व्याकरणमहाभाष्य खण्ड 22

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-१/२८) विधिः इति कः अयम् शब्दः ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-२/२८) विपूर्वात् धाञः कर्मसाधनः इकारः ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-३/२८) विधीयते विधिः इति ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-४/२८) किम् पुनः विधीयते ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-५/२८) समासः विभक्तिविधानम् पराङ्गवद्भावः च ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-६/२८) किम् पुनः अयम् अधिकारः आहोस्वित् परिभाषा ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-७/२८) कः पुनः अधिकारपरिभाषयोः विशेषः ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-८/२८) अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-९/२८) परिभाषा पुनः एकदेशस्था सती सर्वम् शास्त्रम् अभिज्वलयति प्रदीपवत् ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-१०/२८) तत् यथा प्रदीपः सुप्रज्वलितः एकदेशस्थः सर्वम् वेश्म अभिज्वलयति ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-११/२८) कः पुनः अत्र प्रयत्नविशेषः ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-१२/२८) अधिकारे सति स्वरयितव्यम् परिभाषायाम् पुनः सत्याम् सर्वम् अपेक्ष्यम् ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-१३/२८) तथा इदम् अपरम् द्वैतम् भवति ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-१४/२८) एकार्थीभावः वा सामर्थ्यम् स्यात् व्यपेक्षा वा इति ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-१५/२८) तत्र एकार्थीभावे सामर्थ्ये अधिकारे च सति समासः एकः सङ्गृहीतः भवति बिभक्तिविधानम् पराङ्गवद्भावः च असङ्गृहीतः ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-१६/२८) व्यपेक्षायाम् पुनः सामर्थ्ये अधिकारे च सति बिभक्तिविधानम् पराङ्गवद्भावः च सङ्गृहीतः समासः तु एकः असङ्गृहीतः ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-१७/२८) अन्यत्र खलु अपि समर्थग्रहणानि युक्तग्रहणानि च कर्तव्यानि भवन्ति ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-१८/२८) क्व अन्यत्र ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-१९/२८) इसुसोः सामर्थ्ये न चवाहाहैवयुक्ते इति ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-२०/२८) व्यपेक्षायाम् पुनः सामर्थ्ये परिभाषायाम् च सत्याम् यावान् व्याकरणे पदगन्धः अस्ति सः सर्वः सङ्गृहीतः भवति समासः तु एकः असङ्गृहीतः ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-२१/२८) तत्र एकार्थीभावः सामर्थ्यम् परिभाषा च इति एवम् सूत्रम् अभिन्नतरकम् भवति ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-२२/२८) एवम् अपि क्व चित् अकर्तव्यम् समर्थग्रहणम् क्रियते क्व चित् च कर्तव्यम् न क्रियते ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-२३/२८) अकर्तव्यम् तावत् क्रियते समर्थानाम् प्रथमात् वा इति ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-२४/२८) कर्तव्यम् च न क्रियते कर्मणि अण् समर्थात् इति ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-२५/२८) ननु च गम्यते तत्र सामर्थ्यम् ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-२६/२८) कुम्भकारः नगरकारः इति ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-२७/२८) सत्यम् गम्यते उत्पन्ने तु प्रत्यये ।

(पा-२,१.१.१; अकि-१,३५९.२-२०; रो-२,४९१-४९६; भा-२८/२८) सः एव तावत् समर्थात् उत्पाद्यः ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-१/९६) अथ समर्थग्रहणम् किमर्थम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-२/९६) वक्ष्यति द्वितीया श्रितादिभिः समस्यते ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-३/९६) कष्टश्रितः नरकश्रितः इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-४/९६) समर्थग्रहणम् किमर्थम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-५/९६) पश्य देवदत्त कष्टम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-६/९६) श्रितः विष्णुमित्रः गुरुकुलम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-७/९६) तृतीया तत्कृतार्थेन गुणवचनेन ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-८/९६) शङ्कुलाखण्डः किरिकाणः ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-९/९६) समर्थग्रहणम् किमर्थम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-१०/९६) तिष्ठ त्वम् शङ्कुलया ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-११/९६) खण्डः धावति मुसलेन ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-१२/९६) चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-१३/९६) गोहितम् अश्रहितम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-१४/९६) समर्थग्रहणम् किमर्थम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-१५/९६) सुखम् गोभ्यः ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-१६/९६) हितम् देवदत्ताय ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-१७/९६) पञ्चमी भयेन ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-१८/९६) वृकभयम् दस्युभयम् चोरभयम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-१९/९६) समर्थग्रहणम् किमर्थम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-२०/९६) गच्छ त्वम् मा वृकेभ्यः ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-२१/९६) भयम् देवदत्तस्य यज्ञदत्तात् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-२२/९६) षष्ठी सुबन्तेन समस्यते ॒ राजपुरुषः , ब्राह्मणकम्बलः ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-२३/९६) समर्थग्रहणम् किमर्थम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-२४/९६) भार्या राज्ञः ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-२५/९६) पुरुषः देवदत्तस्य ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-२६/९६) सप्तमी शौण्डैः ॒ अक्षशौण्डः , स्त्रीशौण्डः ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-२७/९६) समर्थग्रहणम् किमर्थम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-२८/९६) कुशलः देवदत्तः अक्षेषु ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-२९/९६) शौण्डः पिबति पानागारे ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-३०/९६) अथ क्रियमाणे अपि समर्थग्रहणे इह कस्मात् न भवति महत् कष्टम् श्रितः इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-३१/९६) न वा भवति महाकष्टश्रितः इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-३२/९६) भवति यदा एतत् वाक्यम् भवति ॒ महत् कष्टम् महाकष्टम् , महाकष्टम् श्रितः महाकष्टश्रितः इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-३३/९६) यदा तु एतत् वाक्यम् भवति ॒ महत् कष्टम् श्रितः इति तदा न भवितव्यम् तदा च प्रप्नोति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-३४/९६) तदा कस्मात् न भवति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-३५/९६) कस्य कस्मात् न भवति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-३६/९६) किम् द्वयोः आहोस्वित् बहूनाम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-३७/९६) बहूनाम् कस्मात् न भवति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-३८/९६) सुप् सुपा इति वर्तते ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-३९/९६) ननु च भोः आकृतौ शास्त्राणि प्रवर्तन्ते ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-४०/९६) तत् यथा प्रातिपदिकात् इति वर्तमाने अन्यस्मात् च अन्यस्मात् च प्रातिपदिकात् उत्पत्तिः भवति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-४१/९६) सत्यम् एतत् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-४२/९६) आकृतिः तु प्रत्येकम् परिसमाप्यते ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-४३/९६) यावति एतत् परिसमाप्यते प्रातिपदिकात् इति तावतः उत्पत्त्या भवितव्यम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-४४/९६) प्रत्येकम् च एतत् परिसमाप्यते न समुदाये ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-४५/९६) एवम् इह अपि यावति एतत् परिसमाप्यते सुप् सुपा इति तावतः समासेन भवितव्यम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-४६/९६) द्वयोः द्वयोः च एतत् परिसमाप्यते न बहुषु ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-४७/९६) द्वयोः तर्हि कस्मात् न भवति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-४८/९६) असामर्थ्यात् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-४९/९६) कथम् असामर्थ्यम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-५०/९६) सापेक्षम् असमर्थम् भवति इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-५१/९६) यदि सापेक्षम् असमर्थम् भवति इति उच्यते राजपुरुषः अभिरूपः राजपुरुषः दर्शनीयः अत्र वृत्तिः न प्राप्नोति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-५२/९६) न एषः दोषः ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-५३/९६) प्रधानम् अत्र सापेक्षम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-५४/९६) भवति च प्रधानस्य सापेक्षस्य अपि समासः ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-५५/९६) यत्र तर्हि अप्रधानम् सापेक्षम् भवति तत्र ते वृत्तिः न प्राप्नोति ॒ देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-५६/९६) न एषः दोषः ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-५७/९६) समुदायपेक्षा अत्र षष्ट्ःी सर्वम् गुरुकुलम् अपेक्षते ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-५८/९६) यत्र तर्हि न समुदायपेक्षा षष्ट्ःी तत्र वृत्तिः न प्राप्नोति ॒ किम् ओदनः शालीनाम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-५९/९६) सक्त्वाढकम् आपणीयानाम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-६०/९६) कुतः भवान् पाटलिपुत्रकः ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-६१/९६) इह च अपि ॒ देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति ॒ यदि एषा समुदायपेक्षा षष्ट्ःी स्यात् न एतत् नियोगतः गम्येत देवदत्तस्य यः गुरुः तस्य यः पुत्रः इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-६२/९६) किम् तर्हि ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-६३/९६) अन्यस्य अपि गुरुपुत्रः देवदत्तस्य किम् चित् इति एषः अर्थः गम्येत ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-६४/९६) यतः तु नियोगतः देवदत्तस्य यः गुरुः तस्य यः पुत्रः इति एषः अर्थः गम्यते अतः मन्यामहे न समुदायपेक्षा षष्ट्ःी इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-६५/९६) अन्यत्र खलु अपि समर्थग्रहणे सापेक्षस्य अपि कार्यम् भवति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-६६/९६) क्व अन्यत्र ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-६७/९६) इसुसोः सामर्थ्ये ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-६८/९६) ब्राहमणस्य सर्पिः करोति इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-६९/९६) तस्मात् न अएत शक्यक् वक्तुम् सापेक्षम् असमर्थम् भवति इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-७०/९६) वृत्तिः तर्हि कस्मात् न भवति महत् कष्टम् श्रितः इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-७१/९६) सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति वक्तव्यम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-७२/९६) यदि सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति उच्यते देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्या इति अत्र वृत्तिः न प्राप्नोति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-७३/९६) अगुरुकुलपुत्रादीनाम् इति वक्तव्यम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-७४/९६) तत् तर्हि वक्तव्यम् सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते अगुरुकुलपुत्रादीनाम् इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-७५/९६) न वक्तव्यम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-७६/९६) वृत्तिः तर्हि कस्मात् न भवति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-७७/९६) अगमकत्वात् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-७८/९६) इह समानार्थेन वाक्येन भवितव्यम् समासेन च ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-७९/९६) यः च इह अर्थः वाक्येन गम्यते महत् कष्टम् श्रितः इति न जातु चित् समासेन असौ गम्यते महत् कष्टश्रितः इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-८०/९६) एतस्मात् हेतोः ब्रूमः अगमकत्वात् इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-८१/९६) न ब्रूमः अपशब्दः स्यात् इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-८२/९६) यत्र गमकः भवति भवति तत्र वृत्तिः ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-८३/९६) तत् यथा ॒ देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-८४/९६) यदि अगमकत्वम् हेतुः न अर्थः समर्थग्रहणेन ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-८५/९६) इह अपि भार्या राज्ञः पुरुषः देवदत्तस्य इति यः अर्थः वाक्येन गम्यते न असौ जातु चित् समासेन असौ गम्यते भार्य राजपुरुषः देवदत्तस्य इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-८६/९६) तस्मात् न अर्थः समर्थग्रहणेन ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-८७/९६) इदम् तर्हि प्रयोजनम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-८८/९६) अस्ति असमर्थसमासः नञ्समासः गमकः ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-८९/९६) तस्य साधुत्वम् मा भूत् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-९०/९६) अकिञ्चित् कुर्वाणम् अमाषम् हरमाणम् अगाधात् उत्सृष्टम् इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-९१/९६) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-९२/९६) अवश्यम् कस्य चित् नञ्समासस्य गमकस्य साधुत्वम् वक्तव्यम् ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-९३/९६) असूर्यम्पश्यानि मुखानि अपुनर्गेयाः श्लोकाः अश्राद्धभोजी अलवणभोजी ब्राह्मणः ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-९४/९६) सुट् अनपुंसकस्य एतत् नियमार्थम् भविष्यति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-९५/९६) एतस्य एव असमर्थसमासस्य नञ्समासस्य गमकस्य साधुत्वम् भवति न अन्यस्य इति ।

