व्याकरणमहाभाष्य खण्ड 24

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-१/३२) समाहारः इति कः अयम् शब्दः ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-२/३२) समाङ्पूर्वात् हरतेः सर्मसाधने घञ् ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-३/३२) समाह्रियते समाहारः इति ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-४/३२) यदि कर्मसाधनः पञ्च कुमार्यः समहृताः पञ्चकुमारि दशकुमारि गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् न प्राप्नोति द्विगुः एकवचनम् इति एतत् च वक्तव्यम् ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-५/३२) एवम् तर्हि भावसाधनः भविष्यति ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-६/३२) समाहरणम् समाहारः ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-७/३२) अथ भावसाधने सति किम् अभिधीयते ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-८/३२) यत् तत् औत्तराधर्यम् ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-९/३२) कः पुनः गवाम् समाहारः ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-१०/३२) यत् तत् अर्जनम् क्रयणम् भिषणम् अपरहरणम् वा ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-११/३२) यदि एवम् विक्षिप्तेषु पूलेषु गोषु चरन्तीषु न सिध्यति ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-१२/३२) एवम् तर्हि समभ्याशीकरणम् समाहारः ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-१३/३२) एवम् अपि पञ्चग्रामी षण्णगरी त्रिपुरी इति न सिध्यति ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-१४/३२) किम् कारणम् ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-१५/३२) सम् एकत्ववाची आङ् आभिमुख्ये वर्तते हरतिः देशान्तरप्रापणे ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-१६/३२) न अवश्यम् हरतिः देशान्तरप्रापणे एव वर्तते ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-१७/३२) किम् तर्हि ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-१८/३२) सादृश्ये अपि वर्तते ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-१९/३२) तत् यथा मातुः अनुहरति पितुः अनुहरति ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-२०/३२) अथ वा पञ्चग्रामी षण्णगरी त्रिपुरी इति न एव इदम् इयति एव अवतिष्ठते ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-२१/३२) अवश्यम् असौ ततः किम् चित् आकाङ्क्षति क्रियाम् वा गुणम् वा ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-२२/३२) यत् आकाङ्क्षत तत् एकम् स च समाहारः ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-२३/३२) अयम् तर्हि भावसाधने सति दोषः ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-२४/३२) पञ्चपूली आनीयताम् इति भावानयने चोदिते द्रव्यानयनम् न प्रापोति ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-२५/३२) न एषः दोषः ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-२६/३२) इह तावत् अयम् प्रष्टव्यः ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-२७/३२) अथ इह गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति कथम् आकृतौ चोदितायाम् द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनानि क्रियन्ते ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-२८/३२) असम्भवात् ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-२९/३२) आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-३०/३२) इदम् अपि एवञ्जातीयकम् एव ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-३१/३२) असम्भवात् भावानयनस्य द्रव्यानयनम् भविष्यति ।

(पा-२,१.५१.१; अकि-१,३९३.२-१९; रो-२,६०७-६०९; भा-३२/३२) अथ वा अव्यतिरेकात् द्रव्याकृत्योः ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-१/५४) किम् पुनः द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः भवति ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-२/५४) एवम् भवितुम् अर्हति ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-३/५४) द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-४/५४) द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-५/५४) का एतरेतराश्रयता ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-६/५४) द्विगुनिमित्ते प्रत्ययोत्तरपदे प्रत्ययोत्तरपदनिमित्ता च द्विगुसञ्ज्ञा ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-७/५४) तत् एतत् इतरेतराश्रयम् ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-८/५४) इतरेतराश्रयाणि च न प्रकल्पन्ते ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-९/५४) एवम् तर्हि अर्थे इत् वक्ष्यामि ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-१०/५४) अर्थे चेत् तद्धितानुत्पत्तिः बहुव्रीहिवत् ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-११/५४) अर्थे चेत् तद्धितोत्पत्तिः न प्राप्नोति ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-१२/५४) पाञ्चनापितिः , द्विमातुरः , त्रैमातुरः ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-१३/५४) किम् कारणम् ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-१४/५४) द्विगुना उक्तत्वात् बहुव्रीहिवत् ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-१५/५४) तत् यथा चित्रगुः इति बहुव्रीहिणोक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-१६/५४) एवम् तर्हि समासतद्धितविधौ इति वक्ष्यामि ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-१७/५४) समासतद्धितविधौ इति चेत् अन्यत्र समाससञ्ज्ञाभावः ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-१८/५४) समासतद्धितविधौ इति चेत् अन्यत्र समाससञ्ज्ञा न प्राप्नोति ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-१९/५४) क्व अन्यत्र ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-२०/५४) स्वरे ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-२१/५४) पञ्चारत्निः , दशारत्निः ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-२२/५४) इगन्ते द्विगौ इति एषः स्वरः न प्राप्नोति ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-२३/५४) सिद्धम् तु प्रत्ययोत्तरपदयोः च इति वचनात् ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-२४/५४) सिद्धम् एतत् ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-२५/५४) कथम् ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-२६/५४) प्रत्ययोत्तरपदयोः च इति वचनात् ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-२७/५४) प्रत्ययोत्तरपदयोः द्विगुसञ्ज्ञा भवति इति वक्तव्यम् ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-२८/५४) ननु च उक्तम् द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः इति ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-२९/५४) न एषः दोषः ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-३०/५४) इतरेतराश्रयमात्रम् एतत् चोदितम् सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धम् तु नित्यशब्दत्वात् इति ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-३१/५४) न इदम् तुल्यम् अन्यैः इतरेतराश्रयैः ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-३२/५४) न हि सञ्ज्ञा नित्या ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-३३/५४) एवम् तर्हि भाविनी सञ्ज्ञा विज्ञास्यते ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-३४/५४) तत् यथा ॒ कः चित् कम् चित् तन्तुवायम् आह ॒ अस्य सूत्रस्य शाटकम् वय इति ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-३५/५४) सः पश्यति ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-३६/५४) यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-३७/५४) शाटकः वातव्यः च इति विप्रतिषिद्धम् ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-३८/५४) भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-३९/५४) सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-४०/५४) एवम् इह अपि तस्मिन् द्विगुः भवति यस्य अभिनिर्वृत्तस्य प्रत्यय उत्तरपदम् इति च एते सञ्ज्ञे भविष्यतः ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-४१/५४) अथ वा पुनः अस्तु अर्थे इति ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-४२/५४) ननु च उक्तम् अर्थे चेत् तद्धितानुत्पत्तिः बहुव्रीहिवत् इति ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-४३/५४) न एषः दोषः ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-४४/५४) न अवश्यम् अर्थशब्दः अभिधेये एव वर्तते ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-४५/५४) किम् तर्हि ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-४६/५४) स्यादर्थे अपि वर्तते ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-४७/५४) तत् यथा ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-४८/५४) दारार्थम् घटामहे ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-४९/५४) धनार्थम् भिक्षामहे ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-५०/५४) दाराः नः स्युः ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-५१/५४) धनानि नः स्युः इति ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-५२/५४) एवम् इह अपि तद्धितार्थे द्विगुः भवति तद्धितः स्यात् इति ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-५३/५४) द्विगोः वा लुग्वचनम् ज्ञापकम् तद्धितोत्पत्तेः ।

(पा-२,१.५१.२; अकि-१,३९३.२०-३९४.२४; रो-२,६०९-६१२; भा-५४/५४) अथ वा यत् अयम् द्विगोः लुक् अनपत्ये इति द्विगोः उत्तरस्य तद्धितस्य लुकम् शास्ति तत् ज्ञापयति आचार्यः उत्पद्यते द्विगोः तद्धितः इति.

