व्याकरणमहाभाष्य खण्ड 21

विकिपुस्तकानि तः



(पा-१,४.६१; अकि-१,३४३.१०-१२; रो-२,४४९; भा-१/८) कृभ्वस्तियोगे इति वक्तव्यम् ।

(पा-१,४.६१; अकि-१,३४३.१०-१२; रो-२,४४९; भा-२/८) इह एव यथा स्यात् ।

(पा-१,४.६१; अकि-१,३४३.१०-१२; रो-२,४४९; भा-३/८) ऊरीकृत्य ऊरीभूय ।

(पा-१,४.६१; अकि-१,३४३.१०-१२; रो-२,४४९; भा-४/८) इह मा भूत् ।

(पा-१,४.६१; अकि-१,३४३.१०-१२; रो-२,४४९; भा-५/८) ऊरी पक्त्वा ।

(पा-१,४.६१; अकि-१,३४३.१०-१२; रो-२,४४९; भा-६/८) तत् तर्हि वक्तव्यम् ।

(पा-१,४.६१; अकि-१,३४३.१०-१२; रो-२,४४९; भा-७/८) न वक्तव्यम् ।

(पा-१,४.६१; अकि-१,३४३.१०-१२; रो-२,४४९; भा-८/८) क्रियायोगे इति अनुवर्तते न च अन्यया क्रियया ऊर्यादिच्विडाचाम् योगः अस्ति ।

(पा-१,४.६२.१; अकि-१,३४३.१४-२२; रो-२,४४९-४५०; भा-१/१३) कथम् इदम् विज्ञायते ।

(पा-१,४.६२.१; अकि-१,३४३.१४-२२; रो-२,४४९-४५०; भा-२/१३) इतेः परम् इतिपरम् न इतिपरम् अनितिपरम् इति आहोस्वित् इतिः परो यस्मात् तत् इदम् इतिपरम् न इतिपरम् अनितिपरमिति ।

(पा-१,४.६२.१; अकि-१,३४३.१४-२२; रो-२,४४९-४५०; भा-३/१३) किम् च अतः ।

(पा-१,४.६२.१; अकि-१,३४३.१४-२२; रो-२,४४९-४५०; भा-४/१३) यदि विज्ञायत इतेः परम् इतिपरम् न इतिपरम् अनितिपरम् इति खाट् इति कृत्वा निरष्ठीवत् इति अत्र प्राप्नोति ।

(पा-१,४.६२.१; अकि-१,३४३.१४-२२; रो-२,४४९-४५०; भा-५/१३) अथ इतिः परो यस्मात् तत् इदम् इतिपरम् न इतिपरम् अनितिपरमिति श्रौषट् वौषट् इति कृत्वा निरष्ठीवत् इति अत्र प्राप्नोति ।

(पा-१,४.६२.१; अकि-१,३४३.१४-२२; रो-२,४४९-४५०; भा-६/१३) अस्तु तावत् इतिः परो यस्मात् तत् इदम् इतिपरम् न इतिपरम् अनितिपरमिति ।

(पा-१,४.६२.१; अकि-१,३४३.१४-२२; रो-२,४४९-४५०; भा-७/१३) ननु च उक्तम् श्रौषट् वौषट् इति कृत्वा निरष्ठीवत् इति अत्र प्राप्नोति इति ।

(पा-१,४.६२.१; अकि-१,३४३.१४-२२; रो-२,४४९-४५०; भा-८/१३) न एषः दोषः ।

(पा-१,४.६२.१; अकि-१,३४३.१४-२२; रो-२,४४९-४५०; भा-९/१३) इदम् तावत् अयम् प्रष्टव्यः ।

(पा-१,४.६२.१; अकि-१,३४३.१४-२२; रो-२,४४९-४५०; भा-१०/१३) अथ इह ते प्राक् धातोः इति कथम् गतिमात्रस्य पूर्वप्रयोग्ः भवति ।

(पा-१,४.६२.१; अकि-१,३४३.१४-२२; रो-२,४४९-४५०; भा-११/१३) उपोद्धरति इति ।

(पा-१,४.६२.१; अकि-१,३४३.१४-२२; रो-२,४४९-४५०; भा-१२/१३) गत्याकृतिः प्रतिनिर्दिश्यते ।

(पा-१,४.६२.१; अकि-१,३४३.१४-२२; रो-२,४४९-४५०; भा-१३/१३) इह अपि तर्हि अनुकरणाकृतिः निर्दिश्यते ।

(पा-१,४.६२.२; अकि-१,३४३.२३-३४४. ३; रो-२,४५०; भा-१/९) किमर्थम् इदम् उच्यते ।

(पा-१,४.६२.२; अकि-१,३४३.२३-३४४. ३; रो-२,४५०; भा-२/९) अनुकरणस्य इतिकरणपरत्वप्रतिषेधः अनिष्टशब्दनिवृत्त्यर्थः ।

(पा-१,४.६२.२; अकि-१,३४३.२३-३४४. ३; रो-२,४५०; भा-३/९) अनुकरणस्य इतिकरणपरत्वप्रतिषेधः उच्यते ।

(पा-१,४.६२.२; अकि-१,३४३.२३-३४४. ३; रो-२,४५०; भा-४/९) किम् प्रयोजनम् ।

(पा-१,४.६२.२; अकि-१,३४३.२३-३४४. ३; रो-२,४५०; भा-५/९) अनिष्टशब्दनिवृत्त्यर्थः ।

(पा-१,४.६२.२; अकि-१,३४३.२३-३४४. ३; रो-२,४५०; भा-६/९) अनिष्ठशब्दता मा भूत् इति ।

(पा-१,४.६२.२; अकि-१,३४३.२३-३४४. ३; रो-२,४५०; भा-७/९) इदम् विचारयिष्यति तेप्राग्धातुवचनम् प्रयोगनियमार्थम् वा स्यात् सञ्ज्ञानियमार्थम् वा इति ।

(पा-१,४.६२.२; अकि-१,३४३.२३-३४४. ३; रो-२,४५०; भा-८/९) तत् यदा प्रयोगनियमार्थम् तदा अनिष्ठशब्दनिवृत्त्यर्थम् इदम् वक्तव्यम् ।

(पा-१,४.६२.२; अकि-१,३४३.२३-३४४. ३; रो-२,४५०; भा-९/९) यदा हि सञ्ज्ञानियमार्थम् तदा न दोषः भवति ।

(पा-१,४.६३; अकि-१,३४४.५-१०; रो-२,४५०-४५१; भा-१/१४) इदम् अतिबहु क्रियते आदरे अनादरे सत् असत् इति ।

(पा-१,४.६३; अकि-१,३४४.५-१०; रो-२,४५०-४५१; भा-२/१४) आदारे सत् इति एव सिद्धम् ।

(पा-१,४.६३; अकि-१,३४४.५-१०; रो-२,४५०-४५१; भा-३/१४) कथम् असत्कृत्य इति ।

(पा-१,४.६३; अकि-१,३४४.५-१०; रो-२,४५०-४५१; भा-४/१४) तदन्तिविधिना भविष्यति ।

(पा-१,४.६३; अकि-१,३४४.५-१०; रो-२,४५०-४५१; भा-५/१४) केन इदानीम् अनादरे भविष्यति ।

(पा-१,४.६३; अकि-१,३४४.५-१०; रो-२,४५०-४५१; भा-६/१४) नञा आदरप्रतिषेधम् विज्ञास्यामः ।

(पा-१,४.६३; अकि-१,३४४.५-१०; रो-२,४५०-४५१; भा-७/१४) नादरे अनादरे इति ।

(पा-१,४.६३; अकि-१,३४४.५-१०; रो-२,४५०-४५१; भा-८/१४) न एवम् शक्यम् ।

(पा-१,४.६३; अकि-१,३४४.५-१०; रो-२,४५०-४५१; भा-९/१४) आदरप्रसङ्गे एव हि स्यात् ।

(पा-१,४.६३; अकि-१,३४४.५-१०; रो-२,४५०-४५१; भा-१०/१४) अनादरप्रसङ्गे न स्यात् ।

(पा-१,४.६३; अकि-१,३४४.५-१०; रो-२,४५०-४५१; भा-११/१४) अनादरग्रहणे पुनः क्रियमाणे बहुव्रीहिः अयम् विज्ञायते ।

