व्याकरणमहाभाष्य खण्ड 30

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१/१२९) तद्राजादीनाम् लुकि समासबहुत्वे प्रतिषेधः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-२/१२९) तद्राजादीनाम् लुकि समासबहुत्वे प्रतिषेधः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-३/१२९) प्रियः आङ्गः एषाम् ते इमे प्रियाङ्गाः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-४/१२९) प्रियः वाङ्गः एषाम् ते इमे प्रियवाङ्गाः इति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-५/१२९) किम् उच्यते समासबहुत्वे प्रतिषेधः इति यावता तेन एव चेत् कृतम् बहुत्वम् इति उच्यते न च अत्र तेन एव कृतम् बहुत्वम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-६/१२९) भवति वै किम् चित् आचार्याः क्रियमाणम् अपि चोदयन्ति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-७/१२९) तत् वा कर्तव्यम् तेन एव चेत् बहुत्वम् इति समासबहुत्वे वा प्रतिषेधः वक्तव्यः इति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-८/१२९) अबहुत्वे च लुग्वचनम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-९/१२९) अबहुत्वे च लुक् वक्तव्यः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१०/१२९) अतिक्रान्तः अङ्गान् अत्यङ्गः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-११/१२९) बहुवचने परतः यः तद्राजः इति एवम् कृत्वा चोद्यते ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१२/१२९) अथ किमर्थम् पुनः इदम् न बहुवचने इति एव सिद्धम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१३/१२९) न सिध्यति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१४/१२९) बहुवचने इति उच्यते न च अत्र बहुवचनम् पश्यामः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१५/१२९) प्रत्ययलक्षणेन भविष्यति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१६/१२९) न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१७/१२९) न लुमता आङ्गस्य इति वक्ष्यामि ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१८/१२९) न एवम् शक्यम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१९/१२९) इह हि दोषः स्यात् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-२०/१२९) पञ्चभिः गार्गीभिः क्रीतः पटः पञ्चगार्ग्यः दशगार्ग्यः इति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-२१/१२९) द्वन्द्वे अबहुषु लुग्वचनम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-२२/१२९) द्वन्द्वे अबहुषु लुक् वक्तव्यः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-२३/१२९) गर्गवत्सवाजाः इति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-२४/१२९) इह च लुक् वक्तव्यः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-२५/१२९) गर्गेभ्यः आगतम् गर्गरूप्यम् गर्गमयम् इति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-२६/१२९) इह च अत्रयः इति उदात्तनिवृत्तिस्वरः प्राप्नोति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-२७/१२९) सिद्धम् तु प्रत्ययार्थबहुत्वे लुग्वचनात् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-२८/१२९) सिद्धम् एतत् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-२९/१२९) कथम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-३०/१२९) प्रत्ययार्थबहुत्वे लुक् वक्तव्यः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-३१/१२९) यदि प्रत्ययार्थबहुत्वे लुक् उच्यते अस्त्रियाम् इति वक्तव्यम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-३२/१२९) इह मा भूत् ॒ आङ्ग्यः स्त्रियः , वाङ्ग्यः स्त्रियः इति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-३३/१२९) यस्य पुनः बहुवचने परतः लुक् उच्यते तस्य ईकारेण व्यवहितत्वात् न भविष्यति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-३४/१२९) यस्य अपि बहुवचने परतः लुक् उच्यते तेन अपि अस्त्रियाम् इति वक्तव्यम् आम्बष्ठ्याः स्त्रियः सौवीर्याः स्त्रियः इति एवमर्थम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-३५/१२९) अत्र अपि चापा व्यवधानम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-३६/१२९) एकादेशे कृते न अस्ति व्यव्हदानम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-३७/१२९) एकादेशः पूवविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-३८/१२९) द्वन्द्वे अबहुषु लुग्वचनम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-३९/१२९) द्वन्द्वे अबहुषु लुक् वक्तव्यः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-४०/१२९) गर्गवत्सवाजाः इति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-४१/१२९) गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-४२/१२९) गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-४३/१२९) बिदानाम् अपत्यम् माणवकः बैदः बैदौ ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-४४/१२९) किमर्थम् इदम् न अचि इति एव अलुक् सिद्धः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-४५/१२९) अचि इति उच्यते ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-४६/१२९) न च अत्र अजादिम् पश्यामः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-४७/१२९) प्रत्ययलक्षणेन ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-४८/१२९) वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-४९/१२९) एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-५०/१२९) एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-५१/१२९) बैदस्य अपत्यम् बहवः माणवकाः बिदाः बैदयोः वा बिदाः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-५२/१२९) अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-५३/१२९) मा भूत् एवम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-५४/१२९) अञन्तम् यत् बहुषु यञन्तम् यत् बहुषु इति एवम् भविष्यति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-५५/१२९) न एवम् शक्यम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-५६/१२९) इह हि दोषः स्यात् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-५७/१२९) काश्यपप्रतिकृतयः काश्यपाः इति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-५८/१२९) न वा सर्वेषाम् द्वन्द्वे बह्वर्थत्वात् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-५९/१२९) न वा एषः दोषः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-६०/१२९) किम् कारणम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-६१/१२९) सर्वेषाम् द्वन्द्वे बह्वर्थत्वात् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-६२/१२९) सर्वाणि द्वन्द्वे बह्वर्थानि ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-६३/१२९) कथम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-६४/१२९) युगपत् अधिकरणविवक्षायाम् द्वन्द्वः भवति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-६५/१२९) ततः अयम् आह यस्य बहुवचने परतः लुक् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-६६/१२९) यदि सर्वाणि द्वन्द्वे बह्वर्थानि अहम् अपि इदम् अचोद्यम् चोद्ये ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-६७/१२९) द्वन्द्वे अबहुषु लुग्वचनम् इति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-६८/१२९) मम अपि सर्वत्र बहुवचनम् परम् भवति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-६९/१२९) लुके कृते न प्राप्नोति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-७०/१२९) प्रत्ययलक्षणेन ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-७१/१२९) न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-७२/१२९) न लुमता आङ्गस्य इति वक्ष्यामि ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-७३/१२९) ननु च उक्तम् न एवम् शक्यम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-७४/१२९) इह हि दोषः स्यात् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-७५/१२९) पञ्चभिः गार्गीभिः क्रीतः पटः पञ्चगार्ग्यः दशगार्ग्यः इति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-७६/१२९) इष्तम् एव एतत् सङ्गृहीतम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-७७/१२९) पञ्चगर्गः दशगर्गः इति एव भवितव्यम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-७८/१२९) तथा इदम् अपरम् अचोद्यम् चोद्ये ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-७९/१२९) गर्गरूप्यम् गर्गमयम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-८०/१२९) अत्र अपि बहुवचने इति एव सिद्धम् कथम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-८१/१२९) समर्थात् तद्धितः उत्पद्यते ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-८२/१२९) सामर्थ्यम् च सुबन्तेन ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-८३/१२९) ततः अयम् आह यस्य प्र्तययार्थबहुत्वे लुक् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-८४/१२९) यदि समर्थात् तद्धितः उत्पद्यते अहम् अपि इदम् अचोद्यम् चोद्ये ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-८५/१२९) गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् इति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-८६/१२९) कथम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-८७/१२९) यस्य अपि बहुवचने परतः लुक् तेन अपि अत्र अलुक् वक्तव्यः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-८८/१२९) तस्य अपि हि अत्र बहुवचनम् परम् भवति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-८९/१२९) न वक्तव्यः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-९०/१२९) अचि इति एवम् अलुक् सिद्धः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-९१/१२९) अचि इति उच्यते ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-९२/१२९) न च अत्र अजादिम् पश्यामः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-९३/१२९) ननु च उक्तम् प्रत्ययलक्षणेन ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-९४/१२९) वर्णाश्रये न अस्ति प्रत्ययलक्षणम् इति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-९५/१२९) यदि वा कानि चित् वर्णाश्रयाणि अपि प्रत्ययलक्षणेन भवन्ति तथा इदम् अपि भविष्यति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-९६/१२९) अथ वा अविशेषेण अलुकम् उक्त्वा हलि न इति वक्ष्यामि ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-९७/१२९) यदि अविशेषेण अलुकम् उक्त्वा हलि न इति उच्यते बिदानाम् अपत्यम् बहवः माणवकाः बिदाः अत्र अपि अलुक् प्राप्नोति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-९८/१२९) अस्तु ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-९९/१२९) पुनः अस्य युवबहुत्वे वर्तमानस्य लुक् भविष्यति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१००/१२९) पुनः अलुक् कस्मात् न भवति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१०१/१२९) समर्थानाम् प्रथमस्य गोत्रप्रत्ययान्तस्य अलुक् उच्यते न च तत् समर्थानाम् प्रथमम् गोत्रप्रत्ययान्तम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१०२/१२९) किम् तर्हि ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१०३/१२९) द्वितीयम् अर्थम् उपसङ्क्रान्तम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१०४/१२९) अवश्यम् च एतत् एवम् विज्ञेयम् अत्रिभरद्वाजिका वसिष्ठकश्यपिका भृग्वङ्गिरसिका कुत्सकुशिका इति एवमर्थम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१०५/१२९) गर्गभार्गविकाग्रहणम् वा क्रियते ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१०६/१२९) तत् नियमार्थम् भविष्यति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१०७/१२९) एतस्य एव द्वितीयम् अर्थम् उपसङ्क्रान्तस्य अलुक् भवति न अन्यस्य इति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१०८/१२९) यत् अपि उच्यते एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः इति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१०९/१२९) मा भूत् एवम् अञ् यः बहुषु यञ् यः बहुषु इति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-११०/१२९) अञन्तम् यत्बहुषु यञन्तम् यत् बहुषु इति एवम् भविष्यति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१११/१२९) ननु च उक्तम् न एवम् शक्यम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-११२/१२९) इह हि दोषः स्यात् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-११३/१२९) काश्यपप्रतिकृतयः काश्यपाः इति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-११४/१२९) न एषः दोषः ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-११५/१२९) लौकिकस्य तत्र गोत्रस्य ग्रहणम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-११६/१२९) न च एतत् लौकिकम् गोत्रम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-११७/१२९) यस्य बहुवचने परतः लुक् समासबहुत्वे तेन प्रतिषेधः वक्तव्यः तेन एव चेत् कृतम् बहुत्वम् इति वा वक्तव्यम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-११८/१२९) यस्य प्रत्ययार्थबहुत्वे लुक् तेन अस्त्रियाम् इति वक्तव्यम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-११९/१२९) यस्य बहुवचने परतः लुक् तस्य अयम् अधिकः दोषः अत्रः इति उदात्तनिवृत्तिस्वरः प्राप्नोति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१२०/१२९) तस्मात् प्रत्ययार्थबहुत्वे लुक् इति एषः पक्षः ज्यायान् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१२१/१२९) अथ इह कथम् भवितव्यम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१२२/१२९) गार्गी च बात्स्यः च इति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१२३/१२९) यदि तावत् अस्त्रि विधिना आश्रीयते अस्ति अत्र अस्त्री इति कृत्वा भवितव्यम् लुका ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१२४/१२९) अथ स्त्री प्रतिषेधेन आश्रीयते अस्ति अत्र स्त्री इति कृत्वा भवितव्यम् प्रतिषेधेन ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१२५/१२९) किम् पुनः अत्र अर्थसतत्त्वम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१२६/१२९) देवाः एतत् ज्ञातुम् अर्हन्ति ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१२७/१२९) अथ यः लोप्यलोपिनाम् समासः तत्र कथम् भवितव्यम् ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१२८/१२९) उभयम् हि दृश्यते ।

