत्याः सञ्ज्ञायाः करणे एतत्प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-८/९३) करोति इति कारकम् इति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-९/९३) अन्वर्थम् इति चेत् अकर्तरि कर्तृशब्दानुपपत्तिः । अन्वर्थम् इति चेत् अकर्तरि कर्तृशब्दः न उपपद्यते ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-१०/९३) करणम् कारकम् अधिकरणम् कारकम् इति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-११/९३) सिद्धम् तु प्रतिकारकम् क्रियाभेदात् पचादीनाम् करणाधिकरणयोः कर्तृभावः ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-१२/९३) सिद्धः करणाधिकरणयोः कर्तृभावः ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-१३/९३) कुतः ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-१४/९३) प्रतिकारकम् क्रियाभेदात् पचादीनाम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-१५/९३) पचादीनाम् हि प्रतिकारकम् क्रिया भिद्यते ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-१६/९३) किम् इदम् प्रतिकारकम् इति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-१७/९३) कारकम् कारकम् प्रति प्रतिकारकम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-१८/९३) कः असौ प्रतिकारकम् क्रियाभेदः पचादीनाम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-१९/९३) अधिश्रयणोदकासेचनतण्डुलावपनैधोपदकर्षणिक्रियाः प्रधानस्य कर्तुः पाकः ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-२०/९३) अधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणादिक्रियाः कुर्वन् एव देवदत्तः पचति इति उच्यते ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-२१/९३) तत्र तदा पचिः वर्तते ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-२२/९३) एषः प्रधानकर्तुः पाकः ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-२३/९३) एतत् प्रधानकर्तुः कर्तृत्वम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-२४/९३) द्रोणम् पचति आढकम् पचति ति सम्भवनक्रिया धारणक्रिया च अधिकरणस्य पाकः ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-२५/९३) द्रोणम् पचति आढकम् पचति इति सम्भवनक्रियाम् धारणक्रियाम् च कुर्वती स्थाली पचति इति उचत्ये ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-२६/९३) तत्र तदा पचिः वर्तते ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-२७/९३) एषः धिकरणस्य पाकः ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-२८/९३) एतत् अधिकरणस्य कर्तृत्वम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-२९/९३) एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति ज्वल्वनक्रिया करणस्य पाकः ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-३०/९३) एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति कुर्वन्ति काष्ठानि पचन्ति इति उच्यन्ते ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-३१/९३) तत्र तदा पचिः वर्तते ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-३२/९३) एषः करणस्य पाकः ।एतत् करणस्य कर्तृत्वम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-३३/९३) उद्यमननिपातनानि कर्तुः छिदिक्रिया ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-३४/९३) उद्यमननिपातनानि कुर्वन् देवदत्तः छिनत्ति इति उच्यते ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-३५/९३) तत्र तदा छिदिः वर्तते ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-३६/९३) एषः प्रधानकर्तुः छेदः ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-३७/९३) एतत् प्रधानकर्तुः कर्तृत्वम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-३८/९३) यत् तत् न तृणेन तत्परशोः छेदनम् । यत् तत् समाने उद्यमने निपातने च परशुना छिद्यते न तृणेन तत् परशोः छेदनम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-३९/९३) अवश्यम् च एतत् एवम् विज्ञेयम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-४०/९३) इतरथा हि असितृणयोः छेदने अविशेषः स्यात् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-४१/९३) यः हि मन्यत उद्यमननिपातनात् एव एतत् भवति छिनत्ति इति असितृणयोः छेदने न तस्य विशेषः स्यात् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-४२/९३) यत् असिना छिद्यते तृणेन अपि तत् छिद्येत ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-४३/९३) अपादानादीनाम् तु अप्रसिद्धिः ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-४४/९३) अपादानादीनाम् कर्तृत्वस्य अप्रसिद्धिः ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-४५/९३) यथा हि भवता करणाधिकरणयोः कर्तृत्वम् निर्दर्शितम् न तथा अपादानादीनाम् कर्तृत्वम् निदर्श्यते ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-४६/९३) न वा स्वतन्त्रपरतन्त्रत्वात् तयोः पर्यायेण वचनम् वचनाश्रया च सञ्ज्ञा ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-४७/९३) न वा एषः दोषः ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-४८/९३) किम् कारणम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-४९/९३) स्वतन्त्रपरतन्त्रत्वात् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-५०/९३) सर्वत्र एव अत्र स्वातन्त्र्यम् पारतन्त्र्यम् च विवक्षितम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-५१/९३) तयोः