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-१/७१) समाहारसमूहयोः अविशेषात् समाहारग्रहणानर्थक्यम् तद्धितार्थेन कृतत्वात् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-२/७१) समाहारः समूहः इति अविशिष्तौ एतौ अर्थौ ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-३/७१) समाहारसमूहयोः अविशेषात् समाहारग्रहणम् अनर्थकम् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-४/७१) किम् कारणम् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-५/७१) तद्धितार्थे कृतत्वात् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-६/७१) तद्धितार्थे द्विगुः इति एवम् अत्र द्विगुः भविष्यति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-७/७१) यदि तद्धितार्थे द्विगुः इति एवम् अत्र द्विगुः भवति तद्धितोत्पत्तिः प्राप्नोति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-८/७१) उत्पद्यताम् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-९/७१) लुक् भविष्यति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-१०/७१) लुक्कृतानि प्राप्नुवन्ति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-११/७१) कानि ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-१२/७१) पञ्चपूली दशपूली ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-१३/७१) अपरिमाणबिस्ताचितकम्बलेभ्यः न तद्धितलुकि इति प्रतिषेधः प्राप्नोति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-१४/७१) पञ्चगवम् दशगवम् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-१५/७१) गोः अतद्धितलुकि इत् टच् न प्रप्नोति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-१६/७१) न एषः दोषः ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-१७/७१) अविशेषेण द्विगोः ङीप् भवति इति उक्त्वा समाहारे इति वक्ष्यामि ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-१८/७१) तत् नियमार्थम् भविष्यति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-१९/७१) समाहारे एव न अन्यत्र इति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-२०/७१) गोः अकारः द्विगोः समाहारे ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-२१/७१) अविशेषेण गोः टच् भवति इति उक्त्वा द्विगोः समाहारे इति वक्ष्यामि ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-२२/७१) तत् नियमार्थम् भविष्यति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-२३/७१) समाहारे एव न अन्यत्र इति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-२४/७१) अभिधानार्थम् तु ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-२५/७१) अभिधानार्थम् तु समाहारग्रहणम् कर्तव्यम् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-२६/७१) समाहारेण अभिधानम् यथा स्यात् तद्धितार्थेन मा भूत् इति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-२७/७१) किम् च स्यात् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-२८/७१) तद्धितोत्पत्तिः प्रसज्येत ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-२९/७१) उत्पद्यताम् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-३०/७१) लुक् भविष्यति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-३१/७१) लुक्कृतानि प्राप्नुवन्ति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-३२/७१) सर्वाणि परिहृतानि ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-३३/७१) न सर्वाणि परिहृतानि ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-३४/७१) पञ्चकुमारि दशकुमारि ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-३५/७१) लिक् तद्धितलुकि इति ङीपः लुक् प्रसज्येत ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-३६/७१) द्वन्द्वतत्पुरुषयोः उत्तरपदे नित्यसमासवचनम् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-३७/७१) द्वन्द्वतत्पुरुषयोः उत्तरपदे नित्यसमासः वक्तव्यः ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-३८/७१) वाग्दृषदप्रियः छत्रोपानहप्रियः पञ्चगवप्रियः दशगवप्रियः ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-३९/७१) किम् प्रयोजनम् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-४०/७१) समुदायवृत्तौ अवयवानाम् मा कदा चित् अवृत्तिः भूत् इति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-४१/७१) तत् तर्हि वक्तव्यम् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-४२/७१) न वक्तव्यम् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-४३/७१) इह द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-४४/७१) यदा वृत्तिपक्षः तदा सर्वेषाम् एव वृत्तिः ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-४५/७१) यदा तु अवृत्तिः तदा सर्वेषाम् अवृत्तिः ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-४६/७१) उत्तरपदेन परिमाणिन द्विगोः समासवचनम् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-४७/७१) उत्तरपदेन परिमाणिन द्विगोः समासः वक्तव्यः ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-४८/७१) द्विमासजातः त्रिमासजातः ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-४९/७१) किम् पुनः कारणम् न सिध्यति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-५०/७१) सुप् सुपा इति वर्तते ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-५१/७१) एवम् तर्हि इदम् स्यात् ॒ द्वौ मासौ द्विमासम् , द्विमासम् जातस्य इति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-५२/७१) न एवम् शक्यम् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-५३/७१) स्वरे हि दोषः स्यात् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-५४/७१) द्विमासजातः इति प्राप्नोति द्विमासजातः इति च इष्यते ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-५५/७१) द्व्याह्नजातः च न सिध्यति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-५६/७१) द्व्यहजात इति प्राप्नोति न च एवम् भवितव्यम् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-५७/७१) भवितव्यम् च यदा समाहारे द्विगुः ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-५८/७१) द्व्यह्नजातः तु न सिध्यति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-५९/७१) किम् उच्यते परिमाणिना इति न पुनः अन्यत्र अपि ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-६०/७१) पञ्चगवप्रियः दशगवप्रियः ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-६१/७१) अन्यत्र समुदायबहुव्रीहित्वात् उत्तरपदप्रसिद्धिः ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-६२/७१) अन्यत्र समुदायबः हुव्रीहिसञ्ज्ञ्ः ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-६३/७१) अन्यत्र समुदायबहुव्रीहित्वात् उत्तरपदम् प्रसिद्धम् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-६४/७१) उत्तरपदे प्रसिद्धे उत्तरपदे इति द्विगुः भविष्यति ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-६५/७१) सर्वत्र मत्वर्थे प्रतिषेधः ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-६६/७१) सर्वेषु पक्षेषु द्विगुसञ्ज्ञायाः मत्वर्थे प्रतिषेधः वक्तव्यः ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-६७/७१) किम् प्रयोजनम् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-६८/७१) पञ्चखट्वा दशखट्वा ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-६९/७१) द्विगोः इति ईकारः मा भूत् ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-७०/७१) पञ्चगुः दशगुः ।

(पा-२,१.५१.३; अकि-१,३९५.१-३९६.११; रो-२,६१२-६१६; भा-७१/७१) गोः अतद्धितलुकि इति टच् मा भूत् इति ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-१/२५) किम् अनन्तरे योगे सङ्ख्यापूर्वः सः द्विगुसञ्ज्ञः आहोस्वित् पूर्वमात्रे ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-२/२५) किम् च अतः ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-३/२५) यदि अनन्तरे योगे एकशाटी द्विगोः इति ईकारः न प्राप्नोति ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-४/२५) अथ पूर्वमात्रे अकभिक्षा अत्र अपि प्राप्नोति ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-५/२५) अस्तु अनन्तरे ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-६/२५) कमम् एकशाटी ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-७/२५) ईकारान्तेन समासः भविष्यति ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-८/२५) एका शाटी एकशाटी ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-९/२५) इह तर्हि एकापूपी द्विगोः इति ईकारः न प्राप्नोति ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-१०/२५) अस्तु तर्हि पूर्वमात्रे. कथम् एकभिक्षा ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-११/२५) टाबन्तेन समासः भविष्यति ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-१२/२५) एका भिक्षा एकभिक्षा ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-१३/२५) इह तर्हि सप्तर्षयः इगन्ते द्विगौ इति एषः स्वरः प्राप्नोति ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-१४/२५) अस्तु तर्हि अनन्तरे ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-१५/२५) कथम् एकापूपी ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-१६/२५) समाहारे इति एव सिद्धम् ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-१७/२५) कः पुनः अत्र समाहारः ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-१८/२५) यत् तद्दानम् सम्भ्रमः वा ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-१९/२५) इह तर्हि पञ्चहोतारः दशहोतारः इगन्ते द्विगौ इति एषः स्वरः न प्रप्नोति ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-२०/२५) अस्तु तर्हि पूर्वमात्रे ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-२१/२५) कथम् सप्तर्षयः ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-२२/२५) अन्तोदात्तप्रकरणे त्रिचक्रादीनाम् छन्दसि इति एवम् एतत् सिद्धम् ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-२३/२५) अथ वा पुनः अस्तु अनन्तरे ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-२४/२५) कथम् पञ्चहोतारः दशहोतारः ।