(पा-१,४.६३; अकि-१,३४४.५-१०; रो-२,४५०-४५१; भा-१२/१४) अविद्यमानादरे अनादरे इति ।

(पा-१,४.६३; अकि-१,३४४.५-१०; रो-२,४५०-४५१; भा-१३/१४) तस्मात् अनादरग्रहणम् कर्तव्यम् ।

(पा-१,४.६३; अकि-१,३४४.५-१०; रो-२,४५०-४५१; भा-१४/१४) असतः तु तदन्तविधिना सिद्धम् ।

(पा-१,४.६५; अकि-१,३४४. १२-१४; रो-२,४५२; भा-१/१०) अन्तःशब्दस्य आङ्किविधिसमासणत्वेषु पसङ्ख्यानम् ।

(पा-१,४.६५; अकि-१,३४४. १२-१४; रो-२,४५२; भा-२/१०) अन्तःशब्दस्य आङ्किविधिसमासणत्वेषु पसङ्ख्यानम् कर्तव्यम् ।

(पा-१,४.६५; अकि-१,३४४. १२-१४; रो-२,४५२; भा-३/१०) अङ् ।

(पा-१,४.६५; अकि-१,३४४. १२-१४; रो-२,४५२; भा-४/१०) अन्तर्धा ।

(पा-१,४.६५; अकि-१,३४४. १२-१४; रो-२,४५२; भा-५/१०) किविधिः ।

(पा-१,४.६५; अकि-१,३४४. १२-१४; रो-२,४५२; भा-६/१०) अन्तर्धिः ।

(पा-१,४.६५; अकि-१,३४४. १२-१४; रो-२,४५२; भा-७/१०) समासः ।

(पा-१,४.६५; अकि-१,३४४. १२-१४; रो-२,४५२; भा-८/१०) अन्तर्हत्य ।

(पा-१,४.६५; अकि-१,३४४. १२-१४; रो-२,४५२; भा-९/१०) णत्वम् ।

(पा-१,४.६५; अकि-१,३४४. १२-१४; रो-२,४५२; भा-१०/१०) अन्तर्हण्यात् गोभ्यो गाः ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-१/२३) साक्षात्प्रभृतिषु च्व्यर्थग्रहणम् ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-२/२३) साक्षात्प्रभृतिषु च्व्यर्थग्रहणम् कर्तव्यम् ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-३/२३) असाक्षात्साक्षात्कृत्वा साक्षात्कृत्य ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-४/२३) यदा हि साक्षात् एव किम् चित् क्रियते तदा मा भूत् इति ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-५/२३) मकारान्तत्वम् च गतिसञ्ज्ञासन्नियुक्तम् ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-६/२३) मकारान्तत्वम् च गतिसञ्ज्ञासन्नियोगेन वक्तव्यम् ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-७/२३) लवणङ्कृत्य ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-८/२३) तत्र च्विप्रतिषेधः ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-९/२३) तत्र च्व्यन्तस्य प्रतिषेधः वक्तव्यः ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-१०/२३) लवणीकृत्य ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-११/२३) न वा पूर्वेण कृतत्वात् ण वा वक्तव्यम् ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-१२/२३) किम् कारणम् ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-१३/२३) पूर्वेण कृतत्वात् ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-१४/२३) अस्तु अनेन विभाषा ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-१५/२३) पूर्वेण नित्यः भविष्यति ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-१६/२३) इदम् तर्हि प्रयोजनम् ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-१७/२३) मकारान्तत्वम् च गतिसञ्ज्ञासन्नियुक्तम् इति उक्तम् ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-१८/२३) तत् च्व्यन्तस्य मा भूत् इति ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-१९/२३) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-२०/२३) लवणशब्दस्य अयम् विभाषा लवणम्शब्द आदेशः क्रियते ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-२१/२३) यदि च लवणी शब्दस्य अपि विभाषा लवणम्शब्दः आदेशः भवति न किम् चिद् दुष्यति ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-२२/२३) त्रैशब्द्यम् च ह साध्यम् ।

(पा-१,४.७४; अकि-१,३४४.१६-३४५.७; रो-२,४५२-४५३; भा-२३/२३) । तच्च एवम् सति सिद्धम् भवति इति ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-१/४३) किमिदम् प्राग्धातुवचनम् प्रयोगनियमार्थम् ॒ एते प्राक् एव धातोः प्रयोक्तव्याः ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-२/४३) आहोस्वित् सञ्ज्ञानियमार्थम् ॒ एते प्राक् च अक्प्राक् च प्रयोक्तव्याः , प्राक् प्रयुज्यमानानाम् गतिसञ्ज्ञा भवति इति ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-३/४३) कः च अत्र विशेषः ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-४/४३) प्राग्धातुवचनम् प्रयोगनियमार्थम् इति चेत् अनुकरणस्य इतिकरणपरप्रतिषेधः अनिष्टशब्दनिवृत्त्यर्थः ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-५/४३) प्राग्धातुवचनम् प्रयोगनियमार्थम् इति चेत् अनुकरणस्य इतिकरणपरप्रतिषेधः वक्तव्यः ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-६/४३) किम् प्रयोजनम् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-७/४३) अनिष्टशब्दनिवृत्त्यर्थः ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-८/४३) अनिष्टशबता मा भूत् इति ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-९/४३) छन्दसि परव्यवहितवचनम् च ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-१०/४३) छन्दसि परे अपि व्यवहिताः च इति वक्तव्यम् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-११/४३) सञ्ज्ञानियमे सिद्धम् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-१२/४३) सञ्ज्ञानियमे सिद्धम् एतत् भवति ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-१३/४३) अस्तु तर्हि सञ्ज्ञानियमः ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-१४/४३) उभयोः अनर्थकम् वचनम् अनिष्टादर्शनात् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-१५/४३) उभयोः अपि पक्षयोः वचनमनर्थकम् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-१६/४३) किम् कारणम् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-१७/४३) अनिष्टादर्शनात् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-१८/४३) न हि कः चित्प्रपचति इति प्रयोक्तव्ये पचतिप्र इति प्रयुङ्क्ते ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-१९/४३) यदि च अनिष्टम् दृश्येत ततः यत्नार्हम् स्यात् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-२०/४३) उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थम् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-२१/४३) उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थम् एतत् वक्तव्यम् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-२२/४३) ऋषभम् कूलमुद्रुजम् ऋषभम् कूलमुद्वहम् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-२३/४३) अत्र गतेः प्राक् धातोः प्रयोगः यथा स्यात् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-२४/४३) यदि उपसर्जनसन्निपाते पूर्वपरव्यवस्थार्थम् इदम् उच्यते सुकटम्कराणि वीरणान् इ इति अत्र गतेः प्राक् धातोः प्रयोगः प्राप्नोति ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-२५/४३) आचार्यप्रवृत्तिः ज्ञापयति न अत्र गतेः प्राक्प्रयोगः भवति इति यत् अयम् ईषद्दुःसुषु कृच्छ्राकृच्छार्थेषु खल् इति खकारम् अनुबन्धम् करोति ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-२६/४३) कथम् कृत्वा ज्ञापकम् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-२७/४३) खित्करणे एतत् प्रयोजनम् खिति इति मुम् यथा स्यात् इति ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-२८/४३) यदि च अत्र गतेः प्राक्प्रयोगः स्यात् खित्करणम् अनर्थकम् स्यात् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-२९/४३) अस्तु अत्र मुम् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-३०/४३) अनव्ययस्य इति प्रतिषेधः भविष्यति ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-३१/४३) पश्यति तु आचार्यः न अत्र गतेः प्राक् धतोः प्रयोगः भवति इति ततः खकारम् अनुबन्धम् करोति ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-३२/४३) न एतत् अस्ति ज्ञापकम् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-३३/४३) यदि अपि अत्र गतेः प्राक्प्रयोगः स्यात् स्यातेवात्र मुमागमः ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-३४/४३) कथम् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-३५/४३) कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-३६/४३) तस्मात् न अर्थः एवमर्थेन प्राग्धातुवचनेन ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-३७/४३) कथम् ऋषभम् कूलमुद्रुजम् ऋषभम् कूलमुद्वहम् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-३८/४३) न एषः दोषः ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-३९/४३) न एषः उदिः उपपदम् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-४०/४३) किम् तर्हि ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-४१/४३) विशेषणम् ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-४२/४३) उदि कूले रुजिवहोः ।

(पा-१,४.८०; अकि-१,३४५.९-३४६.१४; रो-२,४५३-४५६; भा-४३/४३) उत्पूर्वाभ्याम् रुजिवहिभ्याम् कूले उपपदे इति ।

