व्याकरणमहाभाष्य खण्ड 31

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१/१०९) अधिकारेण इयम् प्रत्ययसञ्ज्ञा क्रियते ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-२/१०९) सा प्रकृत्युपपदोपाधीनाम् अपि प्राप्नोति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-३/१०९) तस्याः प्रतिषेधः वक्तव्यः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-४/१०९) प्रकृति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-५/१०९) गुप्तिज्किभ्यः सन् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-६/१०९) उपपद ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-७/१०९) स्तम्बकर्णयोः रमजपोः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-८/१०९) उपाधि ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-९/१०९) हरतेः दृतिनाथयोः पशौ ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१०/१०९) एतेषाम् प्रतिषेधः वक्तव्यः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-११/१०९) किम् च स्यात् यदि एतेषाम् अपि प्रत्ययसञ्ज्ञा स्यात् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१२/१०९) परत्वम् आद्युदात्तत्वम् अङ्गसञ्ज्ञा इति एते विधयः प्रसज्येरन् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१३/१०९) अतः उत्तरम् पठति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१४/१०९) प्रत्ययाधिकारे प्रकृत्युपपदोपाधीनाम् अप्रतिषेधः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१५/१०९) अधिकारेण अपि प्रत्ययसञ्ज्ञायाम् सत्याम् प्रकृत्युपपदोपाधीनाम् अप्रतिषेधः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१६/१०९) अनर्थकः प्रतिषेधः अप्रतिषेधः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१७/१०९) प्रत्ययसञ्ज्ञा कस्मात् न भवति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१८/१०९) निमित्तस्य निमित्तिकार्यार्थत्वात् अन्यत्र अपि ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१९/१०९) निमित्तानि हि निमित्तिकार्यार्थानि भवन्ति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-२०/१०९) किम् पुनः निमित्तम् कः वा निमित्ती ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-२१/१०९) प्रकृत्युपपओपाधयः निमित्तम् प्रत्ययः निमित्ती ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-२२/१०९) अन्यत्र अपि च एषः न्यायः दृष्टः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-२३/१०९) क्व अन्यत्र ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-२४/१०९) लोके ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-२५/१०९) तत् यथा ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-२६/१०९) बहुषु आसीनेषु कः चित् कम् चित् पृच्छति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-२७/१०९) कतमः देवदत्तः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-२८/१०९) कतरः यज्ञदत्तः इति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-२९/१०९) सः तस्मै आचष्टे ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-३०/१०९) यः अश्वे यः पीठे इति उक्ते निमित्तस्य निमित्तिकार्यार्थत्वात् अध्यवस्यति अयम् देवदत्तः अयम् यज्ञ्दत्त इति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-३१/१०९) न इदानीम् अश्वस्य पीठस्य वा देवदत्तः इति सञ्ज्ञा भवति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-३२/१०९) किम् पुनः निमित्तम् कः वा निमित्ती ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-३३/१०९) निर्ज्ञातः अर्थः निमित्तम् अनिर्ज्ञातार्थः निमित्ती ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-३४/१०९) इह च प्रत्ययः अनिर्ज्ञातः प्रकृत्युपपदोपाधयः निर्ज्ञाताः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-३५/१०९) क्व ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-३६/१०९) धातूपदेशे प्रातिपदिकोपदेशे च ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-३७/१०९) ते निर्ज्ञाताः निमित्तत्वेन उपादीयन्ते ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-३८/१०९) प्रधाने कार्यसम्प्रत्ययात् वा सिद्धम् । अथ वा प्रधाने कार्यसम्प्रत्ययः भविष्यति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-३९/१०९) किम् च प्रधानम् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-४०/१०९) प्रत्ययः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-४१/१०९) तत् यथा ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-४२/१०९) बहुषु यात्सु कः चित् कम् चित् पृच्छति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-४३/१०९) कः याति इति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-४४/१०९) सः आह राजा इति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-४५/१०९) राजा इति उक्ते प्रधाने कार्यसम्प्रत्ययात् यः पृच्छति यः च आचष्टे उभयोः सम्प्रत्ययः भवति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-४६/१०९) किङ्कृतम् पुनः प्राधान्यम् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-४७/१०९) अर्थकृतम् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-४८/१०९) यथा पुनः लोके अर्थकृतम् प्राधान्यम् शब्दस्य इदानीम् किङ्कृतम् प्राधान्यम् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-४९/१०९) शब्दस्य अपूर्वोपदेशः प्राधान्यम् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-५०/१०९) यस्य अपूर्वोपदेशः सः प्रधानम् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-५१/१०९) प्रकृत्युपपदोपाधयः च उपदिष्टाः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-५२/१०९) क्व ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-५३/१०९) धातूपदेशे प्रातिपदिकोपदेशे च ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-५४/१०९) यदि एव निमित्तस्य निमित्तिकार्यार्थत्वात् अथ अपि प्रधाने कार्यसम्प्रत्ययात् प्रकृत्युपपदोपाधीनाम् न भवति विकारागमानाम् तु प्राप्नोति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-५५/१०९) हनः त च ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-५६/१०९) त्रपुजतुनोः षुक् इति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-५७/१०९) एतेषाम् हि अपूर्वोपदेशात् प्राधान्यम् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-५८/१०९) निमित्तिनः च एते ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-५९/१०९) विकारागमेषु च परविज्ञानात् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-६०/१०९) विकारागमेषु च परविज्ञानात् प्रत्ययसञ्ज्ञा न भविष्यति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-६१/१०९) प्रत्ययः परः बह्वति इति उच्यते ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-६२/१०९) न च विकारागमाः परे सम्भवन्ति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-६३/१०९) किम् पुनः कारणम् समाने अपूर्वोपदेशे प्रत्ययः परः विकारागमाः न परे ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-६४/१०९) षष्ठीनिर्दिष्टस्य च तद्युक्तत्वात् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-६५/१०९) षष्ठीनिर्दिष्तम् विकारागमयुक्तम् पञ्चमीनिर्द्ष्टात् च प्रत्ययः विधीयते ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-६६/१०९) प्रत्ययविधानानुपपत्तिः तु ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-६७/१०९) प्रत्ययविधिः तु न उपपप्द्यते ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-६८/१०९) क्व ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-६९/१०९) यत्र विकारागमाः विधीयन्ते ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-७०/१०९) हनः त च ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-७१/१०९) तर्पुजतुनोः षुक् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-७२/१०९) किम् पुनः कारणम् न सिध्यति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-७३/१०९) विकारागमयुक्तत्वात् अपञ्चमीनिर्दिष्टत्वात् च ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-७४/१०९) तस्मात् तत्र पञ्चमीनिर्देशात् सिद्धम् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-७५/१०९) तस्मात् तत्र पञ्चमीनिर्देशः कर्तव्यः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-७६/१०९) न कर्तव्यः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-७७/१०९) इह तावत् हनः ते इति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-७८/१०९) धातोः इति वर्तते. इह त्रपुजतुनोः षुक् इति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-७९/१०९) प्रातिपदिकात् इति वर्तते ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-८०/१०९) यदि एवम् हनः त च धातोः क्यप् भवति इति धातुमात्रात् क्यप् प्राप्नोति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-८१/१०९) न एषः दोषः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-८२/१०९) आचार्यप्रवृत्तिः ज्ञापयति न धातुमात्रात् क्यप् भवति इति यत् अयम् एतिस्तुशस्वृदृजुषः क्यप् इति परिगणनम् करोति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-८३/१०९) अथ वा हन्तिम् एव अत्र धातुग्रहणेन अभिसम्भन्त्स्यामः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-८४/१०९) हनः तः भवति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-८५/१०९) धातोः क्यप् भवति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-८६/१०९) कस्मात् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-८७/१०९) हन्तेः इति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-८८/१०९) अर्थाश्रयत्वात् वा ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-८९/१०९) अथ वा अर्थाश्रयः प्रत्ययविधिः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-९०/१०९) यः तम् अर्थम् सम्प्रत्याययति सः प्रत्ययः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-९१/१०९) किम् वक्तव्यम् एतत् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-९२/१०९) न हि ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-९३/१०९) कथम् अनुच्यमानम् गंस्यते ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-९४/१०९) प्रत्ययः इति महती सञ्ज्ञा क्रियते ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-९५/१०९) सञ्ज्ञा च नाम यतः न लघीयः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-९६/१०९) कुतः एतत् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-९७/१०९) लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-९८/१०९) तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-९९/१०९) प्रत्याययिति इति प्रत्ययः ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१००/१०९) यदि प्रत्याययिति इति प्रत्ययः अविकादीनाम् प्रत्ययसञ्ज्ञा न प्राप्नोति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१०१/१०९) न हि ते किम् चित् प्रत्याययन्ति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१०२/१०९) एवम् तर्हि प्रत्याय्यते प्रत्ययः इति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१०३/१०९) एवम् अपि सनादीनाम् न प्राप्नोति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१०४/१०९) एवम् तरि उभयसाधनः अयम् कर्तृसाधनः कर्मसाधनः च ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१०५/१०९) एवम् अपि कुतः एतत् समाने अपूर्वोपदेशे त्रापुषम् जातुषम् इति अत्र अकारः तम् अर्थम् सम्प्रत्याययति न पुनः षकारः इति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१०६/१०९) अन्यत्र अपि अकारेण तस्य अर्थस्य वचनात् मन्यामहे अकारः तम् अर्थम् सम्प्रत्याययतिन षकारः इति ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१०७/१०९) क्व अन्यत्र ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१०८/१०९) बिल्वादिभ्यः अण् ।