(पा-२,४.६२; अकि-१,४९०.२-४९२.२६; रो-२,८८२-८९३; भा-१२९/१२९) शरद्वत् शुनकदर्भात् भ्रुगुवत् साग्रायणेषु न उदात्तस्वरितोदयम् अगार्ग्यकाश्यपगालवानाम् इति ।

(पा-२,४.६४; अकि-१,४९३.२-८; रो-२,८९३; भा-१/१३) यञादीनाम् एकद्वयोः वा तत्पुरुषे षष्ठ्याः उपसङ्ख्यानम् ।

(पा-२,४.६४; अकि-१,४९३.२-८; रो-२,८९३; भा-२/१३) यञादीनाम् एकद्वयोः वा तत्पुरुषे षष्ठ्याः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-२,४.६४; अकि-१,४९३.२-८; रो-२,८९३; भा-३/१३) गार्ग्यस्य कुलम् गार्ग्यकुलम् गर्गकुलम् वा ।

(पा-२,४.६४; अकि-१,४९३.२-८; रो-२,८९३; भा-४/१३) गार्ग्ययोः कुलम् गार्ग्यकुलम् गर्गकुलम् वा ।

(पा-२,४.६४; अकि-१,४९३.२-८; रो-२,८९३; भा-५/१३) बैदस्य कुलम् बैदकुलम् बिदकुलम् वा ।

(पा-२,४.६४; अकि-१,४९३.२-८; रो-२,८९३; भा-६/१३) बैदयोः कुलम् बैदकुलम् बिदकुलम् वा ।

(पा-२,४.६४; अकि-१,४९३.२-८; रो-२,८९३; भा-७/१३) यञादीनाम् इति किमर्थम् ।

(पा-२,४.६४; अकि-१,४९३.२-८; रो-२,८९३; भा-८/१३) आङ्गस्य कुलम् आङ्गकुलम्. आङ्गयोः कुलम् आङ्गकुलम् ।