(पा-१,४.८३; अकि-१,३४६.१६-१८; रो-२,४५६-४५७; भा-१/७) किमर्थम् महती सञ्ज्ञा क्रियते ।

(पा-१,४.८३; अकि-१,३४६.१६-१८; रो-२,४५६-४५७; भा-२/७) अन्वर्थसञ्ज्ञा यथा विज्ञायेत ।

(पा-१,४.८३; अकि-१,३४६.१६-१८; रो-२,४५६-४५७; भा-३/७) कर्म प्रोक्तवन्तः कर्मप्रवचनीयाः इति ।

(पा-१,४.८३; अकि-१,३४६.१६-१८; रो-२,४५६-४५७; भा-४/७) के पुनः कर्म प्रोक्तवन्तः ।

(पा-१,४.८३; अकि-१,३४६.१६-१८; रो-२,४५६-४५७; भा-५/७) ये सम्प्रति क्रियाम् न आहुः ।

(पा-१,४.८३; अकि-१,३४६.१६-१८; रो-२,४५६-४५७; भा-६/७) के च सम्प्रति क्रियाम् न आहुः ।

(पा-१,४.८३; अकि-१,३४६.१६-१८; रो-२,४५६-४५७; भा-७/७) ये अप्रयुज्यमानस्य क्रियाम् आहुः ते कर्मप्रवचनीयाः ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-१/४५) किमर्थम् इदम् उच्यते ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-२/४५) कर्मप्रवचनीयसञ्ज्ञा यथा स्यात् ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-३/४५) गत्युपसर्गसञ्ज्ञे मा भूताम् इति ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-४/४५) किम् च स्यात् ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-५/४५) शाकल्यस्य सम्हिताम् अनु प्रावर्षत् ॒ गतिः गतौ इति निघातः प्रसज्येत ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-६/४५) यदि एवम् वेः अपि कर्मप्रवचनीयसञ्ज्ञा वक्तव्या ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-७/४५) वेः अपि निघातः न इष्यते ॒ प्रादेशम् प्रादेशम् विपरिलिखति ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-८/४५) अस्ति अत्र विशेषः ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-९/४५) न अत्र वेः लिखिम् प्रति क्रियायोगः ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-१०/४५) किम् तर्हि ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-११/४५) अप्रयुज्यमानम् ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-१२/४५) प्रादेशम् प्रादेशम् विमाय परिलिखति इति ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-१३/४५) यदि एवम् अनोः अपि कर्मप्रवचनीयसञ्ज्ञया न अर्थः ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-१४/४५) अनोः अपि हि न वृषिम् प्रति क्रियायोगः ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-१५/४५) किम् तर्हि अप्रयुज्यमानम् ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-१६/४५) शाकल्येन सुकृताम् सम्हिताम् अनुविशम्य देवः प्रावर्षत् ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-१७/४५) इदम् तर्हि प्रयोजनम् द्वितीया यथा स्यात् कर्मप्रवचनीययुक्ते द्वितीया इति ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-१८/४५) अतः उत्तरम् पठति ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-१९/४५) अनुर्लक्षणेवचनानर्थक्यम् सामान्यकृतत्वात् ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-२०/४५) अनुर्लक्षणेवचनार्थक्यम् ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-२१/४५) किम् कारणम् ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-२२/४५) सामान्यकृतत्वात् ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-२३/४५) सामान्येन एव अत्र कर्मप्रवचनीयसञ्ज्ञा भविष्यति लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः इति ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-२४/४५) हेत्वर्थम् तु वचनम् ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-२५/४५) हेत्वर्थम् इदम् वक्तव्यम् ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-२६/४५) हेतुः शाकल्यस्य सम्हिता वर्षस्य न लक्षणम् ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-२७/४५) किम् वक्तव्यम् एतत् ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-२८/४५) न हि ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-२९/४५) कथम् अनुच्यमानम् गंस्यते ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-३०/४५) लक्षणम् हि नाम सः भवति येन पुनः पुनः लक्ष्यते न यः सकृदपि निमित्तत्वाय कल्पते ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-३१/४५) सकृत् च असौ शाकल्येन सुकृताम् सम्हिताम् अनुशिम्य देवः प्रावर्षत् ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-३२/४५) सः तर्हि तथा ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-३३/४५) निर्देशः कर्तव्यः अनुः हेतौ इति ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-३४/४५) अथ इदानीम् लक्षणेन हेतुः अपि व्याप्तः न अर्थः अनेन ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-३५/४५) लक्षणेन हेतुः अपि व्याप्तः ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-३६/४५) न हि अवश्यम् तत् एव लक्षणम् भवति येन पुनः पुनः लक्ष्यते ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-३७/४५) किम् तर्हि ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-३८/४५) यत् सकृत् अपि निमित्त्वाय कल्पते तत् अपि लक्षणम् भवति ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-३९/४५) तत् यथा अपि भवान् कमण्डुलपाणिम् छात्रम् अद्रक्षीत् इति ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-४०/४५) सकृत् आसौ कमण्डलुपाणिः छात्रः दृष्टः तस्य तत् एव लक्षणम् भवति ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-४१/४५) तत् एव तर्हि प्रयोजनम् द्वितीया यथा स्यात् कर्मप्रवचनीययुक्ते द्वितीया इति ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-४२/४५) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-४३/४५) सिद्धा अत्र द्वितीया कर्मप्रवचनीययुक्ते इति एव ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-४४/४५) न सिध्यति ।

(पा-१,४.८४; अकि-१,३४६.२०-३४७.२१; रो-२,४५८-४६०; भा-४५/४५) परत्वात् हेतुत्वाश्रया तृतीया प्राप्नोति ।

(पा-१,४.८९; अकि-१,३४७.२३-२५; रो-२,४६१; भा-१/६) आङ् मर्यादाभिविध्योः इति वक्तव्यम् ।

(पा-१,४.८९; अकि-१,३४७.२३-२५; रो-२,४६१; भा-२/६) इह अपि यथा स्यात् आकुमारम् यशः पाणिनेः इति ।

(पा-१,४.८९; अकि-१,३४७.२३-२५; रो-२,४६१; भा-३/६) तत् तर्हि वक्तव्यम् ।

(पा-१,४.८९; अकि-१,३४७.२३-२५; रो-२,४६१; भा-४/६) न वक्तव्यम् ।

(पा-१,४.८९; अकि-१,३४७.२३-२५; रो-२,४६१; भा-५/६) मर्यादावचने इति एव सिद्धम् ।

(पा-१,४.८९; अकि-१,३४७.२३-२५; रो-२,४६१; भा-६/६) एषा अस्य यशसः मर्यादा ।

(पा-१,४.९०; अकि-१,३४८.२-६; रो-२,४६१-४६२; भा-१/१०) कस्य लक्षणदयः अर्थाः निर्दिश्यन्ते ।

(पा-१,४.९०; अकि-१,३४८.२-६; रो-२,४६१-४६२; भा-२/१०) वृक्षादीनाम् ।

(पा-१,४.९०; अकि-१,३४८.२-६; रो-२,४६१-४६२; भा-३/१०) किमर्थम् पुनः इदम् उच्यते ।

(पा-१,४.९०; अकि-१,३४८.२-६; रो-२,४६१-४६२; भा-४/१०) कर्मप्रवचनीयसञ्ज्ञा यथा स्यात् ।

(पा-१,४.९०; अकि-१,३४८.२-६; रो-२,४६१-४६२; भा-५/१०) गत्युपसर्गसञ्ज्ञे मा भूताम् इति ।

(पा-१,४.९०; अकि-१,३४८.२-६; रो-२,४६१-४६२; भा-६/१०) न एतत् अस्ति प्रयोजनम् ।

(पा-१,४.९०; अकि-१,३४८.२-६; रो-२,४६१-४६२; भा-७/१०) यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च वृक्षादीन् प्रति क्रियायोगः ।

(पा-१,४.९०; अकि-१,३४८.२-६; रो-२,४६१-४६२; भा-८/१०) इदम् तर्हि प्रयोजनम् द्वितीया यथा स्यात् कर्मप्रवचनीययुक्ते द्वितीया इति ।

