सामग्री पर जाएँ

व्याकरणमहाभाष्य खण्ड 32

विकिपुस्तकानि तः



(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-१/८४) किमर्थः चकारः ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-२/८४) स्वरार्थः ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-३/८४) चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-४/८४) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-५/८४) एकाच् अयम् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-६/८४) तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-७/८४) प्रत्ययस्वरेण एव सिद्धम् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-८/८४) विशेषणार्थः तर्हि ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-९/८४) क्व विशेषणार्थेन अर्थः ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-१०/८४) अस्य च्वौ क्यचि च इति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-११/८४) क्ये च इति उच्यमाने अपि काकः श्येनायते अत्र अपि प्रसय्जेत ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-१२/८४) न एतत् अस्ति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-१३/८४) तदनुबन्धकग्रहणे अतदनुबन्धकस्य ग्रहणम् न इति एवम् एतस्य न भविष्यति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-१४/८४) सामान्यग्रहणाविघातार्थः तर्हि ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-१५/८४) क्व च सामान्यग्रहणाविघातार्थेन अर्थः ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-१६/८४) नः क्ये इति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-१७/८४) अथ आत्मन्ग्रहणम् किमर्थम् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-१८/८४) आत्मेच्छायाम् यथा स्यात् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-१९/८४) परेच्छायाम् मा भूत् इति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-२०/८४) राज्ञः पुत्रम् इच्छति इति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-२१/८४) क्रियमाणे अपि आत्मग्रहणे परेच्छायाम् प्राप्नोति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-२२/८४) किम् कारणम् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-२३/८४) आत्मनः इति इयम् कर्तरि षष्ठी ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-२४/८४) इच्छा इति अकारः भावे ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-२५/८४) सः यदि एव आत्मनः इच्छा अथ अपि परस्य आत्मेच्छा एव असौ भवति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-२६/८४) न आत्मग्रहणेन इच्छा अभिसम्बध्यते ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-२७/८४) किम् तर्हि ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-२८/८४) सुबन्तम् अभिसम्बध्यते ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-२९/८४) आत्मनः यत् सुबन्तम् इति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-३०/८४) यदि आत्मग्रहणम् क्रियते छन्दसि परेच्छायाम् न प्राप्नोति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-३१/८४) म त्वा वृकाः अघायवः विदन् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-३२/८४) तस्मात् न अर्थः आत्मग्रहणेन ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-३३/८४) इह कस्मात् न भवति ॒ राज्ञः पुत्रम् इच्छति इति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-३४/८४) असामर्थ्यात् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-३५/८४) कथम् असामर्थ्यम् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-३६/८४) सापेक्षम् असमर्थम् भवति इति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-३७/८४) छन्दसि अपि तर्हि न प्राप्नोति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-३८/८४) म त्वा वृकाः अघायवः विदन् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-३९/८४) अस्ति अत्र विशेषः ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-४०/८४) अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-४१/८४) कथम् पुनः अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-४२/८४) ते च एव वृकाः एवमात्मकः हिंस्राः ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-४३/८४) कः च आत्मनः