(पा-२,१.५२; अकि-१,३९६.१३-२३; रो-२,६१७-६१८; भा-२५/२५) आद्युदात्तप्रकरणे दिवोदासादीनाम् छन्दसि इति एव सिद्धम् ।

(पा-२,१.५३; अकि-१,३९७.२-३; रो-२,६१९; भा-१/५) किम् उदाहरण्म् ।

(पा-२,१.५३; अकि-१,३९७.२-३; रो-२,६१९; भा-२/५) वैयाकरणखसूचिः ।

(पा-२,१.५३; अकि-१,३९७.२-३; रो-२,६१९; भा-३/५) किम् व्याकरणम् कुत्सितम् आहोस्वित् वैयाकरणः ।

(पा-२,१.५३; अकि-१,३९७.२-३; रो-२,६१९; भा-४/५) वैयाकरणः कुत्सितः ।

(पा-२,१.५३; अकि-१,३९७.२-३; रो-२,६१९; भा-५/५) तस्मिन् कुत्सिते तत्स्थम् अपि कुत्सितम् भवति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-१/६३) उपमानानि इति उच्यते ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-२/६३) कानि पुनः उपमानानि ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-३/६३) किम् यत् एव उपमानम् तत् एव उपमेयम् आहोस्वित् अन्यत् उपमानम् अन्यत् उपमेयम् ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-४/६३) किम् च अतः ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-५/६३) यदि यत् एव उपमानम् तत् एव उपमेयम् कः इह उपमार्थः गौः इव गौः इति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-६/६३) अथ अन्यत् एव उपमानम् अन्यत् उपमेयम् कः इह उपमार्थः गौः इव अश्वः इति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-७/६३) एवम् तर्हि यत्र किम् चित् सामान्यम् कः चित् विशेषः तत्र उपमानोपमेये भवतः ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-८/६३) किम् वक्तव्यम् एतत् ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-९/६३) न हि ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-१०/६३) कथम् अनुच्यमानम् गंस्यते ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-११/६३) मानम् हि नाम अनिर्ज्ञातज्ञानार्थम् उपादीयते अनिर्ज्ञातम् अर्थम् ज्ञास्यामि इति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-१२/६३) तत् समीपे यत् न अत्यन्ताय मिमीते तत् उपमानम् ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-१३/६३) गौः इव गवयः इति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-१४/६३) गौः निर्ज्ञातः गवयः अनिर्ज्ञातः ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-१५/६३) कामम् तर्हि अनेन एव हेतुना यस्य गवयः निर्ज्ञातः स्यात् गौः अनिर्ज्ञातः तेन कर्तव्यम् स्यात् गवयः इव गौः इति. बाढम् कर्तव्यम् ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-१६/६३) किम् पुनः इह उदाहरणम् ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-१७/६३) शस्त्रीश्यामा ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-१८/६३) क्व पुनः अयम् श्यामाशब्दः वर्तते ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-१९/६३) शत्र्याम् इति आह ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-२०/६३) केन इदानीम् देवदत्ता अभिधीयते ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-२१/६३) समासेन. यदि एवम् शस्त्रीश्यामो देवदत्तः इति न सिध्यति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-२२/६३) उपसर्जनस्य इति ह्रस्वत्वम् भविष्यति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-२३/६३) यदि तर्हि उपसर्जनानि अपि एवञ्जातीयकानि भवन्ति तित्तिरिकल्माषी कुम्भकपाललोहिनी अनुपसर्जनलक्षणः ईकारः न प्राप्नोति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-२४/६३) एवम् तर्हि शस्त्र्याम् एव शस्त्रीशब्दः वर्तते देवदत्तायाम् श्यामाशब्दः ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-२५/६३) एवम् अपि गुणः अनिर्दिष्टः भवति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-२६/६३) बहवः शस्त्र्याम् गुणाः तीक्ष्णा सूक्ष्मा पृथुः इति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-२७/६३) अनिर्दिश्यमानस्य अपि गुणस्य भवति लोके सम्प्रत्ययः ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-२८/६३) तत् यथा चन्द्रमुखी देवदत्ता इति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-२९/६३) बहवः चन्द्रे गुणाः या च असौ प्रियदर्शनता सा गम्यते ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-३०/६३) एवम् अपि समानाधिकरणेन इति वर्तते ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-३१/६३) व्यधिकरणत्वात् समासः न प्राप्नोति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-३२/६३) किम् हि वचनात् न भवति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-३३/६३) यदि अपि तावत् वचनात् समासः स्यात् इह तु खलु मृगी इव चपला मृगचपला समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-३४/६३) एवम् तर्हि तस्याम् एव उभयम् वर्तते ।



(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-३५/६३) एतत् च अत्र युक्तम् यत् तस्याम् एव उभयम् वर्तते इति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-३६/६३)
इतरथा हि बहु अपेक्ष्यम् स्यात् ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-३७/६३) यदि तावत् एवम् विग्रहः क्रियते शस्त्री इव श्यामा देवदत्ता इति शस्त्र्याम् श्यामा इति एतत् अपेक्ष्यम् ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-३८/६३) अथ अपि एवम् विग्रहः क्रियते यथा सास्त्रीश्यामा तद्वत् इयम् देवदत्ता इति एवम् अपि देवदत्तायाम् श्यामा इति अपेक्ष्यम् स्यात् ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-३९/६३) एवम् अपि गुणः अनिर्दिष्टः भवति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-४०/६३) बहवः शस्त्र्याम् गुणाः तीक्ष्णा सूक्ष्मा पृथुः इति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-४१/६३) अनिर्दिश्यमानस्य अपि गुणस्य भवति लोके सम्प्रत्ययः ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-४२/६३) तत् यथा चन्द्रमुखी देवदत्ता इति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-४३/६३) बहवः चन्द्रे गुणाः या च असौ प्रियदर्शनता सा गम्यते ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-४४/६३) उपमानसमासे गुणवचनस्य विशेषभाक्त्वात् सामन्यवचनाप्रसिद्धिः ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-४५/६३) उपमानसमासे गुणवचनस्य विशेषभाक्त्वात् सामन्यवचनस्य अप्रसिद्धिः स्यात् ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-४६/६३) शस्त्रीश्यामा ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-४७/६३) श्यामाशब्दः अयम् शस्त्रीशब्देन अभिसम्बध्यमानः विशेषवचनः सम्पद्यते ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-४८/६३) तत्र सामान्यवचनैः इति समासः न प्राप्नोति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-४९/६३) न वा श्यामत्वस्यो उह्हयत्र भावात् तद्वाचक्त्वात् च शब्दस्य सामान्यवचनप्रसिद्धिः ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-५०/६३) न वा एषः दोषः ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-५१/६३) किम् कारणम् ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-५२/६३) श्यामत्वस्यो उह्हयत्र भावात् ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-५३/६३) उभयत्र एव श्यामत्वम् अस्ति शस्त्र्याम् देवदत्तायाम् च ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-५४/६३) तद्वाचक्त्वात् च शब्दस्य ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-५५/६३) सामान्यवचनप्रसिद्धिः तद्वाचकः च अत्र श्यामाशब्दः प्रयुज्यते ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-५६/६३) किम्वाचकः ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-५७/६३) उभयवाचकः ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-५८/६३) श्यामत्वस्य उभयत्र भावात् तद्वाचकत्वात् च शब्दस्य सामान्यवचनम् प्रसिद्धम् ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-५९/६३) सामान्यवचने प्रसिद्धे सामान्यवचनैः इति समासः भविष्यति ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-६०/६३) न च अवश्यम् सः एव सामान्यवचनः यः बहूनाम् सामान्यम् आह. द्वयोः अपि सामान्यम् आह सः अपि सामान्यवचनः एव ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-६१/६३) अथ वा सामान्यवचनैः इति उच्यते ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-६२/६३) सर्वः च शब्दः अन्येन शब्देन अभिसम्बध्यमानः विशेषवचनः सम्पद्यते ।