(पा-३,१.१; अकि-२,१.२-३.१३; रो-३,३-१२; भा-१०९/१०९) बैल्वः ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-१/१००) किमर्थम् इदम् उच्यते ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-२/१००) परः यथा स्यात् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-३/१००) पूर्वः मा भूत् इति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-४/१००) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-५/१००) यम् इच्छति पूर्वम् आह तम् ॒ विभाषा सुपः बहुच् पुरस्तात् तु इति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-६/१००) मध्ये तर्हि मा भूत् इति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-७/१००) मध्ये अपि यम् इच्छति आह तम् ॒ अव्ययसर्वनाम्नाम् अकच् प्राक् टेः इति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-८/१००) यः इदानीम् अन्यः प्रत्ययः शेषः सः अन्तरेण वचनम् परः एव भविष्यति इति ना अर्थः परवचनेन ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-९/१००) एवम् अपि येषाम् एव प्रत्ययानाम् देशः नियम्यते ते एव नियतदेशाः स्युः ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-१०/१००) यः इदानीम् अनियतदेशः सः कदा चित् पूर्वः कदा चित् परः कदा चित् मध्ये स्यात् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-११/१००) तत् यथा मातुः वत्सः कदा चित् अग्रतः कदा चित् पृष्ठतः कदा चित् पार्श्वतः भवति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-१२/१००) परः एव यथा स्यात् इति एवमर्थम् परवचनम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-१३/१००) परवचनम् अनर्थकम् पञ्चमीनिर्दिष्टत्वात् परस्य ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-१४/१००) परग्रहणम् अनर्थकम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-१५/१००) किम् कारणम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-१६/१००) पञ्चमीनिर्दिष्टत्वात् परस्य कार्यम् उच्यते ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-१७/१००) तत् यथा द्व्यन्तरुपसर्गेभ्यः अपः ईत् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-१८/१००) विषमः उपन्यासः ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-१९/१००) सतः तत्र परस्य कार्यम् उच्यते ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-२०/१००) इह इदानीम् कस्य सतः परस्य कार्यम् भवितुम् अर्हति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-२१/१००) इह अपि सतः एव. कथम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-२२/१००) परत्वम् स्वाभाविकम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-२३/१००) अथ वाचनिके परत्वे सति अर्थः स्यात् परग्रहणेन ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-२४/१००) वाचनिके च न अर्थः ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-२५/१००) एतत् हि तस्य परस्य कार्यम् यत् असौ परः स्यात् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-२६/१००) अथ वा यत् अस्य परस्य सतः सञ्ज्ञा स्यात् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-२७/१००) यत्र तर्हि पञ्चमी न अस्ति तदर्थम् अयम् योगः वक्तव्यः ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-२८/१००) क्व च पञ्चमी न अस्ति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-२९/१००) यत्र विकारागमाः शिष्यन्ते ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-३०/१००) क्व च विकारागमाः शिष्यन्ते ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-३१/१००) हनः त च ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-३२/१००) त्रपुजतुनोः षुक् इति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-३३/१००) विकारागमेषु च उक्तम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-३४/१००) किम् उक्तम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-३५/१००) प्रत्ययविधानानुपपत्तिः तु ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-३६/१००) तस्मात् तत्र पञ्चमीनिर्देशात् सिद्धम् इति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-३७/१००) अत्यन्तापरदृष्टानाम् वा परभूतलोपार्थम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-३८/१००) अत्यन्तापरदृष्टानाम् तर्हि परभूतलोपार्थम् परग्रहणम् कर्तव्यम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-३९/१००) ये एते अत्यन्तापरदृष्टाः क्विबादयः लुप्यन्ते तेषाम् परभूतानाम् लोपः यथा स्यात् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-४०/१००) अपरभूतानाम् मा भूत् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-४१/१००) किम् पुनः अत्यन्तापरदृष्टानाम् परभूतलोपवचने प्रयोजनम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-४२/१००) किति णिति इति कार्याणि यथा स्युः इति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-४३/१००) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-४४/१००) आचार्यप्रवृत्तिः ज्ञापयति अत्यन्तापरदृष्टाः परभूताः लुप्यन्ते इति यत् अयम् तेषु कादीन् अनुबन्धान् आसजति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-४५/१००) कथम् कृत्वा ज्ञापकम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-४६/१००) अनुबन्धासञ्जने एतत् प्रयोजनम् किति णिति इति कार्याणि यथा स्युः इति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-४७/१००) यदि च अत्र अत्यन्तापरदृष्टाः परभूताः लुप्यन्तेततः अनुबन्धासञ्जनम् अर्थवत् भवति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-४८/१००) प्रयोगनियमार्थम् वा ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-४९/१००) प्रयोगनियमार्थम् तर्हि परग्रहणम् कर्तव्यम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-५०/१००) परभूतानाम् प्रयोगः यथा स्यात् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-५१/१००) अपरभूतानाम् मा भूत् इति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-५२/१००) अस्ति पुनः किम् चित् अनिष्टम् यदर्थः नियमः स्यात् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-५३/१००) अस्ति इति आह ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-५४/१००) प्रकृतेः अर्थाभिधाने प्रत्ययादर्शनात् । प्रकृतेः अर्थाभिधाने अप्रत्ययिकाः दृश्यन्ते ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-५५/१००) क्व सः देवदत्तः क्व सः यज्ञ्दत्तः बभ्रुः मण्डुः लमकः इति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-५६/१००) बाभ्रव्यः माण्डव्यः लामकायनः इति प्रयोक्तव्ये बभ्रुः मण्डुः लमकः इति प्रयुज्यते ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-५७/१००) द्वयसजादीनाम् च केवलदृष्टत्वात् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-५८/१००) द्वयसजादीनाम् च केवलानाम् प्रयोगः दृश्यते ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-५९/१००) किम् अस्य द्वयसम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-६०/१००) किम् अस्य मात्रम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-६१/१००) का अद्य तिथी इति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-६२/१००) द्वयसजादयः वै वृत्तिजसदृशाः अवृत्तिजाः यथा बहुः तथा ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-६३/१००) वावचने च अनुत्पत्त्यर्थम् । वावचने च अनुत्पत्त्यर्थम् परग्रहणम् कर्तव्यम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-६४/१००) वा वचनेन अनुत्पत्तिः यथा स्यात् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-६५/१००) अथ क्रियमाणे अपि वै परग्रहणे कथम् इव वावचनेन अनुत्पत्तिः लभ्या ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-६६/१००) क्रियमाणे परग्रहणे वावचनेन वा परः इति एतत् अभिसम्बध्यते ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-६७/१००) अक्रियमाणे पुनः परग्रहणे वावचनेन किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-६८/१००) न च सञ्ज्ञायाः भावाभावौ इष्येते ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-६९/१००) वावचने च उक्तम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-७०/१००) किम् उक्तम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-७१/१००) वावचनानर्थक्यम् च तत्र नित्यत्वात् सनः इति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-७२/१००) प्रयोगनियमार्थम् एव तर्हि परग्रहणम् कर्तव्यम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-७३/१००) अथ एतस्मिन् प्रयोगनियमे सति किम् अयम् प्रत्ययहियमः ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-७४/१००) प्रकृतिपरः एव प्रत्ययः प्रयोक्तव्यः अप्रकृतिपरः न इति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-७५/१००) आहोस्वित् प्रकृतिनियमः ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-७६/१००) प्रत्ययपरा एव प्रकृतिः प्रयोक्तव्या अप्रत्यया न इति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-७७/१००) कः च अत्र विशेषः ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-७८/१००) तत्र प्रत्ययनियमे प्र्कृतिनियमाभावः ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-७९/१००) तत्र प्रत्ययनियमे सति प्र्कृतिनियमः न प्राप्नोति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-८०/१००) अप्रत्ययिकायाः प्रकृतेः प्रयोगः प्राप्नोति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-८१/१००) क्व सः देवदत्तः क्व सः यज्ञ्दत्तः बभ्रुः मण्डुः लमकः इति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-८२/१००) अस्तु तर्हि प्रकृतिनियमः ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-८३/१००) प्रकृतिनियमे प्रत्ययानियमः ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-८४/१००) प्रकृतिनियमे सति प्रत्ययस्य नियमः न प्राप्नोति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-८५/१००) किम् अस्य द्वयसम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-८६/१००) किम् अस्य मात्रम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-८७/१००) का अद्य तिथी इति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-८८/१००) अप्रकृतिकस्य प्रत्ययस्य प्रयोगः प्राप्नोति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-८९/१००) सिद्धम् तु उभयनियमात् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-९०/१००) सिद्धम् एतत् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-९१/१००) कथम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-९२/१००) उभयनियमात् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-९३/१००) उभयनियमः अयम् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-९४/१००) प्रकृतिपरः एव प्रत्ययः प्रयोक्तव्यः प्रत्ययपरा एव च प्रकृतिः इति ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-९५/१००) किम् वक्तव्यम् एतत् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-९६/१००) न हि ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-९७/१००) कथम् अनुच्यमानम् गंस्यते ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-९८/१००) परग्रहणसामर्थ्यात् ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-९९/१००) अन्तरेण अपि परग्रहणम् स्यात् अयम् परः ।