(पा-२,१.१.२; अकि-१,३५९.२१-३६१.२४; रो-२,४९६-५०४; भा-९६/९६) तस्मान् न अर्थः समर्थग्रहणेन ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१/१०९) अथ क्रियमाणे अपि समर्थग्रहणे समर्थम् इति उच्यते किम् समर्थम् नाम ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-२/१०९) पृथगर्थानाम् एकार्थीभावः समर्थवचनम् ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-३/१०९) पृथगर्थानाम् पदानम् एकार्थीभावः समर्थम् इति उच्यते ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-४/१०९) वाक्ये पृथगर्थानि राज्ञः पुरुषः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-५/१०९) समासे पुनः एकार्थानि राजपुरुषः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-६/१०९) किम् उच्यते पृथगर्थानि इति यावता राज्ञः पुरुषः आनीयताम् इति उक्ते राजपुरुषः इति च सः एव ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-७/१०९) न अपि ब्रूमः अन्यस्य आनयनम् भवति इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-८/१०९) कः तर्हि एकार्थीभावकृतः विशेषः ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-९/१०९) सुबलोपः व्यवधानम् यथेष्टम् अन्यतरेण अभिसम्बन्धः स्वरः ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१०/१०९) सुपः अलोपः भवति वाक्ये ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-११/१०९) राज्ञः पुरुषः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१२/१०९) समासे पुनः न भवति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१३/१०९) राजपुरुषः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१४/१०९) व्यवधानम् च भवति वाक्ये ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१५/१०९) राज्ञः ऋद्धस्य पुरुषः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१६/१०९) समासे न भवति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१७/१०९) राजपुरुषः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१८/१०९) यथेष्टम् अन्यतरेण अभिसम्बन्धः भवति वाक्ये ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१९/१०९) रज्ञः पुरुषः पुरुषः राज्ञः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-२०/१०९) समासे न भवति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-२१/१०९) राजपुरुषः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-२२/१०९) द्वौ स्वरौ भवतः वाक्ये ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-२३/१०९) रज्ञः पुरुषः ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-२४/१०९) समासे पुनः एकः एव ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-२५/१०९) राजपुरुषः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-२६/१०९) न एते एकार्थीभावकृताः विशेषाः ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-२७/१०९) किम् तर्हि ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-२८/१०९) वाचनिकानि एतानि ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-२९/१०९) आह हि भगवान् सुपः धातुप्रातिपदिकयोः उपसर्जनम् पूर्वम् समासस्य अन्तः उदात्तः भवति इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-३०/१०९) इमे तर्हि एकार्थीभाव्कृताः विशेषाः ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-३१/१०९) सङ्ख्याविशेषः व्यक्ताभिदानम् ल्कुपसर्जनविशेषणम् चयोगः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-३२/१०९) सङ्ख्याविशेषः भवति वाक्ये ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-३३/१०९) राज्ञः पुरुषः राज्ञोः पुरुषः राज्ञाम् पुरुषः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-३४/१०९) समासे न भवति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-३५/१०९) राजपुरुषः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-३६/१०९) अस्ति कारणम् येन एतत् एवम् भवति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-३७/१०९) किम् कारणम् ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-३८/१०९) यः असौ विशेषवाची शब्दः तदसान्निध्यात् ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-३९/१०९) अङ्ग हि भवान् तम् उच्चारयतु गंस्यते सः विशेषः ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-४०/१०९) ननु च न एतेन एवम् भवितव्यम् ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-४१/१०९) न हि शब्दकृतेन नाम अर्थेन भवितव्यम् ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-४२/१०९) अर्थकृतेन नाम शब्देन भवितव्यम् ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-४३/१०९) तत् एतत् एवम् दृश्यताम् ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-४४/१०९) अर्थरूपम् एव एतत् एवञ्जातीयकम् येन अत्र विशेषः न गम्यते इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-४५/१०९) अवश्यम् च एतत् एवम् विज्ञेयम् ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-४६/१०९) यः हि मन्यते यः असौ विशेषवाची शब्दः तदसान्निध्यात् अत्र विशेषः न गम्यते इति इह तस्य विशेषः गम्येत ॒ अप्सुचरः गोषुचरः वर्षासुजः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-४७/१०९) व्यक्ताभिधानम् भवति वाक्ये ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-४८/१०९) ब्राह्मणस्य कम्बलः तिष्ठति इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-४९/१०९) समासे पुनः अव्यक्तम् ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-५०/१०९) ब्राह्मणकम्बलः तिष्ठति इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-५१/१०९) सन्देहः भवति सम्बुद्धिः स्यात् षष्ठीसमासः वा इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-५२/१०९) एषः अपि अविशेषः ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-५३/१०९) भवति हि किम् चित् वाक्ये अव्यक्तम् तत् च समासे व्यक्तम् ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-५४/१०९) वाक्ये तावत् अव्यक्तम् ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-५५/१०९) अर्धम् पशोः देवदत्तस्य इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-५६/१०९) सन्देहः भवति पशुगुणस्य वा देवदत्तस्य यत् अर्धम् अर्थ वा यः असौ सञ्ज्ञीभूतः पशुः नाम तस्य यत् अर्धम् इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-५७/१०९) तत् च समासे व्यक्तम् भवति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-५८/१०९) अर्ध्हपशुः देवदत्तस्य इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-५९/१०९) उपसर्जनविशेषणम् भवति वाक्ये ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-६०/१०९) ऋद्धस्य राज्ञः पुरुषः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-६१/१०९) समासे न भवति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-६२/१०९) राजपुरुषः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-६३/१०९) एषः अपि अदोषः ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-६४/१०९) समासे अपि उपसर्जनविशेषणम् भवति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-६५/१०९) तत् यथा देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्या इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-६६/१०९) चयोगः भवति वाक्ये ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-६७/१०९) स्वचयोगः स्वामिचयोगः च ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-६८/१०९) स्वचयोगः राज्ञः गौः च अश्वः च पुरुषः च इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-६९/१०९) समासे न भवति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-७०/१०९) राज्ञः गवाश्वपुरुषाः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-७१/१०९) स्वामिचयोगः देवदत्तस्य च यज्ञदत्तस्य च विष्णुमित्रस्य च गौः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-७२/१०९) समासे न भवति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-७३/१०९) देवदत्तयज्ञदत्तविष्णुमित्राणाम् गौः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-७४/१०९) अथ एतस्मिन् एकार्थीभाव्कृते विशेषे किम् स्वाभाविकम् शब्दैः अर्थाभिधानम् आहोस्वित् वाचनिकम् ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-७५/१०९) स्वाभाविकम् इति आह ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-७६/१०९) कुतः एतत् ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-७७/१०९) अर्थानादेशात् ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-७८/१०९) न हि अर्थाः आदिश्यन्ते ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-७९/१०९) कथम् पुनः अर्थान् आदिशन् एवम् ब्रूयात् न अर्थाः आदिश्यन्ते इत् ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-८०/१०९) यत् आह भवान् अनेकम् अन्यपदार्थे चार्थे द्वन्द्वः अपत्ये रक्ते निर्वृत्ते इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-८१/१०९) न एतानि अर्थादेशनानि ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-८२/१०९) स्वभावतः एतेषाम् शब्दानाम् एतेषु अर्थेषु अभिनिविष्टानाम् निमित्तत्वेन अन्वाख्यानम् क्रियते ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-८३/१०९) तत् यथा ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-८४/१०९) कूपे हस्तदक्षिणः पन्थाः ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-८५/१०९) अभ्रे चन्द्रमसम् पश्य इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-८६/१०९) स्वभावतः तत्रस्थस्य पथः चन्द्रमसः च निमित्तत्वेन अन्वाख्यानम् क्रियते ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-८७/१०९) एवम् इह अपि चार्थे यः सः द्वन्द्वसमासः अन्यपदार्थः यः सः बहुव्रीहिः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-८८/१०९) किम् पुन कारणम् न आदिश्यन्ते ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-८९/१०९) तत् च लघ्वर्थम् ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-९०/१०९) लघ्वर्थम् हि अर्थाः न आदिश्यन्ते ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-९१/१०९) अवश्यम् हि अनेन अर्थान् आदिशता केन चित् शब्देन निर्देशः कर्तव्यः स्यात् ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-९२/१०९) तस्य च तावत् केन कृतः येन असौ क्रियते ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-९३/१०९) अथ तस्य केन चित् कृतः तस्य केन कृतः इति अनवस्था ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-९४/१०९) असम्भवः खलु अपि आदेशः तस्य ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-९५/१०९) कः हि नाम समर्थः धातुप्रातिपदिकप्रत्ययनिपातानाम् अर्थान् आदेष्टुम् ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-९६/१०९) न च एतत् मन्तव्यम् प्रत्ययार्थे निर्दिष्टे प्रकृत्यर्थः अनिर्दिष्टः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-९७/१०९) भवति हि गुणाभिधाने गुणिनः सम्प्रत्ययः ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-९८/१०९) तत् यथा शुक्लः कृष्णः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-९९/१०९) विषमः उपन्यासः ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१००/१०९) सामान्यशब्दाः एते एवम् स्युः ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१०१/१०९) सामन्यशब्दाः च न अन्तरेण विशेषम् प्रकरणम् वा विशेषेषु अवतिष्ठन्ते ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१०२/१०९) यतः तु खलु नियोगतः वृक्षः इति उक्ते स्वभावतः कस्मिन् चित् एव विशेषे वृक्षशब्दः वर्तते अतः मन्यामहे न इमे सामान्यशब्दाः इति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१०३/१०९) न चेत् सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे वर्तते ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१०४/१०९) अप्रवृत्तिः खलु अपि अर्थादेशनस्य ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१०५/१०९) बहवः हि शब्दाः येषाम् अर्थाः न विज्ञायन्ते ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१०६/१०९) जर्भरी तुर्फरीतू ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१०७/१०९) अन्तरेण खलु अपि शब्दप्रयोगम् बहवः अर्थाः गम्यन्ते अक्षिनिकोचैः पाणिविहारैः च ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१०८/१०९) न खलु अपि निर्ज्ञातस्य अर्थस्य अन्व्याख्यने किम् चित् प्रयोजनम् अस्ति ।