(पा-२,१.५५; अकि-१,३९७.५-३९८.१९; रो-२,६१९-६२७; भा-६३/६३) ते एवम् विज्ञास्यामः प्राक् अभिसम्बन्धात् सामान्यवचनः इति ।

(पा-२,१.५६; अकि-१,३९८.२१-३९९.२; रो-२,६२७-६२८; भा-१/१३) सामान्याप्रयोगे इति किमर्थम् ।

(पा-२,१.५६; अकि-१,३९८.२१-३९९.२; रो-२,६२७-६२८; भा-२/१३) इह मा भूत् ।

(पा-२,१.५६; अकि-१,३९८.२१-३९९.२; रो-२,६२७-६२८; भा-३/१३) पुरुषः अयम् व्याघ्रः इव शूरः ।

(पा-२,१.५६; अकि-१,३९८.२१-३९९.२; रो-२,६२७-६२८; भा-४/१३) पुरुषः अयम् व्याघ्रः इव बलवान् ।

(पा-२,१.५६; अकि-१,३९८.२१-३९९.२; रो-२,६२७-६२८; भा-५/१३) सामान्याप्रयोगे इति शक्यम् अकर्तुम् ।

(पा-२,१.५६; अकि-१,३९८.२१-३९९.२; रो-२,६२७-६२८; भा-६/१३) कस्मात् न भवति पुरुषः अयम् व्याघ्रः इव शूरः ।

(पा-२,१.५६; अकि-१,३९८.२१-३९९.२; रो-२,६२७-६२८; भा-७/१३) पुरुषः अयम् व्याघ्रः इव बलवान् इति ।

(पा-२,१.५६; अकि-१,३९८.२१-३९९.२; रो-२,६२७-६२८; भा-८/१३) असामर्थ्यात् ।

(पा-२,१.५६; अकि-१,३९८.२१-३९९.२; रो-२,६२७-६२८; भा-९/१३) कथम् असामर्थ्यम् ।

(पा-२,१.५६; अकि-१,३९८.२१-३९९.२; रो-२,६२७-६२८; भा-१०/१३) सापेक्षम् असमर्थम् भवति इति ।

(पा-२,१.५६; अकि-१,३९८.२१-३९९.२; रो-२,६२७-६२८; भा-११/१३) एवम् तर्हि सिद्धे सति यत् सामान्याप्रयोगे इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति वै प्रधानस्य सापेक्षस्य अपि समासः इति ।

(पा-२,१.५६; अकि-१,३९८.२१-३९९.२; रो-२,६२७-६२८; भा-१२/१३) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-२,१.५६; अकि-१,३९८.२१-३९९.२; रो-२,६२७-६२८; भा-१३/१३) राजपुरुषः अभिरूपः राजपुरुषः दर्शनीयः अत्र वृत्तिः सिद्धा भवति ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-१/३४) विशेषणविशेष्ययोः उभयविशेषणत्वात् उभयोः च विशेष्यत्वात् उपसर्जनाप्रसिद्धिः ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-२/३४) विशेषणविशेष्ययोः उभयविशेषणत्वात् उभयोः च विशेष्यत्वात् उपसर्जन्स्य अप्रसिद्धिः ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-३/३४) कृष्णतिलाः इति कृष्णशब्दः अयम् तिलशब्देन अभिसम्बध्यमानः विशेषणवचनः सम्पद्यते ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-४/३४) तथा तिलशब्दः कृष्णशब्देन अभिसम्बध्यमानः विशेषणवचनः सम्पद्यते ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-५/३४) तत् उभयम् विशेषणम् भवति उभयम् च विशेष्यम् ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-६/३४) विशेषणविशेष्ययोः उभयविशेषणत्वात् उभयोः च विशेष्यत्वात् उपसर्जन्स्य अप्रसिद्धिः ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-७/३४) न वा अन्यतरस्य प्रधानभावात् तद्विशेषकत्वात् च अपरस्य उपसर्जनप्रसिद्धिः ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-८/३४) न वा एषः दोषः ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-९/३४) किम् कारणम् ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-१०/३४) अन्यतरस्य प्रधानभावात् ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-११/३४) अन्यतरत् अत्र प्रधानम् ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-१२/३४) तद्विशेषकत्वात् च अपरस्य ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-१३/३४) तद्विशेषकम् च अपरम् ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-१४/३४) अन्यतरस्य प्रधानभावात् तद्विशेषकत्वात् च अपरस्य उपसर्जनसञ्ज्ञा भविष्यति ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-१५/३४) यदा अस्य तिलाः प्राधान्येन विवक्षिताः भवन्ति कृष्णः विशेषणत्वेन तदा तिलाः प्रधानम् कृष्णः विशेषणम् ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-१६/३४) कामम् तर्हि अनेन एव हेतुना यस्य कृष्णाः प्राधान्येन विवक्षिताः भवन्ति तिलाः विशेषणत्वेन तेन कर्तव्यम् तिलकृष्णाः इति ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-१७/३४) न कर्तव्यम् ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-१८/३४) न हि अयम् द्वन्द्वः तिलाः च कृष्णाः च इति ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-१९/३४) न खलु अपि षष्ठीसमासः तिलानाम् कृष्णाः इति ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-२०/३४) किम् तर्हि ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-२१/३४) द्वौ इमौ प्रधानशब्दौ एकस्मिन् अर्थे युगपत् अवरुध्येते ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-२२/३४) न च द्वयोः प्रधानशब्दयोः एकस्मिन् अर्थे युगपत् अवरुध्यमानयोः किम् चित् अपि प्रयोजनम् अस्ति ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-२३/३४) तत्र प्रयोगात् एतत् गन्तव्यम् ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-२४/३४) नूनम् अत्र अन्यतरत् प्रधानम् तद्विशेषकम् च अपरम् इति ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-२५/३४) तत्र तु एतावान् सन्देहः किम् प्रधानम् किम् विशेषणम् इति ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-२६/३४) सः च अपि क्व सन्देहः ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-२७/३४) यत्र उभौ गुणशब्दौ ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-२८/३४) तत् यथा कुञ्जखञ्जकः खञ्जकुब्जकः इति ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-२९/३४) यत्र हि अन्यतरत् द्रव्यम् अन्यतरः गुणः तत्र यत् द्रव्यम् तत् प्रधानम् ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-३०/३४) तत् यथा शुक्लम् आलभेत कृष्णम् आलभेत इति न पिष्टपिण्डीम् आलभ्य कृती भवति ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-३१/३४) अवश्यम् तद्गुणम् द्रव्यम् आकाङ्क्षति ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-३२/३४) कथम् तर्हि इमौ द्वौ प्रधानशब्दौ एकस्मिन् अर्थे युगपत् अवरुध्येते वृक्षः शिंशिपा इति ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-३३/३४) न एतयोः आवश्यकः समावेशः ।