(पा-१,४.९०; अकि-१,३४८.२-६; रो-२,४६१-४६२; भा-९/१०) वृक्षम् प्रति विद्योतते ।

(पा-१,४.९०; अकि-१,३४८.२-६; रो-२,४६१-४६२; भा-१०/१०) वृक्षमनु विद्योतते इति ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-१/२४) किमर्थम् अधिपर्योः अनर्थकयोः कर्मप्रवचनीयसञ्ज्ञा उच्यते ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-२/२४) कर्मप्रवचनीयसञ्ज्ञा यथा स्यात् ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-३/२४) गत्युपसर्गसञ्ज्ञे मा भूताम् इति ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-४/२४) न एतत् अस्ति प्रयोजनम् ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-५/२४) यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः अनर्थकौ च इमौ ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-६/२४) इदम् तर्हि प्रयोजनम् पञ्चमी यथा स्यात् पञ्चमी अपाङ्परिभिः इति ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-७/२४) कुतः पर्यागम्यत इति ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-८/२४) सिद्धा अत्र पञ्चमी अपादाने इति एव ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-९/२४) आतः च अपादानपञ्चमी एषा ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-१०/२४) यत्र अपि अधिशब्देन योगे पञ्चमी न विधीयते तत्र अपि श्रूयते ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-११/२४) कुतः अध्यागम्यत इति ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-१२/२४) एवम् तर्हि सिद्धे सति यत् अनर्थकयोः गत्युपसर्गसञ्ज्ञाबाधिकाम् कर्मप्रवचनीयसञ्ज्ञाम् शास्ति तत् ज्ञापयति आचार्यः अनर्थकानाम् अपि एषाम् भवति अर्थवत्कृतम् इति ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-१३/२४) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-१४/२४) निपातस्य अनर्थकस्य प्रातिपदिकत्वम् चोदितम् ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-१५/२४) तत् न वक्तव्यम् भवति ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-१६/२४) अथ वा न एव इमौ अनर्थकौ ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-१७/२४) किम् तर्हि अनर्थकौ इति उच्यते ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-१८/२४) अनर्थान्तर्वाचिनौ अनर्थकौ ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-१९/२४) धातुना उक्ताम् क्रियाम् आहतुः ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-२०/२४) तद् अविशिष्टम् भवति यथा शङ्खे पयः ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-२१/२४) यदि एवम् धातुना उक्तत्वात् तस्यार्थस्य उपसर्गप्रयोगो न प्राप्नोति उक्तार्थानाम् अप्रयोगः इति ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-२२/२४) उक्तार्थानामपि प्रयोगः दृश्यते ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-२३/२४) तत् यथा अपूपौ द्वौ आनय ।

(पा-१,४.९३; अकि-१,३४८.८-२०; रो-२,४६२-४६४; भा-२४/२४) ब्राह्मणौ द्वौ अनय इति ।

(पा-१,४.९६; अकि-१,३४८.२२-३४९. ४; रो-२,४६४-४६५; भा-१/१५) इह कस्मात् न भवति ।

(पा-१,४.९६; अकि-१,३४८.२२-३४९. ४; रो-२,४६४-४६५; भा-२/१५) सर्पिषः अपि स्यात् ।

(पा-१,४.९६; अकि-१,३४८.२२-३४९. ४; रो-२,४६४-४६५; भा-३/१५) गोमूत्रस्य अपि स्यात् ।

(पा-१,४.९६; अकि-१,३४८.२२-३४९. ४; रो-२,४६४-४६५; भा-४/१५) किम् च स्यात् ।

(पा-१,४.९६; अकि-१,३४८.२२-३४९. ४; रो-२,४६४-४६५; भा-५/१५) द्वितीया अपि प्रसज्येत कर्मप्रवचनीययुक्ते द्वितीया इति ।

(पा-१,४.९६; अकि-१,३४८.२२-३४९. ४; रो-२,४६४-४६५; भा-६/१५) न एषः दोषः ।

(पा-१,४.९६; अकि-१,३४८.२२-३४९. ४; रो-२,४६४-४६५; भा-७/१५) न इमे अप्यर्थाः निर्दिश्यन्ते ।

(पा-१,४.९६; अकि-१,३४८.२२-३४९. ४; रो-२,४६४-४६५; भा-८/१५) किम् तर्हि ।

(पा-१,४.९६; अकि-१,३४८.२२-३४९. ४; रो-२,४६४-४६५; भा-९/१५) परपदार्थाः इमे निर्दिश्यन्ते ।

(पा-१,४.९६; अकि-१,३४८.२२-३४९. ४; रो-२,४६४-४६५; भा-१०/१५) एतेषु अर्थेषु यत् पदम् वर्तते तत् प्रति अपिः कर्मप्रवचनीयसञ्ज्ञः भवति इति ।

(पा-१,४.९६; अकि-१,३४८.२२-३४९. ४; रो-२,४६४-४६५; भा-११/१५) अथ वा यत् अत्र कर्मप्रवचनीययुक्तम् न अदः प्रयुज्यते ।

(पा-१,४.९६; अकि-१,३४८.२२-३४९. ४; रो-२,४६४-४६५; भा-१२/१५) किम् पुनः तत् ।

(पा-१,४.९६; अकि-१,३४८.२२-३४९. ४; रो-२,४६४-४६५; भा-१३/१५) बिन्दुः ।

(पा-१,४.९६; अकि-१,३४८.२२-३४९. ४; रो-२,४६४-४६५; भा-१४/१५) बिन्दोः तर्हि कस्मात् न भवति ।

(पा-१,४.९६; अकि-१,३४८.२२-३४९. ४; रो-२,४६४-४६५; भा-१५/१५) उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति इति ।

(पा-१,४.९७; अकि-१,३४९.६-९; रो-२,४६६; भा-१/६) अधिरीश्वरवचने उक्तम् ।

(पा-१,४.९७; अकि-१,३४९.६-९; रो-२,४६६; भा-२/६) किम् उक्तम् ।

(पा-१,४.९७; अकि-१,३४९.६-९; रो-२,४६६; भा-३/६) यस्य च ईश्वरवचनम् इति कर्तृनिर्देशः चेत् अवचनात् सिद्धम् ।

(पा-१,४.९७; अकि-१,३४९.६-९; रो-२,४६६; भा-४/६) प्रथमानुपपत्तिः तु ।

(पा-१,४.९७; अकि-१,३४९.६-९; रो-२,४६६; भा-५/६) स्ववचनात् सिद्धम् इति ।

(पा-१,४.९७; अकि-१,३४९.६-९; रो-२,४६६; भा-६/६) अधिः स्वम् प्रति कर्मप्रवचनीयसञ्ज्ञः भवति इति वक्तव्यम् ।

(पा-१,४.९९; अकि-१,३४९.११-१९; रो-२,४६६-४६७; भा-१/१३) लादेशे परस्मैपदग्रहणम् पुरुषबाधितत्वात् ।

(पा-१,४.९९; अकि-१,३४९.११-१९; रो-२,४६६-४६७; भा-२/१३) लादेशे परस्मैपदग्रहणम् कर्तव्यम् ।

(पा-१,४.९९; अकि-१,३४९.११-१९; रो-२,४६६-४६७; भा-३/१३) किम् कारणम् ।

(पा-१,४.९९; अकि-१,३४९.११-१९; रो-२,४६६-४६७; भा-४/१३) पुरुषबाधितत्वात् ।

(पा-१,४.९९; अकि-१,३४९.११-१९; रो-२,४६६-४६७; भा-५/१३) इह वचने हि सञ्ज्ञाबाधनम् ।

(पा-१,४.९९; अकि-१,३४९.११-१९; रो-२,४६६-४६७; भा-६/१३) इह हि क्रियमाणे अनवकाशा पुरुषसञ्ज्ञा परस्मैपदसञ्ज्ञाम् बाधेत ।

(पा-१,४.९९; अकि-१,३४९.११-१९; रो-२,४६६-४६७; भा-७/१३) परस्मैपदसञ्ज्ञा अपि अनवकाशा ।

(पा-१,४.९९; अकि-१,३४९.११-१९; रो-२,४६६-४६७; भा-८/१३) सा वचनात् भविष्यति ।

(पा-१,४.९९; अकि-१,३४९.११-१९; रो-२,४६६-४६७; भा-९/१३) सावकाशा परसमैपदसञ्ज्ञा ।

(पा-१,४.९९; अकि-१,३४९.११-१९; रो-२,४६६-४६७; भा-१०/१३) कः वकाशः ।

(पा-१,४.९९; अकि-१,३४९.११-१९; रो-२,४६६-४६७; भा-११/१३) शतृक्क्वसू अवकाशः ।

(पा-१,४.९९; अकि-१,३४९.११-१९; रो-२,४६६-४६७; भा-१२/१३) सिचि वृद्धौ तु परस्मैपदग्रहणम् ज्ञापकम् पुरुषाबाधकत्वस्य ।