(पा-३,१.२; अकि-२,३.१५-६.२; रो-३,१२-१९; भा-१००/१००) परः एव यथा स्यात् इति एवमर्थम् परग्रहणम् ।

(पा-३,१.३.१; अकि-२,६.४-१४; रो-३,२०-२१; भा-१/१५) किमर्थम् इदम् उच्यते ।

(पा-३,१.३.१; अकि-२,६.४-१४; रो-३,२०-२१; भा-२/१५) आद्युदात्तः यथा स्यात् ।

(पा-३,१.३.१; अकि-२,६.४-१४; रो-३,२०-२१; भा-३/१५) अन्तोदात्तः मा भूत् इति ।

(पा-३,१.३.१; अकि-२,६.४-१४; रो-३,२०-२१; भा-४/१५) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.३.१; अकि-२,६.४-१४; रो-३,२०-२१; भा-५/१५) यम् इच्छति अन्तोदात्तम् करोति तत्र चकारम् अनुबन्धम् आह च चितः अन्तः उदात्तः इति ।

(पा-३,१.३.१; अकि-२,६.४-१४; रो-३,२०-२१; भा-६/१५) मध्योदात्तः तर्हि मा भूत् इति ।

(पा-३,१.३.१; अकि-२,६.४-१४; रो-३,२०-२१; भा-७/१५) मद्योदात्तम् यम् इच्छति तत्र रेफम् अनुबन्धम् करोति आह च उपोत्तमम् रिति इति ।

(पा-३,१.३.१; अकि-२,६.४-१४; रो-३,२०-२१; भा-८/१५) अनुदात्तः तर्हि मा भूत् इति ।

(पा-३,१.३.१; अकि-२,६.४-१४; रो-३,२०-२१; भा-९/१५) अनुदात्तम् अपि यम् इच्छति तत्र पकारम् अनुबन्धम् करोति आह च अनुदात्तौ सुप्पितौ इति ।

(पा-३,१.३.१; अकि-२,६.४-१४; रो-३,२०-२१; भा-१०/१५) स्वरितः तर्हि मा भूत् इति ।

(पा-३,१.३.१; अकि-२,६.४-१४; रो-३,२०-२१; भा-११/१५) स्वरितम् अपि यम् इच्छति करोति तत्र तकारम् अनुबन्धम् आह च तित् स्वरितम् इति ।

(पा-३,१.३.१; अकि-२,६.४-१४; रो-३,२०-२१; भा-१२/१५) यः इदानीम् अतः अन्यः प्रत्ययः शेषः सः अन्तरेण अपि वचनम् आद्युदात्तः एव भविष्यति इति न अर्थः आद्युदात्तवचनेन ।

(पा-३,१.३.१; अकि-२,६.४-१४; रो-३,२०-२१; भा-१३/१५) एवम् अपि येषाम् एव प्रत्ययानाम् स्वरः नियम्यते ते एव नियतस्वराः स्युः ।

(पा-३,१.३.१; अकि-२,६.४-१४; रो-३,२०-२१; भा-१४/१५) यः इदानीम् अनियतस्वरः सः कदा चित् आद्युदात्तः कदा चित् अन्तोदात्तः कदा चित् मध्योदात्तः कदा चित् अनुदात्तः कचा चित् स्वरितः स्यात् ।