(पा-२,१.५७; अकि-१,३९९.४-२६; रो-२,६२८-६३२; भा-३४/३४) न हि अवृक्षः शिंशिपा अस्ति ।

(पा-२,१.५८; अकि-१,४००.२-११; रो-२,६३३-६३४; भा-१/१४) अथ किमर्थम् उत्तरत्र एवमादि अनुक्रमणम् क्रियते न विशेषणम् विशेष्येण बहुलम् इति एव सिद्धम् ।

(पा-२,१.५८; अकि-१,४००.२-११; रो-२,६३३-६३४; भा-२/१४) बहुलवचनस्य अकृत्स्नत्वात् उत्तरत्रानुक्रमणसामर्थ्यम् ।

(पा-२,१.५८; अकि-१,४००.२-११; रो-२,६३३-६३४; भा-३/१४) अकृत्स्नम् बहुलवचनम् इति उत्तरत्र अनुक्रमणम् क्रियते ।

(पा-२,१.५८; अकि-१,४००.२-११; रो-२,६३३-६३४; भा-४/१४) यदि अकृत्स्नम् यत् अनेन कृतम् अकृतम् तत् ।

(पा-२,१.५८; अकि-१,४००.२-११; रो-२,६३३-६३४; भा-५/१४) एवम् तर्हि न ब्रूमः अकृत्स्नम् इति ।

(पा-२,१.५८; अकि-१,४००.२-११; रो-२,६३३-६३४; भा-६/१४) कृत्स्नम् च कारकम् च साधकम् च निर्वर्तकम् च ।

(पा-२,१.५८; अकि-१,४००.२-११; रो-२,६३३-६३४; भा-७/१४) यत् च अनेन कृतम् सुक्तृतम् तत् ।

(पा-२,१.५८; अकि-१,४००.२-११; रो-२,६३३-६३४; भा-८/१४) किमर्थम् तर्हि एवमादि अनुक्रमणम् क्रियते ।

(पा-२,१.५८; अकि-१,४००.२-११; रो-२,६३३-६३४; भा-९/१४) उदाहरणभूयस्त्वात् ।

(पा-२,१.५८; अकि-१,४००.२-११; रो-२,६३३-६३४; भा-१०/१४) ते खलु अपि विधयः सुपरिगृहीताः भवन्ति येषु लक्षणम् प्रपञ्चः च ।

(पा-२,१.५८; अकि-१,४००.२-११; रो-२,६३३-६३४; भा-११/१४) केवलम् लक्षणम् केवलः प्रपञ्चः वा न तथा कारकम् भवति ।

(पा-२,१.५८; अकि-१,४००.२-११; रो-२,६३३-६३४; भा-१२/१४) अवश्यम् खलु अस्माभिः इदम् वक्तव्यम् बहुलम् अन्यतरस्याम् उभयथा वा एकेषाम् इति ।

(पा-२,१.५८; अकि-१,४००.२-११; रो-२,६३३-६३४; भा-१३/१४) सर्ववेदपाऋइषदम् हि इदम् शास्त्रम् ।

(पा-२,१.५८; अकि-१,४००.२-११; रो-२,६३३-६३४; भा-१४/१४) तत्र न एकः पन्थाः शक्यः आस्थातुम्

(पा-२,१.५९; अकि-१,४००.१३-१८; रो-२,६३५; भा-१/११) श्रेण्यादयः पठ्यन्ते ।

(पा-२,१.५९; अकि-१,४००.१३-१८; रो-२,६३५; भा-२/११) कृतादिः आकृतिगणः ।

(पा-२,१.५९; अकि-१,४००.१३-१८; रो-२,६३५; भा-३/११) श्रेण्यादिषु च्व्यर्थवचनम् ।

(पा-२,१.५९; अकि-१,४००.१३-१८; रो-२,६३५; भा-४/११) श्रेण्यादिषु च्व्यर्थग्रहणम् कर्तव्यम् ।

(पा-२,१.५९; अकि-१,४००.१३-१८; रो-२,६३५; भा-५/११) अश्रेणयः श्रेणयः कृताः श्रेणिकृताः ।

(पा-२,१.५९; अकि-१,४००.१३-१८; रो-२,६३५; भा-६/११) यदा हि श्रेणयः एव किम् चित् क्रियन्ते तदा मा भूत् ।

(पा-२,१.५९; अकि-१,४००.१३-१८; रो-२,६३५; भा-७/११) अन्यत्र अयम् च्व्यर्थग्रहणेषु च्व्यन्तस्य प्रतिषेधम् शास्ति ।

(पा-२,१.५९; अकि-१,४००.१३-१८; रो-२,६३५; भा-८/११) तत् इह न तथा ।

(पा-२,१.५९; अकि-१,४००.१३-१८; रो-२,६३५; भा-९/११) किम् कारणम् ।

(पा-२,१.५९; अकि-१,४००.१३-१८; रो-२,६३५; भा-१०/११) अन्यत्र पूर्वम् च्व्यन्तकार्यम् परम् च्व्यर्थकार्यम् ।

(पा-२,१.५९; अकि-१,४००.१३-१८; रो-२,६३५; भा-११/११) इह पुनः पूर्वम् च्य्वर्थकार्यम् परम् च्व्यन्तकार्यम् इति ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-१/४९) नञ्विशिष्टे समानप्रकृतिवचनम् ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-२/४९) नञ्विशिष्टे समानप्रकृतिग्रहणम् कर्तव्यम् ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-३/४९) इह मा बूत् ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-४/४९) सिद्धम् च अभुक्तम् च इति ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-५/४९) अनञ् इति च प्रतिषेधः कर्तव्यः ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-६/४९) इह मा भूत् ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-७/४९) कर्तव्यम् अकृतम् इति ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-८/४९) नुडिडधिकेन च ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-९/४९) नुडिडधिकेन च समासः वक्तव्यः ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-१०/४९) इह अपि यथा स्यात् ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-११/४९) अशितानशितेन जीवति ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-१२/४९) क्लिष्टाक्लिशितेन जीवति ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-१३/४९) किम् उच्यते समानप्रकृतिग्रहणम् कर्तव्यम् इति यदा नञ्विशिष्टेन इति उच्यते ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-१४/४९) न च अत्र नञ्कृतः एव विशेषः ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-१५/४९) किम् तर्हि ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-१६/४९) प्रकृतिकृतः अपि ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-१७/४९) अयम् विशिष्टशब्दः अस्ति एव अवधारणे वर्तते ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-१८/४९) तत् यथा ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-१९/४९) देवदत्तयज्ञदत्तौ आढ्यौ अभिरूपौ दर्शनीयौ पक्षवन्तौ देवदत्तः तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-२०/४९) स्वाध्यायेन एव इति गम्यते ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-२१/४९) अन्ये गुणाः समाः भवन्ति ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-२२/४९) अस्ति आधिक्ये वर्तते ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-२३/४९) तत् यथा ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-२४/४९) देवदत्तयज्ञदत्तौ आढ्यौ अभिरूपौ दर्शनीयौ पक्षवन्तौ देवदत्तः तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-२५/४९) स्वाध्यायेन अधिकः अन्ये गुणाः अविवक्षिताः भवन्ति ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-२६/४९) तत् यदा तावत् अवधारणे विशिष्टशब्दः तदा न एव अर्थः समानप्रकृतिग्रहणेन ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-२७/४९) न इह भविष्यति ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-२८/४९) सिद्धम् च अभुक्तम् च इति ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-२९/४९) न अपि अनञ् इति प्रतिषेधेन ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-३०/४९) न इह भविष्यति कर्तव्यम् अकृतम् इति ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-३१/४९) नुडिडधिकेन अपि तु तदा समासः न प्राप्नोति ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-३२/४९) यदा आधिक्ये विशिष्टशब्दः तदा समानप्रकृतिग्रहणम् कर्तव्यम् ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-३३/४९) इह मा भूत् षिद्धम् च अभुक्तम् च इति ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-३४/४९) अनञ् इति च प्रतिषेधः कर्तव्यः ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-३५/४९) इह मा भूत् ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-३६/४९) कर्तव्यम् अकृतम् इति ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-३७/४९) नुडिडधिकेन अपि तु समासद्ः सिद्धः भवति ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-३८/४९) तत्र आधिक्ये विशिष्टग्रहणम् मत्वा समानप्रकृतिग्रहणम् चोद्यते ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-३९/४९) अवधारणम् नञा चेत् नुडिड्विशिष्टेन न प्रकल्पेत ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-४०/४९) अथ चेत् अधिकविवक्षा कार्यम् तुल्यप्रकृतिकेन इति ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-४१/४९) कृतापकृतादीनाम् च उपसङ्ख्यानम् ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-४२/४९) कृतापकृतादीनाम् च उपसङ्ख्यानम् ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-४३/४९) कृतापकृतम् भुक्तविभुक्तम् पीतविपीतम् ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-४४/४९) सिद्धम् तु क्तेन विसमाप्तौ अनञ् ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-४५/४९) सिद्धम् एतत् ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-४६/४९) कथम्. क्तान्तेन क्रियाविसमाप्तौ अनञ् क्तान्तम् समस्यते इति वक्तव्यम् ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-४७/४९) गतप्रत्यागतादीनाम् च उपसङ्ख्यानम् ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-४८/४९) गतप्रत्यागतादीनाम् च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-२,१.६०; अकि-१,४००.२०-४०१.२७; रो-२,६३५-६३८; भा-४९/४९) गतप्रत्यागतम् यातानुयातम् पुटापुटिका क्रयाक्रयिका फलाफलिका मानोन्मानिका ।