(पा-२,१.१.३; अकि-१,३६१.२५-३६३.२८; रो-२,५०५-५१६; भा-१०९/१०९) यः हि ब्रूयात् पुरस्तात् आदित्यः उदेति पश्चात् अस्तम् एति मधुरः गुडः कटुकम् शृङ्गवेरम् इति किम् तेन कृतम् स्यात् ।

(पा-२,१.१.४; अकि-१,३६४.१-५; रो-२,५१६; भा-१/९) वावचनानर्थक्यम् च स्वभावसिद्धत्वात् ।

(पा-२,१.१.४; अकि-१,३६४.१-५; रो-२,५१६; भा-२/९) वावचनानर्थक्यम् ।

(पा-२,१.१.४; अकि-१,३६४.१-५; रो-२,५१६; भा-३/९) किम् कारणम् ।

(पा-२,१.१.४; अकि-१,३६४.१-५; रो-२,५१६; भा-४/९) स्वभावसिद्धत्वात् ।

(पा-२,१.१.४; अकि-१,३६४.१-५; रो-२,५१६; भा-५/९) इह द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च ।

(पा-२,१.१.४; अकि-१,३६४.१-५; रो-२,५१६; भा-६/९) स्वभावतः च एतत् भवति वाक्यम् च समासः च ।

(पा-२,१.१.४; अकि-१,३६४.१-५; रो-२,५१६; भा-७/९) तत्र स्वाभाविके वृत्तिविषये नित्ये समासे प्रप्ते वावचनेन किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः ।

(पा-२,१.१.४; अकि-१,३६४.१-५; रो-२,५१६; भा-८/९) न च सञ्ज्ञायाः भावाभावौ इष्येते ।

(पा-२,१.१.४; अकि-१,३६४.१-५; रो-२,५१६; भा-९/९) तस्मात् न अर्थः वा वचनेन

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-१/६५) अथ ये वृत्तिम् वर्तयन्ति किम् ते आहुः ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-२/६५) परार्थाभिधानम् वृत्तिः इति आहुः ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-३/६५) अथ तेषाम् एवम् ब्रुवताम् किम् जहत्स्वार्था वृत्तिः आहोस्वित् अजहत्स्वार्था ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-४/६५) किम् च अतः ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-५/६५) यदि जहत्स्वार्था वृत्तिः राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् प्राप्नोति औपगवम् आनय इति उक्ते अपत्यमात्रस्य ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-६/६५) अथ अजहत्स्वार्था वृत्तिः उभयोः विद्यमानस्वार्थयोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-७/६५) का पुनः वृत्तिः न्याय्या ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-८/६५) जहत्स्वार्था ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-९/६५) युक्तम् पुनः यत् जहत्स्वार्था नाम वृत्तिः स्यात् ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-१०/६५) बाढम् युक्तम् ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-११/६५) एवम् हि दृश्यते लोके ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-१२/६५) पुरुषः अयम् परकर्मणि प्रवर्तमानः स्वम् कर्म जहाति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-१३/६५) तत् यथा तक्षा राजकर्मणि वर्तमानः स्वम् कर्म जहाति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-१४/६५) एवम् युक्तम् यत् राजा पुरुषार्थे वर्तमानः स्वम् अर्थम् जह्यात् उपगुः च अपर्त्यार्थे वर्तमानः स्वम् अर्थम् जह्यात् ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-१५/६५) ननु च उक्तम् राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् प्राप्नोति औपगवम् आनय इति उक्ते अपत्यमात्रस्य इति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-१६/६५) न एषः दोषः ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-१७/६५) जहत् अपि असौ स्वार्थम् न अत्यन्ताय जहाति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-१८/६५) यः परार्थविरोधी स्वार्थः तम् जहाति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-१९/६५) तत् यथा तक्षा राजकर्मणि वर्तमानः स्वम् तक्षकर्म जहाति न हिक्कितहसितकण्डूयितानि ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-२०/६५) न च अयम् अर्थः परार्थविरोधी विशेषणम् नाम ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-२१/६५) तस्मात् न हास्यति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-२२/६५) अथ वा अन्वयात् विशेषणम् भविष्यति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-२३/६५) तत् यथा ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-२४/६५) घृतघटः तैलघटः इति निषिक्ते घृते तैले वा अन्व्ययात् विशेषणम् भवति अयम् घृतघटः अयम् तैलघटः इति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-२५/६५) विषमः उपन्यासः ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-२६/६५) भवति हि तत्र या च यावती च अर्थमात्रा ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-२७/६५) अङ्ग हि भवान् अग्नौ निष्टप्य घृतघटम् तृणकूर्चेन प्रक्षालयतु ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-२८/६५) न गंस्यते सः विशेषः ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-२९/६५) यथा तर्हि मल्लिकापुटः चम्पकपुतः इति निष्कीर्णासु अपि सुमनःसु अन्वयात् विशेषणम् भवति अयम् मल्लिकपुटः अयम् चम्पकपुटः इति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-३०/६५) अथ वा समर्थाधिकारः अयम् वृत्तौ क्रियते ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-३१/६५) सामर्थम् नम भेदः संसर्गः वा ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-३२/६५) अपरः आह ॒ भेदसंसर्गौ वा सामर्थ्यम् इति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-३३/६५) कः पुनः भेदः संसर्गः वा ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-३४/६५) इह राज्ञः इति उक्ते सर्वम् स्वम् प्रसक्तम् पुरुषः इति उक्ते सर्वः स्वामि प्रसक्तः ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-३५/६५) इह इदानीम् राजपुरुषः इति उक्ते राजा पुरुषम् निवर्तयति अन्येभ्यः स्वामिभ्यः पुरुषः अपि राजानम् अन्येभ्यः स्वेभ्यः ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-३६/६५) एवम् एतस्मिन् उभयतः व्यवच्छिन्ने यदि जहाति कामम् जहातु ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-३७/६५) न जातु चित् पुरुषमात्रस्य आनयनम् भविष्यति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-३८/६५) अथ वा पुनः अस्तु अजहत्स्वार्था वृत्तिः ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-३९/६५) युक्तम् पुनः यत् अजहत्स्वार्था नाम वृत्तिः स्यात् ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-४०/६५) बाढम् युक्तम् ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-४१/६५) एवम् हि दृश्यते लोके ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-४२/६५) भिक्षुकः अयम् द्वितीयाम् भिक्षाम् आसाद्य पूर्वाम् न जहाति सञ्चयाय प्रवर्तते ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-४३/६५) ननु च उक्तम् उभयोः विद्यमानस्वार्थयोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति इति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-४४/६५) कस्याः पुनः द्विवचनम् प्राप्नोति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-४५/६५) प्रथामायाः ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-४६/६५) न प्रथमासमर्थः राजा ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-४७/६५) षष्ठ्याः तर्हि ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-४८/६५) न षष्ठीसमर्थः पुरुषः ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-४९/६५) प्रथमायाः एव तर्हि प्राप्नोति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-५०/६५) ननु च उक्तम् न प्रथमासमर्थः राजा इति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-५१/६५) अभिनिहितः सः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-५२/६५) तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमायाः एव द्विवचनम् प्राप्नोति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-५३/६५) सङ्घातस्य ऐकार्थ्यात् न अवयवसङ्ख्यातः सुबुत्पत्तिः ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-५४/६५) सङ्घातस्य एकत्वम् अर्थः ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-५५/६५) तेन अवयवसङ्ख्यातः सुबुत्पत्तिः न भविष्यति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-५६/६५) परस्परव्यपेक्षा सामर्थ्येम् एके ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-५७/६५) परस्परव्यपेक्षा सामर्थ्येम् एके इच्छन्ति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-५८/६५) का पुनः शब्दयोः व्यपेक्षा ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-५९/६५) न ब्रूमः शब्दयोः इति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-६०/६५) किम् तर्हि ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-६१/६५) अर्थयोः ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-६२/६५) इह राज्ञः पुरुषः इति उक्ते राजा पुरुषम् अपेक्षते मम अयम् इति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-६३/६५) पुरुषः अपि राजानम् अपेक्षते अहम् अस्य इति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-६४/६५) तयोः अभिसम्बन्धस्य षष्ठी वाचिका भवति ।