(पा-३,१.३.१; अकि-२,६.४-१४; रो-३,२०-२१; भा-१५/१५) आद्युदात्तः एव यथा स्यात् इति एवम् अर्थम् इदम् उच्यते ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१/११३) अथ किमर्थम् प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वम् उच्यते अनुदात्तत्वम् च न यत्र एव अन्यः स्वरः तत्र एव अयम् उच्येत ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-२/११३) ञ्निति आदिः नित्यम् प्रत्ययस्य च ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-३/११३) अदुपदेशात् लसार्वधातुकम् अनुदात्तम् सुप्पितौ च इति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-४/११३) तत्र अयम् अपि अर्थः द्विः आद्युदात्तग्रहणम् द्विः च अनुदात्तग्रहणम् न कर्तव्यम् भवति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-५/११३) प्रकृतम् अनुवर्तते ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-६/११३) अतः उत्तरम् पठति ॒ आद्युदात्तत्वस्य प्रत्ययसञ्ज्ञासन्नियोगे प्रयोजनम् यस्य सञ्ज्ञाकरणम् तस्य आद्युदात्तार्थम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-७/११३) आद्युदात्तत्वस्य प्रत्ययसञ्ज्ञासन्नियोगकरणे एतत् प्रयोजनम् यस्य सञ्ज्ञाकरणम् तस्य आद्युदात्तत्वम् यथा स्यात् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-८/११३) असन्नियोगे हि यस्मात् सः तदादेः आद्युदात्तत्वम् तदन्तस्य च अनुदात्तत्वम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-९/११३) अक्रियमाणे हि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति तदादेः आद्युदात्तत्वम् प्रसज्येत तदन्तस्य च अनुदात्तत्वम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१०/११३) अथ क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे अनुदात्तत्वे च कस्मात् एव तदादेः आद्युदात्तत्वम् न भवति तदन्तस्य च अनुदात्तत्वम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-११/११३) उत्पन्नः प्रत्ययः प्रत्ययाश्रयाणाम् कार्याणाम् निमित्तम् भवति न उत्पद्यमानः ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१२/११३) तत् यथा घटः कृतः घटाश्रयाणाम् कार्याणाम् निमित्तम् भवति न क्रियमाणः ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१३/११३) न वा प्रकृतेः आद्युदात्तवचनम् ज्ञापकम् तदादेः अग्रहणस्य ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१४/११३) न वा एषः दोषः ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१५/११३) किम् कारणम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१६/११३) यत् अयम् ञ्निति आदिः नित्यम् इति प्रकृतेः आद्युदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः न तदादेः आद्युदात्तत्वम् भवति इति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१७/११३) तदन्तस्य तर्हि अनुदात्तत्वम् प्राप्नोति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१८/११३) प्रकृतिस्वरस्य च विधानसामर्थ्यात् प्रत्ययस्वराभावः । यत् अयम् धातोः अन्तः प्रातिपदिकस्य अन्तः इति प्रकृतेः अन्तोदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः न तदन्तस्य अनुदात्तत्वम् भवति इति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१९/११३) कथम् कृत्वा ज्ञापकम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-२०/११३) यत्र हि अनुदात्तःप्रत्ययः प्रकृतिस्वरः तत् प्रयोजयति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-२१/११३) आगमानुदात्तार्थम् वा ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-२२/११३) आगमानुदात्तार्थम् तर्हि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वम् उच्यते ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-२३/११३) प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते आगमाः अनुदात्ताः यथा स्युः इति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-२४/११३) न वा आगमस्य अनुदात्तवचनात् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-२५/११३) न वा एतत् अपि प्रयोजनम् अस्ति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-२६/११३) किम् कारणम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-२७/११३) आगमस्य अनुदात्तवचनात् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-२८/११३) आगमाः अनुदात्ताः भवन्ति इति वक्ष्यामि ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-२९/११३) के पुनः आगमाः अनुदात्तत्वम् प्रयोजयन्ति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-३०/११३) इट् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-३१/११३) लविता ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-३२/११३) इट् तावत् न प्रयोजयति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-३३/११३) इदम् इह सम्प्रधार्यम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-३४/११३) इट् क्रियताम् आद्युदात्तत्वम् इति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-३५/११३) किम् अत्र कर्तव्यम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-३६/११३) परत्वात् इडागमः ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-३७/११३) नित्यम् आद्युदात्तत्वम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-३८/११३) कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-३९/११३) इट् अपि नित्यः ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-४०/११३) कृते अपि आद्युदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-४१/११३) अनित्यः इट् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-४२/११३) अन्यथास्वरस्य कृते आद्युदात्तत्वे प्रप्नोति अन्यथास्वरस्य अकृते ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-४३/११३) स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-४४/११३) आद्युदात्तत्वम् अपि अनित्यम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-४५/११३) अन्यस्य कृते इटि प्राप्नोति अन्यस्य अकृते ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-४६/११३) शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-४७/११३) उभयोः अनित्ययोः परत्वात् इडागमः ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-४८/११३) अन्तरङ्गम् तर्हि आद्युदात्तत्वम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-४९/११३) का अन्तरङ्गता ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-५०/११३) उत्पत्तिसन्नियोगेन आद्युदात्तत्वम् उच्यते ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-५१/११३) उत्पन्ने प्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य इडागमः ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-५२/११३) आद्युदात्तत्वम् अपि न अन्तरङ्गम् यावता प्रत्यये आश्रीयमाणे प्रकृतिः अपि आश्रिता भवति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-५३/११३) अन्तरङ्गम् एव आद्युदात्तत्वम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-५४/११३) कथम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-५५/११३) इदानीम् एव हि उक्तम् न प्रत्ययस्वरविधौ तदादिविधिः भवति इति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-५६/११३) सीयुट् तर्हि प्रयोजयति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-५७/११३) अवचने हि सीयुडादेः आद्युदात्तत्वम् । अक्रियमाणे हि आगमानुदात्तत्वे क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे सीयुडादेः लिङः आद्युदात्तत्वम् प्रसज्येत ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-५८/११३) लविषीय पविषीय ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-५९/११३) तत् तर्हि वक्तव्यम् आगमाः अनुदात्ताः भवन्ति इति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-६०/११३) न वक्तव्यम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-६१/११३) आचार्यप्रवृत्तिः ज्ञापयति आगमाः अनुदात्ताः भवन्ति इति यत् अयम् यासुट् परसमैपदेषु उदात्तः ङित् च इति आह ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-६२/११३) न एतत् अस्ति ज्ञापकम् वक्ष्यति एतत् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-६३/११३) यासुटः ङिद्वचनम् पिदर्थम् उदात्तवचनम् च इति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-६४/११३) शक्यम् अनेन वक्तुम् ॒ यासुट् परस्मैपदेषु भवति अपित् च लिङ् भवति इति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-६५/११३) सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञपयति आचार्यः आगमाः अनुदात्ताः भवन्ति इति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-६६/११३) शक्यम् इदम् लब्धुम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-६७/११३) यदि एव वचनात् अथ अपि ज्ञापकात् आगमाः अनुदात्ताः भवन्ति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-६८/११३) आगमैः तु व्यवहितत्वात् आद्युदात्तत्वम् न प्राप्नोति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-६९/११३) आगमाः अविद्यमानवत् भवन्ति इति वक्ष्यामि ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-७०/११३) यदि आगमाः अविद्यमानवत् भवन्ति इति उच्यते लविता अवादेशः न प्राप्नोति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-७१/११३) स्वरविधौ इति वक्ष्यामि ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-७२/११३) एवम् अपि लविता उदात्तात् अनुदात्तस्य स्वरितः इति स्वरितः न प्राप्नोति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-७३/११३) षाष्ठिके स्वरे इति वक्ष्यामि ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-७४/११३) एवम् अपि शिक्षितः निष्ठा च द्व्यच् अनात् इत् एषः स्वरः प्राप्नोति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-७५/११३) प्रत्ययस्वरविधौ इति वक्ष्यामि ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-७६/११३) तत् तर्हि वक्तव्यम् अविद्यमानवत् भवन्ति इति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-७७/११३) न वक्तव्यम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-७८/११३) आचार्यप्रवृत्तिः ज्ञापयति आगमाः अविद्यमानवत् भवन्ति इति यत् अयम् यासुट् परसमैपदेषु उदात्तः ङित् च इति आह ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-७९/११३) न एतत् अस्ति ज्ञापकम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-८०/११३) वक्ष्यति एतत् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-८१/११३) यासुटः ङिद्वचनम् पिदर्थम् उदात्तवचनम् च इति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-८२/११३) शक्यम् अनेन वक्तुम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-८३/११३) यासुट् परस्मैपदेषु भवति अपित् च लिङ् भवति इति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-८४/११३) सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञपयति आचार्यः आगमाः अविद्यमानवत् भवन्ति इति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-८५/११३) आद्युदात्तस्य वा लोपार्थम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-८६/११३) आद्युदात्तस्य तर्हि लोपार्थम् प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वम् उच्यते ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-८७/११३) प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते उदात्तनिवृत्तिस्वरः सिद्धः भवति ॒ स्रौघ्नी माथुरी ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-८८/११३) अत्र हि परत्वात् लोपः प्रत्यय्स्वरम् बाधेत ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-८९/११३) न वा बहिरङ्गलक्षणत्वात् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-९०/११३) न वा एतत् प्रयोजयति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-९१/११३) किम् कारणम् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-९२/११३) बहिरङ्गलक्षणत्वात् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-९३/११३) बहिरङ्गलक्षणः लोपः अन्तरङ्गलक्षणः स्वरः ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-९४/११३) असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-९५/११३) अवश्यम् च एषा परिभाषा आश्रयितव्या ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-९६/११३) अवचने हि ञिन्नित्कित्सु अतिप्रसङ्गः ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-९७/११३) अनाश्रीयमाणायाम् अस्याम् परिभाषायाम् क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वेञिन्नित्कित्सु अतिप्रसङ्गः स्यात् ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-९८/११३) औत्सी कंसिकी आत्रेयी इति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-९९/११३) अत्र हि परत्वात् लोपः ञिन्नित्कित्स्वरान् बाधेत ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१००/११३) न एषः दोषः ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१०१/११३) ञिन्नित्कित्स्वराः प्रत्यय्स्वरापवादाः ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१०२/११३) न च अपवादविषये उत्सर्गः भिनिविशते ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१०३/११३) पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गः ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१०४/११३) प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१०५/११३) न तावत् अत्र कदा चित् प्रत्ययाद्युदात्तत्वम् भवति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१०६/११३) अपवादान् ञिन्नित्कित्स्वरान् प्रतीक्षते ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१०७/११३) कंसिक्याम् भूयान् अपहारः ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१०८/११३) अन्यस्य अत्र उदात्तत्वम् अन्यस्य लोपः ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१०९/११३) आदेः उदात्तत्वम् अन्त्यस्य लोपः ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-११०/११३) इदम् तर्हि आत्रेयी इति ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-१११/११३) अत्र हि परत्वात् लोपः कित्स्वरम् बाधेत ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-११२/११३) तस्मात् एषा परिभाषा आश्रयितव्या ।