(पा-२,१.६७; अकि-१,४०२.२-५; रो-२,६३९; भा-१/६) अयुक्तः अयम् निर्देशः ।

(पा-२,१.६७; अकि-१,४०२.२-५; रो-२,६३९; भा-२/६) समानाधिकरणेन इति वर्तते ।

(पा-२,१.६७; अकि-१,४०२.२-५; रो-२,६३९; भा-३/६) कः प्रसङ्गः यद् व्यधिकरणानाम् समासः स्यात् ।

(पा-२,१.६७; अकि-१,४०२.२-५; रो-२,६३९; भा-४/६) एवम् तर्हि ज्ञापयति आचार्यः यथाजातीयकम् उक्तम् उत्तरपदम् तथाजातीयकेन पूर्वपदेन समस्यते इति ।

(पा-२,१.६७; अकि-१,४०२.२-५; रो-२,६३९; भा-५/६) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-२,१.६७; अकि-१,४०२.२-५; रो-२,६३९; भा-६/६) प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एषा परिभाषा न कर्तव्या भवति ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-१/३७) इदम् विचार्यते ॒ वर्णेन तृतीयासमासः वा स्यात् ॒ कृष्णेन सारङ्गः कृष्णसारङ्गः समानाधिकरणेन वा ॒ कृष्णः सारङ्गः कृष्णसारङ्गः इति ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-२/३७) कः च अत्र विशेषः ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-३/३७) वर्णेन तृतीयासमासः एतप्रतिषेधे वर्णग्रहणम् ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-४/३७) वर्णेन तृतीयासमासः एतप्रतिषेधे वर्णग्रहणम् कर्तव्यम् ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-५/३७) तृतीया पूर्वपदम् प्रकृतिस्वरम् भवति ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-६/३७) अनेते वर्णः इति वक्तव्यम् ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-७/३७) अथ द्वितीयेन वर्णग्रहणेन एतविशेषणेन अर्थः ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-८/३७) बाढम् अर्थः यदि अवर्ण एतशब्दः अस्ति ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-९/३७) ननु च अयम् अस्ति ॒ आ* इतः एतः , कृष्णेतः , लोहितेतः इति ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-१०/३७) न अर्थः एवमर्थेन वर्णग्रहणेन ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-११/३७) यदि तावत् अयम् कर्तरि क्तः तृतीया कर्मणि इति अनेन स्वरेण भवितव्यम् ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-१२/३७) अथ अपि कर्तरि परत्वात् कृत्स्वरेण भवितव्यम् ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-१३/३७) अथ समानाधिकरणः ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-१४/३७) समानाधिकरणे द्विः वर्णग्रहणम् ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-१५/३७) समानाधिकरणे द्विः वर्णग्रहणम् कर्तव्यम् ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-१६/३७) वर्णः वर्णेषु अनेते इति वक्तव्यम् ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-१७/३७) एकम् वर्णग्रहणम् कर्तव्यम् इह मा भूत् ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-१८/३७) परमशुक्लः परमकृष्णः इति ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-१९/३७) द्वितीयम् वर्णग्रहणम् कर्तव्यम् इह मा भूत् ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-२०/३७) कृष्णतिलाः इति ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-२१/३७) एकम् वर्णग्रहणम् अनक्र्थकम् ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-२२/३७) अन्यतरत्र कस्मात् न भवति ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-२३/३७) लक्षणप्रतिपदिकोक्तयोः प्रतिपदोक्तस्य एव इति ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-२४/३७) एवम् सति ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-२५/३७) तानि एतानि त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-२६/३७) यस्य अपि तृतीयासमासः तस्य अपि तानि एव त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-२७/३७) सामान्येन मम तृतीयासमासः भविष्यति तृतीया तत्कृतार्थेन गुणवचनेन इति ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-२८/३७) अवश्यम् वर्णेन प्रतिपदम् समासः वक्तव्यः यत्र तेन न सिध्यति तदर्थम् ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-२९/३७) क्व च तेन न सिध्यति ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-३०/३७) शुकबभ्रुः हरितबभ्रुः इति ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-३१/३७) तथा च सति तानि एव त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-३२/३७) अथ समानाधिकरणः सामान्येन सिद्धः स्यात् ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-३३/३७) बाढम् सिद्धः ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-३४/३७) कथम् ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-३५/३७) विशेषणम् विशेष्येण बहुलम् इति ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-३६/३७) एवम् अपि द्वे वर्णग्रहणे कर्तव्ये स्वरविधौ एव प्रतिपदोक्तस्य अभावात् ।

