व्याकरणमहाभाष्य खण्ड 23

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-१/३२) प्राग्वचनम् किमर्थम् ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-२/३२) प्राग्वचनम् सञ्ज्ञानिवृत्त्यर्थम् ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-३/३२) प्राग्वचनम् क्रियते समाससञ्ज्ञायाः अनिवृत्तिः यथा स्यात् ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-४/३२) अक्रियमाणे हि प्राग्वचने अनवकाशाः अव्ययीभावादयः सञ्ज्ञाः समाससञ्ज्ञाम् बाधेरन् ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-५/३२) ताः मा बाधिषत इति प्राग्वचनम् क्रियते ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-६/३२) अथ क्रियमाणे अपि प्राग्वचने यावता अनवकाशाः अव्ययीभावादयः सञ्ज्ञाः कस्मात् एव न बाधन्ते ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-७/३२) क्रियमाणे हि प्राग्वचने सत्याम् समाससञ्ज्ञायाम् एताः अवयवसञ्ज्ञाः आरभ्यन्ते ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-८/३२) तत्र वचनसमावेशः भविष्यति ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-९/३२) समाससञ्ज्ञा अपि अनवकाशा ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-१०/३२) सा वचनात् भविष्यति ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-११/३२) सावकाशा समाससञ्ज्ञा ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-१२/३२) कः अवकाशः ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-१३/३२) विस्पष्टादीनि अवकाशः ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-१४/३२) विस्पष्टम् पटुः विस्पष्टपटुः इति ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-१५/३२) न एषः अस्ति अवकाशः ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-१६/३२) एषा हि आचार्यस्य शैली लक्ष्यते येन एव अवयवकार्यम् भवति तेन एव समुदायकार्यम् अपि भवति ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-१७/३२) येन एव अवयवकार्यम् स्वरः तेन एव समुदाकार्यम् अपि समासः भविष्यति ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-१८/३२) विस्पष्टादीनि गुणवचनेषु इति ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-१९/३२) इदम् तर्हि काकतालीयम् अजाकृपाणीयम् ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-२०/३२) अत्र अपि येन एव अवयवकार्यम् प्रत्ययोत्पत्तिः क्रियते तेन एव समुदाकार्यम् समाससञ्ज्ञा भविष्यति ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-२१/३२) समासात् च तद्विषयात् ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-२२/३२) इदम् तर्हि पुनाराजः पुनर्गवः ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-२३/३२) अत्र अपि अवश्यम् तत्पुरुषसञ्ज्ञा वक्तव्य तत्पुरुषाश्रयः समासान्तः यथा स्यात् ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-२४/३२) इदम् तर्हि ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-२५/३२) पुनराधेयम् ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-२६/३२) अत्र अपि अवश्यम् गतिसञ्ज्ञा वक्तव्या गतिकारकोपपदात् कृत् इति एषः स्वरः यथा स्यात् ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-२७/३२) इदम् तर्हि पुनरुत्स्यूतम् वासः देयम् ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-२८/३२) अत्र अपि अवश्यम् गतिसञ्ज्ञा वक्तव्या गतिः गतौ इति निघातः यथा स्यात् ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-२९/३२) यदि तत् न अस्ति पुनश्चनसौ छन्दसि इति. सति तस्मिन् तेन एव सिद्धम् ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-३०/३२) एवम् अपि एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-३१/३२) पर्यायः प्रसज्येत ।

(पा-२,१.३; अकि-१,३७७.२-२१; रो-२,५६१-५६५; भा-३२/३२) तस्मात् प्राग्वचनम् कर्तव्यम् ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-१/२७) सहवचनम् किमर्थम् ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-२/२७) सहवचनम् पृथक् असमासार्थम् ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-३/२७) सहग्रहणम् क्रियते सहभूतयोः समासञ्ज्ञा यथा स्यात् एकैकस्य मा भूत् इति ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-४/२७) किम् च स्यात् ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-५/२७) यदि एकैकस्य समासञ्ज्ञा स्यात् इह ऋक्पादः इति समासान्तः प्रसज्येत ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-६/२७) इह च राजाश्वः इति द्वौ स्वरौ स्याताम् ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-७/२७) कथम् च कृत्वा एकैकस्य सञ्ज्ञा प्राप्नोति ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-८/२७) प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-९/२७) तत् यथा वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-१०/२७) ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-११/२७) तत् यथा गर्गाः शतम् दण्ड्यन्ताम् इति ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-१२/२७) अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-१३/२७) सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-१४/२७) अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् गुणवृद्धिसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-१५/२७) एवम् तर्हि सिद्धे सति यत् सहग्रहणम् करोति तस्य एतत् प्रयोजनम् योगाङ्गम् यथा विज्ञायेत ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-१६/२७) सति च योगाङ्गे योगविभागः करिष्यते ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-१७/२७) सह सुप् समस्यते ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-१८/२७) केन सह ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-१९/२७) समर्थेन. अनुव्याचलत् अनुप्राविशत् ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-२०/२७) ततः सुपा ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-२१/२७) सुपा च सह सुप् समस्यते ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-२२/२७) अधिकारः च लक्षणम् च ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-२३/२७) यस्य समासस्य अन्यत् लक्षणम् न अस्ति इदम् तस्य लक्षणम् भविष्यति ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-२४/२७) पुनरुत्स्यूतम् वासः देयम् पुनर्निष्कृतः रथः इति ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-२५/२७) इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वम् च ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-२६/२७) इवेन सह समासः विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वम् च वक्तव्यम् ।

(पा-२,१.४; अकि-१,३७७.२३-३७८.१५; रो-२,५६५-५६९; भा-२७/२७) वाससीइव कन्ये इव ।

(पा-२,१.५; अकि-१,३७८.१७-१९; रो-२,५६९; भा-१/४) किमर्थम् महती सञ्ज्ञा क्रियते ।

(पा-२,१.५; अकि-१,३७८.१७-१९; रो-२,५६९; भा-२/४) अन्वर्थसञ्ज्ञा यथा विज्ञयेत ।

(पा-२,१.५; अकि-१,३७८.१७-१९; रो-२,५६९; भा-३/४) अनव्ययम् अव्ययम् भवति इति अव्ययीभावः ।

(पा-२,१.५; अकि-१,३७८.१७-१९; रो-२,५६९; भा-४/४) अव्ययीभावः च समासः अव्ययसञ्ज्ञः भवति इति एतत् न वक्तव्यम् भवति ।

(पा-२,१.६; अकि-१,३७८.२३-३७९.५; रो-२,५६९-५७०; भा-१/११) इह कस्मात् न भवति ।

(पा-२,१.६; अकि-१,३७८.२३-३७९.५; रो-२,५६९-५७०; भा-२/११) सुमद्राः सुमगधाः सपुत्रः सच्छात्रः इति ।

(पा-२,१.६; अकि-१,३७८.२३-३७९.५; रो-२,५६९-५७०; भा-३/११) समृद्धौ साकल्ये इति च प्राप्नोति ।

(पा-२,१.६; अकि-१,३७८.२३-३७९.५; रो-२,५६९-५७०; भा-४/११) न एषः दोषः ।

(पा-२,१.६; अकि-१,३७८.२३-३७९.५; रो-२,५६९-५७०; भा-५/११) इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः ।

(पा-२,१.६; अकि-१,३७८.२३-३७९.५; रो-२,५६९-५७०; भा-६/११) पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः उभयपदार्थप्रधानः द्वन्द्वः ।

(पा-२,१.६; अकि-१,३७८.२३-३७९.५; रो-२,५६९-५७०; भा-७/११) न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते ।

(पा-२,१.६; अकि-१,३७८.२३-३७९.५; रो-२,५६९-५७०; भा-८/११) अथ वा न इमे समासार्थाः निर्दिश्यन्ते ।

(पा-२,१.६; अकि-१,३७८.२३-३७९.५; रो-२,५६९-५७०; भा-९/११) किम् तर्हि ।

(पा-२,१.६; अकि-१,३७८.२३-३७९.५; रो-२,५६९-५७०; भा-१०/११) अव्ययार्थाः निर्दिश्यन्ते इमे ।

(पा-२,१.६; अकि-१,३७८.२३-३७९.५; रो-२,५६९-५७०; भा-११/११) एतेषु अर्थेषु यत् अव्ययम् वर्तते तत् सुबन्तेन समस्यते इति ।

