व्याकरणमहाभाष्य खण्ड 29

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-१/५८) किमर्थम् इदम् उच्यते ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-२/५८) प्रत्यधिकरणम् वचनोत्पत्तेः सङ्ख्यासामानाधिकरण्यात् च द्विगोः एकवचनविधानम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-३/५८) प्रत्यधिकरणम् वचनोत्पत्तिः भवति ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-४/५८) किम् इदम् प्रत्यधिकरणम् इति ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-५/५८) अधिकरणम् अधिकरणम् प्रति प्रत्यधिकरणम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-६/५८) सङ्ख्यासामानाधिकरण्यात् च ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-७/५८) सङ्ख्यया बह्वर्थया च अस्य सामानाधिकरण्यम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-८/५८) प्रत्यधिकरणम् वचनोत्पत्तेः सङ्ख्यासामानाधिकरण्यात् च बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-९/५८) इष्यते च एकवचनम् स्यात् इति ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-१०/५८) तत् च अन्तरेण यत्नम् न सिध्यति इति द्विगोः एकवचनविधानम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-११/५८) एवमर्थम् इदम् उच्यते ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-१२/५८) अस्ति प्रयोजनम् एतत् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-१३/५८) किम् तर्हि इति ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-१४/५८) तत्र अनुप्रयोगस्य एकवचनाभावः अद्विगुत्वात् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-१५/५८) तत्र अनुप्रयोगस्य एकवचनम् न प्राप्नोति ॒ पञ्चपूली इयम् इति ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-१६/५८) किम् कारणम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-१७/५८) अद्विगुत्वात् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-१८/५८) द्विगोः एकवचन्म् इति उच्यते ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-१९/५८) न च अत्र अनुप्रयोगः द्विगुसञ्ज्ञः ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-२०/५८) सिद्धम् तु द्विग्वर्थस्य एकवद्वचनात् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-२१/५८) सिद्धम् एतत् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-२२/५८) कथम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-२३/५८) द्विग्वर्थः एकवत् भवति इति वक्तव्यम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-२४/५८) तत् तर्हि वक्तव्यम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-२५/५८) न वक्तव्यम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-२६/५८) न इदम् पाऋइभाषिकस्य वचनस्य ग्रहणम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-२७/५८) किम् तर्हि ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-२८/५८) अन्वर्थग्रहणम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-२९/५८) उच्यते वचनम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-३०/५८) एकस्य अर्थस्य वचनम् एकवचनम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-३१/५८) एकशेषप्रतिषेधः च ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-३२/५८) एकशेषस्य च प्रतिषेधः वक्तव्यः ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-३३/५८) पञ्चपूली च पञ्चपूली च पञ्चपूली च पञ्चपूल्यः ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-३४/५८) न वा अन्यस्य अनेकत्वात् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-३५/५८) न वा वक्तव्यः ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-३६/५८) किम् कारणम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-३७/५८) अन्यस्य अनेकत्वात् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-३८/५८) न एतत् द्विगोः अनेकत्वम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-३९/५८) कस्य तर्हि ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-४०/५८) द्विग्वर्थसमुदायस्य ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-४१/५८) समाहारग्रहणम् च तद्धितार्थप्रतिषेधार्थम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-४२/५८) समाहारग्रहणम् च कर्तव्यम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-४३/५८) किम् प्रयोजनम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-४४/५८) तद्धितार्थप्रतिषेधार्थम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-४५/५८) तद्धितार्थे यः द्विगुः तस्य मा भूत् इति ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-४६/५८) पञ्चकपालौ पञ्चकपालाः इति ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-४७/५८) किम् पुनः अयम् पञ्चकपालशब्दः प्रत्येकम् परिसमाप्यते आहोस्वित् समुदाये वर्तते ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-४८/५८) किम् च अतः ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-४९/५८) यदि प्रत्येकम् परिसमाप्यते पुरस्तात् एव चोदितम् परिहृतम् च. अथ समुदाये वर्तते ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-५०/५८) न वा समाहारैकत्वात् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-५१/५८) न वा एतत् समाहारैकत्वात् अपि सिध्यति ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-५२/५८) एवम् तर्हि प्रत्येकम् परिसमाप्यते ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-५३/५८) पुरस्तात् एव चोदितम् परिहृतम् च. अपरः आह ॒ न वा समाहारैकत्वात् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-५४/५८) न वा योगारम्भेण एव अर्थः ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-५५/५८) किम् कारणम् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-५६/५८) समाहारैकत्वात् ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-५७/५८) एकः अयम् समाहारः नाम ।

(पा-२,४.१; अकि-१,४७२.२ - ४७३.१०; रो-२,८४३ - ८४६; भा-५८/५८) तस्य एकत्वात् एकवचनम् भविष्यति ।

(पा-२,४.२; अकि-१,४७३.१२-१९; रो-२,८४६-८४७; भा-१/१६) प्राणितूर्यसेनाङ्गानाम् तत्पूर्वपदोत्तरपदग्रहणम् ।

(पा-२,४.२; अकि-१,४७३.१२-१९; रो-२,८४६-८४७; भा-२/१६) प्राणितूर्यसेनाङ्गानाम् तत्पूर्वपदोत्तरपदग्रहणम् कर्तव्यम् ।

(पा-२,४.२; अकि-१,४७३.१२-१९; रो-२,८४६-८४७; भा-३/१६) प्राण्यङ्गानाम् प्राण्यङैः इति वक्तव्यम् ।

(पा-२,४.२; अकि-१,४७३.१२-१९; रो-२,८४६-८४७; भा-४/१६) तूर्याङ्गाणां तूर्याङ्गैः ।

(पा-२,४.२; अकि-१,४७३.१२-१९; रो-२,८४६-८४७; भा-५/१६) सेनाङ्गानाम् सेनाङ्गैः इति ।

(पा-२,४.२; अकि-१,४७३.१२-१९; रो-२,८४६-८४७; भा-६/१६) किम् प्रयोजनम् ।

(पा-२,४.२; अकि-१,४७३.१२-१९; रो-२,८४६-८४७; भा-७/१६) व्यतिकरः मा भूत् इति ।

(पा-२,४.२; अकि-१,४७३.१२-१९; रो-२,८४६-८४७; भा-८/१६) तत् तर्हि वक्तव्यम् ।

(पा-२,४.२; अकि-१,४७३.१२-१९; रो-२,८४६-८४७; भा-९/१६) योगविभागात् सिद्धम् ।

(पा-२,४.२; अकि-१,४७३.१२-१९; रो-२,८४६-८४७; भा-१०/१६) योगविभागः करिष्यते ।

(पा-२,४.२; अकि-१,४७३.१२-१९; रो-२,८४६-८४७; भा-११/१६) द्वन्द्वः च प्राण्यङ्गानाम् ।

(पा-२,४.२; अकि-१,४७३.१२-१९; रो-२,८४६-८४७; भा-१२/१६) ततः तूर्याङ्गाणाम् ।

(पा-२,४.२; अकि-१,४७३.१२-१९; रो-२,८४६-८४७; भा-१३/१६) ततः सेनाङ्गानाम् इति ।

(पा-२,४.२; अकि-१,४७३.१२-१९; रो-२,८४६-८४७; भा-१४/१६) सः तर्हि योगविभागः कर्तव्यः ।

(पा-२,४.२; अकि-१,४७३.१२-१९; रो-२,८४६-८४७; भा-१५/१६) न कर्तव्यः ।

(पा-२,४.२; अकि-१,४७३.१२-१९; रो-२,८४६-८४७; भा-१६/१६) प्रत्येकम् अङ्गशब्दः परिसमाप्यते ।

(पा-२,४.३; अकि-१,४७३.२१-४७४.५; रो-२,८४७; भा-१/११) इह कस्मात् न भवति ।

(पा-२,४.३; अकि-१,४७३.२१-४७४.५; रो-२,८४७; भा-२/११) नन्दन्तु कठकालापाः ।

(पा-२,४.३; अकि-१,४७३.२१-४७४.५; रो-२,८४७; भा-३/११) वर्धन्ताम् कठकौथुमाः ।

(पा-२,४.३; अकि-१,४७३.२१-४७४.५; रो-२,८४७; भा-४/११) स्थेणोः ।

(पा-२,४.३; अकि-१,४७३.२१-४७४.५; रो-२,८४७; भा-५/११) स्थेणोः इति वक्तव्यम् ।

(पा-२,४.३; अकि-१,४७३.२१-४७४.५; रो-२,८४७; भा-६/११) एवम् अपि तिष्ठन्तु कठकालापाः इति अत्र अपि प्राप्नोति ।