(पा-२,४.६४; अकि-१,४९३.२-८; रो-२,८९३; भा-९/१३) एकद्वयोः इति किमर्थम् ।

(पा-२,४.६४; अकि-१,४९३.२-८; रो-२,८९३; भा-१०/१३) गर्गाणाम् कुलम् गर्गकुलम् ।

(पा-२,४.६४; अकि-१,४९३.२-८; रो-२,८९३; भा-११/१३) तत्पुरुषे इति किमर्थम्. गार्ग्यस्य समीपम् उपगार्ग्यम् ।

(पा-२,४.६४; अकि-१,४९३.२-८; रो-२,८९३; भा-१२/१३) षष्ठ्याः इति किम् ।

(पा-२,४.६४; अकि-१,४९३.२-८; रो-२,८९३; भा-१३/१३) शोभनगार्ग्यः परमगार्ग्यः ।

(पा-२,४.६६; अकि-१,४९३.१०-१६; रो-२,८९३-८९४; भा-१/१८) किम् अयम् समुच्चयः ।

(पा-२,४.६६; अकि-१,४९३.१०-१६; रो-२,८९३-८९४; भा-२/१८) प्राक्षु भरतेषु च इति ।

(पा-२,४.६६; अकि-१,४९३.१०-१६; रो-२,८९३-८९४; भा-३/१८) आहोस्वित् भरतविशेषणम् प्राग्ग्रहणम् ।

(पा-२,४.६६; अकि-१,४९३.१०-१६; रो-२,८९३-८९४; भा-४/१८) प्राञ्चः ये भरताः इति ।

(पा-२,४.६६; अकि-१,४९३.१०-१६; रो-२,८९३-८९४; भा-५/१८) किम् च अतः ।

(पा-२,४.६६; अकि-१,४९३.१०-१६; रो-२,८९३-८९४; भा-६/१८) यदि समुच्चयः भरतग्रहणम् अनर्थकम् ।

(पा-२,४.६६; अकि-१,४९३.१०-१६; रो-२,८९३-८९४; भा-७/१८) न हि अन्यत्र भरता सन्ति ।

(पा-२,४.६६; अकि-१,४९३.१०-१६; रो-२,८९३-८९४; भा-८/१८) अथ प्राग्ग्रहणम् भरतविशेषणम् प्राग्ग्रहणम् अनर्थकम् ।

(पा-२,४.६६; अकि-१,४९३.१०-१६; रो-२,८९३-८९४; भा-९/१८) न हि अप्राञ्चः भरताः सन्ति ।

(पा-२,४.६६; अकि-१,४९३.१०-१६; रो-२,८९३-८९४; भा-१०/१८) एवम् तर्हि समुच्चयः ।

(पा-२,४.६६; अकि-१,४९३.१०-१६; रो-२,८९३-८९४; भा-११/१८) ननु च उक्तम् भरतग्रहणम् अनर्थकम् ।

(पा-२,४.६६; अकि-१,४९३.१०-१६; रो-२,८९३-८९४; भा-१२/१८) न हि अन्यत्र भरता सन्ति इति ।

(पा-२,४.६६; अकि-१,४९३.१०-१६; रो-२,८९३-८९४; भा-१३/१८) न अनर्थकम्. ज्ञापकार्थम् ।

(पा-२,४.६६; अकि-१,४९३.१०-१६; रो-२,८९३-८९४; भा-१४/१८) किम् ज्ञाप्यते ।

(पा-२,४.६६; अकि-१,४९३.१०-१६; रो-२,८९३-८९४; भा-१५/१८) एतत् ज्ञापयति आचार्यः अन्यत्र प्राग्ग्रहणे भरतग्रहणम् न भवति इति ।

(पा-२,४.६६; अकि-१,४९३.१०-१६; रो-२,८९३-८९४; भा-१६/१८) किम् एतस्य ज्ञापने प्रयोजनम् ।

(पा-२,४.६६; अकि-१,४९३.१०-१६; रो-२,८९३-८९४; भा-१७/१८) इञः प्राचाम् भरत्ग्रहणम् न भवति ।

(पा-२,४.६६; अकि-१,४९३.१०-१६; रो-२,८९३-८९४; भा-१८/१८) औद्दालकिः पिता औद्दालकायनः पुत्रः इति ।

(पा-२,४.६७; अकि-१,४९३.१८-२०; रो-२,८९४; भा-१/३) गोपवनादिप्रतिषेधः प्राक् हरितादिभ्यः ।

(पा-२,४.६७; अकि-१,४९३.१८-२०; रो-२,८९४; भा-२/३) गोपवनादिप्रतिषेधः प्राक् हरितादिभ्यः द्रष्टव्यः ।

(पा-२,४.६७; अकि-१,४९३.१८-२०; रो-२,८९४; भा-३/३) हारितः हारितौ बहुषु हरिताः ।

(पा-२,४.६९; अकि-१,४९४.२-६; रो-२,८९४-८९५; भा-१/८) किमर्थम् अद्वन्द्वे इति उच्यते ।

(पा-२,४.६९; अकि-१,४९४.२-६; रो-२,८९४-८९५; भा-२/८) द्वन्द्वे मा भूत् इति ।

(पा-२,४.६९; अकि-१,४९४.२-६; रो-२,८९४-८९५; भा-३/८) न एतत् अस्ति प्रयोजनम् ।

(पा-२,४.६९; अकि-१,४९४.२-६; रो-२,८९४-८९५; भा-४/८) इष्यते एव द्वन्द्वे ॒ भ्रष्टककपिष्ठलाः भ्राष्टकिकापिष्थलयः इति ।

(पा-२,४.६९; अकि-१,४९४.२-६; रो-२,८९४-८९५; भा-५/८) अतः उत्तरम् पठति अद्वन्द्वे इति द्वन्द्वाधिकारनिवृत्त्यर्थम् ।

(पा-२,४.६९; अकि-१,४९४.२-६; रो-२,८९४-८९५; भा-६/८) अद्वन्द्वे इति उच्यते द्वन्द्वाधिकारनिवृत्त्यर्थम् ।