(पा-२,१.७; अकि-१,३७९.७-१२; रो-२,५७०-५७२; भा-१/१३) असादृश्ये इति किमर्थम् ।

(पा-२,१.७; अकि-१,३७९.७-१२; रो-२,५७०-५७२; भा-२/१३) यथा देवदत्तः तथा यज्ञदत्तः इति ।

(पा-२,१.७; अकि-१,३७९.७-१२; रो-२,५७०-५७२; भा-३/१३) असादृश्ये इति उच्यते ।

(पा-२,१.७; अकि-१,३७९.७-१२; रो-२,५७०-५७२; भा-४/१३) तत्र इदम् न सिध्यति ॒ यथाशक्ति यथाबलम् इति ।

(पा-२,१.७; अकि-१,३७९.७-१२; रो-२,५७०-५७२; भा-५/१३) किम् कारणम् ।

(पा-२,१.७; अकि-१,३७९.७-१२; रो-२,५७०-५७२; भा-६/१३) यथा इति अयम् प्रकारवचने थाल् सः च सादृश्ये वर्तते ।

(पा-२,१.७; अकि-१,३७९.७-१२; रो-२,५७०-५७२; भा-७/१३) न एषः दोषः ।

(पा-२,१.७; अकि-१,३७९.७-१२; रो-२,५७०-५७२; भा-८/१३) अयम् यथाशब्दः अस्ति एव अव्युत्पन्नम् प्रातिपदिकम् वीप्सावाची ।

(पा-२,१.७; अकि-१,३७९.७-१२; रो-२,५७०-५७२; भा-९/१३) अस्ति प्रकारवचने थाल् ।

(पा-२,१.७; अकि-१,३७९.७-१२; रो-२,५७०-५७२; भा-१०/१३) तत् यत् अव्युत्पन्नम् प्रातिपदिकम् वीप्सावाचि तस्य इदम् ग्रहणम् ।

(पा-२,१.७; अकि-१,३७९.७-१२; रो-२,५७०-५७२; भा-११/१३) अथ यः प्रकारवचने थाल् तस्य ग्रहणम् कस्मात् न भवति ।

(पा-२,१.७; अकि-१,३७९.७-१२; रो-२,५७०-५७२; भा-१२/१३) पूर्वेण प्राप्नोति सादृश्यसम्पत्ति इति ।

(पा-२,१.७; अकि-१,३७९.७-१२; रो-२,५७०-५७२; भा-१३/१३) प्रतिषेधवचनसामर्थ्यात् न भविष्यति ।

(पा-२,१.९; अकि-१,३७९.१४-१५; रो-२,५७२; भा-१/३) सुप् इति वर्तमाने पुनः सुब्ग्रहणम् किमर्थम् ।

(पा-२,१.९; अकि-१,३७९.१४-१५; रो-२,५७२; भा-२/३) अव्ययम् इति एवम् तत् अभूत् सुब्मात्रे यथा स्यात् ।

(पा-२,१.९; अकि-१,३७९.१४-१५; रो-२,५७२; भा-३/३) माषप्रति सूपप्रति ओदनप्रति ।

(पा-२,१.१०; अकि-१,३७९.१७-३८०.५; रो-२,५७३-५७४; भा-१/१२) अक्षादयः तृतीयान्ताः पूर्वोक्तस्य यथा न तत् । अक्षादयः तृतीयान्ताः परिणा सह समस्यन्ते इति वक्तव्यम् ।

(पा-२,१.१०; अकि-१,३७९.१७-३८०.५; रो-२,५७३-५७४; भा-२/१२) पूर्वोक्तस्य यथा न तत् ।

(पा-२,१.१०; अकि-१,३७९.१७-३८०.५; रो-२,५७३-५७४; भा-३/१२) अयथाजातीयके द्योत्ये ।

(पा-२,१.१०; अकि-१,३७९.१७-३८०.५; रो-२,५७३-५७४; भा-४/१२) अक्षेण न तथा वृत्तम् यथा पूर्वम् इति अक्षपरि शलाकापरि ।

(पा-२,१.१०; अकि-१,३७९.१७-३८०.५; रो-२,५७३-५७४; भा-५/१२) एकत्वे अक्षशलाकयोः ।

(पा-२,१.१०; अकि-१,३७९.१७-३८०.५; रो-२,५७३-५७४; भा-६/१२) अक्षशलाकयोः च एकवचनान्तयोः इति वक्तव्यम् ।

(पा-२,१.१०; अकि-१,३७९.१७-३८०.५; रो-२,५७३-५७४; भा-७/१२) इह मा भूत् ।

(पा-२,१.१०; अकि-१,३७९.१७-३८०.५; रो-२,५७३-५७४; भा-८/१२) अक्षाभ्याम् वृत्तम् अक्षैः वृत्तम् ।

(पा-२,१.१०; अकि-१,३७९.१७-३८०.५; रो-२,५७३-५७४; भा-९/१२) कितवव्यवहारे च ।

(पा-२,१.१०; अकि-१,३७९.१७-३८०.५; रो-२,५७३-५७४; भा-१०/१२) कितवव्यवहारे इति वक्तव्यम् ।

(पा-२,१.१०; अकि-१,३७९.१७-३८०.५; रो-२,५७३-५७४; भा-११/१२) इह मा भूत् ।

(पा-२,१.१०; अकि-१,३७९.१७-३८०.५; रो-२,५७३-५७४; भा-१२/१२) अक्षेण इदम् न वृत्तम् शकटेन यथा पूर्वम् ।

(पा-२,१.११-१२; अकि-१,३८०.७-१२; रो-२,५७४-५७५; भा-१/१२) योगविभागः कर्तव्यः ।

(पा-२,१.११-१२; अकि-१,३८०.७-१२; रो-२,५७४-५७५; भा-२/१२) विभाषा इति अयम् अधिकारः. ततः अपपरिबहिरञ्चवः पञ्चम्या इति ।

(पा-२,१.११-१२; अकि-१,३८०.७-१२; रो-२,५७४-५७५; भा-३/१२) पञ्चमीग्रहणम् शक्यम् अकर्तुम् ।

(पा-२,१.११-१२; अकि-१,३८०.७-१२; रो-२,५७४-५७५; भा-४/१२) कथम् ।

(पा-२,१.११-१२; अकि-१,३८०.७-१२; रो-२,५७४-५७५; भा-५/१२) सुबन्तेन इति वर्तते एतैः च कर्मप्रवचनीयैः योगे पञ्चमी विधीयते ।

(पा-२,१.११-१२; अकि-१,३८०.७-१२; रो-२,५७४-५७५; भा-६/१२) तत्र अन्तरेण अपि पञ्चमीग्रहणम् पञ्चम्यन्तेन एव समासः भविष्यति ।

(पा-२,१.११-१२; अकि-१,३८०.७-१२; रो-२,५७४-५७५; भा-७/१२) इदम् तर्हि प्रयोजनम् ।

(पा-२,१.११-१२; अकि-१,३८०.७-१२; रो-२,५७४-५७५; भा-८/१२) बहिःशब्देन योगे पञ्चमी न विधीयते ।

(पा-२,१.११-१२; अकि-१,३८०.७-१२; रो-२,५७४-५७५; भा-९/१२) तत्र अपि यथा स्यात् इति ।

(पा-२,१.११-१२; अकि-१,३८०.७-१२; रो-२,५७४-५७५; भा-१०/१२) बहिर्ग्रामात् ।

(पा-२,१.११-१२; अकि-१,३८०.७-१२; रो-२,५७४-५७५; भा-११/१२) अथ क्रियमाणे अपि पञ्चमीग्रहणे यावता बहिःशब्देन योगे पञ्चमी न विधीयते कथम् एव एतत् सिध्यति ।

(पा-२,१.११-१२; अकि-१,३८०.७-१२; रो-२,५७४-५७५; भा-१२/१२) पञ्चमीग्रहणसामर्थ्यात् ।

(पा-२,१.१३; अकि-१,३८०.१४-१६; रो-२,५७५; भा-१/४) मर्यादाभिविधिग्रहणम् शक्यम् अकर्तुम् ।

(पा-२,१.१३; अकि-१,३८०.१४-१६; रो-२,५७५; भा-२/४) कथम् ।

(पा-२,१.१३; अकि-१,३८०.१४-१६; रो-२,५७५; भा-३/४) पञ्चम्यन्तेन इति वर्तते आङा च कर्मप्रवचनीययुक्ते पञ्चमी विधीयते ।

(पा-२,१.१३; अकि-१,३८०.१४-१६; रो-२,५७५; भा-४/४) एतयोः च एव अर्थयोः आङ् कर्मप्रवचनीयसञ्ज्ञः भवति न अन्यत्र ।