(पा-२,४.३; अकि-१,४७३.२१-४७४.५; रो-२,८४७; भा-७/११) अद्यतन्याम् च ।

(पा-२,४.३; अकि-१,४७३.२१-४७४.५; रो-२,८४७; भा-८/११) अद्यतन्याम् च इति वक्तव्यम् ।

(पा-२,४.३; अकि-१,४७३.२१-४७४.५; रो-२,८४७; भा-९/११) उदगात् कठकापालम् ।

(पा-२,४.३; अकि-१,४७३.२१-४७४.५; रो-२,८४७; भा-१०/११) प्रत्यष्ठात् कठकौथुमम् ।

(पा-२,४.३; अकि-१,४७३.२१-४७४.५; रो-२,८४७; भा-११/११) उदगात् मौदपैप्पलादम् ।

(पा-२,४.७; अकि-१,४७४.७-११; रो-२,८४८; भा-१/९) ग्रामप्रतिषेधे नगरप्रतिषेधः ।

(पा-२,४.७; अकि-१,४७४.७-११; रो-२,८४८; भा-२/९) अग्रामाः इति अत्र अनगराणाम् इति वक्तव्यम् ।

(पा-२,४.७; अकि-१,४७४.७-११; रो-२,८४८; भा-३/९) इह मा भूत् ।

(पा-२,४.७; अकि-१,४७४.७-११; रो-२,८४८; भा-४/९) मथुरापाटलिपुत्रम् इति ।

(पा-२,४.७; अकि-१,४७४.७-११; रो-२,८४८; भा-५/९) उभयतः च ग्रामाणाम् ।

(पा-२,४.७; अकि-१,४७४.७-११; रो-२,८४८; भा-६/९) उभयतः च ग्रामाणाम् प्रतिषेधः वक्तव्यः ।

(पा-२,४.७; अकि-१,४७४.७-११; रो-२,८४८; भा-७/९) इह मा भूत् ।

(पा-२,४.७; अकि-१,४७४.७-११; रो-२,८४८; भा-८/९) शौर्यम् च केतवता च शौर्यकेतवते ।

(पा-२,४.७; अकि-१,४७४.७-११; रो-२,८४८; भा-९/९) जाम्बवम् च शालुकिनी च जाम्बवशालुकिन्यौ

(पा-२,४.८; अकि-१,४७४.१३-१७; रो-२,८४८; भा-१/९) क्षुद्र्जन्तवः इति उच्यते ।

(पा-२,४.८; अकि-१,४७४.१३-१७; रो-२,८४८; भा-२/९) के पुनः क्षुद्रजन्तवः ।

(पा-२,४.८; अकि-१,४७४.१३-१७; रो-२,८४८; भा-३/९) क्षोत्तव्याः जन्तवः ।

(पा-२,४.८; अकि-१,४७४.१३-१७; रो-२,८४८; भा-४/९) यदि एवम् यूकालिक्षम् कीटपिपीलिकम् इति न सिध्यति ।

(पा-२,४.८; अकि-१,४७४.१३-१७; रो-२,८४८; भा-५/९) एवम् तर्हि अनथिकाः क्षुद्रजन्तवः ।

(पा-२,४.८; अकि-१,४७४.१३-१७; रो-२,८४८; भा-६/९) अथ वा येषाम् न शोणितम् ते क्षुद्रजन्तवः ।

(पा-२,४.८; अकि-१,४७४.१३-१७; रो-२,८४८; भा-७/९) अथ वा येषाम् आ सहस्रात् अञ्जलिः न पूर्यते ते क्षुद्रजन्तवः ।

(पा-२,४.८; अकि-१,४७४.१३-१७; रो-२,८४८; भा-८/९) अथ वा येषाम् गोचर्ममात्रम् न पतितः भवति ते क्षुद्रजन्तवः ।

(पा-२,४.८; अकि-१,४७४.१३-१७; रो-२,८४८; भा-९/९) अथ व नकुलपर्यन्ताः क्षुद्रजन्तवः ।

(पा-२,४.९; अकि-१,४७४.१९-२१; रो-२,८४९; भा-१/६) किमर्थः चकारः ।

(पा-२,४.९; अकि-१,४७४.१९-२१; रो-२,८४९; भा-२/६) एवकारार्थः चकारः ।

(पा-२,४.९; अकि-१,४७४.१९-२१; रो-२,८४९; भा-३/६) येषाम् विरोधः शाश्वतिकः तेषाम् द्वन्द्वे एकवचनम् यथा स्यात् ।

(पा-२,४.९; अकि-१,४७४.१९-२१; रो-२,८४९; भा-४/६) अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।

(पा-२,४.९; अकि-१,४७४.१९-२१; रो-२,८४९; भा-५/६) किम् च अन्यत् प्राप्नोति ।

(पा-२,४.९; अकि-१,४७४.१९-२१; रो-२,८४९; भा-६/६) पशुशकुनिद्वन्द्वे विरोधिनाम् पूर्वविप्रतिषिद्धम् इति उक्तम् सः पूर्वविप्रतिषेधः न वक्तव्यः भवति ।

(पा-२,४.१०; अकि-१,४७५.२-१०; रो-२,८४९-८५०; भा-१/१५) अनिरवसितानाम् इति उच्यते ।

(पा-२,४.१०; अकि-१,४७५.२-१०; रो-२,८४९-८५०; भा-२/१५) कुतः अनिरवसितानाम् ।

(पा-२,४.१०; अकि-१,४७५.२-१०; रो-२,८४९-८५०; भा-३/१५) आर्यावर्तात् अनिरवसितानाम् ।

(पा-२,४.१०; अकि-१,४७५.२-१०; रो-२,८४९-८५०; भा-४/१५) कः पुनः आर्यावर्तः ।

(पा-२,४.१०; अकि-१,४७५.२-१०; रो-२,८४९-८५०; भा-५/१५) प्राग् आदर्शात् प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् ।

(पा-२,४.१०; अकि-१,४७५.२-१०; रो-२,८४९-८५०; भा-६/१५) यदि एवम् किष्किन्धगन्दिकम् शकयवनम् शौर्यक्रौञ्चम् इति न सिध्यति ।

(पा-२,४.१०; अकि-१,४७५.२-१०; रो-२,८४९-८५०; भा-७/१५) एवम् तर्हि आर्यनिवासात् अनिरवसितानाम् ।

(पा-२,४.१०; अकि-१,४७५.२-१०; रो-२,८४९-८५०; भा-८/१५) कः पुनः आर्यनिवासः ।

(पा-२,४.१०; अकि-१,४७५.२-१०; रो-२,८४९-८५०; भा-९/१५) ग्रामः घोषः नगरम् संवाहः इति ।

(पा-२,४.१०; अकि-१,४७५.२-१०; रो-२,८४९-८५०; भा-१०/१५) एवम् अपि ये एते महान्तः संस्त्यायाः तेषु अभ्यन्तराः चण्डालाः मृतपाः च वसन्ति तत्र चण्डालमृतपाः इति न सिध्यति ।

(पा-२,४.१०; अकि-१,४७५.२-१०; रो-२,८४९-८५०; भा-११/१५) एवम् तर्हि याज्ञात् कर्मणः अनिरवसितानाम् ।

(पा-२,४.१०; अकि-१,४७५.२-१०; रो-२,८४९-८५०; भा-१२/१५) एवम् अपि तक्षायस्कारम् रजकतन्तुवायम् इति न सिध्यति ।

(पा-२,४.१०; अकि-१,४७५.२-१०; रो-२,८४९-८५०; भा-१३/१५) एवम् तर्हि पात्रात् अनिरवसितानाम् ।

(पा-२,४.१०; अकि-१,४७५.२-१०; रो-२,८४९-८५०; भा-१४/१५) यैः भुक्ते पात्रम् संस्कारेण शुध्यति ते अनिरवसिताः ।

(पा-२,४.१०; अकि-१,४७५.२-१०; रो-२,८४९-८५०; भा-१५/१५) यैः भुक्ते संस्कारेण अपि न शुध्यति ते निरवसिताः ।

(पा-२,४.११; अकि-१,४७५.१२-१४; रो-२,८५१; भा-१/३) गवाश्वप्रभृतिषु यथोच्चारितम् द्वन्द्ववृत्तम् ।

(पा-२,४.११; अकि-१,४७५.१२-१४; रो-२,८५१; भा-२/३) अवाश्वप्रभृतिषु यथोच्चारितम् द्वन्द्ववृत्तम् द्रष्टव्यम् ।