(पा-२,४.६९; अकि-१,४९४.२-६; रो-२,८९४-८९५; भा-७/८) द्वन्द्वाधिकारः निवर्तते ।

(पा-२,४.६९; अकि-१,४९४.२-६; रो-२,८९४-८९५; भा-८/८) तस्मिन् निवृत्ते अविशेषेण द्वन्द्वे च अद्वन्द्वे च भविष्यति ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-१/२१) आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् । आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् कर्तव्यम् ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-२/२१) अगस्तिकौण्डिनच् इति एतौ प्रकृत्यादेशौ भवतः इति वक्तव्यम् ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-३/२१) किम् प्रयोजनम् ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-४/२१) लुक्प्रतिषेधे वृद्ध्यर्थम् । लुक्प्रतिषेधे वृद्धिः यथा स्यात् ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-५/२१) प्रत्ययान्तनिपातने हि वृद्ध्यभावः ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-६/२१) प्रत्ययान्तनिपातने हि सति वृद्ध्यभावः स्यात् ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-७/२१) आगस्तीयाः कौण्डिन्याः इति ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-८/२१) यदि प्रक्र्टिनिपातनम् क्रियते केन इदानीम् प्रत्ययस्य लोपः भविष्यति ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-९/२१) अधिकारात् प्रत्ययलोपः ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-१०/२१) अधिकारात् प्रत्ययलोपः भविष्यति ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-११/२१) तत् तर्हि प्रकृतिनिपातनम् कर्तव्यम् ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-१२/२१) न कर्तव्यम् ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-१३/२१) योगविभागः करिष्यते ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-१४/२१) आगस्त्यकौण्डिन्ययोः बहुषु लुक् भवति ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-१५/२१) ततः अगस्तिकुण्डिनच् इति एतौ प्रकृत्यादेशौ भवतः आगस्त्यकौण्डिन्ययोः इति ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-१६/२१) एवम् अपि प्रत्ययान्तयोः एव प्राप्नोति ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-१७/२१) प्रत्ययान्तात् हि भवान् षष्ठीम् उच्चारयति ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-१८/२१) आगस्त्यकौण्डिन्ययोः इति ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-१९/२१) न एषः दोषः ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-२०/२१) यथा हि परिभाषितम् प्रत्ययस्य लुक्श्लुलुपः भवन्ति इति प्रत्ययस्य एव भविष्यति ।

(पा-२,४.७०; अकि-१,४९४.८-४९५.२; रो-२,८९५-८९६; भा-२१/२१) अवशिष्टस्य आदेशौ भविष्यतः ।

(पा-२,४.७४; अकि-१,४९५.४-१५; रो-२,८९६-८९७; भा-१/११) ऊतः अचि ।ऊतः अचि इति वक्तव्यम् ।

(पा-२,४.७४; अकि-१,४९५.४-१५; रो-२,८९६-८९७; भा-२/११) इह मा भूत् ।

(पा-२,४.७४; अकि-१,४९५.४-१५; रो-२,८९६-८९७; भा-३/११) सनीस्रसः दनीध्वसः इति ।

(पा-२,४.७४; अकि-१,४९५.४-१५; रो-२,८९६-८९७; भा-४/११) अथ ऊतः इति उच्यमाने इह कस्मात् न भवति ।

(पा-२,४.७४; अकि-१,४९५.४-१५; रो-२,८९६-८९७; भा-५/११) योयूयः रोरूवः ।

(पा-२,४.७४; अकि-१,४९५.४-१५; रो-२,८९६-८९७; भा-६/११) विहितविशेषणम् ऊकारान्तग्रहणन् ।

(पा-२,४.७४; अकि-१,४९५.४-१५; रो-२,८९६-८९७; भा-७/११) ऊकारान्तात् यः विहितः इति ।

(पा-२,४.७४; अकि-१,४९५.४-१५; रो-२,८९६-८९७; भा-८/११) तत् तर्हि वक्तव्यम् ।

(पा-२,४.७४; अकि-१,४९५.४-१५; रो-२,८९६-८९७; भा-९/११) न वक्तव्यम् ।

(पा-२,४.७४; अकि-१,४९५.४-१५; रो-२,८९६-८९७; भा-१०/११) इष्टम् एव एतत् सङ्गृहीतम् ।

(पा-२,४.७४; अकि-१,४९५.४-१५; रो-२,८९६-८९७; भा-११/११) सनीस्रंसः दनीध्वंसः इति एव भवितव्यम् ।

(पा-२,४.७७; अकि-१,४९५.१०-१५; रो-२,८९७-८९८; भा-१/११) गापोः ग्रहणे इण्पिबत्योः ग्रहणम् । गापोः ग्रहणे इण्पिबत्योः ग्रहणम् कर्तव्यम् ।

(पा-२,४.७७; अकि-१,४९५.१०-१५; रो-२,८९७-८९८; भा-२/११) इणः यः गाशब्दः पिबतेः यः पाशब्दः इति वक्तव्यम् ।

(पा-२,४.७७; अकि-१,४९५.१०-१५; रो-२,८९७-८९८; भा-३/११) इह मा भूत् ।

(पा-२,४.७७; अकि-१,४९५.१०-१५; रो-२,८९७-८९८; भा-४/११) अगासीत् नटः ।

(पा-२,४.७७; अकि-१,४९५.१०-१५; रो-२,८९७-८९८; भा-५/११) अपासीत् धनम् इति ।

(पा-२,४.७७; अकि-१,४९५.१०-१५; रो-२,८९७-८९८; भा-६/११) तत् तर्हि वक्तव्यम् ।

(पा-२,४.७७; अकि-१,४९५.१०-१५; रो-२,८९७-८९८; भा-७/११) न वक्तव्यम् ।

(पा-२,४.७७; अकि-१,४९५.१०-१५; रो-२,८९७-८९८; भा-८/११) इणः ग्रहणे तावत् वार्तम् ।

(पा-२,४.७७; अकि-१,४९५.१०-१५; रो-२,८९७-८९८; भा-९/११) निर्देशात् एव इदम् व्यक्तम् लुग्विकरणस्य ग्रहणम् इति ।

(पा-२,४.७७; अकि-१,४९५.१०-१५; रो-२,८९७-८९८; भा-१०/११) पाग्रहणे च अपि वार्तम् ।

(पा-२,४.७७; अकि-१,४९५.१०-१५; रो-२,८९७-८९८; भा-११/११) वक्तव्यम् एव एतत् सर्वत्र एव पाग्रहणे अलुग्विकरणस्य ग्रहणम् इति ।

(पा-२,४.७९; अकि-१,४९५.१७-४९६.७; रो-२,८९८; भा-१/१६) तथासोः आत्मनेपदवचनम् ।

(पा-२,४.७९; अकि-१,४९५.१७-४९६.७; रो-२,८९८; भा-२/१६) तथासोः आत्मनेपदस्य ग्रहणम् कर्तव्यम् ।

(पा-२,४.७९; अकि-१,४९५.१७-४९६.७; रो-२,८९८; भा-३/१६) आत्मनेपदम् यौ तथासौ इति वक्तव्यम् ।

(पा-२,४.७९; अकि-१,४९५.१७-४९६.७; रो-२,८९८; भा-४/१६) एकवचनग्रहणम् वा ।

(पा-२,४.७९; अकि-१,४९५.१७-४९६.७; रो-२,८९८; भा-५/१६) अथ वा एकवचने ये तथासी इति वक्तव्यम् ।

(पा-२,४.७९; अकि-१,४९५.१७-४९६.७; रो-२,८९८; भा-६/१६) तत् च अवश्यम् अन्यतरत् कर्तव्यम् ।

(पा-२,४.७९; अकि-१,४९५.१७-४९६.७; रो-२,८९८; भा-७/१६) अवचने हि अनिष्टप्रसङ्गः ।

(पा-२,४.७९; अकि-१,४९५.१७-४९६.७; रो-२,८९८; भा-८/१६) अनुच्यमाने हि एतस्मिन् अनिष्टम् प्रसज्येत ।