(पा-२,१.१६; अकि-१,३८०.१८-२३; रो-२,५७५-५७६; भा-१/८) किम् उदाहरणम् ।

(पा-२,१.१६; अकि-१,३८०.१८-२३; रो-२,५७५-५७६; भा-२/८) अनुगङ्गम् हास्तिनपुरम् अनुगङ्गम् वाराणसी अनुशोणम् पाटलिपुत्रम् ।

(पा-२,१.१६; अकि-१,३८०.१८-२३; रो-२,५७५-५७६; भा-३/८) यस्य च आयामः इति उच्यते गङ्गा च अपि आयता वाराणसी अपि आयता ।

(पा-२,१.१६; अकि-१,३८०.१८-२३; रो-२,५७५-५७६; भा-४/८) तत्र कुतः एतत् गङ्गया सह समासः भविष्यति न पुनः वाराणस्या इति ।

(पा-२,१.१६; अकि-१,३८०.१८-२३; रो-२,५७५-५७६; भा-५/८) एवर्म् तर्हि लक्षणेन इति वर्तते गङ्गा च एव हि लक्षणम् न वाराणसी ।

(पा-२,१.१६; अकि-१,३८०.१८-२३; रो-२,५७५-५७६; भा-६/८) अथ वा यस्य च आयामः इति उच्यते गङ्गा च अपि आयता वाराणसी अपि आयता ।

(पा-२,१.१६; अकि-१,३८०.१८-२३; रो-२,५७५-५७६; भा-७/८) तत्र प्रकर्षगतिः विज्ञास्यते ॒ साधीयः यस्य आयामः इति ।

(पा-२,१.१६; अकि-१,३८०.१८-२३; रो-२,५७५-५७६; भा-८/८) साधीयः च गङ्गायाः न वाराणस्याः ।

(पा-२,१.१७; अकि-१,३८१.२-७; रो-२,५७६-५७७; भा-१/१२) किमर्थः चकारः ।

(पा-२,१.१७; अकि-१,३८१.२-७; रो-२,५७६-५७७; भा-२/१२) एवकारार्थः ।

(पा-२,१.१७; अकि-१,३८१.२-७; रो-२,५७६-५७७; भा-३/१२) तिष्ठद्गुप्रभृतीनि एव ।

(पा-२,१.१७; अकि-१,३८१.२-७; रो-२,५७६-५७७; भा-४/१२) क्व मा भूत् ।

(पा-२,१.१७; अकि-१,३८१.२-७; रो-२,५७६-५७७; भा-५/१२) परमम् तिष्ठद्गु ।

(पा-२,१.१७; अकि-१,३८१.२-७; रो-२,५७६-५७७; भा-६/१२) तिष्ठद्गु कालविशेषे ।

(पा-२,१.१७; अकि-१,३८१.२-७; रो-२,५७६-५७७; भा-७/१२) तिष्ठद्गु कालविशेषे इति वक्तव्यम् ।

(पा-२,१.१७; अकि-१,३८१.२-७; रो-२,५७६-५७७; भा-८/१२) तिष्ठन्ति गावः अस्मिन् काले तिष्ठद्गु ।

(पा-२,१.१७; अकि-१,३८१.२-७; रो-२,५७६-५७७; भा-९/१२) वहद्गु ।

(पा-२,१.१७; अकि-१,३८१.२-७; रो-२,५७६-५७७; भा-१०/१२) खलेयवादीनि प्रथमान्तानि अन्यपदार्थे ।

(पा-२,१.१७; अकि-१,३८१.२-७; रो-२,५७६-५७७; भा-११/१२) खलेयवादीनि प्रथमान्तानि अन्यपदार्थे समस्यन्ते ।

(पा-२,१.१७; अकि-१,३८१.२-७; रो-२,५७६-५७७; भा-१२/१२) खलेयवम् खलेबुसम् लूनयवम् लूयमानयवम् पूतयवम् पूयमानयवम् ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-१/२८) वावचनम् किमर्थम् ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-२/२८) विभाषा समासः यथ स्यात् ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-३/२८) समासेन मुक्ते वाक्यम् अपि यथा स्यात् ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-४/२८) पारम् गङ्गायाः इति ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-५/२८) न एतत् अस्ति प्रयोजनम् ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-६/२८) प्रकृता महाविभाषा ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-७/२८) तया वाक्यम् अपि भविष्यति ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-८/२८) इदम् तर्हि प्रयोजनम् अव्ययीभावेन मुक्ते षष्ठीसमासः यथा स्यात् ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-९/२८) गङ्गापारम् इति ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-१०/२८) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-११/२८) अयम् अपि विभाषा षष्ठीसमासः अपि ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-१२/२८) तौ उभौ वचनात् भविष्यतः ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-१३/२८) अतः उत्तरम् पठति ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-१४/२८) पारे मध्ये षष्ठ्या वावचनम् ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-१५/२८) पारे मध्ये षष्ठ्या वा इति वक्तव्यम् ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-१६/२८) अवचने हि षष्ठीसमासाभावः यथा एकदेशिप्रधाने ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-१७/२८) अक्रियमाणे हि वावचने षष्ठीसमासस्य अभावः स्यात् यथा एकदेशिप्रधाने ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-१८/२८) तत् यथ एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-१९/२८) किम् पुनः कारणम् एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-२०/२८) समासतद्धितानाम् वृत्तिः विभाषा ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-२१/२८) वृत्तिविषये नित्यः अपवादः ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-२२/२८) इह पुनः वावचने क्रियमाणे एकया वृत्तिः विभाषा अपरया वृत्तिविषये विभाषापवादः ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-२३/२८) एकारान्तनिपातनम् च ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-२४/२८) एकारान्तनिपातनम् च कर्तव्यम् ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-२५/२८) पारेगङ्गम् इति ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-२६/२८) न कर्तव्यम् ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-२७/२८) सप्तम्याः अलुका सिद्धम् ।

(पा-२,१.१८; अकि-१,३८१.९-३८२.३; रो-२,५७७-५७९; भा-२८/२८) भवेत् सिद्धम् यदा सप्तमी यदा तु अन्याः विभक्तयः तदा न सिध्यति ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-१/२७) नदीभिः सङ्ख्यासमासे अन्यपदार्थे प्रतिषेधः ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-२/२७) नदीभिः सङ्ख्यासमासे अन्यपदार्थे प्रतिषेधः वक्तव्यः ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-३/२७) द्वीरावतीकः देशः त्रीरावतीकः देशः ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-४/२७) नदीभिः सङ्ख्या इति प्राप्नोति ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-५/२७) न वक्तव्यः ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-६/२७) इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-७/२७) पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः , उभयपदार्थप्रधानः द्वन्द्वः. न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-८/२७) ननु च यत् येन उच्यते सः तस्य अर्थः भवति ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-९/२७) अत्र च वयम् एताभ्याम् पदाभ्याम् एतम् अर्थम् उच्यमानम् पश्यामः ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-१०/२७) एतत् एव च जानीमः यत् येन उच्यते सः तस्य अर्थः इति ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-११/२७) अपि च अन्यपदार्थता न प्रकल्पेत ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-१२/२७) चित्रगुः शबलगुः इति ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-१३/२७) किम् कारणम् ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-१४/२७) अत्र अपि हि वयम् एताभ्याम् शब्दाभ्याम् एतम् अर्थम् उच्यमानम् पश्यामः ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-१५/२७) यदि अपि अत्र एताभ्याम् शब्दाभ्याम् एषः अर्थः उच्यते अन्यपदार्थः अपि तु गम्यते ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-१६/२७) तत्र अन्यपदार्थाश्रयः बहुव्रीहिः भविष्यति ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-१७/२७) इह अपि तर्हि अन्यपदार्थः गम्यते स्वपदार्थः अपि तु गम्यते ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-१८/२७) तत्र स्वपदार्थाश्रयः अव्ययीभावः प्राप्नोति ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-१९/२७) एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-२०/२७) अव्ययीभावः क्रियताम् बहुव्रीहिः इति ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-२१/२७) बहुव्रीहिः भविष्यति विप्रतिषेधेन ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-२२/२७) भवेत् एकसञ्ज्ञाधिकारे सिद्धम् परङ्कार्यत्वे तु न सिध्यति ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-२३/२७) आरम्भसामर्थ्यात् अव्ययीभावः प्राप्नोति परङ्कार्यत्वात् च बहुव्रीहिः ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-२४/२७) परङ्कार्यत्वे च न दोषः ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-२५/२७) नदीभिः सङ्ख्यायाः समाहारे अव्ययीभावः वक्तव्यः ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-२६/२७) सः च अवश्यम् वक्तव्यः ।