(पा-२,४.११; अकि-१,४७५.१२-१४; रो-२,८५१; भा-३/३) गवाश्वम् गवाविकम् गवैडकम् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-१/७०) बहुप्रकृतिः फलसेनावनस्पतिमृगशकुन्त्क्षुद्रजन्तुधान्यतृणानाम् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-२/७०) फलसेनावनस्पतिमृगशकुन्त्क्षुद्रजन्तुधान्यतृणानाम् द्वन्द्वः विभाषा एकवत् भवति बहुप्रकृतिः इति वक्तव्यम् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-३/७०) फल. बदरामल्कम् बदरामलकनि ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-४/७०) सेना ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-५/७०) हस्त्यश्वम् हस्त्यश्वाः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-६/७०) वनस्पति ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-७/७०) प्लक्षन्यग्रोधम् प्लक्षन्यरोधाः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-८/७०) मृग ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-९/७०) रुरुपृषतम् रुरुपृषताः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-१०/७०) शकुन्त ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-११/७०) हंसचक्रवाकम् हंसचक्रवाकाः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-१२/७०) क्षुद्रजन्तु ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-१३/७०) यूकालिक्षम् यूकालिक्षाः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-१४/७०) धान्य ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-१५/७०) व्रीहियवम् व्रीहियवाः माषतिलम् माषतिलाः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-१६/७०) तृण ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-१७/७०) कुशकासम् कुशकाशाः शरशीर्यम् शरशीर्याः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-१८/७०) किम् प्रयोजनम् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-१९/७०) बहुप्रकृतिः एव यथा स्यात् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-२०/७०) क्व मा भूत् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-२१/७०) बदरामलके तिष्ठतः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-२२/७०) किम् पुनः अनेन या प्राप्तिः सा नियम्यते आहोस्वित् अविशेषेण ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-२३/७०) किम् च अतः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-२४/७०) यदि अनेन या प्राप्तिः सा नियम्यते प्लक्षन्यग्रोधौ जातिः अप्राणिनाम् इति नित्यः द्वन्द्वैकवद्भावः प्राप्नोति ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-२५/७०) अथ अविशेषेण न दोषः भवति ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-२६/७०) यथा न दोषः तथाउ अस्तु ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-२७/७०) पशुशकुनिद्वन्द्वे विरोधिनाम् पूर्वविप्रतिषिद्धम् । पशुशकुनिद्वन्द्वे येषाम् च विरोधः शाश्वतिकः इति एतत् भवति पूर्वविप्रतिषेधेन ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-२८/७०) पशुशकुनिद्वन्द्वस्य अवकाशः महाजोरभ्रम् महाजोरभ्राः हंसचक्रवाकम् हंसचक्रवाकाः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-२९/७०) येषाम् च विरोधः इति अस्य अवकाशः श्रमणब्राह्मणम् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-३०/७०) इह उभयम् प्राप्नोति ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-३१/७०) काकोलूकम् श्वशृगालम् इति ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-३२/७०) येषाम् च विरोधः इति एतत् भवति पूर्वविप्रतिषेधेन ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-३३/७०) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-३४/७०) न वक्तव्यः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-३५/७०) उक्तम् तत्र चकारकरणस्य प्रयोजनम् येषाम् च विरोधः शाश्वतिकः तेषाम् द्वन्द्वे एकवचनम् यथा स्यात् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-३६/७०) अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-३७/७०) अश्ववडवयोः पूर्वलिङ्गत्वात् पशुद्वन्द्वनपुंसकम् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-३८/७०) अश्ववडवयोः पूर्वलिङ्गत्वात् पशुद्वन्द्वनपुंसकम् भवति पूर्वविप्रतिषेधेन ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-३९/७०) अश्ववडवयोः पूर्वलिङ्गत्वस्य अवकाशः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-४०/७०) विभाषा पशुद्वन्द्वनपुंसकम् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-४१/७०) यदा न पशुद्वन्द्वनपुंसकम् सः अवकाशः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-४२/७०) अश्ववडवौ ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-४३/७०) पशुद्वन्द्वनपुंसकस्य अवकाशः अन्ये पशुद्वन्द्वाः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-४४/७०) महाजोरभ्रम् महाजोरभ्राः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-४५/७०) पशुद्वन्द्वनपुंसकप्रसङ्गे उभयम् प्राप्नोति ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-४६/७०) अश्ववडवम् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-४७/७०) पशुद्वन्द्वनपुंसकम् भवति पूर्वविप्रतिषेधेन ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-४८/७०) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-४९/७०) न वक्तव्यः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-५०/७०) प्रतिपदविधानात् सिद्धम् । प्रतिपदम् अत्र नपुंसकम् विधीयते ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-५१/७०) अश्ववडवपूर्वापर इति ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-५२/७०) एकवचनम् अनर्थकम् समाहारैकत्वात् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-५३/७०) एकवद्भावः अनर्थकः ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-५४/७०) किम् कारणम् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-५५/७०) समाहारैकत्वात् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-५६/७०) एकः अयम् अर्थः समाहारः नाम ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-५७/७०) तस्य एकत्वात् एकवचनम् भविष्यति ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-५८/७०) इदम् तर्हि प्रयोजनम् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-५९/७०) एतत् ज्ञास्यामि ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-६०/७०) इह नित्यः विधिः इह विभाषा इति ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-६१/७०) न एतत् अस्ति प्रयोजनम् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-६२/७०) आचार्यप्रवृत्तिः ज्ञापयति सर्वः द्वन्द्वः विभाषा एकवत् भवति इति यत् अयम् तिष्यपुनर्वस्वोः नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् इति आह ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-६३/७०) इदम् तर्हि प्रयोजनम् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-६४/७०) सः नपुंसकम् इति वक्ष्यामि इति ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-६५/७०) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-६६/७०) लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-६७/७०) न तर्हि इदानीम् इदम् वक्तव्यम् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-६८/७०) वक्तव्यम् च ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-६९/७०) किम् प्रयोजनम् ।

(पा-२,४.१२; अकि-१,४७५.१७-४७७.५; रो-२,८५१-८५५; भा-७०/७०) पूर्वत्र नित्यार्थम् उत्तरत्र व्यभिचारार्थम् विभाषा वृक्षमृग इति ।

(पा-२,४.१६; अकि-१,४७७.७-११; रो-२,८५५-८५६; भा-१/८) किम् उदाहरणम् ।

(पा-२,४.१६; अकि-१,४७७.७-११; रो-२,८५५-८५६; भा-२/८) उपदशम् पाणिपादम् उपदशाः पाणिपादाः ।

(पा-२,४.१६; अकि-१,४७७.७-११; रो-२,८५५-८५६; भा-३/८) न एतत् अस्ति प्रयोजनम् ।

(पा-२,४.१६; अकि-१,४७७.७-११; रो-२,८५५-८५६; भा-४/८) अयम् द्वन्द्वैकवद्भावः आरभ्यते ।

(पा-२,४.१६; अकि-१,४७७.७-११; रो-२,८५५-८५६; भा-५/८) तत्र कः प्रसङ्गः यत् अनुप्रयोगस्य स्यात् ।

(पा-२,४.१६; अकि-१,४७७.७-११; रो-२,८५५-८५६; भा-६/८) एवम् तर्हि अव्ययस्य सङ्खया अव्ययीभावः अपि आरभ्यते बहुव्रीहिः अपि ।

(पा-२,४.१६; अकि-१,४७७.७-११; रो-२,८५५-८५६; भा-७/८) तत् यदा तावत् एकवचनम् तदा अव्ययीभावः अनुप्रयुज्यते एकार्थस्य एकार्थः इति ।

(पा-२,४.१६; अकि-१,४७७.७-११; रो-२,८५५-८५६; भा-८/८) यदा बहुवचनम् तदा बहुव्रीहिः अनुप्रयुज्यते बह्वर्थस्य बह्वर्थः इति ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-१/२८) किमर्थम् इदम् उच्यते ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-२/२८) सञ्ज्ञायाम् कन्थोशीनरेषु इति वक्ष्यति ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-३/२८) तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-४/२८) न एतत् अस्ति प्रयोजनम् ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-५/२८) न हि सञ्ज्ञायाम् कन्थान्तः उशीनरेषु अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-६/२८) उत्तरार्थम् तर्हि ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-७/२८) उपज्ञोपक्रमम् तदाद्याचिख्यासायाम् इति वक्ष्यति ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-८/२८) तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-९/२८) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-१०/२८) न हि तदाद्याचिख्यासायाम् उपज्ञोपक्रमान्तः अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-११/२८) उत्तरार्थम् एव तर्हि ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-१२/२८) छाया बाहुल्ये इति वक्ष्यति ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-१३/२८) तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-१४/२८) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-१५/२८) न हि छायान्तः बाहुल्ये अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-१६/२८) उत्तरार्थम् एव तर्हि ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-१७/२८) सभा राजामनुष्यपूर्वा अशाला च इति वक्ष्यति ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-१८/२८) तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-१९/२८) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-२०/२८) न हि सभान्तः अशालायाम् अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-२१/२८) इदम् तर्हि ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-२२/२८) विभाषा सेनासुरा इति वक्ष्यति ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-२३/२८) तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-२४/२८) दृढसेनः राजा ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-२५/२८) अनञ् इति किमर्थम् ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-२६/२८) असेना ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-२७/२८) अकर्मधारयः इति किमर्थम् ।