(पा-१,४.९९; अकि-१,३४९.११-१९; रो-२,४६६-४६७; भा-१३/१३) यत् अयम् सिचि वृद्धिः परस्मैपदेषु इति परस्मैपदग्रहणम् करोति तत् ज्ञापयति आचार्यः न पुरुषसञ्ज्ञा परस्मैपदसञ्ज्ञाम् बाधते इति ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-१/३८) प्रथममध्यमोत्तमसञ्ज्ञायाम् आत्मनेपदग्रहणम् समसङ्ख्यार्थम् । प्रथममध्यमोत्तमसञ्ज्ञायाम् आत्मनेपदग्रहणम् कर्तव्यम् ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-२/३८) आत्मनेपदानाम् च प्रथममध्यमोत्तमसञ्ज्ञाः भवन्ति इति वक्तव्यम् ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-३/३८) किम् प्रयोजनम् ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-४/३८) समसङ्ख्यार्थम् ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-५/३८) सङ्ख्यातानुदेशः यथा स्यात् ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-६/३८) अक्रियमाणे हि आत्मनेपदग्रहणे तिस्रः सञ्ज्ञाः षट् सञ्ज्ञिनः ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-७/३८) वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-८/३८) क्रियमाणे अपि च आत्मनेपदग्रहणे आनुपूर्व्यवचनम् च ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-९/३८) आनुपूर्व्यवचनम् च कर्तव्यम् ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-१०/३८) अक्रियमणे हि कस्य चित् एव त्रिकस्य प्रथमसञ्ज्ञा स्यात् कस्य चित् एव मध्यमसञ्ज्ञा कस्य चित् एव उत्तमसञ्ज्ञा ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-११/३८) न वैकशेषनिर्देशात् ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-१२/३८) यत् तावत् उच्यते आत्मनेपदग्रहणम् कर्तव्यम् समसङ्ख्यार्थम् इति ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-१३/३८) तत् न कर्तव्यम् ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-१४/३८) सञ्ज्ञाः अपि षत् एव निर्दिश्यन्ते ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-१५/३८) कथम् ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-१६/३८) एकशेषनिर्देसात् ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-१७/३८) एकशेषनिर्देशः अयम् ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-१८/३८) अथ एतस्मिन् एकशेषनिर्देशे सति किम् अयम् कृतैकशेषाणाम् द्वन्द्वः ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-१९/३८) प्रथमः च प्रथमः च प्रथमौ मध्यमः च मध्यमः च मध्यमौ उत्तमः च उत्तमः च उत्तमौ प्रथमौ च मध्यमौ च उत्तमौ च प्रथममध्यमोत्तमाः इति ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-२०/३८) आहोस्वित् कृतद्वन्द्वानाम् एकशेषः ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-२१/३८) प्रथमौ च मध्यमः च उत्तमः च प्रथममध्यमोत्तमाः ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-२२/३८) प्रथममध्यमोत्त्तमाः च प्रथममध्यमोत्तमाः च प्रथममध्यमोत्तमाः इति ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-२३/३८) किम् च अतः ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-२४/३८) यदि कृतैकेशेषाणाम् द्वन्द्वः प्रथममध्यमयोः प्रथमसञ्ज्ञा प्राप्नोति ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-२५/३८) उत्तमप्रथमयोः मध्यमसञ्ज्ञा प्राप्नोति ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-२६/३८) मध्यमोत्तमयोः उत्तमसञ्ज्ञा प्राप्नोति ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-२७/३८) अथ कृतद्वन्द्वानामेकशेषो न दोषः भवति ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-२८/३८) यथा न दोषः तथा अस्तु ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-२९/३८) किम् पुनः अत्र न्याय्यम् ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-३०/३८) उभयम् इति आह ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-३१/३८) उभयम् हि दृश्यते ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-३२/३८) तत् यथा ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-३३/३८) बहु शक्तिकिटकम् बहूनि शक्तिकिटकानि बहु स्थालीपिठरम् बहूनि स्थालीपिठराणि ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-३४/३८) यत् अपि उच्यते क्रियमाणे अपि आत्मनेपदग्रहणे आनुर्पूर्व्यवचनम् कर्तव्यम् इति ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-३५/३८) न कर्तव्यम् ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-३६/३८) लोकतः एतत् सिद्धम् ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-३७/३८) तत् यथा लोके विहव्यस्य द्वाभ्याम् द्वाभ्याम् अग्निः उप्स्थेयः इति ।

(पा-१,४.१०१; अकि-१,३५०.२-२४; रो-२,४६८-४६९; भा-३८/३८) न च उच्यते आनुपूर्व्येण इति आनुपूर्व्येण च उपस्थीयत इति ।

(पा-१,४.१०४; अकि-१,३५१.२-१०; रो-२,४७०-४७१; भा-१/१७) त्रीणि त्रीणि इति अनुवर्तते उताहो न ।

(पा-१,४.१०४; अकि-१,३५१.२-१०; रो-२,४७०-४७१; भा-२/१७) किम् च अतः ।

(पा-१,४.१०४; अकि-१,३५१.२-१०; रो-२,४७०-४७१; भा-३/१७) यदि अनुवर्तते अष्ठनः आ विभक्तौ इति आत्वम् न प्राप्नोति ।

(पा-१,४.१०४; अकि-१,३५१.२-१०; रो-२,४७०-४७१; भा-४/१७) अथ निवृत्तम् प्रथमयोः पूर्वसवर्णः इति अत्र प्रत्यययोः एव ग्रहणम् प्राप्नोति ।

(पा-१,४.१०४; अकि-१,३५१.२-१०; रो-२,४७०-४७१; भा-५/१७) यथा इच्छसि तथा अस्तु ।

(पा-१,४.१०४; अकि-१,३५१.२-१०; रो-२,४७०-४७१; भा-६/१७) अस्तु तावत् अनुवर्तते इति ।

(पा-१,४.१०४; अकि-१,३५१.२-१०; रो-२,४७०-४७१; भा-७/१७) ननु च उक्तम् अष्ठन आ विभक्तौ इति आत्वम् न प्राप्नोति इति ।

(पा-१,४.१०४; अकि-१,३५१.२-१०; रो-२,४७०-४७१; भा-८/१७) वचनात् भविष्यति ।

(पा-१,४.१०४; अकि-१,३५१.२-१०; रो-२,४७०-४७१; भा-९/१७) अथ वा पुनः अस्तु निवृत्तम् ।

(पा-१,४.१०४; अकि-१,३५१.२-१०; रो-२,४७०-४७१; भा-१०/१७) ननु च उक्तम् प्रथमयोः पूर्वसवर्णः इति अत्र प्रत्यययोः एव ग्रहणम् प्राप्नोति इति ।

(पा-१,४.१०४; अकि-१,३५१.२-१०; रो-२,४७०-४७१; भा-११/१७) न एषः दोषः ।

(पा-१,४.१०४; अकि-१,३५१.२-१०; रो-२,४७०-४७१; भा-१२/१७) अचि इति अनुवर्तते ।

(पा-१,४.१०४; अकि-१,३५१.२-१०; रो-२,४७०-४७१; भा-१३/१७) न चाजादी प्रथमौ प्रत्ययौ स्तः ।

(पा-१,४.१०४; अकि-१,३५१.२-१०; रो-२,४७०-४७१; भा-१४/१७) ननु च एवम् विज्ञायते अजादी यौ प्रथमौ अजादीनाम् वा यौ प्रथमौ इति ।

(पा-१,४.१०४; अकि-१,३५१.२-१०; रो-२,४७०-४७१; भा-१५/१७) यत् तर्हि तस्मात् शसः नः पुम्सि इति अनुक्रान्तम् पूर्वसवर्णदीर्घम् प्रतिनिर्दिशति तत् ज्ञापयति आचार्यः विभक्त्योः ग्रहणम् इति ।

(पा-१,४.१०४; अकि-१,३५१.२-१०; रो-२,४७०-४७१; भा-१६/१७) अथ वा वचनग्रहणम् एव कुर्यात् ।