(पा-२,१.२०; अकि-१,३८२.५-२१; रो-२,५७९-५८२; भा-२७/२७) सर्वम् एकनदीतरे ।

(पा-२,१.२३; अकि-१,३८२.२३-२४; रो-२,५८२; भा-१/३) द्विगोः तत्पुरुषत्वे कानि प्रयोजनानि ।

(पा-२,१.२३; अकि-१,३८२.२३-२४; रो-२,५८२; भा-२/३) द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम् ।

(पा-२,१.२३; अकि-१,३८२.२३-२४; रो-२,५८२; भा-३/३) पञ्चगवम् दशगवम् पञ्चराजम् दशराजम् ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-१/५०) श्रितादिषु गमिगाम्यादीनाम् उपसङ्ख्यानम् ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-२/५०) श्रितादिषु गमिगाम्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-३/५०) ग्रामम् गमी ग्रमगमी ग्रमम् गामी ग्रामगामी ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-४/५०) श्रितादिभिः अहीने द्वितीयासमासवचनानर्थक्यम् बहुव्रीहिकृतत्वात् ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-५/५०) श्रितादिभिः अहीनवाचिन्याः द्वितीयायाः समासवचनम् अनर्थकम् ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-६/५०) किम् कारणम् ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-७/५०) बहुव्रीहिकृतत्वात् ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-८/५०) इह हि यः कष्टम् श्रितः कष्टम् अनेन श्रितम् भवति ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-९/५०) तत्र बहुव्रीहिणा सिद्धम् ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-१०/५०) अहीने द्वीतीयास्वरवचनानर्थक्यम् च ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-११/५०) अहीने द्वितीया पूर्वपदम् प्रकृतिस्वरम् भवति इति एतत् स्वरवचनम् अनर्थकम् ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-१२/५०) किम् कारणम् ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-१३/५०) बहुव्रीहिकृतत्वात् एव ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-१४/५०) जातिस्वरप्रसङ्गः तु ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-१५/५०) जातिस्वरः तु प्राप्नोति ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-१६/५०) ग्रामततः अरण्यगतः ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-१७/५०) जातिकालसुखादिभ्यः अनाच्छादनात् क्तः अकृतमितप्रतिपन्नाः इति ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-१८/५०) तत्र जातादिषु वावचनात् सिद्धम् ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-१९/५०) यत् एतत् वा जाते इति एतत् वा जातादिषु इति वक्ष्यामि ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-२०/५०) इमे जातादयः भविष्यन्ति ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-२१/५०) ननु च भेदः भवति ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-२२/५०) बहुव्रीहौ सति समासान्तोदात्तत्वेन अपि भवितव्यम् पूर्वपदप्रकृतिस्वरत्वेन अपि तत्पुरुषत्वे सति पूर्वपदप्रकृतिस्वरत्वेन एव ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-२३/५०) न अस्ति भेदः ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-२४/५०) यः अपि तत्पुरुषम् आरभते न तस्य दण्डवारितः बहुव्रीहिः ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-२५/५०) तत्र तत्पुरुषे सति द्वौ समासौ द्वौ स्वरौ ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-२६/५०) बहुव्रीहौ सति एकः समासः द्विस्वरत्वम् ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-२७/५०) एवम् तर्हि सिद्धे सति यत् तत्पुरुषम् शास्ति तत् ज्ञापयति आचार्यः समाने अर्थे केवलम् विग्रहभेदात् यत्र तत्पुरुषः प्राप्नोति बहुव्रीहिः च तत्र तत्पुरुषः भवति इति ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-२८/५०) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-२९/५०) राज्ञः सखा राजसखः ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-३०/५०) राजा सखा अस्य इति बहुव्रीहिः न भवति ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-३१/५०) न एतत् ज्ञापकसाध्यम् अपवादैः उत्सर्गाः बाध्यन्ते इति ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-३२/५०) बाधकेन अनेन भवितव्यम् सामान्यविहितस्य विशेषविहितेन ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-३३/५०) अथ न सामान्यविहितः ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-३४/५०) यत् उच्यते बहुव्रीहिकृतत्वात् इति एतत् अयुक्तम् ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-३५/५०) अस्ति खलु अपि विशेषः बहुव्रीहेः तत्पुरुषस्य च ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-३६/५०) किम् शब्दकृतः अथ अर्थकृतः ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-३७/५०) शब्दकृतः व अर्थकृतः च ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-३८/५०) शब्दकृतः तावत् ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-३९/५०) बहुव्रीहौ सति कपा भवितव्यम् ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-४०/५०) तत्पुरुषे सति न भवितव्यम् ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-४१/५०) अर्थकृतः ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-४२/५०) तत्पुरुषे सति रुहादीनाम् क्तः कर्तरि भवति धात्वर्थस्य अनपवर्गे ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-४३/५०) आरूढः वृक्षम् देवदत्तः इति ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-४४/५०) बहुव्रीहौ व्यपवृक्ते कर्मणि भवति ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-४५/५०) आरूढः वृक्षः देवदत्तेन इति ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-४६/५०) अन्यथाजातीयकः खलु अपि प्रत्यक्षेण अर्थसम्प्रत्ययः अन्यथाजातीयकः सम्बन्धात् ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-४७/५०) राज्ञः सखा राजसखा ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-४८/५०) सम्बन्धात् एतत् गन्तव्यम् नूनम् राज अपि अस्य सखा इति ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-४९/५०) उभयम् खलु अपि इष्यते ॒ स्वस्ति सोमसखा पुनः एहि ।

(पा-२,१.२४; अकि-१,३८३.२-३८४,८; रो-२,५८२-५८७; भा-५०/५०) गवाङ्सखः इति ।

(पा-२,१.२६; अकि-१,३८४.१०-१२; रो-२,५८७; भा-१/७) किम् उदाहरणम् ।

(पा-२,१.२६; अकि-१,३८४.१०-१२; रो-२,५८७; भा-२/७) खट्वारूढः जाल्मः ।

(पा-२,१.२६; अकि-१,३८४.१०-१२; रो-२,५८७; भा-३/७) क्षेपे इति उच्यते ।

(पा-२,१.२६; अकि-१,३८४.१०-१२; रो-२,५८७; भा-४/७) कः क्षेपः नाम ।

(पा-२,१.२६; अकि-१,३८४.१०-१२; रो-२,५८७; भा-५/७) अधीत्य स्नात्वा गुरुभिः अनुज्ञातेन खट्वा आरोढव्या ।

(पा-२,१.२६; अकि-१,३८४.१०-१२; रो-२,५८७; भा-६/७) यः इदानीम् अतः अन्यथ करोति सः खट्वारूढः अयम् जाल्मः ।

(पा-२,१.२६; अकि-१,३८४.१०-१२; रो-२,५८७; भा-७/७) न अतिव्रतवान् इति ।

(पा-२,१.२९; अकि-१,३८४.१४-२०; रो-२,५८८; भा-१/१२) अत्यन्तसंयोगे समासस्य अविशेषवचनात् क्तेन समासवचनानर्थक्यम् ।

(पा-२,१.२९; अकि-१,३८४.१४-२०; रो-२,५८८; भा-२/१२) अत्यन्तसंयोगे समासस्य अविशेषवचनात् क्तान्तेन च अक्तान्तेन च कालाः क्तान्तेन इति समासवचनम् अनर्थकम् ।

(पा-२,१.२९; अकि-१,३८४.१४-२०; रो-२,५८८; भा-३/१२) अत्यन्तसंयोगे इति एव सिद्धम् ।

(पा-२,१.२९; अकि-१,३८४.१४-२०; रो-२,५८८; भा-४/१२) अनत्यन्तसंयोगार्थम् तु ।

(पा-२,१.२९; अकि-१,३८४.१४-२०; रो-२,५८८; भा-५/१२) अनत्यन्तसंयोगार्थम् तर्हि इदम् वक्तव्यम् ।

(पा-२,१.२९; अकि-१,३८४.१४-२०; रो-२,५८८; भा-६/१२) षट् मुहूर्ताः चराचराः ।

(पा-२,१.२९; अकि-१,३८४.१४-२०; रो-२,५८८; भा-७/१२) ते कदा चित् अहः गच्छन्ति कदा चित् रात्रिम् ।

(पा-२,१.२९; अकि-१,३८४.१४-२०; रो-२,५८८; भा-८/१२) तत् उच्यते अहर्गताः रात्रिगताः इति ।