(पा-२,४.१९; अकि-१,४७७.१३-४७८.३; रो-२,८५६-८५७; भा-२८/२८) परम्सेना उत्तमसेना ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-१/६८) किमर्थम् इदम् उच्यते ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-२/६८) द्वन्द्वः अयम् उभयपदार्थप्रधानः ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-३/६८) तत्र कदा चित् पूर्वपदस्य यत् लिङ्गम् तत् समासस्य अपि स्यात् कदा चित् उत्तरपदस्य ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-४/६८) इष्यते च परस्य यत् लिङ्गम् तत् समासस्य स्यात् इति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-५/६८) तत् च अन्तरेण यत्नम् न सिध्यति इति परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-६/६८) एवमर्थम् इदम् उच्यते ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-७/६८) तत्पुरुषः च कः प्रयोजयति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-८/६८) यः पूर्वपदार्थप्रधानः एकदेशिसमासः अर्धपिप्पली इति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-९/६८) यः हि उत्तरपदार्थप्रधानः दैवकृतम् तस्य परवत् लिङ्गम् ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-१०/६८) परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति चेत् प्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-११/६८) परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति चेत् प्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः वक्तव्यः ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-१२/६८) प्राप्तः जीविकाम् प्रप्तजीविकः आपन्नः जीविकाम् अपन्नजीविकः ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-१३/६८) अलम्पूर्वः ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-१४/६८) अलम् जीविकायाः अलम्जीविकः ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-१५/६८) गतिसमास ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-१६/६८) निष्कौशाम्बिः निर्वाराणसिः ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-१७/६८) पूर्वपदस्य च ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-१८/६८) पूर्वपदस्य च प्रतिषेधः वक्तव्यः ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-१९/६८) मयूरीकुक्कुटौ ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-२०/६८) यदि पुनः यथाजातीयकम् परस्य लिङ्गम् तथाजातीयकम् समासात् अन्यत् अतिदिश्येत ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-२१/६८) समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टाब्लुग्वचनम् ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-२२/६८) समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टापः लुक् वक्तव्यः ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-२३/६८) अश्ववडवौ ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-२४/६८) निपातनात् सिद्धम् ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-२५/६८) निपातनात् सिद्धम् एतत् ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-२६/६८) किम् निपातनम् ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-२७/६८) आश्ववडवपूर्वापर इति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-२८/६८) उपसर्जनह्रस्वत्वम् वा ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-२९/६८) अथ वा उपसर्जनस्य इति ह्रस्वत्वम् भविष्यति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-३०/६८) इह अपि तर्हि प्राप्नोति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-३१/६८) कुक्कुटमयूर्यौ ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-३२/६८) अस्तु ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-३३/६८) परवत् लिङ्गम् इति शब्दशब्दार्थौ ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-३४/६८) परवत् लिङ्गम् इति शब्दशब्दार्थौ अतिदिश्येते ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-३५/६८) तत्र औपदेशिकस्य ह्रस्वत्वम् आतिदेशिकस्य श्रवणम् भविष्यति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-३६/६८) इदम् तर्हि ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-३७/६८) दत्ता च कारीषगन्ध्या च दत्ताकारीषगन्ध्ये दत्ता च गार्ग्यायणी दत्तागार्ग्यायण्यौ ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-३८/६८) द्वौ ष्यङौ द्वौ ष्फौ च प्राप्नुतः ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-३९/६८) स्ताम् ।पूम्वद्भावेन एकस्य निवृत्तिः भविष्यति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-४०/६८) इदम् तर्हि ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-४१/६८) दत्ता च युवतिः च दत्तायुवती ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-४२/६८) द्वौ तिशब्दौ प्राप्नुतः ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-४३/६८) तस्मात् न एतत् शक्यम् वक्तुम् शब्दशब्दार्थौ अतिदिश्येते इति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-४४/६८) ननु च उक्तम् समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टाब्लुग्वचनम् इति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-४५/६८) परिहृतम् एतत् ॒ निपातनात् सिद्धम् इति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-४६/६८) अथ वा न एवम् विज्ञायते परस्य एव परवत् इति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-४७/६८) कथम् तर्हि ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-४८/६८) परस्य इव परवत् इति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-४९/६८) यथाजातीयकम् परस्य लिङ्गम् तथाजातीयकम् समासस्य अतिदिश्यते ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-५०/६८) अथ पूर्वपदस्य न प्रतिषिध्यते प्राप्तादिषु कथम् ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-५१/६८) प्राप्तादिषु च एकदेशिग्रहणात् सिद्धम् ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-५२/६८) द्वन्द्वैकदेशिनोः इति वक्ष्यामि ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-५३/६८) तत् एकदेशिग्रहणम् कर्तव्यम् ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-५४/६८) न कर्तव्यम् ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-५५/६८) एकदेशिसमासः न आरप्स्यते ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-५६/६८) कथम् अर्धपिप्पली इति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-५७/६८) समानाधिकरणसमासः भविष्यति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-५८/६८) अर्धम् च सा पिप्पली च अर्धपिप्पली इति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-५९/६८) न सिध्यति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-६०/६८) परत्वात् षष्ठीसमासः प्राप्नोति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-६१/६८) अद्य पुनः अयम् एकदेशिसमासः आरभ्यमाणः षष्ठीसमासम् बाधते ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-६२/६८) इष्यते च षष्ठीसमासः अपि ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-६३/६८) तत् यथा ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-६४/६८) अपूपार्धम् मया भक्षितम् ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-६५/६८) ग्रामार्धम् मया लब्धम् इति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-६६/६८) एवम् पिप्पल्यर्धम् इति भवितव्यम् ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-६७/६८) कथम् अर्धपिप्पली इति ।

(पा-२,४.२६; अकि-१,४७८.५-४७९; रो-२,८५७-८६२; भा-६८/६८) समानाधिकरणः भविष्यति ।

(पा-२,४.२९; अकि-१,४७९.१९-२१; रो-२,८६२; भा-१/३) अनुवाकादयः पुंसि ।

(पा-२,४.२९; अकि-१,४७९.१९-२१; रो-२,८६२; भा-२/३) अनुवाकादयः पुंसि भाष्यन्ते इति वक्तव्यम् ।

(पा-२,४.२९; अकि-१,४७९.१९-२१; रो-२,८६२; भा-३/३) अनुवाकः शम्युवाकः सूक्तवाकः ।

(पा-२,४.३०; अकि-१,४७९.२२-४८०.१२; रो-२,८६६३-८६४; भा-१/१७) पुण्यसुदिनाभ्याम् अह्नः नपुंसकत्वम् वक्तव्यम् ।

(पा-२,४.३०; अकि-१,४७९.२२-४८०.१२; रो-२,८६६३-८६४; भा-२/१७) पुण्याहम् सुदिनाहम् ।

(पा-२,४.३०; अकि-१,४७९.२२-४८०.१२; रो-२,८६६३-८६४; भा-३/१७) पथः सङ्ख्याव्ययादेः ।

(पा-२,४.३०; अकि-१,४७९.२२-४८०.१२; रो-२,८६६३-८६४; भा-४/१७) पथः सङ्ख्याव्ययादेः इति वक्तव्यम् ।

(पा-२,४.३०; अकि-१,४७९.२२-४८०.१२; रो-२,८६६३-८६४; भा-५/१७) द्विपथम् त्रिपथम् चतुष्पथम् उत्पथम् विपथम् ।

(पा-२,४.३०; अकि-१,४७९.२२-४८०.१२; रो-२,८६६३-८६४; भा-६/१७) द्विगुः च ।

(पा-२,४.३०; अकि-१,४७९.२२-४८०.१२; रो-२,८६६३-८६४; भा-७/१७) द्विगुः च समासः नपुंसकलिङ्गः भवति इति वक्तव्यम् ।