(पा-३,१.३.२; अकि-२,६.१५-९.१४; रो-३,२१-२७; भा-११३/११३) एतस्याम् च सत्याम् शक्यम् प्रत्ययसन्नियोगेन आद्युदात्तत्वम् अवक्तुम् ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-१/५८) प्रत्ययाद्युदात्तत्वात् धातोः अन्तः ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-२/५८) प्रत्ययाद्युदात्तत्वात् धातोः अन्तः इति एतत् भवति विप्रतिषेधेन ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-३/५८) प्रत्ययाद्युदात्तत्वस्य अवकाशः यत्र अनुदात्ता प्रकृतिः ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-४/५८) समत्वम् सिमत्वम् ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-५/५८) धातोः अन्तः इति अस्य अवकाशः यत्र अनुदात्तः प्रत्ययः ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-६/५८) पचति पठति ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-७/५८) इह उभयम् प्राप्नोति ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-८/५८) गोपायति धपायति ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-९/५८) धातोः अन्तः इति एतत् भवति विप्रतिषेधेन. पित्स्वरात् तित्स्वरः टापि । पित्स्वरात् तित्स्वरः टापि भवति विप्रतिषेधेन ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-१०/५८) पित्स्वरस्य अवकाशः ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-११/५८) पचति पठति ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-१२/५८) तित्स्वरस्य अवकाशः ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-१३/५८) कार्यम् हार्यम् ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-१४/५८) इह उभयम् प्राप्नोति ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-१५/५८) कार्या हार्या ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-१६/५८) तित्स्वरः भवति विप्रतिषेधेन ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-१७/५८) चित्स्वरः चापि पित्स्वरात् । चित्स्वरः चापि पित्स्वरात् भवति विप्रतिषेधेन ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-१८/५८) चित्स्वरस्य अवकाशः ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-१९/५८) चलनः चोपनः ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-२०/५८) पित्स्वरस्य सः एव ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-२१/५८) इह उभयम् प्राप्नोति ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-२२/५८) आम्बष्ठ्या सौवीर्या ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-२३/५८) चित्स्वरः भवति विप्रतिषेधेन ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-२४/५८) न वा आद्युतात्तस्य प्रत्ययसञ्ज्ञासन्नियोगात् । न वा अर्थः विप्रतिषेधेन ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-२५/५८) किम् कारणम् ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-२६/५८) आद्युतात्तस्य प्रत्ययसञ्ज्ञासन्नियोगात् ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-२७/५८) प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते सतिशिष्टत्वात् धातुस्वरः भविष्यति ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-२८/५८) अयम् च अपि अयुक्तः विप्रतिषेधः पित्स्वरस्य तित्स्वरस्य च ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-२९/५८) किम् कारणम् ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-३०/५८) टापि स्वरितेनैकादेशः ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-३१/५८) टापि स्वरितेन एकादेशः भवति ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-३२/५८) इदम् इह सम्प्रधार्यम् ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-३३/५८) स्वरितत्वम् क्रियताम् एकादेशः इति ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-३४/५८) किम् अत्र कर्तव्यम् ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-३५/५८) परत्वात् स्वरितत्वम् ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-३६/५८) नित्यः एकादेशः ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-३७/५८) कृते अपि स्वरितत्वे प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-३८/५८) । स्वरितत्वम् अपि नित्यम् ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-३९/५८) कृते अपि एकादेशे प्राप्नोति अकृते अपि ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-४०/५८) अनित्यम् स्वरितत्वम् ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-४१/५८) अन्यस्य कृते एकादेशे प्राप्नोति अन्यस्य अकृते ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-४२/५८) शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-४३/५८) एकादेशः अपि अनित्यः ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-४४/५८) अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति अन्यथास्वरस्य अकृते ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-४५/५८) स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-४६/५८) अन्तरङ्गः तर्हि एकादेशः ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-४७/५८) का अन्तरङ्गता ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-४८/५८) वर्णौ आश्रित्य एकादेशः पदस्य स्वरितत्वम् ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-४९/५८) स्वरितत्वम् अपि अन्तरङ्गम् ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-५०/५८) कथम् ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-५१/५८) वक्ष्यति एतत् ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-५२/५८) पदग्रहणम् परिमाणार्थम् इति ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-५३/५८) उभयोः अन्तरङ्गयोः परत्वात् स्वरितत्वम् ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-५४/५८) स्वरितत्वे कृते आन्तर्यतः स्वरिदानुदात्तयोः स्वरितः भविष्यति ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-५५/५८) अयम् च अपि अयुक्तः विप्रतिषेधः पित्स्वरस्य चित्स्वरस्य च ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-५६/५८) किम् कारणम् ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-५७/५८) चापि चित्करणात् ।