(पा-२,४.७९; अकि-१,४९५.१७-४९६.७; रो-२,८९८; भा-९/१६) अतनिष्ट यूपम् ।

(पा-२,४.७९; अकि-१,४९५.१७-४९६.७; रो-२,८९८; भा-१०/१६) असनिष्ट यूपम् इति ।

(पा-२,४.७९; अकि-१,४९५.१७-४९६.७; रो-२,८९८; भा-११/१६) तत् तर्हि वक्तव्यम् ।

(पा-२,४.७९; अकि-१,४९५.१७-४९६.७; रो-२,८९८; भा-१२/१६) न वक्तव्यम् ।

(पा-२,४.७९; अकि-१,४९५.१७-४९६.७; रो-२,८९८; भा-१३/१६) यदि अपि तावत् अयम् तशब्दः दृष्टापचारः अस्ति आत्मनेपदम् अस्ति एव परस्मैपदम् अस्ति एकवचनम् अस्ति बहुवचनम् अयम् खलु थास्शब्दः अदृष्टापचारः आत्मनेपदम् एकवचनम् एव ।

(पा-२,४.७९; अकि-१,४९५.१७-४९६.७; रो-२,८९८; भा-१४/१६) तस्य अस्य कः अन्यः सहायः भवितुम् अर्हति अन्यत् अतः आत्मनेपदात् एकवचनात् च ।

(पा-२,४.७९; अकि-१,४९५.१७-४९६.७; रो-२,८९८; भा-१५/१६) तत् यथा अस्यस् गोः द्वितीयेन अर्थः इति ।

(पा-२,४.७९; अकि-१,४९५.१७-४९६.७; रो-२,८९८; भा-१६/१६) गौः एव आनीयते न अश्वः न गर्दभः ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-१/२५) आमः लेः लोपे लुङ्लोटोः उपसङ्ख्यानम् ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-२/२५) आमः लेः लोपे लुङ्लोटोः उपसङ्ख्यानम् कर्तव्यम् ॒ ताम् बैजवापयः विदाम् अक्रन् ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-३/२५) अत्र भवन्तः विदाम् कुर्वन्तु. तत् तर्हि वक्तव्यम् ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-४/२५) न वक्तव्यम् ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-५/२५) लिग्रहणम् निवर्तिष्यते ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-६/२५) यदि निवर्तते प्रत्ययमात्रस्य प्राप्नोति ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-७/२५) इष्यते च प्रत्ययमात्रस्य ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-८/२५) आतः च इष्यते ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-९/२५) एवम् हि आह ॒ कृञ् च अनुप्रयुज्यते लिटि इति ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-१०/२५) यदि च प्रत्ययमात्रस्य लुक् भवति ततः एतत् उपपन्नम् भवति ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-११/२५) आमन्तेभ्यः णलः प्रतिषेधः ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-१२/२५) आमन्तेभ्यः णलः प्रतिषेधः वक्तव्यः ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-१३/२५) शशाम तताम ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-१४/२५) वृद्धौ कृत्यायाम् आमः इति लुक् प्राप्नोति ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-१५/२५) आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-१६/२५) आमन्तेभ्यः णलः अप्रतिषेधः ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-१७/२५) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-१८/२५) लुक् कस्मात् न भवति ॒ शशाम तताम इति ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-१९/२५) अर्थवतः आम्शब्दस्य ग्रहणम् ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-२०/२५) न च एषः अर्थवान् ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-२१/२५) आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः इति चेत् अमः प्रतिषेधः । आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः इति चेत् अमः प्रतिषेधः वक्तव्यः ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-२२/२५) आम ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-२३/२५) उक्तम् वा ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-२४/२५) किम् उक्तम् ।

(पा-२,४.८१.१; अकि-१,४९६.९-२३; रो-२,८९८-८९९; भा-२५/२५) सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-१/३९) किम् पुनः लुक् आदेशानाम् अपवादः आहोस्वित् कृतेषु आदेशेषु भवति ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-२/३९) लुक् आदेशापवादः । लुक् आदेशानाम् अपवादः ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-३/३९) तिङ्कृताभावः तु ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-४/३९) तिङ्कृतस्य तु अभावः ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-५/३९) कस्य ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-६/३९) पदत्वस्य ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-७/३९) सुबन्तपदत्वात् सिद्धम् ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-८/३९) सुबन्तम् पदम् इति पदसञ्ज्ञा भविष्यति ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-९/३९) कथम् स्वाद्युत्पत्तिः ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-१०/३९) लकारस्य कृत्त्वात् प्रातिपदिकत्वम् तदाश्रयम् प्रत्ययविधानम् । लकारः कृत् ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-११/३९) कृत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-१२/३९) तदाश्रयम् प्रत्ययविधानम् ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-१३/३९) प्रातिपदिकाश्रयत्वात् स्वाद्युत्पत्तिः भविष्यति ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-१४/३९) सुपः श्रवणम् प्राप्नोति ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-१५/३९) अव्ययात् इति लुक् भविष्यति ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-१६/३९) कथम् अव्ययत्वम् ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-१७/३९) अव्ययत्वम् मकारान्तत्वात् ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-१८/३९) कृदन्तम् मान्तम् अव्ययसञ्ज्ञम् भवति इति अव्ययसञ्ज्ञा भविष्यति ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-१९/३९) स्वरः कथम् ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-२०/३९) यत् प्रकारयाम् चकार ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-२१/३९) स्वरः कृदन्तप्रकृतिस्वरत्वात् ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-२२/३९) कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति एषः स्वरः भविष्यति ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-२३/३९) तथा च निघातानिघातसिद्धिः ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-२४/३९) तथा च निघातानिघातसिद्धिः भवति ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-२५/३९) चक्षुष्कामम् याजयाम् चकार ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-२६/३९) तिङ् अतिङः इति तस्य च अनिघातः ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-२७/३९) तस्मात् च निघातः सिद्धः भवति ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-२८/३९) नञा तु समासप्रसङ्गः ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-२९/३९) नञा तु समासः प्राप्नोति ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-३०/३९) न कारयम् न हारयाम् ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-३१/३९) नञ् सुबन्तेन सह समस्यते इति समासः प्राप्नोति ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-३२/३९) उक्तम् वा ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-३३/३९) किम् उक्तम् ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-३४/३९) असामर्थ्यात् इति ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-३५/३९) न अत्र नञः आमन्तेन सामर्थ्यम् ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-३६/३९) केन तर्हि ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-३७/३९) तिङन्तेन ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-३८/३९) न चकार कारयाम् ।