(पा-२,१.१.५; अकि-१,३६४.६-३६५.१४; रो-२,५१७-५२५; भा-६५/६५) तथा कष्टम् श्रितः इति क्रियाकारकयोः अभिसम्बन्धस्य द्वितीया वाचिका भवति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-१/९१) अथ यदि एव एकार्थीभावः सामर्थ्यम् अथ अपि व्यपेक्षा सामर्थ्यम् किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-२/९१) गतम् इति आह ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-३/९१) कथम् ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-४/९१) समः अयम् अर्थशब्देन सह समासः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-५/९१) सम् च उपसर्गः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-६/९१) उपसर्गाः च पुनः एवमात्मकाः यत्र कः चित् क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषम् आहुः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-७/९१) न च इह कः चित् क्रियावाची शब्दः प्रयुज्यते येन समः सामर्थ्यम् स्यात् ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-८/९१) तत्र प्रयोगात् एतत् गन्तव्यम् नूनम् अत्र कः चित् प्रयोगार्हः शब्दः न प्रयुज्यते येन समः सामर्थ्यम् इति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-९/९१) तत् यथा ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-१०/९१) धूमम् दृष्ट्वा अग्निः अत्र इति गम्यते त्रिविष्टब्धकम् च दृष्ट्वा परिव्राजकः इति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-११/९१) कः पुनः असौ प्रयोगार्हः शब्दः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-१२/९१) उच्यते ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-१३/९१) सङ्गतार्थम् समर्थम् संसृष्टार्थम् समर्थम् सम्प्रेक्षितम् अर्थम् समर्थम् सम्बद्धार्थम् समर्थम् इति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-१४/९१) तत् यदा तावत् एकार्थीभावः सामर्थ्यम् तदा एवम् विग्रहः करिष्यते सङ्गतार्थः संसृष्टार्थः समर्थः इति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-१५/९१) तत् यथा सङ्गतम् घृतम् सङ्गतम् तैलम् इति उच्यते ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-१६/९१) एकीभूतम् इति गम्यते ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-१७/९१) यदा व्यपेक्षा सामर्थ्यम् तदा एवम् विग्रहः करिष्यते सम्प्रेक्षितार्थः समर्थः सम्बद्धार्थः समर्थः इति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-१८/९१) कः पुनः इह बध्नात्यर्थः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-१९/९१) सम्बद्धः इति उच्यते यः रज्ज्वा अयसा वा कीले व्यतिषिक्तः भवति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-२०/९१) न अवश्यम् बध्नातिः व्यतिषङ्गे एव वर्तते ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-२१/९१) किम् तर्हि ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-२२/९१) अहानौ अपि वर्तते ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-२३/९१) तत् यथा सम्बद्धौ इमौ दम्यौ इति उच्येते यौ अन्योन्यम् न जहीतः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-२४/९१) अथ वा भवति च एवञ्जातीयकेषु बध्नातिः वर्तते ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-२५/९१) तत् यथा ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-२६/९१) अस्ति नः गर्गैः सम्बन्धः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-२७/९१) अस्ति नः वत्सैः सम्बन्धः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-२८/९१) संयोगः इति अर्थः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-२९/९१) अथ एतस्मिन् व्यपेक्षायाम् सामर्थ्ये यः असौ एकार्थीभाव्कृतः विशेषः स वक्तव्यः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-३०/९१) तत्र नानाकारकात् निघातयुष्मदस्मदादेशेप्रतिषेधः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-३१/९१) तत्र एतस्मिन् व्यपेक्षायाम् सामर्थ्ये नानाकारकात् निघातयुष्मदस्मदादेशाः प्राप्नुवन्ति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-३२/९१) तेषाम् प्रतिषेधः वक्तव्यः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-३३/९१) निघातः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-३४/९१) अयम् दण्डः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-३५/९१) हर अनेन ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-३६/९१) अस्ति दण्डस्य हरतेः च व्यपेक्षा इति कृत्वा निघातः प्राप्नोति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-३७/९१) युष्मदस्मदादेशाः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-३८/९१) ओदनम् पच ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-३९/९१) तव भविष्यति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-४०/९१) ओदनम् पच मम भविष्यति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-४१/९१) अस्ति ओदनस्य युष्मदस्मदोः च व्यपेक्षा इति कृत्वा वाम्नावादयः प्राप्नुवन्ति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-४२/९१) तेषाम् प्रतिषेधः वक्तव्यः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-४३/९१) किम् उच्यते नानाकारकात् इति यदा तेन एव आसज्य ह्रियते ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-४४/९१) न अपि ब्रूमः अन्येन आसज्य ह्रियते इति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-४५/९१) किम् तर्हि ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-४६/९१) शब्दप्रमाणकाः वयम् ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-४७/९१) यत् शब्दः आह तत् अस्माकम् प्रमाणम् ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-४८/९१) शब्दः च इह सत्ताम् आह ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-४९/९१) अयम् दण्डः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-५०/९१) अस्ति इति गम्यते ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-५१/९१) सः दण्डः कर्ता भूत्वा अन्येन शब्देन अभिसम्बध्यमानः करणम् सम्पद्यते ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-५२/९१) तत् यथा ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-५३/९१) कः चित् कम् चित् पृच्छति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-५४/९१) क्व देवदत्तः इति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-५५/९१) सः तस्मै आचष्टे ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-५६/९१) असौ वृक्षे इति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-५७/९१) कतरस्मिन् ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-५८/९१) यः तिष्ठति इति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-५९/९१) सः वृक्षः अधिकरणम् भूत्वा अन्येन शब्देन अभिसम्बध्यमानः कर्ता सम्पद्यते ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-६०/९१) प्रचये समासप्रतिषेधः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-६१/९१) प्रचये समासप्रतिषेधः वक्तव्यः ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-६२/९१) राज्ञः गौः च अश्वः च पुरुषः च राजगवाश्वपुरुषाः इति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-६३/९१) समर्थतराणाम् वा ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-६४/९१) समर्थतराणाम् वा पदानाम् समासः भविष्यति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-६५/९१) कानि पुनः समर्थतराणि ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-६६/९१) यानि द्वन्द्वभावीनि ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-६७/९१) कुतः एतत् ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-६८/९१) एषाम् हि आशुतरा वृत्तिः प्राप्नोति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-६९/९१) तत् यथा समर्थतरः अयम् माणवकः अध्ययनाय इति उच्यते ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-७०/९१) आश्रुतरग्रन्थः इति गम्यते ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-७१/९१) अपरः आह ॒ समर्थतराणाम् वा पदानाम् समासः भविष्यति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-७२/९१) कानि पुनः समर्थतराणि ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-७३/९१) यानि द्वन्द्वभावीनि ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-७४/९१) कुतः एतत् ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-७५/९१) एतानि समानविभक्तीनि अन्यविभक्तिः राजा ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-७६/९१) भवति विशेषः स्वस्मिन् भ्रातरि पितृव्यपुत्रे च ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-७७/९१) समुदायसामर्थ्यात् वा सिद्धम् षमुदायसामर्थ्यात् वा पुनः सिद्धम् एतत् ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-७८/९१) समुदायेन राज्ञः सामर्थ्यम् भवति न अवयवेन ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-७९/९१) अपरः आह ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-८०/९१) समर्थतराणाम् वा समुदायसामर्थ्यात् ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-८१/९१) समर्थतराणाम् वा पदानाम् समासः भवति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-८२/९१) कुतः एतत् ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-८३/९१) समुदायसामर्थ्यात् एव ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-८४/९१) अस्मिन् पक्षे वा इति एतत् असमर्थितम् भवति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-८५/९१) एतत् च समर्थितम् ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-८६/९१) कथम् ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-८७/९१) न एव वा पुनः अत्र राज्ञः अश्वपुरुषौ अपेक्षमाणस्य गवा सह समासः भवति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-८८/९१) किम् तर्हि ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-८९/९१) गोः राजानम् अपेक्षमाणस्य आस्वपुरुषाभ्याम् समासः समासः भवति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-९०/९१) प्रधानम् अत्र तद गौः भवति ।