(पा-२,४.३०; अकि-१,४७९.२२-४८०.१२; रो-२,८६६३-८६४; भा-८/१७) पञ्चगवम् दशगवम् ।

(पा-२,४.३०; अकि-१,४७९.२२-४८०.१२; रो-२,८६६३-८६४; भा-९/१७) अकारान्तोत्तरपदः द्विगुः स्त्रियाम् भाष्यते इति वक्तव्यम् ।

(पा-२,४.३०; अकि-१,४७९.२२-४८०.१२; रो-२,८६६३-८६४; भा-१०/१७) पञ्चपूली दशपूली ।

(पा-२,४.३०; अकि-१,४७९.२२-४८०.१२; रो-२,८६६३-८६४; भा-११/१७) वा आबन्तः ।

(पा-२,४.३०; अकि-१,४७९.२२-४८०.१२; रो-२,८६६३-८६४; भा-१२/१७) वा आबन्तः स्त्रियाम् भाष्यते इति वक्तव्यम् ।

(पा-२,४.३०; अकि-१,४७९.२२-४८०.१२; रो-२,८६६३-८६४; भा-१३/१७) पञ्चखट्वम् पञ्चखट्वी दशखट्वम् दशखट्वी ।

(पा-२,४.३०; अकि-१,४७९.२२-४८०.१२; रो-२,८६६३-८६४; भा-१४/१७) अनः नलोपः च वा च स्त्रियाम् भाष्यते इति वक्तव्यम् ।

(पा-२,४.३०; अकि-१,४७९.२२-४८०.१२; रो-२,८६६३-८६४; भा-१५/१७) पञ्चतक्षम् पञ्चतक्षी दशतक्षम् दशतक्षी ।

(पा-२,४.३०; अकि-१,४७९.२२-४८०.१२; रो-२,८६६३-८६४; भा-१६/१७) पात्रादिभ्यः प्रतिषेधः वक्तव्यः ।

(पा-२,४.३०; अकि-१,४७९.२२-४८०.१२; रो-२,८६६३-८६४; भा-१७/१७) द्विपात्रम् पञ्चपात्रम् ।

(पा-२,४.३१; अकि-१,४८०.१४-१६; रो-२,८६४; भा-१/५) अर्धर्चादयः इति वक्तव्यम् ।

(पा-२,४.३१; अकि-१,४८०.१४-१६; रो-२,८६४; भा-२/५) अर्धर्चम् अर्धर्चः कार्षापणम् कार्षापणः गोमयम् गोमयः सारम् सारः ।

(पा-२,४.३१; अकि-१,४८०.१४-१६; रो-२,८६४; भा-३/५) तत् तर्हि वक्तव्यम् ।

(पा-२,४.३१; अकि-१,४८०.१४-१६; रो-२,८६४; भा-४/५) न वक्तव्यम् ।

(पा-२,४.३१; अकि-१,४८०.१४-१६; रो-२,८६४; भा-५/५) बहुवचननिर्देशात् आद्यर्थः गम्यते ।

(पा-२,४.३२.१; अकि-१,४८०.१८-४८१.४; रो-२,८६५; भा-१/१०) अन्वादेशे समानाधिकरणग्रहणम् ।

(पा-२,४.३२.१; अकि-१,४८०.१८-४८१.४; रो-२,८६५; भा-२/१०) अन्वादेशे समानाधिकरणग्रहणम् कर्तव्यम् ।

(पा-२,४.३२.१; अकि-१,४८०.१८-४८१.४; रो-२,८६५; भा-३/१०) किम् प्रयोजनम् ।

(पा-२,४.३२.१; अकि-१,४८०.१८-४८१.४; रो-२,८६५; भा-४/१०) देवदत्तम् भोजय इमम् च इति अप्रसङ्गार्थम् ।

(पा-२,४.३२.१; अकि-१,४८०.१८-४८१.४; रो-२,८६५; भा-५/१०) इह मा भूत् ।

(पा-२,४.३२.१; अकि-१,४८०.१८-४८१.४; रो-२,८६५; भा-६/१०) देवदत्तम् भोजय इमम् च यज्ञ दत्तम् भोजय इति ।

(पा-२,४.३२.१; अकि-१,४८०.१८-४८१.४; रो-२,८६५; भा-७/१०) अन्वादेशः च कथितानुकथनमात्रम् ।

(पा-२,४.३२.१; अकि-१,४८०.१८-४८१.४; रो-२,८६५; भा-८/१०) अन्वादेशः च कथितानुकथनमात्रम् द्रष्टव्यम् ।

(पा-२,४.३२.१; अकि-१,४८०.१८-४८१.४; रो-२,८६५; भा-९/१०) तत् द्वेष्यम् विजानीयात् ॒ इदमा कथितम् इदमा यदा अनुकथ्यते इति ।

(पा-२,४.३२.१; अकि-१,४८०.१८-४८१.४; रो-२,८६५; भा-१०/१०) तत् आचार्यः सुहृत् भूत्वा आचष्टे ॒ अन्वादेशः च कथितानुकथनमात्रम् द्रष्टव्यम् इति ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-१/३२) अथ किमर्थम् अशादेशः क्रियते न तृतीयादिषु इति एव उच्येत ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-२/३२) तत्र टायाम् ओसि च एनेन भवितव्यम् ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-३/३२) अन्याः सर्वाः हलादयः विभक्तयः ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-४/३२) तत्र इद्रूपलोपे कृते केवलम् इदमः अनुदात्तत्वम् वक्तव्यम् ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-५/३२) अतः उत्तरम् पठति ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-६/३२) आदेशवचनम् साकच्कार्थम् ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-७/३२) आदेशवचनम् साकच्कार्थम् क्रियते ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-८/३२) साकच्कस्य अपि आदेशः यथा स्यात् ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-९/३२) इमकाभ्याम् छात्राभ्याम् रात्रिः अधीता अथो आभ्याम् अपि अधीतम् ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-१०/३२) अथ किमर्थम् शित्करणम् ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-११/३२) शित्करणम् सर्वादेशार्थम् । शित्करणम् क्रियते सर्वादेशार्थम् ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-१२/३२) शित् सर्वस्य इति सर्वादेशः यथा स्यात् ॒ इमकाभ्याम् छात्राभ्याम् रात्रिः अधीता अथो* आभ्याम् अपि अधीतम् इति ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-१३/३२) अक्रियमाणे हि शित्करणे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-१४/३२) न वा अन्त्यस्य विकारवचनानर्थक्यात् ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-१५/३२) न वा कर्तव्यम् ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-१६/३२) किम् कारणम् ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-१७/३२) अन्त्यस्य विकारवचनानर्थक्यात् ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-१८/३२) अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि शकारम् सर्वादेशः भविष्यति ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-१९/३२) अर्थवत् तु आदेशप्रतिषेधाऋथम् ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-२०/३२) अर्थवत् तु अस्य अकारवचनम् ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-२१/३२) कः अर्थः ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-२२/३२) आदेशप्रतिषेधाऋथम् ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-२३/३२) ये अन्ये अकारस्य आदेशाः प्राप्नुवन्ति तद्बाधनार्थम् ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-२४/३२) तत् यथा ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-२५/३२) मः राजि समः क्वौ इति ॒ मकारस्य मकारवचने प्रयोजनम् न अस्ति इति कृत्वा अनुस्वारादयः बाध्यन्ते ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-२६/३२) तस्मात् शित्करणम् । तस्मात् शकारः कर्तव्यः ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-२७/३२) न कर्तव्यः ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-२८/३२) प्रश्लिष्टनिर्देशः अयम् ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-२९/३२) अ* अ इति ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-३०/३२) अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-३१/३२) अथ वा विचित्राः तद्धितवृत्तयः ।

(पा-२,४.३२.२; अकि-१,४८१.५-२६; रो-२,८६६-८६७; भा-३२/३२) न अन्वादेशे अकच् उत्पत्स्यते ।

(पा-२,४.३३; अकि-१,४८२.२-८; रो-२,८६७-८६८; भा-१/१३) किमर्थम् त्रतसोः अनुदात्तत्वम् उच्यते ।

(पा-२,४.३३; अकि-१,४८२.२-८; रो-२,८६७-८६८; भा-२/१३) उदात्तौ मा भूताम् इति ।

(पा-२,४.३३; अकि-१,४८२.२-८; रो-२,८६७-८६८; भा-३/१३) न एतत् अस्ति प्रयोजनम् ।

(पा-२,४.३३; अकि-१,४८२.२-८; रो-२,८६७-८६८; भा-४/१३) लित्स्वरे कृते निघाते एतदः अनुदात्तत्वेन सिद्धम् ।