(पा-२,४.८१.२; अकि-१,४९६.२४-४९८.१२; रो-२,९००-९०२; भा-३९/३९) न चकार हारयाम् इति ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-१/२३) अव्ययात् आपः लुग्वचनानर्थक्यम् लिङ्गाभावात् ।अव्ययात् आपः लुग्वचनम् अनर्थकम् ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-२/२३) किम् कारणम् ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-३/२३) लिङ्गाभावात् ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-४/२३) अलिङ्गम् अव्ययम् ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-५/२३) किम् इदम् भवान् सुपः लुकम् मृष्यति आपः लुकम् न मृष्यति ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-६/२३) यथा एव हि अलिङ्गम् अव्ययम् एवम् असङ्ख्यम् अपि ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-७/२३) सत्यम् एतत् ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-८/२३) प्रत्ययलक्षणम् आचार्यः प्रार्थयमानः सुपः लुकम् मृष्यति ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-९/२३) आपः पुनः अस्य लुकि सति न किम् चित् अपि प्रयोजनम् अस्ति ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-१०/२३) उच्यमाने अपि एतस्मिन् स्वाद्युत्पत्तिः न प्राप्नोति ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-११/२३) किम् कारणम् ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-१२/२३) एकत्वादीनाम् अभावात् ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-१३/२३) एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-१४/२३) न च एषाम् एकत्वादयः सन्ति ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-१५/२३) अविशेषेण उत्पद्यन्ते ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-१६/२३) उत्पन्नानाम् नियमः क्रियते ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-१७/२३) अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-१८/२३) के च प्रकृताः ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-१९/२३) एकत्वादयः ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-२०/२३) एकस्मिन् एकवचनम् न द्वयोः न बहुषु ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-२१/२३) द्वयोः एव द्विवचनम् न एकस्मिन् न बहुषु ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-२२/२३) बहुषु एव बहुवचनम् न एकस्मिन् न द्वयोः इति ।

(पा-२,४.८२; अकि-१,४९८.२-१२; रो-२,९०२-९०३; भा-२३/२३) अथ वा आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते अव्ययेभ्यः स्वादयः इति यत् अयम् अव्ययात् आपसुपः इति सुब्लुकम् शास्ति ।

(पा-२,४.८३.१; अकि-१,४९८.१४-२३; रो-२,९०३; भा-१/१४) न अव्ययीभावात् अतः इति योगव्यवसानम् ।

(पा-२,४.८३.१; अकि-१,४९८.१४-२३; रो-२,९०३; भा-२/१४) न अव्ययीभावात् अतः इति योगः व्यवसेयः ।

(पा-२,४.८३.१; अकि-१,४९८.१४-२३; रो-२,९०३; भा-३/१४) न अव्ययीभावात् अकारान्तात् सुपः लुक् भवति ।

(पा-२,४.८३.१; अकि-१,४९८.१४-२३; रो-२,९०३; भा-४/१४) ततः अम् तु अपञ्चम्याः इति ।

(पा-२,४.८३.१; अकि-१,४९८.१४-२३; रो-२,९०३; भा-५/१४) किमर्थः योगविभागः ।

(पा-२,४.८३.१; अकि-१,४९८.१४-२३; रो-२,९०३; भा-६/१४) पञ्चम्याः अम्प्रतिषेधार्थम् । पञ्चम्याः अमः प्रतिषेधः यथा स्यात् ।

(पा-२,४.८३.१; अकि-१,४९८.१४-२३; रो-२,९०३; भा-७/१४) एकयोगे हि उभयोः प्रतिषेधः ।

(पा-२,४.८३.१; अकि-१,४९८.१४-२३; रो-२,९०३; भा-८/१४) एकयोगे हि सति उभयोः प्रतिषेधः स्यात् अमः अलुकः च ।

(पा-२,४.८३.१; अकि-१,४९८.१४-२३; रो-२,९०३; भा-९/१४) सः तर्हि योगविभागः कर्तव्यः ।

(पा-२,४.८३.१; अकि-१,४९८.१४-२३; रो-२,९०३; भा-१०/१४) न कर्तव्यः ।

(पा-२,४.८३.१; अकि-१,४९८.१४-२३; रो-२,९०३; भा-११/१४) तुः नियामकः ।

(पा-२,४.८३.१; अकि-१,४९८.१४-२३; रो-२,९०३; भा-१२/१४) तुः क्रियते ।

(पा-२,४.८३.१; अकि-१,४९८.१४-२३; रो-२,९०३; भा-१३/१४) स नियामकः भविष्यति ।

(पा-२,४.८३.१; अकि-१,४९८.१४-२३; रो-२,९०३; भा-१४/१४) अम् एव अपञ्चम्याः इति ।

(पा-२,४.८३.२; अकि-१,४९९.१-९; रो-२,९०३-९०४; भा-१/१४) अमि पञ्चमीप्रतिषेधे अपादानग्रहणम् ।

(पा-२,४.८३.२; अकि-१,४९९.१-९; रो-२,९०३-९०४; भा-२/१४) अमि पञ्चमीप्रतिषेधे अपादानग्रहणम् कर्तव्यम् ।

(पा-२,४.८३.२; अकि-१,४९९.१-९; रो-२,९०३-९०४; भा-३/१४) अपादानपञ्चम्याः इति वक्तव्यम् ।

(पा-२,४.८३.२; अकि-१,४९९.१-९; रो-२,९०३-९०४; भा-४/१४) किम् प्रयोजनम् ।

(पा-२,४.८३.२; अकि-१,४९९.१-९; रो-२,९०३-९०४; भा-५/१४) कर्मप्रवचनीययुक्ते अप्रतिषेधार्थम् । कर्मप्रवचनीययुक्ते मा भूत् ।

(पा-२,४.८३.२; अकि-१,४९९.१-९; रो-२,९०३-९०४; भा-६/१४) आपाटलिपुत्रम् वृष्टः देवः ।

(पा-२,४.८३.२; अकि-१,४९९.१-९; रो-२,९०३-९०४; भा-७/१४) न वा उत्तरपदस्य कर्मप्रवचनीययोगात् समासात् पञ्चम्यभावः ।

(पा-२,४.८३.२; अकि-१,४९९.१-९; रो-२,९०३-९०४; भा-८/१४) न वा वक्तव्यम् ।

(पा-२,४.८३.२; अकि-१,४९९.१-९; रो-२,९०३-९०४; भा-९/१४) किम् कारणम् ।

(पा-२,४.८३.२; अकि-१,४९९.१-९; रो-२,९०३-९०४; भा-१०/१४) उत्तरपदम् अत्र कर्मप्रवचनीययुक्तम् ।

(पा-२,४.८३.२; अकि-१,४९९.१-९; रो-२,९०३-९०४; भा-११/१४) उत्तरपदस्य कर्मप्रवचनीययोगात् समासात् पञ्चमी न भविष्यति ।

(पा-२,४.८३.२; अकि-१,४९९.१-९; रो-२,९०३-९०४; भा-१२/१४) यदा च समासः कर्मप्रवचनीययुक्तः भवति तदा प्रतिषेधः ।