(पा-१,४.१०४; अकि-१,३५१.२-१०; रो-२,४७०-४७१; भा-१७/१७) औजसोः पूर्वसवर्णः इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-१/१००) किमर्थम् इदम् उच्यते ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-२/१००) युष्मदस्मच्छेषवचनम् नियमार्थम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-३/१००) नियमार्थः अयम् आरम्भः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-४/१००) अथ एतस्मिन् नियमार्थे विज्ञायमाने किम् अयम् उपपदनियमः युष्मदि मध्यमः एव अस्मदि उत्तमः एव आहोस्वित् पुरुषनियमः युष्मदि एव मध्यमः अस्मदि एव उत्तमः इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-५/१००) किम् च अतः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-६/१००) यदि पुरुषनियमः शेषग्रहणम् कर्तव्यम् शेषे प्रथमः इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-७/१००) किम् कारणम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-८/१००) मध्यमोत्तमौ नियतौ युष्मदस्मदी अनियते ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-९/१००) तत्र प्रथमः अपि प्राप्नोति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-१०/१००) तत्र शेषग्रहणम् कर्तव्यम् प्रथमनियमार्थम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-११/१००) शेषे एव प्रथमः भवति न अन्यत्र इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-१२/१००) अथ अपि उपपदनियमः एवम् अपि शेषग्रहणम् कर्तव्यम् शेषे प्रथमः इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-१३/१००) युष्मदस्मदी नियते मध्यमोत्तमौ अनियतौ तौ शेषे अपि प्राप्नुतः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-१४/१००) तत्र शेषग्रहणम् कर्तव्यम् शेषनियमार्थम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-१५/१००) शेषे प्रथमः एव भवति न अन्यः इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-१६/१००) उपपदनियमे शेषग्रहणम् शक्यम् अकर्तुम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-१७/१००) कथम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-१८/१००) युष्मदस्मदी नियते मध्यमोत्तमौ अनियतौ तौ शेषे अपि प्राप्नुतः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-१९/१००) ततः वक्ष्यामि प्रथमः भवति इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-२०/१००) तत् नियमार्थम् भविष्यति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-२१/१००) यत्र प्रथमः च अन्यः च प्राप्नोति तत्र प्रथमः भवति इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-२२/१००) तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वात् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-२३/१००) तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधः वक्तव्यः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-२४/१००) त्वम् च देवदत्तः च पचथः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-२५/१००) अहम् च देवदत्तः च पचावः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-२६/१००) किम् कारणम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-२७/१००) शेषत्वात् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-२८/१००) शेषे प्रथमः इति प्रथमः प्राप्नोति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-२९/१००) सिद्धम् तु युष्मदस्मदोः प्रतिषेधात् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-३०/१००) सिद्धम् एतत् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-३१/१००) कथम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-३२/१००) युष्मदस्मदोः प्रतिषेधात् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-३३/१००) शेषे प्रथम्ः युष्मदस्मदोः न इति वक्तव्यम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-३४/१००) युष्मदि मध्यमात् अस्मदि उत्तमः प्रतिषेधेन ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-३५/१००) युष्मदि मध्यमात् अस्मदि उत्तमः इति एतत् भवति विप्रतिषेधेन ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-३६/१००) युष्मदि मध्यमः इति अस्य अवकाशः त्वम् पचसि ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-३७/१००) अस्मदि उत्तमः इति अस्य अवकाशः अहम् पचामि ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-३८/१००) इह उभयम् प्राप्नोति त्वम् च अहम् च पचावः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-३९/१००) अस्मदि उत्तमः इति एतत् भवति विर्प्रतिषेधेन ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-४०/१००) सः तर्हि विप्रतिषेधः वक्त्वयः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-४१/१००) न वक्तव्यः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-४२/१००) त्यदादीनाम् यत् यत् परम् तत् तत् शिष्यते इति एवम् अस्मदः शेषः भविष्यति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-४३/१००) तत्र अस्मदि उत्तमः इति एव सिद्धम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-४४/१००) अनेकशेषभावार्थम् तु । अनेकशेषभावार्थम् तु सः विप्रतिषेधः वक्तव्यः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-४५/१००) यदा च एकशेषः न ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-४६/१००) कदा च एकशेषः न ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-४७/१००) सहविवक्षायाम् एकशेषः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-४८/१००) यदा न सहविवक्षा तद एकशेषः न अस्ति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-४९/१००) न वा युष्मदस्मदोः अनेकशेषभावात् तदधिकरणानाम् अपि अनेकशेषभावात् अविप्रतिषेधः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-५०/१००) न वा अर्थः विप्रतिषेधेन ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-५१/१००) किम् कारणम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-५२/१००) युष्मदस्मदोः अनेकशेषभावात् तदधिकरणानाम् अपि युष्मदस्मदधिकरणानाम् अपि एकशेषेन न भवितव्यम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-५३/१००) त्वम् च अहम् च पचसि पचामि च इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-५४/१००) क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनम् अनुमानम् उत्तरत्र अनेकशेषभावस्य ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-५५/१००) क्रियापृथक्त्वे च द्रव्यपृथक्त्वम् दृश्यते ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-५६/१००) तत् यथा पचसि पचामि च त्वम् च अहम् च इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-५७/१००) तत् अनुमानम् उत्तरयोः अपि क्रिययोः एकशेषः न भवति इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-५८/१००) एवम् च कृत्वा सः पि अदोषः भवति यत् उक्तम् तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वात् इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-५९/१००) तत्र अपि हि एवम् भवितव्यम् त्वम् च देवदत्तः च पचसि पचति च ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-६०/१००) अहम् च देवदत्तः च पचामि पचति च इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-६१/१००) यत् तावत् उच्यते न वा युष्मदस्मदोः अनेकशेषभावात् तदधिकरणानाम् अपि अनेकशेषभावात् अविप्रतिषेधः इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-६२/१००) दृश्यते हि युष्मदस्मदोः चानेकशेषः तदधिकरणानाम् च एकशेषः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-६३/१००) तत् यथा त्वम् च अहम् च वृत्त्रहन् उभौ सम्प्रयुज्यावहै इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-६४/१००) यत् अपि उच्यते क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनम् अनुमानम् उत्तरत्र अनेकशेषभावस्य इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-६५/१००) क्रियापृथक्त्वे खलु अपि द्रव्यैकशेषः भवति इति दृश्यते ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-६६/१००) तत् यथा अक्षाः भज्यन्ताम् भक्ष्यन्ताम् दीव्यन्ताम् इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-६७/१००) एवम् च कृत्वा सः अपि दोषो भवति यत् उक्तम् तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वात् इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-६८/१००) न एषः दोषः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-६९/१००) परिहृतम् एतत् सिद्धम् तु युष्मदस्मदोः प्रतिषेधात् इति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-७०/१००) सः तर्हि प्रतिषेधः वक्तव्यः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-७१/१००) न वक्तव्यः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-७२/१००) शेषे प्रथमः विधीयते ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-७३/१००) न हि शेषः च अन्यः च शेषग्रहणेन गृह्यते ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-७४/१००) भवेत् प्रथमः न स्यान् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-७५/१००) मध्यमोत्तमौ अपि न प्राप्नुतः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-७६/१००) किम् कारणम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-७७/१००) युष्मदस्मदोः उपपदयोः मध्यमोत्तमौ उच्येते ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-७८/१००) न च युष्मदस्मदी अन्यः च युष्मदस्मद्ग्रहणेन गृह्यते ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-७९/१००) यत् अत्र युष्मत् यत् च अस्मत् तत्तदाश्रयौ मध्यमोत्तमौ भविष्यतः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-८०/१००) यथा एव तर्हि यत् अत्र युष्मत् यत् च स्मत् तदाश्रयौ मध्यमोत्तमौ भवतः एवम् यः अत्र शेषः तदाश्रयः प्रथमः प्राप्नोति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-८१/१००) एवम् तर्हि शेषे उपपदे प्रथमः विधीयते ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-८२/१००) उपोच्चारि पदम् उपपदम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-८३/१००) यत् च अत्र उपोच्चारि न सः शेषः यः च शेषः न तत् उपोच्चारि ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-८४/१००) भवेत् प्रथमः न स्यात् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-८५/१००) मध्यमोत्तमौ अपि न प्राप्नुतः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-८६/१००) किम् कारणम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-८७/१००) युष्मदस्मदोः उपपदयोः मध्यमोत्तमौ उच्येते ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-८८/१००) उपोच्चारि पदम् उपपदम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-८९/१००) यत् च अत्र उपोच्चारि न ते युष्मदस्मदी ये च युष्मदस्मदी न तत् उपोच्चारि ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-९०/१००) एवम् तर्हि शेषेण सामानाधिकरण्ये प्रथमः विधीयते ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-९१/१००) न च अत्र शेषेण एव सामानाधिकरण्यम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-९२/१००) भवेत् प्रथमः न स्यात् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-९३/१००) मध्यमोत्तमौ अपि न प्राप्नुतः ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-९४/१००) किम् कारणम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-९५/१००) युष्मदस्मद्भ्याम् सामानाधिकरण्ये मध्यमोत्तमौ उच्येते न च अत्र युष्मदस्मद्भ्याम् एव सामानाधिकरण्यम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-९६/१००) एवम् तर्हि त्यदादीनि सर्वैः नित्यम् इति एवम् अत्र युष्मदस्मदोः शेषः भविष्यति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-९७/१००) तत्र युष्मदि मध्यमः अस्मदि उत्तमः इति एव सिद्धम् ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-९८/१००) न सिध्यति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-९९/१००) स्थानिनि अपि इति प्रथमः प्राप्नोति ।