(पा-३,१.३.३; अकि-२,९.१५-१०.२०; रो-३,२७-३०; भा-५८/५८) चापि चित्करणसामर्थ्यात् अन्तोदात्तत्वम् भविष्यति ।

(पा-३,१.५; अकि-२,१०.२२-११.९; रो-३,३०-३१; भा-१/१७) गुपादिषु अनुबन्धकरणम् किमर्थम् ।

(पा-३,१.५; अकि-२,१०.२२-११.९; रो-३,३०-३१; भा-२/१७) गुपादिषु अनुबन्धकरणम् आत्मनेपदार्थम् । गुपादिषु अनुबन्धाः क्रियन्ते आत्मनेपदम् यथा स्यात् ।

(पा-३,१.५; अकि-२,१०.२२-११.९; रो-३,३०-३१; भा-३/१७) क्रियमाणेषु अपि अनुबन्धेषु आत्मनेपदम् न एव प्राप्नोति ।

(पा-३,१.५; अकि-२,१०.२२-११.९; रो-३,३०-३१; भा-४/१७) किम् कारणम् ।

(पा-३,१.५; अकि-२,१०.२२-११.९; रो-३,३०-३१; भा-५/१७) सना व्यवहितत्वात् ।

(पा-३,१.५; अकि-२,१०.२२-११.९; रो-३,३०-३१; भा-६/१७) पूर्ववत् सनः इति एवम् भविष्यति ।

(पा-३,१.५; अकि-२,१०.२२-११.९; रो-३,३०-३१; भा-७/१७) पूर्ववत् सनः इति उच्यते ।

(पा-३,१.५; अकि-२,१०.२२-११.९; रो-३,३०-३१; भा-८/१७) न चे एतेभ्यः प्राक् सनः आत्मनेपदम् न अपि परस्मैपदम् पश्यामः ।

(पा-३,१.५; अकि-२,१०.२२-११.९; रो-३,३०-३१; भा-९/१७) एवम् तर्हि अनुबन्धकरणसामर्थ्यात् भविष्यति ।

(पा-३,१.५; अकि-२,१०.२२-११.९; रो-३,३०-३१; भा-१०/१७) अथ वा अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भविष्यति ।

(पा-३,१.५; अकि-२,१०.२२-११.९; रो-३,३०-३१; भा-११/१७) तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः विशेषकम् भवति ।

(पा-३,१.५; अकि-२,१०.२२-११.९; रो-३,३०-३१; भा-१२/१७) यदि अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति जुगुप्सयति मीमांसयति इति अत्र अपि प्राप्नोति ।

(पा-३,१.५; अकि-२,१०.२२-११.९; रो-३,३०-३१; भा-१३/१७) अवयवे कृतम् लिङ्गम् कस्य समुदायस्य विशेषकम् भवति ।

(पा-३,१.५; अकि-२,१०.२२-११.९; रो-३,३०-३१; भा-१४/१७) यम् समुदायम् यः अवयवः न व्यभिचरति ।

(पा-३,१.५; अकि-२,१०.२२-११.९; रो-३,३०-३१; भा-१५/१७) सनम् च न व्हभिचरति ।

(पा-३,१.५; अकि-२,१०.२२-११.९; रो-३,३०-३१; भा-१६/१७) णिचम् पुनः व्यभिचरति ।

(पा-३,१.५; अकि-२,१०.२२-११.९; रो-३,३०-३१; भा-१७/१७) तत् यथा तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः विशेषकम् भवति न गोमण्डलस्य ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-१/२७) अभ्यासदीर्घत्वे अवर्णस्य दीर्घप्रसङ्गः ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-२/२७) अभ्यासदीर्घत्वे अवर्णस्य दीर्घत्वम् प्राप्नोति ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-३/२७) मीमांसते ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-४/२७) ननु चे इत्त्वे कृते दीर्घत्वम् भविष्यति ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-५/२७) कथम् पुनः उत्पत्तिसन्नियोगेन दीर्घत्वम् उच्यमानम् इत्त्वम् प्रतीक्षते ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-६/२७) अथ कथम् अभ्यासम् प्रतीक्षते ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-७/२७) वचनात् अभ्यासम् प्रतीक्षते ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-८/२७) इत्त्वम् पुनः न प्रतीक्षते ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-९/२७) न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-१०/२७) न वा एषः दोषः ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-११/२७) किम् कारणम् ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-१२/२७) अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-१३/२७) अभ्यासविकारेषु अपवादाः उत्सर्गान् न बाधन्ते इति एवम् दीर्घत्वम् उच्यमानम् इत्त्वम् न बाधिष्यते ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-१४/२७) अथ वा मान्बधदान्शन्भ्यः ई च अभ्यासस्य इति वक्ष्यामि ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-१५/२७) एवम् अपि हलादिशेषापवादः ईकारः प्राप्नोति ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-१६/२७) ई च अचः इति वक्ष्यामि ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-१७/२७) अथ वा मान्बधदान्शन्भ्यः दीर्घः च इतः अभ्यासस्य इति वक्ष्यामि ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-१८/२७) सिध्यति ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-१९/२७) सूत्रम् तर्हि भिद्यते ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-२०/२७) यथान्यासम् एव अस्तु ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-२१/२७) ननु च उक्तम् अभ्यासदीर्घत्वे अवर्णस्य दीर्घप्रसङ्गः इति ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-२२/२७) परिहृतम् एतत् न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् इति ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-२३/२७) अथ वा न एवम् विज्ञायते दीर्घः च अभ्यासस्य इति ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-२४/२७) कथम् तर्हि ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-२५/२७) दीर्घः च आभ्यासस्य इति ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-२६/२७) किम् इदम् आभ्यासस्य इति ।