(पा-२,१.१.६; अकि-१,३६५.१५-३६७.९; रो-२,५२५-५३१; भा-९१/९१) भवति च प्रधानस्य सापेक्षस्य अपि समासः ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-१/७९) आख्यातम् साव्ययकारकविशेषणम् वाक्यम् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-२/७९) आख्यातम् साव्ययम् सकारकम् सकारकविशेषणम् वाक्यसञ्ज्ञम् भवति वक्तव्यम् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-३/७९) साव्ययम् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-४/७९) उच्चैः पठति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-५/७९) नीचैः पठति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-६/७९) सकारकम् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-७/७९) ओदनम् पचति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-८/७९) सकारकविशेषणम् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-९/७९) ओदनम् मृदु विशदम् पचति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-१०/७९) सक्रियाविशेषणम् च इति वक्तव्यम् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-११/७९) सुष्ठु पचति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-१२/७९) दुष्ठु पचति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-१३/७९) अपरः आह ॒ आख्यातम् सविशेषणम् इति एव ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-१४/७९) सर्वाणि हि एतानि क्रियाविशेषणानि ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-१५/७९) एकतिङ् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-१६/७९) एकतिङ् वाक्यसञ्ज्ञम् भवति वक्तव्यम् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-१७/७९) ब्रूहि ब्रूहि ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-१८/७९) समानवाक्ये निघातयुष्मदस्मदादेशाः ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-१९/७९) समानवाक्ये इति प्रकृत्य निघातयुष्मदस्मदादेशाः वक्तव्याः ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-२०/७९) किम् प्रयोजनम् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-२१/७९) नानावाक्ये मा भूवन् निघातादयः इति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-२२/७९) अयम् दण्डः ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-२३/७९) हर अनेन ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-२४/७९) ओदनम् पच ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-२५/७९) तव भविष्यति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-२६/७९) ओदनम् पच ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-२७/७९) मम भविष्यति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-२८/७९) योगे प्रतिषेधः चादिभिः ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-२९/७९) चादिभिः योगे प्रतिषेधः वक्तव्यः ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-३०/७९) ग्रामः तव च स्वम् मम च स्वम् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-३१/७९) किमर्थम् इचम् उच्यते ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-३२/७९) यथान्यासम् एव चादिभिः योगे प्रतिषेधः उच्यते ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-३३/७९) इदम् अद्य अपूर्वम् क्रियते वाक्यसञ्ज्ञा समानवाक्याधिकारः च ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-३४/७९) तत् द्वेष्यम् विजानीयात् ॒ सर्वम् एतत् विकल्पते इति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-३५/७९) तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे चादिभिः योगे यथान्यासम् एव भवति इति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-३६/७९) समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषु उपसङ्ख्यानम् असमर्थत्वात् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-३७/७९) समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषु उपसङ्ख्यानम् कर्तव्यम् स्यात् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-३८/७९) समानाधिकरणे ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-३९/७९) पटवे ते दास्यामि ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-४०/७९) म्र्दवे ते दास्यामि ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-४१/७९) समानाधिकरणे ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-४२/७९) युक्तयुक्ते ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-४३/७९) नद्याः तिष्ठति कूले ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-४४/७९) वृक्षस्य लम्बते शाखा ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-४५/७९) शालीनाम् ते ओदनम् ददामि ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-४६/७९) शालीनाम् मे ओदनम् ददाति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-४७/७९) किम् पुनः कारणम् न सिध्यति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-४८/७९) असमर्थत्वात् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-४९/७९) राजगवीक्षीरे द्विसमासप्रसङ्गः द्विषष्ठीभावात् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-५०/७९) राजगवीक्षीरे द्विसमासप्रसङ्गः ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-५१/७९) किम् कारणम् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-५२/७९) द्विषष्ठीभावात् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-५३/७९) द्वे हि अत्र षष्ठ्यौ ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-५४/७९) राज्ञः गोः क्षीरम् इति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-५५/७९) किम् उच्यते द्विसमासप्रसङ्गः इति यावता सुप् सह सुपा इति वर्तते ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-५६/७९) द्विसमासप्रसङ्गः इति न एवम् विज्ञायते द्वयोः सुबन्तयोः समासप्रसङ्गः द्विसमासप्रसङ्गः इति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-५७/७९) कथम् तर्हि ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-५८/७९) द्विप्रकारस्य समासस्य प्रसङ्गः द्विसमासप्रसङ्गः इति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-५९/७९) राजगोक्षीरम् इति अपि प्राप्नोति न च एवम् भवितव्यम् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-६०/७९) भवितव्यम् च यदा एतत् वाक्यम् भवति गोः क्षीरम् गोक्षीरम् राज्ञः गोक्षीरम् राजगोक्षीरम् इति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-६१/७९) यदा तु एतत् वाक्यम् भवति राज्ञः गोः क्षीरम् इति तदा न भवितव्यम् तदा च प्राप्नोति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-६२/७९) तदा कस्मात् न भवति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-६३/७९) सिद्धम् तु राजविशिष्टायाः गोः क्षीरेण सामर्थ्यात् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-६४/७९) सिद्धम् एतत् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-६५/७९) कथम् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-६६/७९) राजविशिष्टायाः गोः क्षीरेण सह समासः भवति न केवलायाः ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-६७/७९) किम् वक्तव्यम् एतत् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-६८/७९) न हि ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-६९/७९) कथम् अनुच्यमानम् गंस्यते ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-७०/७९) यथा एव अयम् गवि यतते न क्षीरमात्रेण सन्तोषम् करोति एवम् राजनि अपि यतते ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-७१/७९) राज्ञः या गौः तस्याः यत् क्षीरम् इति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-७२/७९) न एव वा पुनः अत्र गोः राजानम् अपेक्षमाणायाः क्षीरेण सह समासः प्राप्नोति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-७३/७९) किम् कारणम् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-७४/७९) असामर्थ्यात् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-७५/७९) कथम् असामर्थ्यम् ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-७६/७९) सापेक्षम् असमर्थम् भवति इति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-७७/७९) कथम् तर्हि गोः क्षीरम् अपेक्षमाणायाः राज्ञा सह समासः भवति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-७८/७९) प्रधानम् अत्र तद गौः भवति ।

(पा-२,१.१.७; अकि-१,३६७.१०-३६८.२४; रो-२,५३२-५३७; भा-७९/७९) भवति च प्रधानस्य सापेक्षस्य अपि समासः