अघम् एषितुम् अर्हति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-४४/८४) अतः अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-४५/८४) यथा एव तर्हि छन्दसि अघशब्दात् परेच्छायाम् ख्यच् भवति एवम् भाषायाम् अपि प्राप्नोति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-४६/८४) अघम् इच्छति इति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-४७/८४) तस्मात् आत्मग्रहणम् कर्तव्यम् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-४८/८४) छन्दसि कथम् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-४९/८४) आचार्यप्रवृत्तिः ज्ञापयति भवति छन्दसि अघशब्दात् परेच्छायाम् क्यच् इति यत् अयम् अश्वाघस्यात् इति क्यचि प्रत्कृते ईत्वबाधनार्थम् आकारम् शास्ति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-५०/८४) अथ सुब्ग्रहणम् किमर्थम् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-५१/८४) सुबन्तात् उत्पत्तिः यथ स्यात् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-५२/८४) प्रातिपदिकात् मा भूत् इति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-५३/८४) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-५४/८४) न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा अयम् अस्ति विशेषः ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-५५/८४) सुबन्तात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा भवति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-५६/८४) प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा न प्राप्नोति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-५७/८४) ननु च प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-५८/८४) कथम् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-५९/८४) आरभ्यते नः क्ये इति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-६०/८४) तत् च अवश्यम् कर्तव्यम् सुबन्तात् उत्पत्तौ सत्याम् नियमार्थम् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-६१/८४) तत् एव प्रातिपदिकात् उत्पत्तौ सत्याम् विध्यर्थम् भविष्यति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-६२/८४) इदम् तर्हि प्रयोजनम् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-६३/८४) सुबन्तात् उत्पत्तिः यथ स्यात् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-६४/८४) धातोः मा भूत् इति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-६५/८४) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-६६/८४) धातोः सन् विधीयते ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-६७/८४) सः बाधकः भविष्यति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-६८/८४) अनवकाशाः हि विधयः बाधकाः भवन्ति सावकाशः च सन् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-६९/८४) कः अवकाशः ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-७०/८४) परेच्छा ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-७१/८४) न परेच्छायाम् सना भवितव्यम् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-७२/८४) किम् कारणम् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-७३/८४) समानकर्तृकात् इति उच्यते ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-७४/८४) यावत् च इह आत्मग्रहणम् तावत् तत्र समानकर्तृकग्रहणम् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-७५/८४) इदम् तर्हि प्रयोजनम् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-७६/८४) सुबन्तात् उत्पत्तिः यथ स्यात् ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-७७/८४) वाक्यात् मात् भूत् इति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-७८/८४) महान्तम् पुत्रम् इच्छति इति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-७९/८४) न वा भवति महापुत्रीयति इति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-८०/८४) भवति यदा एतत् वाक्यम् भवति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-८१/८४) महान् पुत्रः महापुत्रः ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-८२/८४) महापुत्रम् इच्छति महापुत्रीयति इति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-८३/८४) यदा तु एतत् वाक्यम् भवति महान्तम् पुत्रम् इच्छति इति तदा न भवितव्यम् तदा च प्राप्नोति ।