(पा-२,४.८३.२; अकि-१,४९९.१-९; रो-२,९०३-९०४; भा-१३/१४) तत् यथा ।

(पा-२,४.८३.२; अकि-१,४९९.१-९; रो-२,९०३-९०४; भा-१४/१४) आ उपकुम्भात् आ उपमणिकात् इति ।

(पा-२,४.८४; अकि-१,४९९.११-१४; रो-२,९०४; भा-१/७) सप्तम्याः ऋद्धिनदीसमाससङ्ख्यावयवेभ्यः नित्यम् । सप्तम्याः ऋद्धिनदीसमाससङ्ख्यावयवेभ्यः नित्यम् इति वक्तव्यम् ।

(पा-२,४.८४; अकि-१,४९९.११-१४; रो-२,९०४; भा-२/७) ऋद्धि ।

(पा-२,४.८४; अकि-१,४९९.११-१४; रो-२,९०४; भा-३/७) सुमरम् सुमगधम् ।

(पा-२,४.८४; अकि-१,४९९.११-१४; रो-२,९०४; भा-४/७) नदीसमासः ।

(पा-२,४.८४; अकि-१,४९९.११-१४; रो-२,९०४; भा-५/७) उन्मत्तगङ्गम् लोहितगङ्गम् ।

(पा-२,४.८४; अकि-१,४९९.११-१४; रो-२,९०४; भा-६/७) सङ्ख्यावयव ।

(पा-२,४.८४; अकि-१,४९९.११-१४; रो-२,९०४; भा-७/७) एकविंसतिभारद्वाजम् त्रिपञ्चाशत्गौतमम् ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-१/६०) टिताम् टेः एविधेः लुटः डारौरसः पूर्वविप्रतिषिद्धम् ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-२/६०) टिताम् टेः एविधेः लुटः डारौरसः भवन्ति पूर्वविप्रतिषेधेन ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-३/६०) टेः एत्वस्य अवकाशः पचते पचेते पचन्ते ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-४/६०) डारौरसाम् अवकाशः श्वः कर्ता श्वः कर्तारौ श्वः कर्तारः ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-५/६०) इह उभयम् प्राप्नोति ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-६/६०) श्वः अधेता श्वः अध्येतारौ श्वः अध्येतारः ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-७/६०) डारौरसः भवन्ति पूर्वविप्रतिषेधेन ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-८/६०) सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-९/६०) न वक्तव्यः ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-१०/६०) आत्मनेपदानाम् च इति वचनात् सिद्धम् ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-११/६०) आत्मनेपदानाम् च डारौरसः भवन्ति इति वक्तव्यम् ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-१२/६०) तत् च समसङ्ख्यार्थम् । तत् च अवश्यम् आत्मनेपदग्रहणम् कर्तव्यम् समसङ्ख्यार्थम् ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-१३/६०) सङ्ख्यातनुदेशः यथा स्यात् ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-१४/६०) अक्रियमाणे हि आत्मनेपदग्रहणे शट् स्थानिनः त्रयः आदेशाः ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-१५/६०) वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-१६/६०) पूर्वविप्रतिषेधार्थेन तावत् न अर्थः आत्मनेपदग्रहणेन ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-१७/६०) इदम् इह सम्प्रधार्यम् ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-१८/६०) डारौरसः क्रियन्ताम् टेः एत्वम् इति ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-१९/६०) किम् अत्र कर्तव्यम् ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-२०/६०) परत्वात् एत्वम् ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-२१/६०) नित्याः डारौरसः ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-२२/६०) कृते अपि एत्वे प्रप्नुवन्ति अकृते अपि प्राप्नुवन्ति ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-२३/६०) टेः एत्वम् अपि नित्यम् ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-२४/६०) कृतेषु अपि डारौरस्सु प्राप्नोति अकृतेषु अपि प्राप्नोति ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-२५/६०) अनित्यम् एत्वम् ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-२६/६०) अन्यस्य कृतेषु डारौरस्सु प्राप्नोति अन्यस्य अकृतेषु ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-२७/६०) शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-२८/६०) डारौरसः अपि अनित्याः ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-२९/६०) अन्यस्य कृते एत्वे प्राप्नुवन्ति अन्यस्य अकृते ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-३०/६०) शब्दान्तरस्य प्राप्नुवन्तः अनित्या भवन्ति ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-३१/६०) उभयोः अनित्ययोः परत्वात् एत्वम् ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-३२/६०) एत्वे कृते पुनःप्रसङ्गविज्ञानात् डारौरसः भविष्यन्ति ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-३३/६०) समसङ्ख्यार्थेन च अपि न अर्थः आत्मनेपदग्रहणेन ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-३४/६०) स्थाने अन्तरमेन व्यवस्था भविष्यति ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-३५/६०) कुतः आन्तर्यम् ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-३६/६०) अर्थतः ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-३७/६०) एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-३८/६०) अथ वा आदेशाः अपि षट् एव निर्दिश्यन्ते ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-३९/६०) कथम् ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-४०/६०) एकशेषनिर्देशात् ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-४१/६०) एकशेषनिर्देशः अयम् ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-४२/६०) अथ एतस्मिन् एकशेषनिर्देशे सति किम् अयम् कृतैकशेषाणाम् द्वन्द्वः ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-४३/६०) डा च डा च डा रौ च रौ च रौ रः च रः च रः. डा च रौ च रः च डारौरसः इति ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-४४/६०) आहोस्वित् कृतद्वन्द्वानाम् एकशेषः ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-४५/६०) डा च रौ च रः च डारौरसः ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-४६/६०) डारौरसः च डारौरसः च डारौरसः इति ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-४७/६०) किम् च अतः ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-४८/६०) यदि कृतैकशेषाणाम् द्वन्द्वः अनिष्टः समसङ्ख्यः प्राप्नोति एकवचनद्विवचनयोः डा प्राप्नोति ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-४९/६०) बहुवचनैकवचनयोः रौ प्राप्नोति द्विवचनबहुवचनयोः च रः प्राप्नोति ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-५०/६०) अथ कृतद्वन्द्वानाम् एकशेषः न दोषः भवति ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-५१/६०) यथा न दोषः तथा अस्तु ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-५२/६०) किम् पुनः अत्र ज्यायः ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-५३/६०) उभयम् इति आह ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-५४/६०) उभयम् हि दृश्यते ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-५५/६०) बहु शक्तिकिटकम् बहूनि शक्तिकिटकानि बहु स्थालीपिठरम् बहूनि स्थालीपिठरानि ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-५६/६०) डारौरसः कृते टेः ए यथात् द्वित्वम् प्रसारणे समस्ङ्ख्येन न अर्थ अस्ति ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-५७/६०) सिद्धम् स्थाने अर्थतः अन्तराः ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-५८/६०) आन्तर्यतः व्यवस्था ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-५९/६०) त्रयः एव इमे भवन्तु सर्वेषाम् ।