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-१/३०) अथ किमर्थम् पदविधौ समर्थाधिकारः क्रियते ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-२/३०) पदविधौ समर्थवचनम् वर्णाश्रये शास्त्रे आनन्तर्यविज्ञानात्. पदविधौ समर्थाधिकारः क्रियते वर्णाश्रये शास्त्रे आनन्तर्यमात्रे कार्यम् यथा विज्ञायेत ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-३/३०) तिष्ठतु दधि अशान त्वम् शाकेन ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-४/३०) तिष्ठतु कुमारी छत्रम् हर देवदत्त इति ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-५/३०) समर्थाधिकारस्य विधेयसामानाधिकरण्यात् निर्देशानर्थक्यम् ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-६/३०) समर्थाधिकारः अयम् विधेयेन समानाधिकरणः ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-७/३०) किम् च विधेयम् ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-८/३०) समासः ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-९/३०) यावत् ब्रूयात् समर्थः समासः इति तावत् समर्थः पदविधिः ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-१०/३०) न च राजपुरुषः इति एतस्याम् अवस्थायाम् समर्थाधिकारेण किम् चित् अपि शक्यम् प्रवर्तयितुम् निवर्तयितुम् वा ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-११/३०) समर्थाधिकारस्य विधेयसामानाधिकरण्यात् निर्देशः अनर्थकः ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-१२/३०) सिद्धम् तु समर्थानाम् इति वचनात् ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-१३/३०) सिद्धम् एतत् ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-१४/३०) कथम् ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-१५/३०) समर्थानाम् पदानाम् विधिः इति वक्तव्यम् ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-१६/३०) एवम् अपि द्व्येकयोः न प्राप्नोति ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-१७/३०) एकशेषनिर्देशात् वा ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-१८/३०) अथ वा एकशेषनिर्देशः अयम्. समर्थस्य च समर्थयोः च समर्थानाम् च समर्थानाम् इति ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-१९/३०) एवम् अपि षट्प्रभृतीनाम् एव प्राप्नोति ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-२०/३०) षट्प्रभृतिषु हि एकशेषः परिसमाप्यते ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-२१/३०) न एषः दोषः ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-२२/३०) प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति द्व्येकयोः अपि भविष्यति ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-२३/३०) एवम् अपि विविभक्तीनाम् न प्राप्नोति ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-२४/३०) समर्थात् समर्थे पदात् पदे इति ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-२५/३०) एवम् तर्हि समर्थपदयोः विधिशब्देन सर्वविभक्त्यन्तः समासः ॒ समर्थस्य विधिः समर्थविधिः , समर्थयोः विधिः समर्थविधिः , समर्थात् विधिः समर्थविधिः , समर्थे विधिः समर्थ्विधिः ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-२६/३०) पदस्य विधिः पदविधिः , पदयोः विधिः पदविधिः , पदानाम् विधिः पदविधिः , पदात् विधिः पदविधिः , पदे विधिः पदविधिः ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-२७/३०) समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-२८/३०) पदविधिः च पदविधिः च पदविधिः च पदविधिः च पदविधिः च पदविधिः ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-२९/३०) समर्थविधिः च पदविधिः च समर्थः पदविधिः ।

(पा-२,१.१.८; अकि-१,३६८.२५-३६९.२४; रो-२,५३७-५४०; भा-३०/३०) पूर्वः समासः उत्तरपदलोपी यादृच्छिकीविभक्तिः ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-१/९०) समानाधिकरणेषु उपसङ्ख्यानम् असमर्थत्वात् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-२/९०) समानाधिकरणेषु उपसङ्ख्यानम् कर्तव्यम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-३/९०) वीरः पूरुषः वीरपुरुषः ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-४/९०) किम् पुनः कारणम् न सिध्यति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-५/९०) असमर्थत्वात् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-६/९०) कथम् असमर्थत्वम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-७/९०) द्रव्यम् पदार्थः इति चेत्. यदि द्रव्यम् पदार्थः न भवति तदा सामर्थ्यम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-८/९०) अथ हि गुणः पदार्थः भवति तदा सामर्थ्यम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-९/९०) अन्यः हि वीरत्वम् गुणः अन्यः हि पुरुषत्वम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-१०/९०) न अन्यत्वम् अस्ति इति इयता सामर्थ्यम् भवति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-११/९०) अन्यः हि देवदत्तः गोभ्यः अश्वेभ्यः च न च तस्य एतावता सामर्थम् भवति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-१२/९०) कः वा विशेषः यत् गुणे पदार्थे सामर्थ्यम् स्यात् द्रव्ये च न स्यात् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-१३/९०) एषः विशेषः ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-१४/९०) एकम् तयोः अधिकरणम् अन्यः च वीरत्वम् गुणः अन्यः पुरुषत्वम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-१५/९०) द्रव्यपदार्थिकस्य अपि तर्हि गुणभेदात् सामर्थ्यम् भविष्यति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-१६/९०) अशक्यः द्रव्यपदार्थिकेन द्रव्यस्य गुणकृतः उपकारः प्रतिज्ञातुम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-१७/९०) ननु च अभ्यन्तरः असौ भवति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-१८/९०) यदि अपि अभ्यन्तरः न तु गम्यते ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-१९/९०) न हि गुडः इति उक्ते मधुरत्वम् गम्यते शृङ्गवेरम् इति वा कटुकत्वम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-२०/९०) गुणपदार्थिकेन अपि तर्हि अशक्यः गुणस्य द्रव्यकृतः उपकारः प्रतिज्ञातुम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-२१/९०) अथ गुणपदार्थिकः प्रतिजानीते द्रव्यपदार्थिकः अपि कस्मात् न प्रतिजानीते ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-२२/९०) एवम् अनयोः सामर्थ्यम् स्यात् वा न वा ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-२३/९०) क्व च तावत् इदम् स्यात् समानाधिकरणेन इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-२४/९०) यत्र सर्वम् समामन् ॒ इन्द्रः शक्रः पुरुहूतः पुरन्दरः ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-२५/९०) कन्दुः कोष्ठः कुशूलः इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-२६/९०) न एवञ्जातीयकानाम् समासेन भवितव्यम् प्रत्ययेन वा उत्पत्तव्यम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-२७/९०) किम् कारणम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-२८/९०) अर्थगत्यर्थः शब्दप्रयोगः ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-२९/९०) अर्थम् प्रत्याययिष्यामि इति शब्दः प्रयुज्यते ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-३०/९०) तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-३१/९०) किम् कारणम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-३२/९०) उक्तार्थानाम् अप्रयोगः इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-३३/९०) न तर्हि इदानीम् इदम् भवति भृत्यभरणीयः इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-३४/९०) न एतौ समानार्थौ ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-३५/९०) एकः अत्र शक्यार्थे कृत्यः भवति अपरः अर्हत्यर्थे ॒ शक्यः भर्तुम् भृत्यः ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-३६/९०) अर्हति भृतिम् भरणीयः ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-३७/९०) भृत्यः भरणीयः भृत्यभरणीयः इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-३८/९०) यदि तर्हि यत्र किम् चित् समानम् कः चित् विशेषः तत्र भवितव्यम् इह अपि तर्हि प्राप्नोति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-३९/९०) दर्शनीयायाः माता दर्शनीयमाता इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-४०/९०) अत्र अपि किम् चित् समानम् कः चित् विशेषः ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-४१/९०) किम् पुनः तत् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-४२/९०) सद्भावान्यभावौ ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-४३/९०) न क्व चित् सद्भावान्यभावौ न स्तः उच्यते च समानाधिकरणेन इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-४४/९०) तत्र प्रकर्षगतिः विज्ञास्यते ॒ यत्र साधीयः सामानाधिकरण्यम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-४५/९०) क्व च साधीयः सामानाधिकरण्यम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-४६/९०) यत्र सर्वम् समानम् सद्भावान्यभावौ द्रव्यम् च. अथ वा समानाधिकरणेन इति तत् समानम् आश्रीयते यत् समानम् भवति न च भवति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-४७/९०) न च एतत् समानम् क्व चित् अपि न भवति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-४८/९०) अथ वा यावत् ब्रूयात् समानद्रव्येण इति तावत् समानाधिकरणेन इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-४९/९०) द्रव्यम् हि लोके अधिकरणम् इति उच्यते ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-५०/९०) तत् यथा ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-५१/९०) एकस्मिन् द्रव्ये व्युदितम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-५२/९०) एकस्मिन् अधिकरणे व्युदितम् इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-५३/९०) तथा व्याकरणे विप्रतिषिद्धम् च अनधिकरणवाचि इति अद्रव्यवाचि इति गम्यते ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-५४/९०) एवम् अपि इदम् अवश्यम् कर्तव्यम् समानाधिकरणम् असमर्थवत् भवति इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-५५/९०) किम् प्रयोजनम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-५६/९०) सर्पिः कालकम् यजुः पीतकम् इति एवमर्थम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-५७/९०) यदि समानाधिकरणम् असमर्थवत् भवति इति उच्यते सर्पिः पीयते यजुः क्रियते इति अत्र षत्वम् न प्राप्नोति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-५८/९०) अधात्वभिहितम् इति एवम् तत् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-५९/९०) एवम् च कृत्वा समानाधिकरणेषु उपसङ्ख्यानम् कर्तव्यम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-६०/९०) वीरः पूरुषः वीरपुरुषः ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-६१/९०) किम् कारणम् असमर्थत्वात् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-६२/९०) न वा वचनप्रामाण्यात् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-६३/९०) न वा कर्तव्यम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-६४/९०) किम् कारणम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-६५/९०) वचनप्रामाण्यात् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-६६/९०) वचनप्रामाण्यात् अत्र समासः भविष्यति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-६७/९०) किम् वचनप्रामाण्यम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-६८/९०) समानमध्यमध्यमवीराः च इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-६९/९०) लुप्ताख्यातेषु च ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-७०/९०) लुप्ताख्यातेषु च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-७१/९०) निष्कौशाम्बिः निर्वाराणसिः ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-७२/९०) लुप्ताख्यातेषु च ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-७३/९०) किम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-७४/९०) वचनप्रामाण्यात् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-७५/९०) किम् वचनप्रामाण्यम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-७६/९०) कुगतिप्रादयः च इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-७७/९०) अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-७८/९०) किम् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-७९/९०) सुराजा अतिराजा इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-८०/९०) न ब्रूमः वृत्तिसूत्रवचनप्रामाण्यात् इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-८१/९०) किम् तर्हि ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-८२/९०) वार्त्तिकवचनप्रामाण्यात् इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-८३/९०) सिद्धम् तु क्वाङ्क्स्वतिदुर्गतिवचनात् प्रादयः क्तार्थे इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-८४/९०) तदर्थगतेः वा ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-८५/९०) तदर्थगतेः वा पुनः सिद्धम् एतत् ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-८६/९०) किम् इदम् तदर्थगतेः इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-८७/९०) तस्य अर्थः तदर्थः तदर्थस्य गतिः तदर्थगतिः तदर्थगतेः इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-८८/९०) यस्य अर्थस्य कौशाम्ब्या सामर्थ्यम् सः निसा उच्यते ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-८९/९०) अथ वा सः अर्थः तदर्थः तदर्थस्य गतिः तदर्थगतिः तदर्थगतेः इति ।