(पा-३,१.६; अकि-२,११.११-२५; रो-३,३१-३२; भा-२७/२७) अभ्यासविकारः आभ्यासः तस्य इति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-१/९०) धातोः इति किमर्थम् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-२/९०) प्रकर्तुम् ऐच्छत् प्राचिकीर्षत् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-३/९०) सोपसर्गात् मा भूत् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-४/९०) कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-५/९०) कर्मग्रहणात् सन्विधौ धातुग्रहणम् अनर्थकम् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-६/९०) कर्मणः समानकर्तृकात् इच्छायाम् वा सम्भवति इति एव धातोः उत्पत्तिः भविष्यति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-७/९०) सोपर्सर्गम् वै कर्म ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-८/९०) ततः उत्पत्तिः प्राप्नोति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-९/९०) सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-१०/९०) सोपसर्गम् कर्म इति चेत् कर्मविशेषकः उपसर्गः ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-११/९०) अनुपसर्गम् हि कर्म ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-१२/९०) अवश्यम् च एतत् एवम् विज्ञेयम् अनुपसर्गम् कर्म इति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-१३/९०) सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-१४/९०) यः हि मन्यते सोपसर्गम् कर्म इति क्रियमाणे अपि तस्य धातुग्रहणे सनः अविधिः स्यात् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-१५/९०) किम् कारणम् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-१६/९०) अकर्मत्वात् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-१७/९०) इदम् तर्हि प्रयोजनम् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-१८/९०) सुबन्तात् उत्पत्तिः मा भूत् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-१९/९०) सुबन्तात् च अप्रसङ्गः क्यजादीनाम् अपवादत्वात् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-२०/९०) सुबन्तात् च सनः अप्रसङ्गः ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-२१/९०) किम् कारणम् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-२२/९०) क्यजादीनाम् अपवादत्वात् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-२३/९०) सुबन्तात् क्यजादयः विधीयन्ते ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-२४/९०) ते अपवादत्वात् बाधकाः भविष्यन्ति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-२५/९०) अनभिधानात् वा ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-२६/९०) अथ वा अनभिधानात् सुबन्तात् उत्पत्तिः न भविष्यति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-२७/९०) न हि सुबन्तात् उत्पद्यमानेन सना इच्छाया अभिधानम् स्यात् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-२८/९०) अनभिधानात् ततः उत्पत्तिः न भविष्यति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-२९/९०) इयम् तावत् अगतिका गतिः यत् उच्यते अनभिधानात् इति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-३०/९०) यत् अपि उच्यते सुबन्तात् च अप्रसङ्गः क्यजादीनाम् अपवादत्वात् इति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-३१/९०) भवेत् कस्मात् चित् अप्रसङ्गः स्यात् आत्मेच्छायाम् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-३२/९०) परेच्छायाम् तु प्राप्नोति ॒ राज्ञः पुत्रम् इच्छति इति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-३३/९०) एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-३४/९०) किम् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-३५/९०) समानकर्तृकात् इति उच्यते ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-३६/९०) न च सुबन्तस्य समानः कर्ता अस्ति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-३७/९०) एवम् अपि भवेत् कस्मात् चित् अप्रसङ्गः यस्य कर्ता न अस्ति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-३८/९०) इह तु प्राप्नोति ॒ आसितुम् इच्छति शयितुम् इच्छति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-३९/९०) इच्छायाम् अर्थे सन् विधीयते इच्छार्थेषु च तुमुन् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-४०/९०) तत्र तुमुना उक्ततत्वात् तस्य अर्थस्य सन् न भविष्यति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-४१/९०) एवम् अपि इह प्राप्नोति ॒ आसनम् इच्छति शयनम् इच्छति इति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-४२/९०) इह यः विशेषः उपाधिः वा उपादीयते द्योत्ये तस्मिन् तेन भवितव्यम् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-४३/९०) यः च इह अर्थः गम्यते आसितुम् इच्छति शयितुम् इच्छति स्वयम् ताम् क्रियाम् कर्तुम् इच्छति इति न असौ इह गम्यते आसनम् इच्छति शयनम् इच्छति इति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-४४/९०) अन्यस्य अपि आसनम् इच्छति इति एषः अपि अर्थः गम्यते ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-४५/९०) अवश्यम् च एतत् एवम् विज्ञेयम् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-४६/९०) यः हि मन्यते अद्योत्ये तस्मिन् तेन भवितव्यम् इति क्रियमाणे अपि तस्य धातुग्रहणे इह प्रसज्येत ॒ सङ्गतम् इच्छति देवदत्तः यज्ञदत्तेन इति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-४७/९०) कर्मसमानकर्तृकग्रहणानर्थक्यम् च इच्छाभिधाने प्रत्ययविधानात् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-४८/९०) कर्मसमानकर्तृकग्रहणम् च अनर्थकम् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-४९/९०) किम् कारणम् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-५०/९०) इच्छाभिधाने प्रत्ययविधानात् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-५१/९०) इच्छायाम् अभिधेयायाम् सन् विधीयते ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-५२/९०) अकर्मणः हि असमानकर्तृकात् वा अनभिधानम् । इच्छायाम् अभिधेयायाम् सन् विधीयते ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-५३/९०) न च अकर्मणः असमानकर्तृकात् वा उत्पद्यमानेन सना इच्छाया अभिधानम् स्यात् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-५४/९०) अनभिधानात् ततः उत्पत्तिः न भविष्यति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-५५/९०) अङ्गपरिमाणार्थम् तु ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-५६/९०) अङ्गपरिमाणार्थम् तर्हि अन्यतरत् कर्तव्यम् कर्मग्रहणम् धातुग्रहणम् वा ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-५७/९०) अङ्गपरिमाणम् ज्ञास्यामि इति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-५८/९०) किम् पुनः अत्र ज्यायः ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-५९/९०) धातुग्रहणम् एव ज्यायः ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-६०/९०) अङ्गपरिमाणम् च एव विज्ञातम् भवति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-६१/९०) अपि च धातोः विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञः भवति इति सनः आर्धधातुकसञ्ज्ञा सिद्धा भवति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-६२/९०) यत् च अपि एतत् उक्तम् कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति स्वपक्षः अनेन वर्णितः ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-६३/९०) युक्तम् इह द्रष्टव्यम् किम् न्याय्यम् कर्म इति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-६४/९०) एतत् च अत्र युक्तम् यत् सोपसर्गम् कर्म स्यात् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-६५/९०) ननु च उक्तम् सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-६६/९०) न एषः दोषः ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-६७/९०) कर्मणः इति न एषा धातुसमानाधिकरणा पञ्चमी ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-६८/९०) कर्मणः धातोः इति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-६९/९०) किम् तर्हि ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-७०/९०) अवयवयोगा एषा षष्ठी ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-७१/९०) कर्मणः यः धातुः अवयवः ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-७२/९०) यदि अवयवयोगा एषा षष्ठीकेवलात् उत्पत्तिः न प्राप्नोति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-७३/९०) चिकीर्षति जिहीर्षति इति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-७४/९०) एषः अपि व्यपदेशिवद्भावेन कर्मणः धातुः अवयः भवति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-७५/९०) कामम् तर्हि अनेन एव हेतुना क्यच् अपि कर्तव्यः ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-७६/९०) महान्तम् पुत्रम् इच्छति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-७७/९०) कर्मणः यत् सुबन्तम् अवययः इति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-७८/९०) न कर्तव्यः ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-७९/९०) असामर्थ्यात् न भविष्यति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-८०/९०) कथम् असामर्थ्यम् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-८१/९०) सापेक्षम् असमर्थम् भवति इति ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-८२/९०) वावचनानर्थक्यम् च तत्र नित्यत्वात् सनः ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-८३/९०) वावचनम् च अनर्थकम् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-८४/९०) किम् कारणम् ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-८५/९०) तत्र नित्यत्वात् सनः ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-८६/९०) इह हि द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-८७/९०) स्वभावतः च एतत् भवति वाक्यम् च प्रत्ययः च ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-८८/९०) तत्र स्वाभाविके वृत्तिविषये नित्ये प्रत्यये प्राप्ते वावचनेन किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-८९/९०) न च सञ्ज्ञायाः भावाभावौ इष्येते ।