(पा-१,४.१०५, १०७-१०८.१; अकि-१,३५१.१३-३५३.२७; रो-२,४७१-४७६; भा-१००/१००) त्यदादीनाम् खलु अपि यत् यत् परम् तत् तत् शिष्यते इति यदा भवतः शेषः तदा प्रथमः प्राप्नोति

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-१/३०) युष्मदि मध्यमः अस्मदि उत्तमः इति एव उच्यते. तौ इह न प्राप्नुतः ॒ परमत्वम् पचसि ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-२/३०) परमाहम् पचामि इति ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-३/३०) तदन्तविधिना भविष्यति ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-४/३०) इह अपि तर्हि तदन्तविधिना प्राप्नुतः ॒ अतित्वम् पचति ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-५/३०) अत्यहम् पचति इति ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-६/३०) ये च अपि एते समानाधिकरणवृत्तयः तद्धिताः तत्र च मध्यमोत्तमौ न प्राप्नुतः ॒ त्वत्तरः पचसि मत्तरः पचामि इति ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-७/३०) त्वद्रूपः पचसि मद्रूपः पचामि इति ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-८/३०) त्वत्कल्पः पचसि ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-९/३०) मत्कल्पः पचामि इति. एवम् तर्हि युष्मद्वति अस्मद्वति इति एवम् भविष्यति ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-१०/३०) इह अपि तर्हि प्राप्नुतः ॒ अतित्वम् पचति ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-११/३०) अत्यहम् पचति इति ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-१२/३०) एवम् तर्हि युष्मदि साधने अस्मदि साधने इति एवम् भविष्यति ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-१३/३०) एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वात् इति ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-१४/३०) अथ वा प्रथमः उत्सर्गः करिष्यते ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-१५/३०) तस्य युष्मदस्मदोः उपपदयोः मध्यमोत्तमौ अपवादौ भविष्यतः ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-१६/३०) तत्र युष्मद्गन्धः च अस्मद्गन्धः च अस्ति इति कृत्वा मध्यमोत्तमौ भविष्यतः ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-१७/३०) अथ इह कथम् भवितव्यम् ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-१८/३०) अत्वम् त्वम् सम्पद्यते त्वद्भवति मद्भवति इति ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-१९/३०) आहोस्वित् त्वद्भवसि मद्भवामि इति ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-२०/३०) त्वद्भवति मद्भवति इति एवम् भवितव्यम् ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-२१/३०) मध्यमोत्तमौ कस्मात् न भवतः ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-२२/३०) गौणमुख्ययोः मुख्ये सम्प्रत्ययः भवति ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-२३/३०) तत् यथा ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-२४/३०) गौः अनुबन्ध्यः अजः अग्नीष्होमीयः इति न बाहीकः अनुबध्यते ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-२५/३०) कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-२६/३०) गौः तिष्ठति ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-२७/३०) गाम् आनय इति ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-२८/३०) अर्थाश्रये एतत् एवम् भवति ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-२९/३०) यत् हि शब्दाश्रयम् शब्दमात्रे तत् भवति ।

(पा-१,४.१०५, १०७-१०८.२; अकि-१,३५३.२७-३५४. १५; रो-२,४७७-४७८; भा-३०/३०) शब्दाश्रये च वृद्ध्यात्त्वे ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-१/५३) परः सन्निकर्षः सम्हिता चेत् अद्रुतायाम् असंहितम् । परः सन्निकर्षः संहिता चेत् अद्रुतायाम् वृत्तौ संहितासञ्ज्ञा न प्राप्नोति ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-२/५३) द्रुतायाम् एव हि परः सन्निकर्षो वर्णानाम् न अद्रुतायाम् ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-३/५३) तुल्यः सम्निकर्षः ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-४/५३) तुल्यः सम्निकर्षः वर्णानाम् द्रुतमध्यमविलिम्बितासु वृत्तिषु ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-५/५३) किङ्कृतः तर्थि विशेषः ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-६/५३) वर्णकालभूयस्त्वम् तु । वर्णानाम् तु कालभूयस्त्वम् ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-७/५३) तत् यथा ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-८/५३) हस्तिमशकयोः तुल्यः सन्निकर्षः प्राणिभूयस्त्वम् तु ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-९/५३) यदि एवम् द्रुतायाम् तपरकरणे मध्यमविलिम्बितयोः उपसङ्ख्यानम् कालभेदात् ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-१०/५३) द्रुतायाम् तपरकरणे मध्यमविलिम्बितयोः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-११/५३) किम् कारणम् ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-१२/५३) कालभेदात् ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-१३/५३) ये द्रुतायाम् वृत्तौ वर्णाः त्रिभागाधिकाः ते मध्यमायाम् ये मध्यमायाम् वृत्तौ वर्णाः त्रिभागाधिकास्ते विलिम्बितायाम् ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-१४/५३) उक्तम् वा ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-१५/५३) किम् उक्तम् ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-१६/५३) सिद्धम् तु अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात् वृत्तयः विशिष्यन्ते इति ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-१७/५३) अथ वा शब्दाविरामः संहिता इति एतत् लक्षणम् करिष्यते ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-१८/५३) शब्दाविरामे प्रतिवर्णम् अवसानम् ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-१९/५३) शब्दाविरामे प्रतिवर्णम् अवसानसञ्ज्ञा प्राप्नोति ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-२०/५३) किम् इदम् प्रतिवर्णम् इति ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-२१/५३) वर्णम् वर्णम् प्रति प्रतिवर्णम् ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-२२/५३) येन एव यत्नेन एकः वर्णः उच्च्यार्यते विच्छिन्ने वर्णे उपसंहृत्य तम् अन्यम् उपादाय द्वितीयः प्रयुज्यते तथा तृतीयः तथा चतुर्थः ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-२३/५३) एवम् तर्हि अनवकाशा संहितासञ्ज्ञा अवसानसञ्ज्ञाम् बाधिष्यते ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-२४/५३) अथ वा अवसानसञ्ज्ञायाम् प्रकर्षगतिः विज्ञास्यते ॒ साधीयः यः विरामः इति ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-२५/५३) कः च साधीयः ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-२६/५३) यः शब्दार्थयोः विरामः ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-२७/५३) अथ वा ह्रादाविरामः संहा इति एतत् लक्षणम् करिष्यते ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-२८/५३) ह्रादाविरामे स्पर्शाघोषसंयोगे असन्निधानात् असंहितम् ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-२९/५३) ह्रादाविरामे स्पर्शानाम् अघोषाणाम् संयोगे असम्निधानात् संहितासञ्ज्ञा न प्राप्नोति ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-३०/५३) कुक्कुटः पिप्पका पित्तम् इति ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-३१/५३) किम् उच्यते संयोगे इति ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-३२/५३) अथ यत्र एकः पचति इति एकः पूर्वपरयोः ह्रादेन प्रच्छाद्यते ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-३३/५३) तद् यथा ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-३४/५३) द्वयोः रक्तयोः वस्त्रयोः मध्ये शुक्लम् वस्त्रम् तद्गुणम् उपलभ्यते ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-३५/५३) बदरपिटके रिक्तकः लोहकंसः तद्गुणः उपलभ्यते ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-३६/५३) एकेन तुल्यः सन्निधिः ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-३७/५३) यथा एकः वर्णः ह्रादेन प्रच्छाद्यते एवम् अनेकः अपि ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-३८/५३) अथ वा पौर्वापर्यम् अकालव्यपेतम् संहिता इति एतत् लक्षणम् करिष्यते. पौर्वापर्यम् अकालव्यपेतम् संहिता चेत् पूर्वापराभावात् असंहितम् । पौर्वापर्यम् अकालव्यपेतम् संहिता चेत् पूर्वापराभावात् संहितासञ्ज्ञा न प्राप्नोति ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-३९/५३) न हि वर्णानाम् पौर्वापर्यम् अस्ति ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-४०/५३) किम् कारणम् ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-४१/५३) एकैकवर्णवर्तित्वात् वाचः उच्चरितप्रध्वंसित्वात् च वर्णानाम् ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-४२/५३) एकैकवर्णवर्तिनी वाक् ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-४३/५३) न द्वौ युगपत् उच्चारयति ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-४४/५३) गौः इति यावत् गकारे वाक् वर्तते न औकारे न विसर्जनीये ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-४५/५३) यावत् औकारे न गकारे न विसर्जनीये ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-४६/५३) यावत् विसर्जनीये न गकारे न औकारे ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-४७/५३) उच्चरितप्रध्वंसित्वात् ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-४८/५३) उच्चरितप्रध्वंसिनः खलु अपि वर्णाः ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-४९/५३) उच्चरितः प्रध्वस्तः ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-५०/५३) अथ अपरः प्रयुज्यते ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-५१/५३) न वर्णः वर्णस्य सहायः ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-५२/५३) एवम् तर्हि बुद्धौ कृत्वा सर्वाः चेष्ठाः कर्ता धीरः तत्वन्नीतिः शब्देन अर्थान् वाच्यान् दृष्ट्वा बुद्धौ कुर्यात् पौर्वापर्यम् । बुद्धिविषयम् एव शब्दानाम् पौर्वापर्यम् ।