(पा-२,१.१.९; अकि-१,३७०.१-३७१.२४; रो-२,५४०-५४६; भा-९०/९०) यः अर्थः कौशाम्ब्या समर्थः सः निसा उच्यते ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१/११०) अथ यत्र बहूनाम् समासप्रसङ्गः किम् तत्र द्वयोः द्वयोः समासः भवति आहोस्वित् अविशेषेण ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-२/११०) कः च अत्र विशेषः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-३/११०) समासः द्वयोः द्वयोः चेत् द्वन्द्वे अनेकग्रहणम् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-४/११०) समासः द्वयोः द्वयोः चेत् द्वन्द्वे अनेकग्रहणम् कर्तव्यम् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-५/११०) चर्थे द्वन्द्वः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-६/११०) अनेकम् इति वक्तव्यम् इह अपि यथा स्यात् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-७/११०) प्लक्षन्यग्रोधखदिरपलाशाः इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-८/११०) न एषः दोषः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-९/११०) अत्र अपि द्वयोः द्वयोः समासः भविष्यति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१०/११०) द्वयोः द्वयोः समासः इति चेत् न बहुषु द्वित्वाभावात् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-११/११०) द्वयोः द्वयोः समासः इति चेत् तत् न ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१२/११०) किम् कारणम् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१३/११०) बहुषु द्वित्वाभावात् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१४/११०) न बहुषु द्वित्वम् अस्ति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१५/११०) न अवश्यम् एवम् विग्रहः कर्तव्यः ॒ प्लक्षः च न्यग्रोधः च खदिरः च पलाशः च इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१६/११०) किम् तर्हि एवम् विघ्रहः करिष्यते ॒ प्लक्षः च न्यग्रोधः च प्लक्षन्यग्रोधौ खदिरः च पलाशः च खदिरपलाशौ प्लक्षन्यग्रोधौ च खदिरपलाशौ प्लक्षन्यग्रोधखदिरपलाशाः इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१७/११०) होतृपोतृनेष्टोद्गातारः तर्हि न सिध्यन्ति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१८/११०) होतापोतानेष्टोद्गातारः इति प्राप्नोति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१९/११०) न च एवम् भवितव्यम् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-२०/११०) भवितव्यम् च यदा एवम् विग्रहः क्रियते होता च पोता च होतापोतारौ नेष्टा च उद्गाता च नेष्टोद्गातारौ होतापोतारौ च नेष्टोद्गातारौ च होतापोतानेष्टोद्गातारः इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-२१/११०) होतृपोतृनेष्टोद्गातारः तु न सिध्यन्ति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-२२/११०) समासान्तप्रतिषेधः च ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-२३/११०) समासान्तस्य च प्रतिषेधः वक्तव्यः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-२४/११०) वाक्त्वक्स्रुग्दृषदम् इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-२५/११०) वाक्त्वचस्रुग्दृषदम् इति प्राप्नोति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-२६/११०) न एषः दोषः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-२७/११०) अत्र अपि परेण परेण सह समासः भविष्यति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-२८/११०) स्रुक् च दृषदम् च स्रुग्दृषदम् त्वक् च स्रुग्दृषदम् च त्वक्स्रुग्दृषदम् वाक् च त्वक्स्रुग्दृषदम् च वाक्त्वक्स्रुग्दृषदम् इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-२९/११०) होतृपोतृनेष्टोद्गातारः एवम् तर्हि सिध्यन्ति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-३०/११०) इह च सुसुक्ष्मजटकेशेन सुनताजिवासना समन्तशितिरन्ध्रेण द्वयोः वृत्तौ न सिध्यति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-३१/११०) अस्तु तर्हि अविशेषेण ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-३२/११०) अविशेषेण बहुव्रीहौ अनेकपदप्रसङ्गः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-३३/११०) यदि अविशेषेण बहुव्रीहौ अनेकपदप्रसङ्गः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-३४/११०) तत्र कः दोषः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-३५/११०) तत्र स्वरसमासान्तपुंवद्भावेषु दोषः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-३६/११०) तत्र स्वरसमासान्तपुंवद्भावेषु दोषः भवति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-३७/११०) स्वर ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-३८/११०) पूर्वशालाप्रियः अपरशालाप्रियः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-३९/११०) स्वर ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-४०/११०) समासान्त ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-४१/११०) पञ्चगवप्रियः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-४२/११०) समासान्त ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-४३/११०) पुंवद्भाव ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-४४/११०) खादिरेतरशम्यम् रौरवेतर्शम्यम् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-४५/११०) न वा अवयवतत्पुरुषत्वात् । न वा एषः दोषः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-४६/११०) किम् कारणम् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-४७/११०) अवयवतत्पुरुषत्वात् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-४८/११०) अवयवः अत्र तत्पुरुषसञ्ज्ञः तदाश्रयौ समासान्तपुंवद्भावौ भविष्यतः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-४९/११०) स्वरः कथम् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-५०/११०) तस्य अन्तोदात्तत्वम् विप्रतिषेधात् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-५१/११०) अन्तोदात्तत्वम् क्रियताम् पूर्वपदप्रकृतिस्वरः इति अन्तोदात्तत्वम् भवति विप्रतिषेधेन ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-५२/११०) न एषः युक्तः विप्रतिषेधः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-५३/११०) विप्रतिषेधे परम् इति उच्यते ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-५४/११०) पूर्वम् च अन्तोदात्तत्वम् परम् पूर्वपदप्रकृतिस्वरत्वम् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-५५/११०) न परविप्रतिषेधम् ब्रूमः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-५६/११०) किम् तर्हि ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-५७/११०) अन्तरङ्गविप्रतिषेधम् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-५८/११०) निमित्तिस्वरबलीयस्त्वात् वा ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-५९/११०) अथ वा निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति वक्तव्यम् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-६०/११०) किम् पुनः निमित्तम् कः वा निमित्ती ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-६१/११०) बहुव्रीहिः निमित्तम् तत्पुरुषः निमित्ती ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-६२/११०) तत् तर्हि वक्तव्यम् निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-६३/११०) न वक्तव्यम् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-६४/११०) एकशितिपात्स्वरवचनम् तु ज्ञापकम् निमित्तिस्वरबलीयस्त्वस्य ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-६५/११०) यत् अयम् युक्तारोह्यादिषु एकशितिपच्छब्दम् पठति तत् ज्ञापयति आचार्यः निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-६६/११०) कः पुनः अर्हति युक्तारोह्यादिषु एकशितिपच्छब्दम् पठितुम् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-६७/११०) एवम् किल नाम पठ्यते एकः शितिः एकशितिः एकः शितिः पादः यस्य इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-६८/११०) तत् च न ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-६९/११०) एवम् विग्रहः करिष्यते ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-७०/११०) एकः शितिः एषु ते इमे एकशितयः एकशितयः पादाः यस्य इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-७१/११०) अथ अपि एवम् विग्रहः क्रियते एकः शितिः एकशितिः एकः शितिः पादः यस्य इति एवम् अपि न अर्थः पाठेन ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-७२/११०) इगन्ते द्विगौ इति एषः स्वरः अत्र बाधकः भविष्यति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-७३/११०) अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषञ्ज्ञा प्राप्नोति सुसुक्ष्मजटकेशेन सुनताजिवासना समन्तशितिरन्ध्रेण इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-७४/११०) तत्र कः दोषः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-७५/११०) तस्य अन्तोदात्तत्वम् विप्रतिषेधात् इति अन्तोदात्तत्वम् स्यात् विप्रतिषेधेन ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-७६/११०) न एषः दोषः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-७७/११०) न इदम् बहुव्रीह्यवयवस्य तत्पुरुषस्य लक्षणम् आरभ्यते ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-७८/११०) किम् तर्हि ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-७९/११०) यस्य बहुव्रीह्यवयवस्य तत्पुरुषस्य तत् लक्षणम् अस्ति तस्य अन्तोदात्तत्वम् भविष्यति विप्रतिषेधेन ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-८०/११०) ननु च अस्य अपि अस्ति किम् विशेषणम् विशेष्येण बहुलम् इति. बहुलवचनात् न भविष्यति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-८१/११०) अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषञ्ज्ञा प्राप्नोति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-८२/११०) अधिकषष्टिवर्षः इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-८३/११०) तत्र कः दोषः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-८४/११०) तस्य अन्तोदात्तत्वम् विप्रतिषेधात् इति अन्तोदात्तत्वम् स्यात् विप्रतिषेधेन ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-८५/११०) न एषः दोषः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-८६/११०) इगन्ते द्विगौ इति एषः स्वरः भविष्यति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-८७/११०) यः तर्हि न इगन्तः अधिकशतवर्षः इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-८८/११०) इह च अपि अधिकषष्टिवर्षः इति समासन्तः प्राप्नोति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-८९/११०) डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानम् निस्त्रिंशाद्यर्थम् इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-९०/११०) न एषः दोषः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-९१/११०) अव्ययादेः इति एवम् तत् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-९२/११०) किम् पुनः कारणम् अव्ययादेः इति एवम् तत् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-९३/११०) इह मा भूत् गोत्रिंशत् गोचत्वारिंशत् इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-९४/११०) बहुव्रीहिसञ्ज्ञा तर्हि प्राप्नोति. सङ्ख्यया अव्ययासन्नादूराधिकसङ्ह्याः सङ्ख्येये इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-९५/११०) न सङ्ख्याम् सङ्ख्येये वर्तयिष्यामः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-९६/११०) कथम् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-९७/११०) एवम् विग्रहः करिष्यते अधिका षष्टिः वर्षाणाम् अस्य इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-९८/११०) यथा तर्हि सः योगः प्रत्याख्यायते तथा पूर्वेण प्राप्नोति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-९९/११०) कथम् च सः योगः प्रत्याख्यायते ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१००/११०) अशिष्यः सङ्ख्योत्तरपदः सङ्ख्या इव अभिधायित्वात् इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१०१/११०) प्रत्याख्याते तस्मिन् योगे सङ्ख्याम् सङ्ख्येये वर्तयिष्यामः ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१०२/११०) तत्र एवम् विग्रहः करिष्यते अधिका षष्टिः वर्षाणि अस्य इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१०३/११०) सर्वथ वयम् अधिकषष्टिवर्षात् न मुच्यामहे ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१०४/११०) कथम् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१०५/११०) यावता सः च योगः प्रत्याख्यायते अयम् च विग्रहः अस्ति अधिका षष्टिः वर्षाणाम् अस्य इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१०६/११०) यत् तु तत् उक्तम् अधिकषष्टिवर्षः न सिध्यति इति सः सिद्धः भवति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१०७/११०) कथम् ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१०८/११०) यावता सः च योगः प्रत्याख्यायते अयम् च विग्रहः अस्ति अधिका षष्टिः वर्षाणि अस्य इति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-१०९/११०) अधिकशतवर्षः तु न सिध्यति ।