(पा-२,४.३३; अकि-१,४८२.२-८; रो-२,८६७-८६८; भा-५/१३) इदम् इह सम्प्रधार्यम् ।

(पा-२,४.३३; अकि-१,४८२.२-८; रो-२,८६७-८६८; भा-६/१३) अनुदात्तत्वम् क्रियताम् लित्स्वरः इति ।

(पा-२,४.३३; अकि-१,४८२.२-८; रो-२,८६७-८६८; भा-७/१३) किम् अत्र कर्तव्यम् ।

(पा-२,४.३३; अकि-१,४८२.२-८; रो-२,८६७-८६८; भा-८/१३) परत्वात् लित्स्वरः ।

(पा-२,४.३३; अकि-१,४८२.२-८; रो-२,८६७-८६८; भा-९/१३) नित्यत्वात् अनुदात्तत्वम् ।

(पा-२,४.३३; अकि-१,४८२.२-८; रो-२,८६७-८६८; भा-१०/१३) कृते अपि लित्स्वरे प्राप्त्नोति अकृते अपि ।

(पा-२,४.३३; अकि-१,४८२.२-८; रो-२,८६७-८६८; भा-११/१३) तत्र नित्यत्वात् अनुदात्तत्वे कृते लिति पूर्वः उदात्तभावी न अस्ति इति कृत्वा यथाप्राप्तः प्रत्ययस्वरः प्रसज्येत ।

(पा-२,४.३३; अकि-१,४८२.२-८; रो-२,८६७-८६८; भा-१२/१३) तत् यथा गोष्पदप्रम् वृष्टः देवः इति ऊलोपे कृते पूर्वः उदात्तभावी न अस्ति इति कृत्वा यथाप्राप्तः प्रत्ययस्वरः भवति ।

(पा-२,४.३३; अकि-१,४८२.२-८; रो-२,८६७-८६८; भा-१३/१३) तस्मात् त्रतसोः अनुदात्तत्वम् वक्तव्यम् ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-१/३०) कस्य अयम् एनः विधीयते ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-२/३०) एतदः प्राप्नोति ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-३/३०) इदमः अपि तु इष्यते ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-४/३०) तत् इदमः ग्रहणम् कर्तव्यम् ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-५/३०) न कर्तव्यम् ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-६/३०) प्रकृतम् अनुवर्तते ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-७/३०) क्व प्रकृतम् ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-८/३०) इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ इति ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-९/३०) यदि तत् अनुवर्तते एतदः त्रतसोः त्रतसौ च अनुदात्तौ इति इदमः च इति इदमः अपि प्राप्नोति ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-१०/३०) न एषः दोषः ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-११/३०) सम्बन्धम् अनुवर्तिष्यते ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-१२/३०) इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-१३/३०) एतदः त्रतसोः त्रतसौ च अनुदात्तौ इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ अश् भवति ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-१४/३०) ततः द्वितीयाटौस्सु एनः इदमः एतदः च ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-१५/३०) तृतीयादौ इति निवृत्तम् ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-१६/३०) अथ वा मण्डूकगतयः अधिकाराः ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-१७/३०) तत् यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-१८/३०) अथ वा एकयोगः करिष्यते ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-१९/३०) इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ इति एतदः त्रतसोः त्रतसौ च अनुदात्तौ ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-२०/३०) ततः द्वितीयाटौस्सु एनः इदमः एतदः च ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-२१/३०) अथ वा उभयम् निवृत्तम् ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-२२/३०) तत् अपेक्षिष्यामहे ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-२३/३०) एनत् इति नपुंसकैकवचने ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-२४/३०) एनत् इति नपुंसकैकवचनेकर्तव्यम् ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-२५/३०) कुण्डम् आनय प्रक्षालय एनत् परिवर्तय एनत् ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-२६/३०) यदि एनत् क्रियते एनः न कर्तव्यः ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-२७/३०) का रूपसिद्धिः ॒ अथो एनम् अथो एने अथो एनान् इति ट्यदाद्यत्वेन सिद्धम् ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-२८/३०) यदि एवम् एनश्रितकः न सिध्यति ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-२९/३०) एनच्छ्रितकः इति पाप्नोति ।

(पा-२,४.३४; अकि-१,४८२.१०-२४; रो-२,८६८-८६९; भा-३०/३०) यथालक्षणम् अप्रयुक्ते ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-१/४०) जग्ध्यादिषु आर्धधातुकाश्रयत्वात् सति तस्मिन् विधानम् ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-२/४०) जग्ध्यादिषु आर्धधातुकाश्रयत्वात् सति तस्मिन् आर्धधातुके जग्ध्यादिभिः भवितव्यम् ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-३/४०) किम् अतः यत् सति भवितव्यम् ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-४/४०) तत्र उत्सर्गलक्षणप्रतिषेधः ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-५/४०) तत्र उत्सर्गलक्षणम् कार्यम् प्राप्नोति ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-६/४०) तस्य प्रतिषेधः वक्तव्यः ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-७/४०) भव्यम् प्रवेयम् आख्येयम् ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-८/४०) ण्यति अवस्थिते अनिष्टे प्रत्यये आदेशः स्यात् ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-९/४०) ण्यतः श्रवणम् प्रसज्येत ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-१०/४०) न एषः दोषः ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-११/४०) सामान्याश्रयत्वात् विशेषस्य अनाश्रयः ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-१२/४०) सामान्येन हि आश्रीयमाणे विशेषः न आश्रितः भवति ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-१३/४०) तत्र आर्धधातुकसामान्ये जग्ध्यादिषु कृतेषु यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-१४/४०) सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति चेत् उवर्णाकारान्तेभ्यः ण्यद्विधिप्रसङ्गः ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-१५/४०) सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति चेत् उवर्णाकारान्तेभ्यः ण्यत् प्राप्नोति ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-१६/४०) लव्यम् पव्यम् इति ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-१७/४०) आर्धधातुकसामान्ये गुणे कृति यि प्रत्ययसामान्य च वान्तादेशे हलन्तात् इति ण्यत् प्राप्नोति ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-१८/४०) इह च दित्स्यम् धित्स्यम् आर्धधातुकसामान्ये अकारलोपे कृते हलन्तात् इति ण्यत् प्राप्नोति ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-१९/४०) पौर्वापर्याभात् च सामान्येन अनुपपत्तिः ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-२०/४०) पौर्वापर्याभात् च सामान्येन जग्ध्यादीनाम् अनुपपत्तिः ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-२१/४०) न हि सामान्येन पौर्वापर्यम् अस्ति ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-२२/४०) सिद्धम् तु सार्वधातुके प्रतिषेधात् ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-२३/४०) सिद्धम् एतत् ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-२४/४०) कथम् ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-२५/४०) अविशेषेण जग्ध्यादीन् उक्त्वा सार्वधातुके न इति प्रतिषेधम् वक्ष्यामि ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-२६/४०) सिध्यति ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-२७/४०) सूत्रम् तर्हि भिद्यते ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-२८/४०) यथान्यासम् एव अस्तु ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-२९/४०) ननु च उक्तम् जग्ध्यादिषु आर्धधातुकाश्रयत्वात् सति तस्मिन् विधानम् इति ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-३०/४०) परिहृतम् एतत् सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-३१/४०) ननु च उक्तम् सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति चेत् उवर्णाकारान्तेभ्यः ण्यद्विधिप्रसङ्गः इति ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-३२/४०) न एषः दोषः ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-३३/४०) वक्ष्यति तत्र अज्ग्रहणस्य प्रयोजनम् अजन्तभूतपूर्वमात्रात् अपि यथा स्यात् इति ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-३४/४०) यत् अपि उच्यते पौर्वापर्याभात् च सामान्येन अनुपपत्तिः इति ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-३५/४०) अर्थसिद्धिः एव एषा यत् सामान्येन पौर्वापर्यम् न अस्ति ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-३६/४०) असति पौर्वापर्ये विषयसप्तमी विज्ञास्यते ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-३७/४०) आर्धधातुकविषये इति ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-३८/४०) अथ वा आर्धधातुकासु इति वक्ष्यामि ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-३९/४०) कासु आर्धधातुकासु ।

(पा-२,४.३५; अकि-१,४६३.२-४८४.२१; रो-२,८७०-८७२; भा-४०/४०) उक्तिषु युक्तिषु रूढिषु प्रतीतिषु श्रुतिषु सञ्ज्ञासु