(पा-२,१.२९; अकि-१,३८४.१४-२०; रो-२,५८८; भा-९/१२) न एतत् अस्ति ।

(पा-२,१.२९; अकि-१,३८४.१४-२०; रो-२,५८८; भा-१०/१२) गतग्रहणात् अपि एतत् सिद्धम् ।

(पा-२,१.२९; अकि-१,३८४.१४-२०; रो-२,५८८; भा-११/१२) इदम् तर्हि ।

(पा-२,१.२९; अकि-१,३८४.१४-२०; रो-२,५८८; भा-१२/१२) अहरतिसृताः रात्र्यतिसृताः मासप्रमितः चन्द्रमाः ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-१/५२) तत्कृतार्थेन इति किमर्थम् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-२/५२) दध्ना पटुः घृतेन पटुः ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-३/५२) न एतत् अस्ति ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-४/५२) असामर्थ्यात् अत्र न भविष्यति ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-५/५२) कथम् असामर्थ्यम् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-६/५२) सापेक्षम् असमर्थम् भवति इति ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-७/५२) न हि दध्नः पटुना सामर्थ्यम् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-८/५२) केन तर्हि ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-९/५२) भुजिना ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-१०/५२) दध्ना भुङ्क्ते पटुः इति ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-११/५२) इह अपि तर्हि न प्राप्नोति ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-१२/५२) शङ्कुलाखण्डः किरिकाणः इति ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-१३/५२) अत्र अपि न शङ्कुलायाः खण्डेन सामर्थ्यम् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-१४/५२) केन तर्हि ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-१५/५२) करोतिना ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-१६/५२) शङ्कुलया कृतः खण्डः इति ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-१७/५२) वचनात् भविष्यति ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-१८/५२) इह अपि वचनात् भविष्यति दध्ना पटुः घृतेन पटुः इति ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-१९/५२) तस्मात् तत्कृतार्थग्रहणम् कर्तव्यम् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-२०/५२) गुणवचनेन इति किमर्थम् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-२१/५२) गोभिः वपावान् धान्येन धनवान् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-२२/५२) किम् पुनः इह उदाहरणम् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-२३/५२) शङ्कुलाखण्डः देवदत्तः इति ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-२४/५२) कथम् पुनः गुणवचनेन समासः उच्यमानः द्रव्यवचनेन स्यात् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-२५/५२) इह तृतीया तत्कृतार्थेन गुणेन इति इयता सिद्धम् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-२६/५२) सः अयम् एवम् सिद्धे सति यत् वचनग्रहणम् करोति तस्य एतत् प्रयोजनम् एवम् यथा विज्ञायेत गुणम् उक्तवता गुणवचनेन इति ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-२७/५२) कथम् पुनः अयम् गुणवचनः सन् द्रव्यवचनः सम्पद्यते ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-२८/५२) आरभ्यते तत्र मतुब्लोपः गुणवचनेभ्यः मतुपः लुक् इति ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-२९/५२) तत् यथा शुक्लगुणः शुक्लः कृष्णगुणः कृष्णः एवम् खण्डगुणः खण्डः ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-३०/५२) यदि एवम् न अर्थः कृतार्थग्रहणेन ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-३१/५२) भवति हि शङ्कुलायाः खण्डेन सामर्थ्यम् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-३२/५२) असामर्थ्यात् च अत्र न भविष्यति दध्ना पटुः घृतेन पटुः इति ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-३३/५२) तस्मत् न अर्थः तत्कृतार्थग्रहणेन ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-३४/५२) तृतीयासमासे अर्थग्रहणम् अनर्थकम् अर्थगतिः हि अवचनात् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-३५/५२) तृतीयासमासे अर्थग्रहणम् अनर्थकम् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-३६/५२) किम् कारणम् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-३७/५२) अर्थगतिः हि अवचनात् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-३८/५२) अन्तरेण अपि वचनम् अर्थगतिः भविष्यति ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-३९/५२) निर्देश्यम् इति चेत् तृतीयार्थनिर्देशः अपि ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-४०/५२) अथ एवम् अपि निर्देशः कर्तव्यः इति चेत् तृतीयार्थनिर्देशः अपि कर्तव्यः स्यात् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-४१/५२) तृतीया तदर्थकृतार्थेन इति वक्तव्यम् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-४२/५२) तत् तर्हि वक्तव्यम् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-४३/५२) न वक्तव्यम् ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-४४/५२) न अयम् अर्थनिर्देशः ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-४५/५२) किम् तर्हि ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-४६/५२) योगाङ्गम् इदम् निर्दिश्यते ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-४७/५२) सति च योगाङ्गे योगविभागः करिष्यते ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-४८/५२) तृतीया तत्कृतेन गुणवचनेन समस्यते ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-४९/५२) ततः अर्थेन ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-५०/५२) अर्थशब्देन च तृतीया समस्यते ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-५१/५२) धान्याऋथः वसनार्थः ।

(पा-२,१.३०; अकि-१,३८४.२२-३८५.२२; रो-२,५८९-५९२; भा-५२/५२) पूर्वसदृशसमोनार्थ इति अर्थग्रहणम् न कर्तव्यम् भवति ।

(पा-२,१.३१; अकि-१,३८५.२४-३८६.३; रो-२,५९२-५९३; भा-१/७) पूर्वादिषु अवरस्य उपसङ्ख्यानम् ।

(पा-२,१.३१; अकि-१,३८५.२४-३८६.३; रो-२,५९२-५९३; भा-२/७) पूर्वादिषु अवरस्य उपसङ्ख्यानम् ।

(पा-२,१.३१; अकि-१,३८५.२४-३८६.३; रो-२,५९२-५९३; भा-३/७) मासावरः अयम् संवत्सरावरः अयम् ।

(पा-२,१.३१; अकि-१,३८५.२४-३८६.३; रो-२,५९२-५९३; भा-४/७) सदृशग्रहणे उक्तम् ।

(पा-२,१.३१; अकि-१,३८५.२४-३८६.३; रो-२,५९२-५९३; भा-५/७) किम् उक्तम् ।

(पा-२,१.३१; अकि-१,३८५.२४-३८६.३; रो-२,५९२-५९३; भा-६/७) सद्र्शग्रहणम् अनर्थकम् तृतीयासमासवचनात् ।

(पा-२,१.३१; अकि-१,३८५.२४-३८६.३; रो-२,५९२-५९३; भा-७/७) षष्ठ्यर्थम् इति चेत् तृतीयासमासवचनानर्थक्यम् इति ।

(पा-२,१.३२; अकि-१,३८६.५-८; रो-२,५९३; भा-१/८) कर्तृकरणे कृता क्तेन ।

(पा-२,१.३२; अकि-१,३८६.५-८; रो-२,५९३; भा-२/८) कर्तृकरणे कृता क्तेन इति वक्तव्यम्. अहिहतः नखनिर्भिन्नः दात्रलूनः परशुच्छिन्नः ।

(पा-२,१.३२; अकि-१,३८६.५-८; रो-२,५९३; भा-३/८) कृता क्तेन इति किमर्थम् ।

(पा-२,१.३२; अकि-१,३८६.५-८; रो-२,५९३; भा-४/८) इह मा भूत् ।

(पा-२,१.३२; अकि-१,३८६.५-८; रो-२,५९३; भा-५/८) दात्रेण लूनवान् परशुना छिन्नवान् ।

(पा-२,१.३२; अकि-१,३८६.५-८; रो-२,५९३; भा-६/८) तत् तर्हि वक्तव्यम् ।

(पा-२,१.३२; अकि-१,३८६.५-८; रो-२,५९३; भा-७/८) न वक्तव्यम् ।

(पा-२,१.३२; अकि-१,३८६.५-८; रो-२,५९३; भा-८/८) बहुलवचनात् सिद्धम् ।

(पा-२,१.३३; अकि-१,३८६.१०-१५; रो-२,५९४; भा-१/७) कृत्र्यैः अधिकार्थवचने अन्यत्र अपि दृश्यते ।कृत्र्यैः अधिकार्थवचने अन्यत्र अपि दृश्यते इति वक्तव्यम् ।

(पा-२,१.३३; अकि-१,३८६.१०-१५; रो-२,५९४; भा-२/७) बुसोपेन्ध्यम् तृणोपेन्ध्यम् घनघात्यम् ।

(पा-२,१.३३; अकि-१,३८६.१०-१५; रो-२,५९४; भा-३/७) साधनम् कृता इति वा पादहारकाद्यर्थम् ।