(पा-२,१.६९.१; अकि-१,४०२.७-४०३.६; रो-२,६३९-६४१; भा-३७/३७) तस्मात् समानाधिकरणः इति एषः पक्षः ज्यायान् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१/१५१) समानाधिकरणाधिकारे प्रधानोपसर्जनानाम् परम् परम् विप्रतिषेधेन ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-२/१५१) समानाधिकरणाधिकारे प्रधानोपसर्जनानाम् परम् परम् भवति विप्रतिषेधेन ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-३/१५१) प्रधानानाम् प्रधानम् उपसर्जनानाम् उपसर्जनम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-४/१५१) प्रधानानाम् तावत् प्रधानम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-५/१५१) वृदारकनागकुञ्जरैः पूज्यमानम् इति अस्य अवकाशः गोवृन्दारकः अश्ववृन्दारकः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-६/१५१) पोटायुवतीनाम् अवकाशः इभ्ययुवतिः आढ्ययुवतिः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-७/१५१) इह उभयम् प्राप्नोति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-८/१५१) नागयुवतिः वृन्दारकयुवतिः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-९/१५१) प्रधानानाम् परम् भवति विप्रतिषेधेन ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१०/१५१) उपसर्जनानाम् परम् उपसर्जनम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-११/१५१) सन्महत्परमोत्कृष्टाः इति अस्य अवकाशः सद्गवः सदश्वः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१२/१५१) कृत्यतुल्याख्या अजात्या इति अस्य अवकाशः तुल्यश्वेतः तुल्यकृष्णः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१३/१५१) इह उभयम् प्राप्नोति ॒ तुल्यसत् तुल्यमहान् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१४/१५१) उपसर्जनानाम् परम् उपसर्जनम् भवति विप्रतिषेधेन ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१५/१५१) समानाधिकरणसमासात् बहुव्रीहिः । समानाधिकरणसमासात् बहुव्रीहिः भवति विप्रतिषेधेन ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१६/१५१) समानाधिकरणसमासस्य अवकाशः वीरः पुरुषः वीरपुरुषः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१७/१५१) बहुव्रीहेः अवकाशः कण्ठेकालः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१८/१५१) इह उभयम् प्राप्नोति ॒ वीरपुरुषकः ग्रामः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१९/१५१) बहुव्रीहिः भवति विप्रतिषेधेन ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-२०/१५१) कदा चित् कर्मधारयः सर्वधनाद्यर्थः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-२१/१५१) कदा चित् कर्मधारयः भवति बहुव्रीहेः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-२२/१५१) किम् प्रयोजनम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-२३/१५१) सर्वधनाद्यर्थः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-२४/१५१) सर्वधनी सर्वबीजी सर्वकेशी नटः गौरखरवत् वनम् गौरमृगवत् वनम् कृष्णसर्पवान् वल्मीकः लोहितशालिमान् ग्रामः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-२५/१५१) किम् प्रयोजनम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-२६/१५१) कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् यथा स्यात् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-२७/१५१) किम् च कारणम् न स्यात् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-२८/१५१) बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-२९/१५१) यदि उक्तत्वम् हेतुः कर्मधारयेण अपि उक्तत्वात् न प्राप्नोति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-३०/१५१) न खलु अपि सञ्ज्ञाश्रयः मत्वर्थीयः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-३१/१५१) किम् तर्हि ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-३२/१५१) अर्थाश्रयः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-३३/१५१) सः यथा एव बहुव्रीहिणा उक्तत्वात् न भवति एवम् कर्मधारयेण अपि उक्तत्वात् न भविष्यति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-३४/१५१) एवम् तर्हि इदम् स्यात् ॒ सर्वाणि धनानि सर्वधनानि सर्वधनानि अस्य सनिति सर्वधनी ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-३५/१५१) न एवम् शक्यम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-३६/१५१) नित्यम् एवम् सति कर्मधारयः स्यात् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-३७/१५१) तत्र यत् उक्तम् कदा चित् कर्मधारयः इति एतत् अयुक्तम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-३८/१५१) एवम् तर्हि भवति वै किम् चित् आचार्याः कार्यवत् बुद्धिम् कृत्वा पठन्ति कार्याः शब्दाः इति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-३९/१५१) तद्वत् इदम् पठितम् समानाधिकरणसमादात् बहुव्रीहिः कर्तव्यः कदा चित् कर्मधारयः सर्वधनाद्यर्थः इति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-४०/१५१) यद् उच्यते समानाधिकरणसमासात् बहुव्रीहिः भवति विप्रतिषेधेन इति न एषः युक्तः विप्रतिषेधः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-४१/१५१) अन्तरङ्गः कर्मधारयः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-४२/१५१) का अन्तरङ्गता ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-४३/१५१) स्वपदार्थे कर्मधारयः अन्यपदार्थे बहुव्रीहिः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-४४/१५१) अस्तु ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-४५/१५१) विभाषा कर्मधारयः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-४६/१५१) यदा न कर्मधारयः तदा बहुव्रीहिः भविष्यति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-४७/१५१) एवम् अपि यदि अत्र कदा चित् कर्मधारयः भवति कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् प्राप्नोति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-४८/१५१) सर्वः च अयम् एवमर्थः यत्नः कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् मा भूत् इति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-४९/१५१) एवम् तर्हि न इदम् तस्य योगस्य उदाहरणम् विप्रतिषेधे परम् इति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-५०/१५१) किम् तर्हि ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-५१/१५१) इष्टिः इयम् पठिता ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-५२/१५१) समानाधिकरणसमासात् बहुव्रीहिः इष्टः कदा चित् कर्मधारयः सर्वधनाद्यर्थः इति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-५३/१५१) यदि इष्टिः पठिता न अर्थः अनेन ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-५४/१५१) इह हि सर्वे मनुष्याः अल्पेन यत्नेन महतः अर्थान् आकाङ्क्षन्ति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-५५/१५१) एकेन माषेण शतसहस्रम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-५६/१५१) एकेन कुद्दालकेन खारीसहस्रम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-५७/१५१) तत्र कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् अस्तु बहुव्रीहिणा इति बहुव्रीहिणा भविष्यति लघुत्वात् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-५८/१५१) कथम् सर्वधनी सर्वबीजी सर्वकेशी नटः इति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-५९/१५१) इनिप्रकरणे सर्वादेः इनिम् वक्ष्यामि ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-६०/१५१) तत् च अवश्यम् वक्तव्यम् ठनः बाधनार्थम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-६१/१५१) कथम् गौरखरवत् वनम् गौरमृगवत् वनम् कृष्णसर्पवान् वल्मीकः लोहितशालिमान् ग्रामः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-६२/१५१) अस्ति अत्र विशेषः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-६३/१५१) जात्या अत्र अभिसम्बन्धः क्रियते ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-६४/१५१) कृष्णसर्पः नाम सर्पजातिः सा अस्मिन् वल्मीके अस्ति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-६५/१५१) यदा हि अन्तरेण जातिम् तद्वताम् अभिसम्बन्धः क्रियते कृष्णसर्पः वल्मीकः इति एवम् तदा भविष्यति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-६६/१५१) पूर्वपदातिशये आतिशायिकात् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-६७/१५१) पूर्वपदातिशये आतिशायिकात् बहुव्रीहिः भवति विप्रतिषेधेन ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-६८/१५१) किम् प्रयोजनम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-६९/१५१) सूक्ष्मवस्त्रतराद्यर्थः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-७०/१५१) आतिशायिकस्य अवकाशः पटुतरः पटुतमः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-७१/१५१) बहुव्रीहेः अवकाशः चित्रगुः शबलगुः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-७२/१५१) इह उभयम् प्राप्नोति सूक्ष्मवस्त्रतरः तीक्ष्ण्शृङ्गतरः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-७३/१५१) बहुव्रीहिः भवति विप्रतिषेधेन ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-७४/१५१) न एषः युक्तः विप्रतिषेधः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-७५/१५१) विर्पतिषेधे परम् इति उच्यते ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-७६/१५१) पूर्वः च बहुव्रीहिः परः आतिशायिकः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-७७/१५१) इष्टवाची परशब्दः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-७८/१५१) विप्रतिषेधे परम् यत् इष्टम् तत् भवति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-७९/१५१) एवम् अपि अयुक्तः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-८०/१५१) अन्तरङ्गः आतिशाइयिकः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-८१/१५१) का अन्तरङ्गता ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-८२/१५१) ङ्याप्प्रातिपदिकात् आतिशायिकः सुबन्तानाम् बहुव्रीहिः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-८३/१५१) आतिशायिकः अपि न अन्तरङ्गः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-८४/१५१) कथम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-८५/१५१) समर्थात् तद्धितः उत्पद्यते सामर्थ्यम् च सुबन्तेन्त ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-८६/१५१) एवम् अपि अन्तरङ्गः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-८७/१५१) कथम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-८८/१५१) स्वपदार्थे आतिशायिकः अन्यपदार्थे बहुव्रीहिः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-८९/१५१) एवम् अपि न अन्तरङ्गः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-९०/१५१) कथम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-९१/१५१) स्पर्धायाम् आतिशायिकः भवति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-९२/१५१) न च अन्तरेण प्रतियोगिनम् स्पर्धा भवति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-९३/१५१) न एव वा अत्र आतिशायिकः प्राप्नोति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-९४/१५१) किम् कारणम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-९५/१५१) असामर्थ्यात् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-९६/१५१) कथम् असामर्थ्यम्. सापेक्षम् असमर्थम् भवति इति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-९७/१५१) यावता वस्त्राणि तद्वन्तम् अपेक्षन्ते तद्वन्तम् च अपेक्ष्य वस्त्राणाम् वस्त्रैः युगपत् स्पर्धा भवति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-९८/१५१) ननु च अयम् आतिशायिकः एवमात्मकः सत्याम् व्यपेक्षायाम् विधीयते ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-९९/१५१) सत्यम् एवमात्मकः याम् च न अनतरेण व्यपेक्षाम् प्रवृत्तिः तस्यम् सत्याम् भवितव्यम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१००/१५१) काम् च न अन्तरेण व्यपेक्षाम् आतिशायिकस्य प्रवृत्तिः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१०१/१५१) या हि प्रतियोगिनम् प्रति व्यपेक्षा ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१०२/१५१) या हि तद्वन्तम् प्रति न तस्याम् भवितव्यम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१०३/१५१) बहुव्रीहिः अपि तर्हि न प्राप्नोति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१०४/१५१) किम् कारणम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१०५/१५१) असामर्थ्यात् एव ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१०६/१५१) कथम् असामर्थ्यम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१०७/१५१) सापेक्षम् असमर्थम् भवति इति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१०८/१५१) यावता वस्त्राणि वस्त्रान्तराणि अपेक्षन्ते तद्वता च अभिसम्बन्धः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१०९/१५१) एवम् तर्हि न इदम् तस्य योगस्य उदाहरणम् विप्रतिषेधे परम् इति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-११०/१५१) किम् तर्हि ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१११/१५१) इष्टिः इयम् पठिता ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-११२/१५१) पूर्वपदातिशये आतिशायिकात् बहुव्रीहिः इष्टः ॒ सूक्ष्मवस्त्रतराद्यर्थः इति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-११३/१५१) यदि इष्टिः इयम् पठिता न अर्थः अनेन ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-११४/१५१) कथम् या एषा युक्तिः उक्ता ॒ यावता वस्त्राणि वस्त्रान्तराणि अपेक्षन्ते तद्वता च अभिसम्बन्धः इति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-११५/१५१) यदा हि अन्तरेण वस्त्राणाम् वस्त्रैः युगपत् स्पर्धाम् तद्वता च अभिसम्बन्धः क्रियते निष्प्रतिद्वन्द्वः तदा बहुव्रीहिः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-११६/१५१) बहुव्रीहेः आतिशायिकः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-११७/१५१) न तर्हि इदानीम् इदम् भवति ॒ सूक्ष्मतरवस्त्रः इति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-११८/१५१) भवति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-११९/१५१) यदा अन्तरेण तद्वन्तम् वस्त्राणाम् वस्त्रैः युगपत् स्पर्धा निष्प्रतिद्वन्द्वः तदा आतिशायिकः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१२०/१५१) कथम् पुनः अन्यस्य प्रकर्षेण अन्यस्य प्रकर्षः स्यात् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१२१/१५१) न एव अन्यस्य प्रकर्षेण अन्यस्य प्रकर्षेण भवितव्यम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१२२/१५१) यथा एव अयम् द्रव्येषु यतते वस्त्राणि मे स्युः इति एवम् गुणेषु अपि यतते सूक्ष्मतराणि मे स्युः इति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१२३/१५१) न अत्र आतिशायिकः प्राप्नोति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१२४/१५१) किम् कारणम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१२५/१५१) गुणवचनात् इति उच्यते ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१२६/१५१) न च समासः गुणवचनः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१२७/१५१) समासः अपि गुणवचनः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१२८/१५१) कथम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१२९/१५१) अजहत्स्वार्था वृत्तिः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१३०/१५१) अथ जहत्स्वार्थायाम् तु दोषः एव ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१३१/१५१) जहत्स्वाऋथायाम् अपि न दोषः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१३२/१५१) भवति बहुव्रीहौ तद्गुणसंविज्ञानम् अपि ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१३३/१५१) तत् यथा ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१३४/१५१) शुक्लवाससम् आनय ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१३५/१५१) लोहितोष्णीषाः ऋत्विजः प्रचरन्ति इति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१३६/१५१) तत्गुणः आनीयते तद्गुणाः च प्रचरन्ति ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१३७/१५१) उत्तरपदार्थातिशये आतिशायिकः बहुव्रीहेः बह्वाढ्यतराद्यर्थः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१३८/१५१) उत्तरपदार्थातिशये आतिशायिकः बहुव्रीहेः भवति विप्रतिषेधेन ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१३९/१५१) किम् प्रयोजनम् ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१४०/१५१) बह्वाढ्यतराद्यर्थः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१४१/१५१) बह्वाढ्यतरः बहुसुकुमारतरः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१४२/१५१) कः पुनः अत्र विशेषः बहुव्रीहेः वा आतिशायिकः स्यात् आतिशायिकान्तेन वा बहुव्रीहिः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१४३/१५१) स्वरकपोः विशेषः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१४४/१५१) यदि अत्र आतिशायिकात् बहुव्रीहिः स्यात् बह्वाड्यतरः एवम् स्वरः प्रसज्येत बह्वाढ्यतरः इति च इष्यते ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१४५/१५१) बह्वाढ्यकतरः इति च प्राप्नोति बह्वाढ्यतरकः इति च इष्यते ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१४६/१५१) समानाधिकरणाधिकारे शाकपार्थिवादीनाम् उपसङ्ख्यानम् उत्तरपदलोपः च ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१४७/१५१) समानाधिकरणाधिकारे शाकपार्थिवादीनाम् उपसङ्ख्यानम् कर्तव्यम् उत्तरपदलोपः च वक्तव्यः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१४८/१५१) शाकभोजी पार्थिवः शाकपार्थिवः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१४९/१५१) कुतपवासः सौश्रुतः कुतपसौश्रुत्रः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१५०/१५१) अजापण्यः तौल्वलिः अजातौल्वलिः ।