(पा-२,४.३६; अकि-१,४८४.११-२१; रो-२,८७३; भा-१/१५) ल्यब्ग्रहणम् किमर्थम् न ति किति इति एव सिद्धम् ।

(पा-२,४.३६; अकि-१,४८४.११-२१; रो-२,८७३; भा-२/१५) ल्यपि कृते न प्राप्नोति ।

(पा-२,४.३६; अकि-१,४८४.११-२१; रो-२,८७३; भा-३/१५) इदम् इह सम्प्रधार्यम् ।

(पा-२,४.३६; अकि-१,४८४.११-२१; रो-२,८७३; भा-४/१५) ल्यप् क्रियताम् आदेशः इति ।

(पा-२,४.३६; अकि-१,४८४.११-२१; रो-२,८७३; भा-५/१५) किम् अत्र कर्तव्यम् ।

(पा-२,४.३६; अकि-१,४८४.११-२१; रो-२,८७३; भा-६/१५) परत्वात् ल्यप् ।

(पा-२,४.३६; अकि-१,४८४.११-२१; रो-२,८७३; भा-७/१५) अन्तरङ्गः आदेशः ।

(पा-२,४.३६; अकि-१,४८४.११-२१; रो-२,८७३; भा-८/१५) एवम् तर्हि सिद्धे सति यत् ल्यब्ग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्तरङ्गान् अपि विधीन् बहिरङ्गः ल्यप् बाधते इति ।

(पा-२,४.३६; अकि-१,४८४.११-२१; रो-२,८७३; भा-९/१५) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-२,४.३६; अकि-१,४८४.११-२१; रो-२,८७३; भा-१०/१५) ल्यबदेशे उपदेशिवद्वचनम् अनादिष्टार्थम् बहिरङ्गलक्षणत्वात् इति वक्ष्यति ।

(पा-२,४.३६; अकि-१,४८४.११-२१; रो-२,८७३; भा-११/१५) तत् न वक्तव्यम् भवति ।

(पा-२,४.३६; अकि-१,४८४.११-२१; रो-२,८७३; भा-१२/१५) जग्धिः विधिः ल्यपि यत् तत् अकस्मात् सिद्धम् अस्ति किति इति विधानात् ।

(पा-२,४.३६; अकि-१,४८४.११-२१; रो-२,८७३; भा-१३/१५) हिप्रभृतीन् तु सदा बहिरङ्गः ल्यपा- भरति इति कृतम् तत् उ विद्धि ।

(पा-२,४.३६; अकि-१,४८४.११-२१; रो-२,८७३; भा-१४/१५) एषः एव अर्थः जग्धौ सिद्धे अन्तरङ्गत्वात् ति किति इति ल्यप् उच्यते ।

(पा-२,४.३६; अकि-१,४८४.११-२१; रो-२,८७३; भा-१५/१५) ज्ञापयति अन्तरङ्गाणाम् ल्यपा भवति बाधनम् ।

(पा-२,४.३७; अकि-१,४८४.२३-२४; रो-२,८७४; भा-१/२) घस्ल्̥भावे अचि उपसङ्ख्यानम् । घस्ल्̥भावे अचि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-२,४.३७; अकि-१,४८४.२३-२४; रो-२,८७४; भा-२/२) प्रात्ति इति प्रघसः ।

(पा-२,४.४२-४३; अकि-१,४८५. २-५; रो-२,८७४; भा-१/६) किमयम् वधिः व्यञ्जन्तः आहोस्वित् अदन्तः ।

(पा-२,४.४२-४३; अकि-१,४८५. २-५; रो-२,८७४; भा-२/६) किम् च अतः ।

(पा-२,४.४२-४३; अकि-१,४८५. २-५; रो-२,८७४; भा-३/६) यदि व्यञ्जनान्तः वधौ व्यञ्जनान्ते उक्तम् । किम् उक्तम् ।

(पा-२,४.४२-४३; अकि-१,४८५. २-५; रो-२,८७४; भा-४/६) वध्यादेशे वृद्धितत्वप्रतिषेधः इड्विधिः च इति ।

(पा-२,४.४२-४३; अकि-१,४८५. २-५; रो-२,८७४; भा-५/६) अथ अदन्तः न दोषः भवति ।

(पा-२,४.४२-४३; अकि-१,४८५. २-५; रो-२,८७४; भा-६/६) यथा न दोषः तथा अस्तु ।

(पा-२,४.४५; अकि-१,४८५.७-९; रो-२,८७४; भा-१/४) इण्वत् इकः ।

(पा-२,४.४५; अकि-१,४८५.७-९; रो-२,८७४; भा-२/४) इण्वत् इकः इति वक्तव्यम् ।

(पा-२,४.४५; अकि-१,४८५.७-९; रो-२,८७४; भा-३/४) इह अपि यथा स्यात् ।

(पा-२,४.४५; अकि-१,४८५.७-९; रो-२,८७४; भा-४/४) अध्यगात् अध्यगाताम् ।

(पा-२,४.४६; अकि-१,४८४.११; रो-२,८७५; भा-१/२) इण्वत् इकः इति एव ।

(पा-२,४.४६; अकि-१,४८४.११; रो-२,८७५; भा-२/२) अधिगमयति अधिगमयतः अघिगमयन्ति ।

(पा-२,४.४७; अकि-१,४८४.१३; रो-२,८७५; भा-१/२) इण्वत् इकः इति एव ।

(पा-२,४.४७; अकि-१,४८४.१३; रो-२,८७५; भा-२/२) अघिजिगमिषति अधिजिगमिशतः अधिजिगमिषन्ति ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-१/३७) ङित्करणम् किमर्थम् ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-२/३७) गाङि अनुबन्धकरणम् विशेषणाऋथम् ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-३/३७) गाङि अनुबन्धकरणम् क्रियते विशेषणाऋथम् ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-४/३७) क्व विशेषणार्थेन अर्थः ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-५/३७) गाङ्कुटादिभ्यः अञ्णित् ङित् इति ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-६/३७) गाकुटादिभ्यः अञ्णित् ङित् इति इयति उच्यमाने इणादेशस्य अपि प्रसज्येत ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-७/३७) ज्ञापकम् वा सानुबन्धकस्य आदेशवचने इत्कार्याभावस्य ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-८/३७) अथ वा एतत् ज्ञापयति आचार्यः सानुबन्धकस्य आदेशे इत्कार्यम् न भवति इति ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-९/३७) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-१०/३७) प्रयोजनम् चक्षिङः ख्याञ् । ङितः इति आत्मनेपदम् न भवति ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-११/३७) लटः शतृशानचौ । लटः शतृशानचौ प्रयोजनम् ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-१२/३७) पचमानः यजमानः इति ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-१३/३७) टितः इति एत्वम् न भवति ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-१४/३७) युवोः अनाकौ ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-१५/३७) युवोः अनाकौ च प्रयोजनम् ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-१६/३७) नन्दनः कारकः नन्दना कारिका इति ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-१७/३७) उगिल्लक्षणौ ङीब्नुमौ न भवतः ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-१८/३७) मेः च अननुबन्धकस्य अम्वचनम् ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-१९/३७) मेः च अननुबन्धकस्य अम्वक्तव्यः ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-२०/३७) अचिनवम् अकरवम् असुनवम् ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-२१/३७) अत्यल्पम् इदम् उच्यते ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-२२/३७) तिप्तिब्मिपाम् इति वक्तव्यम् ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-२३/३७) इह अपि यथा स्यात् ॒ वेद वेत्थ ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-२४/३७) अस्य ज्ञापकस्य सन्ति दोषाः सन्ति प्रयोजनानि ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-२५/३७) दोषाः समाः भूयांसः वा ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-२६/३७) तस्मात् न अर्थः अनेन ज्ञापकेन ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-२७/३७) कथम् यानि प्रयोजनानि ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-२८/३७) न एतानि सन्ति ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-२९/३७) इह तावत् ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-३०/३७) चक्षिङः ख्याञ् इति ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-३१/३७) ञित्करणसामर्थ्यात् विभाषा आत्मनेपदम् भविष्यति ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-३२/३७) लटः शतृशानचौ इति ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-३३/३७) वक्ष्यति एतत् ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-३४/३७) प्रकृतानाम् आत्मनेपदानाम् एत्वम् भवति इति ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-३५/३७) युवोः अनाकौ इति ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-३६/३७) वक्ष्यति एतत् ।