(पा-२,१.३३; अकि-१,३८६.१०-१५; रो-२,५९४; भा-४/७) अथ वा साधनम् कृता सह समस्यते इति वक्तव्यम् ।

(पा-२,१.३३; अकि-१,३८६.१०-१५; रो-२,५९४; भा-५/७) किम् प्रयोजनम् ।

(पा-२,१.३३; अकि-१,३८६.१०-१५; रो-२,५९४; भा-६/७) पादहारकाद्यर्थम् ।

(पा-२,१.३३; अकि-१,३८६.१०-१५; रो-२,५९४; भा-७/७) पादाभ्याम् ह्रियते पादहारकः गले चोप्यते गलेचोपकः ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-१/३७) अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् इति असमर्थसमासः ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-२/३७) अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् इति असमर्थसमासः अयम् द्रष्टव्यः ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-३/३७) किम् कारणम् ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-४/३७) कारकाणाम् क्रियया सामर्थ्यात् ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-५/३७) कारकाणाम् क्रियया सामर्थ्यम् भवति न तेषाम् अन्योन्येन ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-६/३७) तत् यथा निश्रयण्या द्वाभ्याम् काष्ठाभ्याम् सामर्थ्यम् न तेषाम् अन्योन्येन ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-७/३७) एवम् तर्हि आह अयम् अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् इति न च अस्ति सामर्थ्यम् ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-८/३७) तत्र वचनात् समासः भविष्यति ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-९/३७) वचनप्रामाण्यात् इति चेत् नानाकारकाणाम् प्रतिषेधः । वचनप्रामाण्यात् इति चेत् नानाकारकाणाम् प्रतिषेधः वक्तव्यः ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-१०/३७) तिष्ठतु दध्ना ओदनः भुज्यते देवदत्तेन ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-११/३७) सिद्धम् तु समानाधिकरणाधिकारे क्तः तृतीयापूर्वपदः उत्तरपदलोपः च षिद्धम् एतत् ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-१२/३७) कथम् ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-१३/३७) समानाधिकरणाधिकारे वक्तव्यम् क्तः तृतीयापूर्वपदः समस्यतेसुपा उत्तरपदस्य च लोपः भवति इति ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-१४/३७) दध्ना उपसिक्तः दध्युपसिक्तः दध्युपसिक्तः ओदनः दध्योदनः गुडेन संसृष्टाः गुडसंसृष्टाः , गुडसंसृष्टाः धानाः गुडधानाः ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-१५/३७) षष्ठीसमासः च युक्तपूर्णान्तः ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-१६/३७) षष्ठीसमासः च युक्तपूर्णान्तः समस्यते उत्तरपदस्य च लोपः वक्तव्यः ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-१७/३७) अश्वानाम् युक्तः अश्वयुक्तः अश्वयुक्तः रथः अश्वरथः ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-१८/३७) दध्नः पूर्णः ददिपूर्णः दधिपूर्णः घटः दधिघटः ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-१९/३७) तत् तर्हि बहु वक्तव्यम् ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-२०/३७) न वा असमासे अदर्शनात् ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-२१/३७) न वा वक्तव्यम् ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-२२/३७) किम् कारणम् ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-२३/३७) असमासे अदर्शनात् ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-२४/३७) यत् हि असमासे दृश्यते समासे च न दृश्यते तत् लोपारम्भम् प्रयोजयति ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-२५/३७) न च असमासे उपसिक्तशब्दः संसृष्टशब्दः पूर्णशब्दः वा दृश्यते ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-२६/३७) कथम् तर्हि सामर्थ्यम् गम्यते ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-२७/३७) युक्तार्थसम्प्रत्ययात् च सामर्थ्यम् ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-२८/३७) दध्ना युक्तार्थता सम्प्रतीयते ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-२९/३७) कथम् पुनः ज्ञायते दध्ना युक्तार्थता सम्प्रतीयते इति ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-३०/३७) सम्प्रत्ययात् च तदर्थाध्यवसानम् ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-३१/३७) सम्प्रत्ययात् च तदर्थः अध्यवसीयते ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-३२/३७) अवश्यम् च एतत् एवम् विज्ञेयम् ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-३३/३७) सम्प्रतीयमानार्थलोपे हि अनवस्था ।यः हि मन्यते सम्प्रतीयमानार्थानाम् शब्दानाम् लोपः भवति इति अनवस्था तस्य लोपस्य स्यात् ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-३४/३७) दधि इति उक्ते बहवः अर्थाः गम्यन्ते मन्दकम् उत्तरकम् निलीनकम् इति तद्वाचिनाम् शब्दानाम् लोपः वक्तव्यः स्यात् ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-३५/३७) तथा गुडः इति उक्ते मधुरशब्दस्य शृङ्गवेरम् इति उक्ते च कटुशब्दस्य ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-३६/३७) अन्तरेण खलु अपि शब्दप्रयोगम् बहवः अर्थाः गम्यन्ते अक्षिनिकोचैः पाणिविहारैः च ।