(पा-३,१.७.१; अकि-२,१२-१४.७; रो-३,३३-३९; भा-९०/९०) तस्मात् न अर्थः वावचनेन ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-१/४८) तुमुनन्तात् वा तस्य च लुग्वचनम् ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-२/४८) तुमुनन्तात् वा सन् वक्तव्यः तस्य च तुमुनः लुक् वक्तव्यः ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-३/४८) कर्तुम् इच्छति चिकीर्षति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-४/४८) लिङुत्तमात् वा ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-५/४८) लिङुत्तमात् वा सन् वक्तव्यः तस्य च लिङः लुक् वक्तव्यः ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-६/४८) कुर्याम् इति इच्छति चिकीर्षति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-७/४८) आशङ्कायाम् अचेतनेषु उपसङ्ख्यानम् ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-८/४८) आशङ्कायाम् अचेतनेषु उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-९/४८) अश्मा लुलुठिषते ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-१०/४८) कूलम् पिपतिषति इति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-११/४८) किम् पुनः कारणम् न सिध्यति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-१२/४८) एवम् मन्यते ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-१३/४८) चेतनावतः एतत् भवति इच्छा इति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-१४/४८) कूलम् च अचेतनम् ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-१५/४८) अचेतनग्रहणेन न अर्थः ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-१६/४८) आशङ्कायाम् इति एव ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-१७/४८) इदम् अपि सिद्धम् भवति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-१८/४८) श्वा मुमूर्षति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-१९/४८) न वा तुल्यकारणत्वात् इच्छयाः हि प्रवृत्तितः उपलब्धिः ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-२०/४८) न वा कर्तव्यम् ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-२१/४८) किम् कारणम् ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-२२/४८) तुल्यकारणत्वात् ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-२३/४८) तुल्यम् हि कारणम् चेतनावति देवदत्ते कूले च अचेतने ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-२४/४८) किम् कारणम् ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-२५/४८) इच्छयाः हि प्रवृत्तितः उपलब्धिः ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-२६/४८) इच्छयाः हि प्रवृत्तितः उपलब्धिः भवति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-२७/४८) यः अपि असु कटम् चिकीर्षुः भवति न असौ आघोषयति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-२८/४८) कटम् करिष्यामि इति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-२९/४८) किम् तर्हि ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-३०/४८) सन्नद्धम् रज्जुकीलक्पूलपाणिम् दृष्ट्वा ततः इच्छा गम्यते ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-३१/४८) कूलस्य अपि पिपतिषतः लोष्टाः शीर्यन्ते भिदा जायन्ते देशात् देशान्तरम् उपसङ्क्रामति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-३२/४८) श्वानः खलु अपि मुमूर्षवः एकान्तशीलाः शूनाक्षाः च भवन्ति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-३३/४८) उपमानात् वा सिद्धम् ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-३४/४८) उपमानात् वा सिद्धम् एतत् ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-३५/४८) कथम् ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-३६/४८) लुलुठिषते इव लुलुठिषते ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-३७/४८) पिपतिषति इव पिपतिषति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-३८/४८) न तिङन्तेन उपमानम् अस्ति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-३९/४८) एवम् तर्हि इच्छा इव इच्छा ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-४०/४८) सर्वस्य वा चेतनावत्त्वात् ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-४१/४८) अथ वा सर्वम् चेतनावत् ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-४२/४८) एवम् हि आह ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-४३/४८) कंसकाः सर्पन्ति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-४४/४८) शिरीषः अधः स्वपिति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-४५/४८) सुवर्चला आदित्यम् अनु पर्येति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-४६/४८) आस्कन्द कपिलक इति उक्ते तृणम् आस्कन्दति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-४७/४८) अयस्कान्तम् अयः सङ्क्रामति ।

(पा-३,१.७.२; अकि-२,१४.८-१५.४; रो-३,३९-४२; भा-४८/४८) ऋषिः पठति श्र्णोत ग्रावाणः

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-१/३३) इमे इषवः बहवः पठ्यन्ते ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-२/३३) तत्र न ज्ञायते कस्य अयम् अर्थे सन् विधीयते इति ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-३/३३) इषेः छत्वभाविनः ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-४/३३) यदि एवम् कर्तुम् अन्विच्छति कर्तुम् अन्वेषणा अत्र अपि प्राप्नोति ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-५/३३) एवम् तर्हि यस्य स्त्रियाम् इच्छा इति एतत् रूपम् निपात्यते ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-६/३३) कस्य च एतत् निपात्यते ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-७/३३) कान्तिकर्मणः ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-८/३३) अथ इह ग्रामम् गन्तुम् इच्छति इति कस्य किम् कर्म ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-९/३३) इषेः उभे कर्मणी ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-१०/३३) यदि एवम् ग्रामम् गन्तुम् इच्छति ग्रामाय गन्तुम् इच्छति इति गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-११/३३) एवम् तर्हि गमेः ग्रामः कर्म इषेः गमिः कर्म ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-१२/३३) एवम् अपि इष्यते ग्रामः गन्तुम् इति परसाधने उत्पद्यमानेन लेन ग्रामस्य अभिधानम् न प्राप्नोति ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-१३/३३) एवम् तर्हि गमेः ग्रामः कर्म इषेः उभे कर्मणी ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-१४/३३) अथ सनन्तात् सना भवितव्यम् ॒ चिकीर्षितुम् इच्छति जिहीर्षितुम् इच्छति इति ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-१५/३३) न भवितव्यम् ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-१६/३३) किम् कारणम् ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-१७/३३) अर्थगत्यर्थः शब्दप्रयोगः ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-१८/३३) अर्थम् सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-१९/३३) तत्र एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगेण न भवितव्यम् ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-२०/३३) किम् कारणम् ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-२१/३३) उक्तार्थानाम् अप्रयोगः ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-२२/३३) न तर्हि इदानीम् इदम् भवति ॒ एषितुम् इच्छति एषिषिषति इति ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-२३/३३) अस्ति अत्र विशेषः ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-२४/३३) एकस्य अत्र इषेः इषिः साधनम् वर्तमानकालः च प्रत्ययः ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-२५/३३) अपरस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-२६/३३) इह अपि तर्हि एकस्य इषेः करोतिविषिष्टः इषिः साधनम् वर्तमानकालः च प्रत्ययः ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-२७/३३) अपरस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-२८/३३) येन एव खलु अपि हेतुना एतत् वाक्यम् भवति चिकीर्षितुम् इच्छति जिहीर्षितुम् इच्छति इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-२९/३३) तस्मात् सनन्तात् सनः प्रतिषेधः वक्तव्यः ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-३०/३३) तम् च अपि ब्रुवता इषिसनः इति वक्तव्यम् ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-३१/३३) भवति हि जुगुप्सिषते मीमांसिषते इति ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-३२/३३) शैषिकात् मतुबर्थीयात् शैषिकः मतुबर्थिकः सरूपः प्रत्ययः न इष्टः ।

(पा-३,१.७.३; अकि-२,१५. ५-२३; रो-३,४२-४५; भा-३३/३३) सनन्तात् न सन् इष्यते ।