(पा-२,४.४९; अकि-१,४८५.१५-४८६.२१; रो-२,८७५-८७७; भा-३७/३७) सिद्धम् तु युवोः अननुनासिकत्वात् इति ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-१/२३) किम् अयम् कशादिः आहोश्वित् खयादिः ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-२/२३) चक्षिङः क्शाञ्ख्याञौ ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-३/२३) चकिङः ख्याञ् कशादिः खयादिः च ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-४/२३) खशादिः वा ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-५/२३) अथ वा खशादिः भविष्यति ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-६/२३) केन इदानीम् कशादिः भविष्यति ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-७/२३) चर्त्वेन ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-८/२३) अथ खयादिः कथम् ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-९/२३) असिद्धे शस्य यवचनम् विभाषा ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-१०/२३) असिद्धे शस्य विभाषा यत्वम् वक्तव्यम् ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-११/२३) किम् प्रयोजनम् ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-१२/२३) प्रयोजनम् सौप्रख्ये वुञ्विधिः ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-१३/२३) सौप्रख्यः इति योपधलक्षणः वुञ्विधिः न भवति ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-१४/२३) सौप्रख्यीयः ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-१५/२३) वृद्धात् छः भवति ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-१६/२३) निष्ठानत्वम् आख्याते ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-१७/२३) आख्यातः इति निष्ठानत्वम् न भवति ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-१८/२३) रुविधिः पुङ्ख्याने ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-१९/२३) पुङ्ख्यानम् इति रुविधिः न भवति ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-२०/२३) णत्वम् पर्याख्याते ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-२१/२३) पर्याख्यानम् इति णत्वम् न भवति ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-२२/२३) सस्थानत्वम् नमः ख्यात्रे ।

(पा-२,४.५४.१; अकि-१,४८६.२३-४८७.१८; रो-२,८७७-८७९; भा-२३/२३) नमः ख्यात्रे इति सस्थानत्वम् न भवति.

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-१/२२) वर्जने प्रतिषेधः । वर्जने प्रतिषेधः वक्तव्यः ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-२/२२) अवसञ्चक्ष्याः परिसञ्चक्ष्याः ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-३/२२) असनयोः च ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-४/२२) असनयोः च प्रतिषेधः वक्तव्यः ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-५/२२) नृचक्षाः रक्षः ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-६/२२) विचक्षणः इति ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-७/२२) बहुलम् तणि ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-८/२२) बहुलम् तणि इति वक्तव्यम् ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-९/२२) किम् इदम् तणि इति ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-१०/२२) सञ्ज्ञाछन्दसोः ग्रहणम् ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-११/२२) किम् प्रयोजनम् ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-१२/२२) अन्नवधकगात्रविचक्षणाजिराद्यर्थम् ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-१३/२२) अन्न ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-१४/२२) अन्नम् ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-१५/२२) वधक ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-१६/२२) वधकम् ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-१७/२२) गात्र ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-१८/२२) गात्रम् पश्य ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-१९/२२) विचक्षण ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-२०/२२) विचक्षणः ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-२१/२२) अजिर ।

(पा-२,४.५४.२; अकि-१,४८७.१९-४८८.६; रो-२,८७९; भा-२२/२२) अजिरे तिष्ठति ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-१/४९) घञपोः प्रतिषेधे क्यपः उपसङ्ख्यानम् ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-२/४९) घञपोः प्रतिषेधे क्यपः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-३/४९) इह अपि यथा स्यात् ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-४/४९) समजनम् समज्या इति ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-५/४९) तत् तर्हि वक्तव्यम् ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-६/४९) न वक्तव्यम् ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-७/४९) अपि इति एव भविष्यति ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-८/४९) कथम् ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-९/४९) अपि इति न इदम् प्रत्ययग्रहणम् ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-१०/४९) किम् तर्हि ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-११/४९) प्रत्याहारग्रहणम् ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-१२/४९) क्व सन्निविष्टानाम् प्रत्याहारः ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-१३/४९) अपः अकातात् प्रभृति आ क्यपः पकारात् ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-१४/४९) यदि प्रत्याहारग्रहणम् संवीतिः न सिध्यति ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-१५/४९) एवम् तर्हि न अर्थः उअप्सङ्ख्यानेन न अपि घञ्नपोः प्रतिषेधेन ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-१६/४९) इदम् अस्ति ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-१७/४९) चक्षिङः ख्याञ् वा लिटि इति ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-१८/४९) ततः वक्ष्यामि ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-१९/४९) अजेः वी भवति वा व्यवस्थितविभाषा च इति ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-२०/४९) तेन इह च भविष्यति ॒ प्रवेता प्रवेतुम् प्रवीतः रथः , संवीतिः इति ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-२१/४९) इह च न भविष्यति ॒ समाजः , उदाजः , समजः , उदजः , समजनम् उदजनम् , समज्या इति ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-२२/४९) तत्र अयम् अपि अर्थः ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-२३/४९) इदम् अपि सिद्धम् भवति ॒ प्राजिता इति ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-२४/४९) किम् च भोः इष्यते एतत् रूपम् ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-२५/४९) बाढम् इष्यते ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-२६/४९) एवम् हि कः चित् वैयाकरणः आह ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-२७/४९) कः अस्य रथस्य प्रवेता इति ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-२८/४९) सूतः आह ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-२९/४९) आयुष्मन् अहम् प्राजिता इति ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-३०/४९) वैयाकरणः आह ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-३१/४९) अपशब्दः इति ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-३२/४९) सूतः आह ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-३३/४९) प्रापित्ज्ञः देवानाम् प्रियः न तु इष्टज्ञः ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-३४/४९) इष्यते एतत् रूपम् इति ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-३५/४९) वैयाकरणः आह ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-३६/४९) आहो खलु अनेन दुरुतेन बाध्यामहे इति ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-३७/४९) सूतः आह ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-३८/४९) न खलु वेञः सूतः ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-३९/४९) सुवतेः एव सूतः ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-४०/४९) यदि सुवतेः कुत्सा प्रयोक्तव्या ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-४१/४९) दुःसूतेन इति वक्तव्यम् ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-४२/४९) न तर्हि इदानीम् इदम् वा यौ इति वक्तव्यम् ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-४३/४९) वक्तव्यम् च ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-४४/४९) किम् प्रयोजनम् ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-४५/४९) न इयम् विभाषा ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-४६/४९) किम् तर्हि ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-४७/४९) आदेशः अयम् विधीयते ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-४८/४९) वा इति अयम् आदेशः भवति अजेः यौ परतः ।

(पा-२,४.५६; अकि-१,४८८.८-२४; रो-२,८८०-८८१; भा-४९/४९) वायुः इति ।

(पा-२,४.५८; अकि-१,४८९.२-९; रो-२,८८१-८८२; भा-१/९) अणिञोः लुकि तद्राजात् युवप्रत्ययस्य उपसङ्ख्यानम् । अणिञोः लुकि तद्राजात् युवप्रत्ययस्य उपसङ्ख्यानम् कर्तव्यम् ।

(पा-२,४.५८; अकि-१,४८९.२-९; रो-२,८८१-८८२; भा-२/९) बौधिः पिता बौधीः पुत्रः औदुम्बरिः पिता औदुम्बरिः पुत्रः ।

(पा-२,४.५८; अकि-१,४८९.२-९; रो-२,८८१-८८२; भा-३/९) अपरः आह ॒ अणिञोः लुकि क्षत्रियगोत्रमात्रात् युवप्रत्ययस्य उपसङ्ख्यानम् कर्तव्यम् इति ।

(पा-२,४.५८; अकि-१,४८९.२-९; रो-२,८८१-८८२; भा-४/९) जाबालिः पिता जाबालिः पुत्रः ।

(पा-२,४.५८; अकि-१,४८९.२-९; रो-२,८८१-८८२; भा-५/९) अपरः आह ।

(पा-२,४.५८; अकि-१,४८९.२-९; रो-२,८८१-८८२; भा-६/९) अब्राह्मणगोत्रमात्रात् युवप्रत्ययस्य उपसङ्ख्यानम् कर्तव्यम् इति ।

(पा-२,४.५८; अकि-१,४८९.२-९; रो-२,८८१-८८२; भा-७/९) किम् प्रयोजनम् ।

(पा-२,४.५८; अकि-१,४८९.२-९; रो-२,८८१-८८२; भा-८/९) इदम् अपि सिद्धम् भवति ।

(पा-२,४.५८; अकि-१,४८९.२-९; रो-२,८८१-८८२; भा-९/९) भाण्डिजङ्घिः पिता भाण्डिजङ्घिः पुत्रः कार्णखरकिः पिता कार्णखरकिः पुत्रः ।