(पा-२,१.३४-३५; अकि-१,३८६.१८-३८८.४; रो-२,५९५-५९७; भा-३७/३७) तद्वाचिनाम् शब्दानाम् लोपः वक्तव्यः स्यात् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-१/१०५) किम् चतुर्थ्यन्तस्य तदर्थमात्रेण समासः भवति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-२/१०५) एवम् भवितुम् अर्हति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-३/१०५) चतुर्थी तदर्थमात्रेण चेत् सर्वप्रसङ्गः अविशेषात् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-४/१०५) चतुर्थी तदर्थमात्रेण चेत् सर्वप्रसङ्गः सर्वस्य चतुर्थ्यन्तस्य तदर्थमात्रेण सह समासः प्राप्नोति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-५/१०५) अनेन अपि प्राप्नोति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-६/१०५) रन्धनाय स्थाली अवहननाय उलूखलम् इति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-७/१०५) किम् कारणम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-८/१०५) अविशेषात् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-९/१०५) न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य चतुर्थ्यन्तस्य तदर्थेन सह समासः भवति इति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-१०/१०५) अनुपादीयमने विशेषे सर्वप्रसङ्गः ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-११/१०५) बलिरक्षिताभ्याम् च अनर्थकम् वचनम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-१२/१०५) बलिरक्षिताभ्याम् च समासवचनम् अनर्थकम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-१३/१०५) यः हि महाराजाय बलिः महाराजार्थः सः भवति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-१४/१०५) तत्र तदर्थः इति एव सिद्धम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-१५/१०५) यदि पुनः विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति एतत् लक्षणम् क्रियेत ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-१६/१०५) विकृतिः प्रकृत्या इति चेत् अश्वघासादीनाम् उपसङ्ख्यानम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-१७/१०५) विकृतिः प्रकृत्या इति चेत् अश्वघासादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-१८/१०५) अश्वघासः श्वश्रूसुरम् हस्तिविधा इति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-१९/१०५) अर्थेन नित्यसमासवचनम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-२०/१०५) अर्थ्शब्देन नित्यसमासः वक्तव्यः ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-२१/१०५) ब्राह्मणार्थम् क्षत्रियार्थम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-२२/१०५) किम् विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति अतः अर्थेन नित्यसमासः वक्तव्यः ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-२३/१०५) न इति आह सर्वथा अर्थेन नित्यसमासः वक्तव्यः विग्रहः मा भूत् इति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-२४/१०५) सर्वलिङ्गता च ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-२५/१०५) सर्वलिङ्गता च वक्तव्या ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-२६/१०५) ब्राह्मणार्थम् पयः ब्राह्मणार्थः सूपः ब्राह्मणार्था यवागूः इति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-२७/१०५) किम् अर्थेन नित्यसमासः उच्यते इति अतः सर्वलिङ्गता वक्तव्या ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-२८/१०५) न इति आह ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-२९/१०५) सर्वथा सर्वलिङ्गता वक्तव्या ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-३०/१०५) किम् कारणम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-३१/१०५) अर्थशब्दः अयम् पुंलिङ्गः उत्तरपदार्थप्रधानः च तत्पुरुषः ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-३२/१०५) तेन पुंलिङ्गस्य एव समासस्य अभिधानम् स्यात् स्त्रीनपुंसकलिङ्गस्य न स्यात् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-३३/१०५) तत् तर्हि बहु वक्तव्यम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-३४/१०५) विकृतिः प्रकृत्या इति वक्तव्यम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-३५/१०५) अश्वघासादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-३६/१०५) अर्थेन नित्यसमासः वक्तव्यः ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-३७/१०५) सर्वलिङ्गता च वक्तव्या ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-३८/१०५) न वक्तव्यम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-३९/१०५) यत् तावत् उच्यते विकृतिः प्रकृत्या इति वक्तव्यम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-४०/१०५) न वक्तव्यम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-४१/१०५) आचार्यप्रवृत्तिः ज्ञायपति विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति यत् अयम् बलिरकिषितग्रहणम् करोति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-४२/१०५) कथम् कृत्वा ज्ञापकम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-४३/१०५) यथाजातीयकानाम् समासे बलिरक्षितग्रहणेन अर्थः तथाजातीयकानाम् समासः ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-४४/१०५) यदि च विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते न तदर्थमात्रेण ततः बलिरकिषितग्रहणम् अर्थवत् भवति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-४५/१०५) यत् अपि उच्यते अश्वघासादीनाम् उपसङ्ख्यानम् कर्तव्यम् इति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-४६/१०५) न कर्तव्यम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-४७/१०५) अश्वघासादयः षष्ठीसमासाः भविष्यन्ति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-४८/१०५) यत् हि यदर्थम् भवति अयम् अपि तत्र अभिसम्बन्धः भवति अस्य इदम् इति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-४९/१०५) तत् यथा गुरोः इदम् गुर्वर्थम् इति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-५०/१०५) ननु च स्वरभेदः भवति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-५१/१०५) चतुर्थीसमासे सति पूर्वपदप्रकृतिस्वरत्वेन भवितव्यम् षष्ठीसमासे पुनः अन्तोदात्तत्वेन ण अस्ति भेदः ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-५२/१०५) चतुर्थीसमासे अपि सति अन्तोदात्तत्वेन एव भवितव्यम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-५३/१०५) कथम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-५४/१०५) आचार्यप्रवृत्तिः ज्ञापयति विकृतिः चतुर्थ्यन्ता प्रकृतिस्वरा भवति न चतुर्थीमात्रम् इति यत् अयम् चतुर्थी तदर्थे अर्थे क्ते च इति अर्थग्रहणम् क्तग्रहणम् च करोति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-५५/१०५) कथम् कृत्वा ज्ञापकम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-५६/१०५) यथाजातीयकानाम् अर्थग्रहणेन क्तग्रहणेन च अर्थः तथाजातीयकानाम् प्रकृतिस्वरत्वम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-५७/१०५) यदि च विकृतिः चतुर्थ्यन्ता प्रकृत्या भवति न चतुर्थीमात्रम् ततः अर्थग्रहणम् क्तग्रहणम् च अर्थवत् भवति ।यत् अपि उच्यते अर्थेन नित्यसमासः वक्तव्यः इति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-५८/१०५) न वक्तव्यः ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-५९/१०५) सर्थप्प्रत्ययः करिष्यते ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-६०/१०५) किम् कृतम् भवति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-६१/१०५) न च एव हि कदा चित् विग्रहः भवति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-६२/१०५) अपि च सर्वलिङ्गता सिद्धा भवति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-६३/१०५) यदि सर्थप्प्रतयः क्रियते इत्सञ्ज्ञा न प्राप्नोति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-६४/१०५) अथ अपि कथम् चित् इत्सञ्ज्ञा स्यात् एवम् अपि श्र्यर्थम् भ्वर्थम् इति अङ्गस्य इति इयङुवङौ स्याताम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-६५/१०५) एवम् तर्हि बहुव्रीहिः भवैष्यति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-६६/१०५) किम् कृतम् भवति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-६७/१०५) भवति वै कः चित् अस्वपदविग्रहः बहुव्रीहिः ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-६८/१०५) तत् यथा शोभनम् मुखम् अस्याः सुमुखी इति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-६९/१०५) न एवम् शक्यम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-७०/१०५) इह हि महदर्थम् इति आत्त्वकपौ प्रसज्येताम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-७१/१०५) एवम् तर्हि तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः करिष्यते ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-७२/१०५) किम् कृतम् भवति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-७३/१०५) न च एव कदा चित् आदेशेन विग्रहः भवति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-७४/१०५) अपि च सर्वलिङ्गता सिद्धा भवति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-७५/१०५) तत् तर्हि वक्तव्यम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-७६/१०५) न वक्तव्यम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-७७/१०५) योगविभागः करिष्यते ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-७८/१०५) चतुर्थी सुबन्तेन सह समस्यते ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-७९/१०५) ततः तदर्थार्थ ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-८०/१०५) तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः भवति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-८१/१०५) इह अपि तर्हि समासः प्राप्नोति छात्राय रुचितम् छात्राय स्वदितम् इति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-८२/१०५) आचार्यप्रवृत्तिः ज्ञापयति तादर्थ्ये य चतुर्थी सा समस्यते न चतुर्थीमात्रम् इति यत् अयम् हितसुखग्रहणम् करोति ।



(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-८३/१०५) कथम् कृत्वा ज्ञापकम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-८४/१०५) यथाजातीयकानाम् समासे हितसुखग्रहणेन अर्थः तथाजातीयकानम् समासः ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-८५/१०५) यदि च तादर्थ्ये या चतुर्थी सा समस्यते न चतुर्थीमात्रम् ततः हितसुखग्रहणम् अर्थवत् भवति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-८६/१०५) इह अपि तर्हि तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः प्राप्नोति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-८७/१०५) यूपाय दारु यूपदारु रथदारु ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-८८/१०५) वावचनम् विधास्यते ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-८९/१०५) इह अपि तर्हि विभाषा प्राप्र्नोति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-९०/१०५) ब्राह्मणाऋथम् क्षत्रियार्थम् इति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-९१/१०५) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति प्रकृतिविकृत्योः यः समासः तत्र तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः भवति अन्यत्र नित्यः इति यत् अयम् बलिहितग्रहणम् करोति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-९२/१०५) एवम् तर्हि उदकार्थः वीवधः ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-९३/१०५) स्थानिवद्भावात् उदभावः प्राप्नोति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-९४/१०५) तस्मात् न एवम् शक्यम् ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-९५/१०५) न चेत् एवम् अर्थेन नित्यसमासः वक्तव्यः सर्वलिङ्गता च ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-९६/१०५) न एषः दोषः ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-९७/१०५) इदम् तावत् अयम् प्रष्टव्यः ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-९८/१०५) अथ इह ब्राह्मणेभ्यः इति का एषा चतुर्थी ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-९९/१०५) तादर्थ्ये इति आह ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-१००/१०५) यदि तादर्थ्ये चतुर्थी अर्थशब्दस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-१०१/१०५) समासः अपि तर्हि न प्राप्नोति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-१०२/१०५) वचनात् समासः भविष्यति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-१०३/१०५) यत् अपि उच्यते सर्वलिङ्गता च वक्तव्या इति ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-१०४/१०५) न वक्तव्या ।

(पा-२,१.३६; अकि-१,३८८.६-३९०.१९; रो-२,५९८-६०३; भा-१०५/१०५) लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

(पा-२,१.३७; अकि-१,३९०.२१-२४; रो-२,६०४; भा-१/४) अत्यल्पम् इदम् उच्यते भयेन इति ।

(पा-२,१.३७; अकि-१,३९०.२१-२४; रो-२,६०४; भा-२/४) भयभीतभीतिभीभिः इति वक्तव्यम् ।

(पा-२,१.३७; अकि-१,३९०.२१-२४; रो-२,६०४; भा-३/४) वृकात् भयम् वृकभयम् वृकात् भीतः वृकभीतः वृकात् भीतिः वृकभीतिः वृकात् भीः वृकभीः इति ।

(पा-२,१.३७; अकि-१,३९०.२१-२४; रो-२,६०४; भा-४/४) अपरः आह ॒ भयनिर्गतजुगुप्सुभिः इति वक्तव्यम् ॒ वृकभयम् ग्रामनिर्गतः अधर्मजुगुप्सुः इति ।

(पा-२,१.४०; अकि-१,३९०.२६-३९१.२; रो-२,६०४; भा-१/६) शौण्डादिभिः इति वक्तव्यम् ।

(पा-२,१.४०; अकि-१,३९०.२६-३९१.२; रो-२,६०४; भा-२/६) इह अपि यथा स्यात् ।

(पा-२,१.४०; अकि-१,३९०.२६-३९१.२; रो-२,६०४; भा-३/६) अक्षधूर्तः स्त्रीधूर्तः अक्षकितवः स्त्रीकितवः इति ।