(पा-२,१.६९.२; अकि-१,४०३.७-४०६.८; रो-२,६४१-६५३; भा-१५१/१५१) यष्टिप्रधानः मौद्गल्यः यष्टिमौद्गल्यः ।

(पा-२,१.७१; अकि-१,४०६.१०-११; रो-२,६५३; भा-१/३) चतुष्पात् जातिः इति वक्तव्यम् ।

(पा-२,१.७१; अकि-१,४०६.१०-११; रो-२,६५३; भा-२/३) इह मा भूत् ।

(पा-२,१.७१; अकि-१,४०६.१०-११; रो-२,६५३; भा-३/३) कालाक्षीगर्भिणी स्वस्तिमती गर्भिणी ।

(पा-२,१.७२; अकि-१,४०६.१३-१४; रो-२,६५४; भा-१/५) किमर्थः चकारः ।

(पा-२,१.७२; अकि-१,४०६.१३-१४; रो-२,६५४; भा-२/५) एवकारार्थः ।

(पा-२,१.७२; अकि-१,४०६.१३-१४; रो-२,६५४; भा-३/५) मयूरव्यंसकादयः एव ।

(पा-२,१.७२; अकि-१,४०६.१३-१४; रो-२,६५४; भा-४/५) क्व मा भूत् ।

(पा-२,१.७२; अकि-१,४०६.१३-१४; रो-२,६५४; भा-५/५) परमः मयूरव्यंसकः इति