(पा-१,४.१०९; अकि-१,३५४.१७-३५६.१३; रो-२,४७८-४८४; भा-५३/५३) इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति असमिन् अर्थे अयम् शब्दः प्रयोक्त्वयः स्मिन् तावत् शब्दे अयम् तावत् वर्णः ततः अयम् ततः अयम् इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-१/७९) इदम् विचार्यते अभावः अवसानलक्षणम् स्याद् विरामः वा इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-२/७९) कः च अत्र विशेषः ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-३/७९) अभावे अवसानलक्षणे उपर्यभाववचनम् । अभावेआवसानलक्षणे उपर्यभावग्रहणम् कर्तव्यम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-४/७९) उपरि यः अभावः इति वक्तव्यम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-५/७९) पुरस्तात् अपि हि शब्दस्य अभावः तत्र मा भूत् इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-६/७९) किम् च स्यात् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-७/७९) रसः रथः ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-८/७९) खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-९/७९) अस्तु तर्हि विरामः ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-१०/७९) विरामे विरामवचनम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-११/७९) यस्य विरामः विरामग्रहणम् तेन कर्तव्यम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-१२/७९) ननु च यस्य अपि अभावः तेन अपि अभावग्रहणम् कर्तव्यम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-१३/७९) परार्थम् मम भविष्यति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-१४/७९) अभावः लोपः ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-१५/७९) ततः अवसानम् च इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-१६/७९) मम अपि तर्हि विरामग्रहणम् परार्थम् भविष्यति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-१७/७९) विरामः लोपः अवसानम् च इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-१८/७९) उपरि यः विरामः इति वक्तव्यम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-१९/७९) पुरस्तात् अपि शब्दस्य विरामः तत्र मा भूत् इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-२०/७९) किम् च स्यात् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-२१/७९) रसः रथः ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-२२/७९) खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-२३/७९) आरम्भपूर्वकः मम विरामः ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-२४/७९) अथ वा न इदम् अवसानलक्षणम् विचार्यते ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-२५/७९) किम् तर्हि ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-२६/७९) सञ्ज्ञी ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-२७/७९) अभावः वसानसञ्ज्ञी स्यात् विरामः वा इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-२८/७९) कः च अत्र विशेषः ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-२९/७९) अभावे अवसानसञ्ज्ञिनि उपर्यभाववचनम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-३०/७९) अभावे अवसानसञ्ज्ञिन् युपर्यभावग्रहणम् कर्तव्यम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-३१/७९) उपरि यः भावः इति वक्तव्यम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-३२/७९) पुरस्तात् अपि हि शब्दस्य अभावः तत्र मा भूत् इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-३३/७९) किम् च स्यात् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-३४/७९) रसः रथः ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-३५/७९) खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-३६/७९) अस्तु तर्हि विरामः अवासनम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-३७/७९) विरामे विरामवचनम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-३८/७९) यस्य विरामः तेन विरामग्रहणम् कर्तव्यम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-३९/७९) ननु च यस्य अपि अभावः तेन अपि अभावग्रहणम् कर्तव्यम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-४०/७९) परार्थम् मम भविष्यति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-४१/७९) अभावः लोपः ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-४२/७९) ततः अवसानम् च इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-४३/७९) मम अपि तर्हि विरामग्रहणम् परार्थम् भविष्यति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-४४/७९) विरामः लोपः अवसानम् च इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-४५/७९) उपरि यः विरामः इति वक्तव्यम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-४६/७९) ननु च यस्य अपि अभावः तेन अपि अभावग्रहणम् कर्तव्यम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-४७/७९) परार्थम् मम भविष्यति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-४८/७९) अभावः लोपः ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-४९/७९) ततः अवसानम् च इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-५०/७९) मम अपि तर्हि विरामग्रहणम् परार्थम् भविष्यति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-५१/७९) विरामः लोपः अवसानम् च इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-५२/७९) उपरि यः विरामः इति वक्तव्यम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-५३/७९) ननु च उक्तम् आरम्भपूर्वकः इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-५४/७९) न अवश्यम् अयम् रमिः प्रवृत्तौ एव वर्तते ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-५५/७९) किम् तर्हि ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-५६/७९) अप्रवृत्तौ अपि ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-५७/७९) तत् यथा ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-५८/७९) उपरतानि अस्मिन् कुले व्रतानि ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-५९/७९) उपरतः स्वाध्यायः इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-६०/७९) न च तत्र स्वाध्यायः भूतपूर्वः भवति न अपि व्रतानि ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-६१/७९) भावाविरामभावित्वात् शब्दस्य वसानलक्षणम् न ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-६२/७९) भावाविरामभावित्वात् शब्दस्य अवसानलक्षणम् न उपपद्यते ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-६३/७९) किम् इदम् भावाविरामभावित्वात् इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-६४/७९) भावस्य अविरामः भावाविरामः भावाविरामेण भवति इति भावाविरामभावी भावाविरामभाविनः भावो भावाविरामभावित्वम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-६५/७९) अपरः आह ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-६६/७९) भावभावित्वादविरामभावित्वात् च शब्दस्य अवसानलक्षणम् न उपपद्यते इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-६७/७९) तत्परः इति वा वर्णस्य अवसानम् । विरामपरः वर्णः वसानसञ्ज्ञः भवति इति वक्तव्यम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-६८/७९) वर्णः अन्त्यः वा अवसानम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-६९/७९) अथ वा व्यक्तम् एव पठितव्यम् अन्त्यः वर्णः वसानसञ्ज्ञः भवति इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-७०/७९) तत् तर्हि वक्तव्यम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-७१/७९) न वक्तव्यम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-७२/७९) संहितावसानयोः लोकविदितत्वात् सिद्धम् ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-७३/७९) सम्हिता अवसानम् इति लोकविदितौ एतौ अर्थौ ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-७४/७९) एवम् हि कः चित् कम् चिद् अधीयानम् आह ॒ शन्नोदेवीयम् सम्हितया अधीष्व इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-७५/७९) सः तत्र परमसन्निकर्षम् अधीते ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-७६/७९) अपरः आह ॒ केन वस्यसि इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-७७/७९) सः आह ॒ अकारेण इकारेण उकारेण इति ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-७८/७९) एवम् एतौ लोकविदिततौ अर्थौ ।

(पा-१,४.११०; अकि-१,३५६.१५-३५८.८; रो-२,४८४-४८८; भा-७९/७९) तयोः लोकविदितत्वात् सिद्धम् इति ।