(पा-२,१.४०; अकि-१,३९०.२६-३९१.२; रो-२,६०४; भा-४/६) तत् तर्हि वक्तव्यम् ।

(पा-२,१.४०; अकि-१,३९०.२६-३९१.२; रो-२,६०४; भा-५/६) न वक्तव्यम् ।

(पा-२,१.४०; अकि-१,३९०.२६-३९१.२; रो-२,६०४; भा-६/६) बहुवचननिर्देशात् शौण्डादिभिः इति विज्ञास्यते ।

(पा-२,१.४२; अकि-१,३९१.४-७; रो-२,६०५; भा-१/७) ध्वाङ्क्षेण इति अर्थग्रहणम् ।

(पा-२,१.४२; अकि-१,३९१.४-७; रो-२,६०५; भा-२/७) ध्वाङ्क्षेण इति अर्थग्रहणम् कर्तव्यम् ।

(पा-२,१.४२; अकि-१,३९१.४-७; रो-२,६०५; भा-३/७) इह अपि यथा स्यात् ।

(पा-२,१.४२; अकि-१,३९१.४-७; रो-२,६०५; भा-४/७) तीर्थकाकः इति ।

(पा-२,१.४२; अकि-१,३९१.४-७; रो-२,६०५; भा-५/७) क्षेपे इति उच्यते ।

(पा-२,१.४२; अकि-१,३९१.४-७; रो-२,६०५; भा-६/७) कः इह क्षेपः नाम ।

(पा-२,१.४२; अकि-१,३९१.४-७; रो-२,६०५; भा-७/७) यथा तीर्थे काकाः न चिरम् स्थातारः भवन्ति एवम् यः गुरुकुलानि गत्वा न चिरम् तिष्ठति स उच्यते तीर्थकाकः इति ।

(पा-२,१.४३; अकि-१,३९१.९-१३; रो-२,६०५; भा-१/१२) कृत्यैः नियोगे यद्ग्रहणम् ।

(पा-२,१.४३; अकि-१,३९१.९-१३; रो-२,६०५; भा-२/१२) कृत्यैः नियोगे इति वक्तव्यम् ।

(पा-२,१.४३; अकि-१,३९१.९-१३; रो-२,६०५; भा-३/१२) इह अपि यथा स्यात् ।

(पा-२,१.४३; अकि-१,३९१.९-१३; रो-२,६०५; भा-४/१२) पूर्वाःणेगेयम् साम प्रातः अध्येयः अनुवाकः इति ।

(पा-२,१.४३; अकि-१,३९१.९-१३; रो-२,६०५; भा-५/१२) तत् तर्हि वक्तव्यम् ।

(पा-२,१.४३; अकि-१,३९१.९-१३; रो-२,६०५; भा-६/१२) न वक्तव्यम् ।

(पा-२,१.४३; अकि-१,३९१.९-१३; रो-२,६०५; भा-७/१२) ऋणे इति एव सिद्धम् ।

(पा-२,१.४३; अकि-१,३९१.९-१३; रो-२,६०५; भा-८/१२) इह यत् यस्य नियोगतः कार्यम् ऋणम् तस्य तत् भवति ।

(पा-२,१.४३; अकि-१,३९१.९-१३; रो-२,६०५; भा-९/१२) ततः ऋणे इति एव सिद्धम् ।

(पा-२,१.४३; अकि-१,३९१.९-१३; रो-२,६०५; भा-१०/१२) यग्रहणम् च कर्तव्यम् ।

(पा-२,१.४३; अकि-१,३९१.९-१३; रो-२,६०५; भा-११/१२) इह मा भूत् ।

(पा-२,१.४३; अकि-१,३९१.९-१३; रो-२,६०५; भा-१२/१२) पूर्वाह्णे दातव्या भिक्षा इति ।

(पा-२,१.४७; अकि-१,३९१.१५-२०; रो-२,६०५; भा-१/९) किम् उदाहरणम् ।

(पा-२,१.४७; अकि-१,३९१.१५-२०; रो-२,६०५; भा-२/९) अवतप्तेनकुलस्थितम् ते एतत् ।

(पा-२,१.४७; अकि-१,३९१.१५-२०; रो-२,६०५; भा-३/९) क्षेपे इति उच्यते ।

(पा-२,१.४७; अकि-१,३९१.१५-२०; रो-२,६०५; भा-४/९) कः इह क्षेपः नाम ।

(पा-२,१.४७; अकि-१,३९१.१५-२०; रो-२,६०५; भा-५/९) यथा अवतप्ते नकुलाः न चिरम् स्थातारः भवन्ति एवम् कार्याणि आरभ्य यः न चिरम् तिष्ठति स उच्यते अवतप्तेनकुलस्थितम् ते एतत् इति ।

(पा-२,१.४७; अकि-१,३९१.१५-२०; रो-२,६०५; भा-६/९) क्षेपे सप्तम्यन्तम् क्तान्तेन सह समस्यते इति उच्यते ।

(पा-२,१.४७; अकि-१,३९१.१५-२०; रो-२,६०५; भा-७/९) तत्र सगतिकेन सनकुलेन च समासः न प्राप्नोति ।

(पा-२,१.४७; अकि-१,३९१.१५-२०; रो-२,६०५; भा-८/९) क्षेपे गतिकारकपूर्वे उक्तम् । किम् उक्तम् ।

(पा-२,१.४७; अकि-१,३९१.१५-२०; रो-२,६०५; भा-९/९) कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति ।

(पा-२,१.४८; अकि-१,३९२.२-३; रो-२,६०६; भा-१/५) किमर्थः चकारः ।

(पा-२,१.४८; अकि-१,३९२.२-३; रो-२,६०६; भा-२/५) एवकारार्थः ।

(पा-२,१.४८; अकि-१,३९२.२-३; रो-२,६०६; भा-३/५) पात्रेसमितादयः एव ।

(पा-२,१.४८; अकि-१,३९२.२-३; रो-२,६०६; भा-४/५) क्व मा भूत् ।

(पा-२,१.४८; अकि-१,३९२.२-३; रो-२,६०६; भा-५/५) परमम् पात्रेसमिताः इति ।

(पा-२,१.४९; अकि-१,३९२.५-१४; रो-२,६०६-६०७; भा-१/१३) इह कस्मात् अव्ययीभावः न भवति ।

(पा-२,१.४९; अकि-१,३९२.५-१४; रो-२,६०६-६०७; भा-२/१३) एका नदी एकनदी ।

(पा-२,१.४९; अकि-१,३९२.५-१४; रो-२,६०६-६०७; भा-३/१३) नदीभिः सङ्ख्या इति प्राप्नोति ।

(पा-२,१.४९; अकि-१,३९२.५-१४; रो-२,६०६-६०७; भा-४/१३) इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः ।

(पा-२,१.४९; अकि-१,३९२.५-१४; रो-२,६०६-६०७; भा-५/१३) पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः , उभयपदार्थप्रधानः द्वन्द्वः. न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते ।

(पा-२,१.४९; अकि-१,३९२.५-१४; रो-२,६०६-६०७; भा-६/१३) अथवा अव्ययीभावः क्रियताम् बहुव्रीहिः इति ।

(पा-२,१.४९; अकि-१,३९२.५-१४; रो-२,६०६-६०७; भा-७/१३) बहुव्रीहिः भविष्यति विप्रतिषेधेन ।

(पा-२,१.४९; अकि-१,३९२.५-१४; रो-२,६०६-६०७; भा-८/१३) भवेत् एकसञ्ज्ञाधिकारे सिद्धम् परङ्कार्यत्वे तु न सिध्यति ।

(पा-२,१.४९; अकि-१,३९२.५-१४; रो-२,६०६-६०७; भा-९/१३) आरम्भसामर्थ्यात् च अव्ययीभावः प्राप्नोति परङ्कार्यत्वात् च बहुव्रीहिः ।

(पा-२,१.४९; अकि-१,३९२.५-१४; रो-२,६०६-६०७; भा-१०/१३) परङ्कार्यत्वे च न दोषः ।

(पा-२,१.४९; अकि-१,३९२.५-१४; रो-२,६०६-६०७; भा-११/१३) नदीभिः सङ्ख्यायाः समाहारे अव्ययीभावः वक्तव्यः ।

(पा-२,१.४९; अकि-१,३९२.५-१४; रो-२,६०६-६०७; भा-१२/१३) सः च अवश्यम् वक्तव्यः ।

(पा-२,१.४९; अकि-१,३९२.५-१४; रो-२,६०६-६०७; भा-१३/१३) सर्वम् एकनदीतरे ।