(पा-२,४.८५.१; अकि-१,४९९.१६-५००.२७; रो-२,९०५-९०७; भा-६०/६०) टेः एत्वम् च परत्वात् कृते अपि तस्मिन् इमे सन्तु ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-१/८३) डाविकारस्य शित्करणम् सर्वादेशार्थम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-२/८३) डाविकारः शित् कर्तव्यः ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-३/८३) किम् प्रयोजनम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-४/८३) सर्वादेशार्थम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-५/८३) शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-६/८३) अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्तस्य प्रसज्येत ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-७/८३) निघातप्रसङ्गः तु ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-८/८३) निघातः तु प्रप्नोति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-९/८३) श्वः कर्ता ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-१०/८३) तासेः परम् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः प्राप्नोति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-११/८३) यत् तावत् उच्यते डाविकारस्य शित्करणम् सर्वादेशार्थम् इति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-१२/८३) सिद्धम् अलः अन्त्यविकारात् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-१३/८३) सिद्धम् एतत् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-१४/८३) कथम् ।अलः अन्त्यविकारात् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-१५/८३) अस्तु अयम् अलः अन्त्यस्य ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-१६/८३) का रूपसिद्धिः ॒ कर्ता ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-१७/८३) डिति टेः लोपात् लोपः ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-१८/८३) डिति टेः लोपेन लोपः भविष्यति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-१९/८३) अभत्वात् न प्राप्नोति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-२०/८३) डित्करणसामर्थ्यात् भविष्यति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-२१/८३) अनित्त्वात् वा ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-२२/८३) अथ वा अनित्त्वात् एतत् सिद्धम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-२३/८३) किम् इदम् अनित्त्वात् इति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-२४/८३) अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-२५/८३) असत्याम् प्रत्ययसञ्ज्ञायाम् इत्सञ्ज्ञा न ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-२६/८३) असत्याम् इत्सञ्ज्ञायाम् लोपः न ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-२७/८३) असति लोपे अनेकाल् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-२८/८३) यद अनेकाल् तदा सर्वादेशः ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-२९/८३) यदा सर्वादेशः तदा प्रत्ययः ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-३०/८३) यदा प्रत्ययः तदा इत्सञ्ज्ञा ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-३१/८३) यदा इत्सञ्ज्ञा तदा लोपः ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-३२/८३) प्रश्लिष्टनिर्देशात् वा ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-३३/८३) अथ वा प्रश्लिष्टनिर्देशः अयम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-३४/८३) डा आ डा ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-३५/८३) सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-३६/८३) यदा तर्हि अयम् अन्त्यस्य स्थाने भवति तदा तिङ्ग्रहणेन ग्रहणम् न प्राप्नोति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-३७/८३) तिङ्ग्रहणम् एकदेशविकृतस्य अनन्यत्वात् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-३८/८३) एकदेशविकृतम् अनन्यवत् भवति इति तिङ्ग्रहणेन ग्रहणम् भविष्यति स्वरः कथम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-३९/८३) स्वरे विप्रतिषेधात् सिद्धम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-४०/८३) डारौरसः क्रियन्ताम् अनुदात्तत्वम् इति किम् अत्र कर्तव्यम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-४१/८३) परत्वात् अनुदात्तत्वम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-४२/८३) नित्याः डारौरसः ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-४३/८३) कृते अपि अनुदात्तत्वे प्रप्नुवन्ति अकृते अपि प्रप्नुवन्ति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-४४/८३) अनुदात्तत्वम् अपि नित्यम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-४५/८३) कृतेषु कृतेषु अपि डारौरस्सु प्राप्नोति अकृतेषु अपि प्राप्नोति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-४६/८३) अनित्यम् अनुदात्तत्वम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-४७/८३) अन्यस्य कृतेषु डारौरस्सु प्राप्नोति अन्यस्य अकृतेषु ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-४८/८३) शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-४९/८३) डारौरसः अपि अनित्याः ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-५०/८३) अन्यथास्वरस्य कृते अनुदात्तत्वे प्राप्नुवन्ति अन्यथास्वरस्य अकृते ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-५१/८३) स्वरभिन्नस्य च प्राप्नुवन्तः अनित्याः भवन्ति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-५२/८३) उभयोः अनित्ययोः परत्वात् अनुदात्तत्वम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-५३/८३) अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञातात् डारौरसः ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-५४/८३) टिलोपे उदात्तनिवृत्तिस्वरेण सिद्धम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-५५/८३) न सिध्यति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-५६/८३) किम् कारणम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-५७/८३) अन्तरङ्गत्वात् डारौरसः ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-५८/८३) तत्र अन्तरङ्गत्वात् डारौरस्सु कृतेषु अनुदात्तत्वम् क्रियताम् टिलोपः इति किम् अत्र कर्तव्यम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-५९/८३) परत्वात् टिलोपेन भवितव्यम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-६०/८३) एवम् तर्हि स्वरे विप्रतिषेधात् सिद्धम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-६१/८३) न्याय्यः एव अयम् स्वरे विप्रतिषेधः ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-६२/८३) इदम् इह सम्प्रधार्यम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-६३/८३) अनुदात्तत्वम् क्रियताम् उदात्तनिवृत्तिस्वरः इति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-६४/८३) किम् अत्र कर्तव्यम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-६५/८३) परत्वात् अनुदात्तत्वम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-६६/८३) अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञानात् उदात्तनिवृत्तिस्वरः भविष्यति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-६७/८३) तत् एतत् क्व सिद्धम् भवति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-६८/८३) यत् पित् वचनम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-६९/८३) यत् अपित् वचनम् तत्र न सिध्यति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-७०/८३) तत्र अपि सिद्धम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-७१/८३) कथम् इदम् अद्य लसार्वधातुकानुदात्तत्वम् प्रत्ययस्वरस्य अपवादः ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-७२/८३) न च अपवादविषये उत्सर्गः अभिनिविशते ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-७३/८३) पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-७४/८३) प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-७५/८३) तत् न तावत् कदा चित् प्रत्ययस्वरः भवति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-७६/८३) अपवादम् लसार्वधातुकनुदात्तत्वम् प्रतीक्षते ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-७७/८३) तत्र अनुदात्तत्वम् क्रियताम् लोपः इति ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-७८/८३) यदि अपि परत्वात् लोपः सः असौ अविद्यमानोदात्तत्वे अनुदात्ते उदात्तः लुप्यते ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-७९/८३) प्रत्ययस्वरापवादः लसार्वधातुकानुदात्तम् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-८०/८३) तेन तत्र न प्रसक्तः प्रत्ययस्वरः कदा चित् ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-८१/८३) प्रत्ययस्वरः तु तासेः वृत्तिसन्नियोगशिष्टः ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-८२/८३) तेन च अपि असौ उदात्तः लोप्स्यते ।

(पा-२,४.८५.२; अकि-१,५०१.१-५०२.२४; रो-२,९०७-९११; भा-८३/८३) तथा न दोषः ।