(पा-२,१.१.१०; अकि-१,३७१.२५-३७४.१८; रो-२,५४७-५५४; भा-११०/११०) कर्तव्यः अत्र यत्नः

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-१/८०) सुप् इति किमर्थम् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-२/८०) करोषि अटन् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-३/८०) न एतत् अस्ति ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-४/८०) असामर्थ्यात् अत्र न भविष्यति ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-५/८०) कथम् असामर्थ्यम् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-६/८०) समानाधिकरणम् असमर्थवत् भवति इति ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-७/८०) इदम् तर्हि ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-८/८०) पीड्ये पीड्यमान ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-९/८०) इदम् च अपि उदाहरणम् करोषि अटन् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-१०/८०) ननु च उक्तम् असामर्थ्यात् अत्र न भविष्यति ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-११/८०) कथम् असामर्थ्यम् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-१२/८०) समानाधिकरणम् असमर्थवत् भवति इति ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-१३/८०) न एषः दोषः ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-१४/८०) अधात्वभिहितम् इति एवम् तत् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-१५/८०) आमन्त्रितस्य पराङ्ग्वद्भावे षष्ठ्यामन्त्रितकारकवचनम् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-१६/८०) आमन्त्रितस्य पराङ्ग्वद्भावे षष्ठ्यन्तम् आमन्त्रितकारकम् च परस्य अङ्गवत् भवति इति वक्तव्यम् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-१७/८०) षष्थ्यन्तम् तावत् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-१८/८०) मद्राणाम् राजन् मगधानाम् राजन् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-१९/८०) आमन्त्रितकारकम् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-२०/८०) कुण्डेन अटन् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-२१/८०) न अस्ति अत्र विशेषः पराङ्गवद्भावे सति असति वा ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-२२/८०) इदम् तर्हि ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-२३/८०) परशुना वृश्चन् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-२४/८०) तन्निमित्तग्रहणम् वा ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-२५/८०) तन्निमित्तग्रहणम् वा कर्तव्यम्. आमन्त्रितनिमित्तम् परस्य अङ्गवत् भवति इति वक्तव्यम् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-२६/८०) तत् च अवश्यम् अन्यतरत् वक्तव्यम् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-२७/८०) अवचने हि सुबन्तमात्रप्रसङ्गः ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-२८/८०) अनुच्यमाने हि एतस्मिन् सुबन्त्रमात्रस्य पराङ्गवद्भावः प्राप्नोति ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-२९/८०) अस्य अपि प्रसज्येत ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-३०/८०) क्ष्त्रेण अग्ने स्वायुः संरभस्य मित्रेण अग्ने मित्रधेये यतस्व ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-३१/८०) किम् पुनः अत्र ज्यायः ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-३२/८०) तन्निमित्तग्रहणम् एव ज्यायः ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-३३/८०) इदम् अपि सिद्धम् भवति ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-३४/८०) गोषु स्वामिन् अश्वेषु स्वामिन् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-३५/८०) एतत् हि न एव षष्थ्यन्तम् न अपि आमन्त्रितकारकम् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-३६/८०) सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य उपसङ्ख्यनम् अननन्तरत्वात् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-३७/८०) सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य उपसङ्ख्यनम् कर्तव्यम् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-३८/८०) तीक्ष्णया सूच्या सीव्यन् तीक्ष्णेन परशुना वृश्चन् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-३९/८०) किम् पुनः कारणम् न सिध्यति ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-४०/८०) अननन्तरत्वात् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-४१/८०) ननु च परस्य पराङ्गवद्भावे कृते पूर्वस्य अपि भविष्यति ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-४२/८०) स्वरे अवधारणात् च ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-४३/८०) स्वरे अवधारणात् च न सिध्यति ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-४४/८०) स्वरे अवधारणम् क्रियते न आनन्तर्ये ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-४५/८०) परम् अपि छन्दसि ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-४६/८०) परम् अपि छन्दसि पूर्वस्य अङ्गवत् भवति इति वक्तव्यम् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-४७/८०) आ ते पितः मरुताम् सुम्नम् एतु ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-४८/८०) प्रति त्वा दुहितः दिवः ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-४९/८०) वृणीष्व दुहितः दिवः ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-५०/८०) अव्ययप्रतिषेधः च ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-५१/८०) अव्ययानाम् च प्रतिषेधः वक्तव्यः ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-५२/८०) उच्चैः अधीयान नीचैः अधीयान ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-५३/८०) अनव्ययीभावस्य ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-५४/८०) अनव्ययीभावस्य इति वक्तव्यम् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-५५/८०) इह मा भूत् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-५६/८०) उपाग्नि अधीयान प्रत्यग्नि अधीयान ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-५७/८०) अथ किमर्थम् स्वरे अवधारणम् क्रियते ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-५८/८०) स्वरे अवधारणम् सुबलोपार्थम् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-५९/८०) स्वरे अवधारणम् क्रियते सुब्लः मा भूत् इति ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-६०/८०) परशुना वृश्चन् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-६१/८०) न वा सुबन्तैकान्तत्वात् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-६२/८०) न वा कर्तव्यम् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-६३/८०) किम् कारणम् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-६४/८०) सुबन्तैकान्तत्वात् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-६५/८०) सुबन्तैकान्तः पराङ्गवद्भावः भवति ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-६६/८०) प्रातिपदिकैकान्तः तु सुब्लोपे ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-६७/८०) प्रातिपदिकैकान्तः तु भवति सुब्लोपे कृते ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-६८/८०) प्रत्ययलक्षणेन सुबन्तैकान्तता स्यात् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-६९/८०) तस्मात् स्वरे अवधारणम् न कर्तव्यम् सुबलोपार्थम् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-७०/८०) प्रातिपदिकस्थायाः सुपः लुक् उच्यते ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-७१/८०) तस्मात् स्वरग्रहणेन न अर्थः ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-७२/८०) इदम् तर्हि प्रयोजनम् षत्वणत्वे मा भूताम् इति ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-७३/८०) कूपे सिञ्चन् चर्म नमन् इति ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-७४/८०) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-७५/८०) इह तावत् कूपे सिञ्चन् इति स्वाश्रयम् पदादित्वम् भविष्यति ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-७६/८०) चर्म नमन् इति पूर्वपदात् सञ्ज्ञायाम् अगः इति एतस्मात् नियमात् न भविष्यति ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-७७/८०) ननु च समासे एतत् भवति पूर्वपदम् उत्तरपदम् इति ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-७८/८०) न इति आह ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-७९/८०) अविशेषेण एतत् भवति ।

(पा-२,१.२; अकि-१,३७५.२-३७६.२३; रो-२,५५५-५६१; भा-८०/८०) पूर्वम् पदम् पूर्वपदम् उत्तरम् पदम् उत्तरपदम् इति ।