पर्यायेण वचनम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-५२/९३) तयोः स्वातन्त्र्यपारतन्त्र्ययोः पर्यायेण वचनम् भविष्यति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-५३/९३) वचनाश्रया च सञ्ज्ञा भविष्यति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-५४/९३) तत् यथा ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-५५/९३) बलाहकात् विद्योतते ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-५६/९३) बलाहके विद्योतते ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-५७/९३) बलाहकः विद्योतते इति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-५८/९३) किम् तर्हि उच्यते अपादानादीनाम् तु अप्रसिद्धिः इति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-५९/९३) एवम् तर्हि न ब्रूमः अपादानादीनाम् कर्तृत्वस्य अप्रसिद्धिः इति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-६०/९३) पर्याप्तम् करणाधिकरणयोः कर्तृत्वम् निदर्शितम् अपादानीनाम् कर्तृत्वनिर्दर्शनाय ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-६१/९३) पर्याप्तः ह्येकः पुलाकः स्थाल्याः निर्दर्शनाय ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-६२/९३) किम् तर्हि ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-६३/९३) सञ्ज्ञायाः अप्रसिद्धिः ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-६४/९३) यावता सर्वत्र एव अत्र स्वातन्त्र्यम् विद्यते पारतन्त्र्यम् च तत्र परत्वात् कर्तृसञ्ज्ञा एव प्राप्नोति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-६५/९३) अत्र अपि न वा स्वतन्त्र्यपरतन्त्रत्वात् तयोः पर्यायेण वचनम् वचनाश्रया च सञ्ज्ञा इति एव ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-६६/९३) यथा पुनः इदम् स्थाल्याः स्वातन्त्र्यम् निदर्शितम् सम्भवनक्रियाम् धारणक्रियाम् च कुर्वती स्थाली स्वतन्त्रा इति क्व इदानीम् परतन्त्रा स्यात् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-६७/९३) यत् तत् प्रक्षालनम् परिवर्तनम् वा ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-६८/९३) न वै एवमर्थम् स्थाली उपादियते प्रक्षालनम् परिवर्तनम् च करिष्यामि इति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-६९/९३) कथम् तर्हि ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-७०/९३) सम्भवनक्रियाम् धारणक्रियाम् च करिष्यति इति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-७१/९३) तत्र च सौ स्वतन्त्रा ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-७२/९३) क्व इदानीम् परतन्त्रा ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-७३/९३) एवम् तर्हि स्थालीस्थे यत्ने कथ्यमाने स्थाली स्वतन्त्रा कर्तृस्थे यत्ने कथ्यमाने परतन्त्रा ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-७४/९३) ननु च भोः कर्तृस्थे अपि वै यत्ने कथ्यमाने स्थाली सम्भवनक्रियाम् धारणक्रियाम् च करोति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-७५/९३) तत्र असौ स्वतन्त्रा ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-७६/९३) क्व इदानीम् परतन्त्रा ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-७७/९३) एवम् तर्हि प्रधानेन समवाये स्थाली परतन्त्रा व्यवाये स्वतन्त्रा ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-७८/९३) तत् यथा अमात्यादीनाम् राज्ञा सह समवाये पारतन्त्र्यम् व्यवाये स्वातन्त्र्यम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-७९/९३) किम् पुनः प्रधानम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-८०/९३) कर्ता ।कथम् पुनः ज्ञायते कर्ता प्रधानम् इति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-८१/९३) यत् सर्वेषु साधनेषु सम्निहितेषु कर्ता प्रवर्तयिता भवति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-८२/९३) ननु च भोः प्रधानेन अपि वै समवाये स्थाल्याः अनेनार्थः अधिकरणम् कारकम् इति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-८३/९३) न हि कारकम् इति अनेन अधिकरणत्वम् उक्तम् अधिकरणमिति वा कारकत्वम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-८४/९३) उभौ च अन्योन्यविशेषकौ भवतः ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-८५/९३) कथम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-८६/९३) एकद्रव्यसमवायित्वात् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-८७/९३) तत् यथा गार्ग्यः देवदत्तः इति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-८८/९३) न हि गार्ग्यः इति अनेन देवदत्तत्वम् उक्तम् देवदत्तः इति अनेन वा गार्ग्यत्वम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-८९/९३) उभौ च अन्योन्यविशेषकौ भवतः एकद्रव्यसमवायित्वात् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-९०/९३) एवम् तर्हि सामान्यभूता क्रिया वर्तते तस्याः निर्वर्तकम् कारकम् ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-९१/९३) अथ वा यावत् ब्रूयात् क्रियायामिति तावत् कारके इति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-९२/९३) एवम् च कृत्वा निर्देशः उपपन्नः भवति कारके इति ।

(पा-१,४.२३.२; अकि-१,३२४.६-३२६.१७; रो-२,३७९-३८६; भा-९३/९३) इतरथा हि कारकेषु इति ब्रूयात् ।

(पा-१,४.२४.१; अकि-१,३२६.१९-१९-३२७.२१; रो-२,३८७-३९२; भा-१/५७) ध्रुवम् इति किमर्थम् ।