(पा-३,१.८.१; अकि-२,१६.२-१७.१२; रो-३,४५-४८; भा-८४/८४) तदा मा भूत् इति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-१/६३) अथ क्रियमाणे अपि सुब्ग्रहणे कस्मात् एव अत्र न भवति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-२/६३) सुबन्तम् हि एतत् वाक्यम् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-३/६३) न एतत् सुबन्तम् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-४/६३) कथम् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-५/६३) प्रत्ययग्रहणे यस्मात् तदादेः ग्रहणम् भवति इति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-६/६३) अथ यत् अत्र सुबन्तम् तस्मात् उत्पत्तिः कस्मात् न भवति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-७/६३) समानाधिकरणानाम् सर्वत्र अवृत्तिः अयोगात् एकेन ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-८/६३) समानाधिकरणानाम् सर्वत्र एव वृत्तिः न भवति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-९/६३) क्व सर्वत्र ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-१०/६३) समासविधौ प्रत्ययविधौ ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-११/६३) समासविधौ तावत् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-१२/६३) ऋद्धस्य राज्ञः पुरुषः ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-१३/६३) महत् कष्टम् श्रितः इति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-१४/६३) प्रत्ययविधौ ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-१५/६३) ऋद्धस्य उपगोः अपत्यम् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-१६/६३) महान्तम् पुत्रम् इच्छति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-१७/६३) इति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-१८/६३) किम् पुनः कारणम् समानाधिकरणानाम् सर्वत्र वृत्तिः न भवति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-१९/६३) अयोगात् एकेन ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-२०/६३) न हि एकेन पदेन योगः भवति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-२१/६३) इह तावत् ऋद्धस्य राज्ञः पुरुषः इति षष्ठ्यन्तेन सुबन्तेन सामर्थ्ये सति समासः विधीयते ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-२२/६३) यत् च अत्र षष्थ्यन्तम् न तस्य सुबन्तेन सामर्थ्यम् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-२३/६३) यस्य च सामर्थ्यम् न तत् षष्ठ्यन्तम् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-२४/६३) वाक्यम् तत् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-२५/६३) ऋद्धस्य उपगोः अपत्यम् इति च ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-२६/६३) षष्ठीसमर्थात् अपत्येन योगे प्रत्ययः विधीयते ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-२७/६३) यत् च अत्र षष्ट्ःीसमर्थम् न तस्य अपतत्येन योगः यस्य च अप्तत्येन योगः न तत् षष्ठ्यन्तम् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-२८/६३) वाक्यम् तत् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-२९/६३) समानाधिकरणानाम् इति उच्यते ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-३०/६३) अथ व्यधिकरणानाम् कथम् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-३१/६३) राज्ञः पुत्रम् इच्छति इति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-३२/६३) एवम् तर्हि इदम् पठितव्यम् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-३३/६३) सविशेषणानाम् सर्वत्र अवृत्तिः अयोगात् एकेन ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-३४/६३) द्वितीयानुपपत्तिः तु ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-३५/६३) द्वितीया तु न उपपद्यते ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-३६/६३) महान्तम् पुत्रम् इच्छति इति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-३७/६३) किम् कारणम् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-३८/६३) न पुत्रः इषिकर्म ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-३९/६३) यदि पुत्रः न इषिकर्म न च अवश्यम् द्वितीया एव ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-४०/६३) किम् तर्हि ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-४१/६३) सर्वाः द्वितीयादयः विभक्तयः ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-४२/६३) महता पुत्रेण कृतम् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-४३/६३) महते पुत्राय देहि ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-४४/६३) महः पुत्रात् आनय ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-४५/६३) महतः पुत्रस्य स्वम् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-४६/६३) महति पुत्रे निधेहि ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-४७/६३) तस्मात् न एवम् शक्यम् वक्तुम् न पुत्रः इषिकर्म इति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-४८/६३) पुत्र एव इषिकर्म ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-४९/६३) तत्सामानाधिकरण्यात् द्वितीयादयः भविष्यन्ति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-५०/६३) वृत्तिः तर्हि कस्मात् न भवति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-५१/६३) सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति वक्तव्यम् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-५२/६३) यदि सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति उच्यते मुण्डयति माणवकम् इति अत्र वृत्तिः न प्राप्नोति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-५३/६३) अमुण्डादीनाम् इति वक्तव्यम् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-५४/६३) तत् तर्हि वक्तव्यम् सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते अमुण्डादीनाम् इति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-५५/६३) न वक्तव्यम् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-५६/६३) वृत्तिः कस्मात् न भवति महान्तम् पुत्रम् इच्छति इति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-५७/६३) अगमकत्वात् ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-५८/६३) इह समानार्थेन वाक्येन भवितव्यम् प्रत्ययान्तेन च ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-५९/६३) यः च इह अर्थः वाक्येन गम्यते महान्तम् पुत्रम् इच्छति इति न असौ जातु चित् प्रत्ययान्तेन गम्यते महान्तम् पुत्रीयति इति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-६०/६३) एतस्मात् हेतोः ब्रूमः अगमकत्वात् इति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-६१/६३) न ब्रूमः अपशब्दः स्यात् इति ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-६२/६३) यत्र च गमकत्वम् भवति तत्र वृत्तिः ।

(पा-३,१.८.२; अकि-२,१७.१२-१८.१५; रो-३,४८-५०; भा-६३/६३) तत् यथा मुण्डयति माणवकम् इति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-१/७२) अथ अस्य क्यजन्तस्य कानि साधनानि भवन्ति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-२/७२) भावः कर्ता च ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-३/७२) अथ कर्म ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-४/७२) न अस्ति कर्म ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-५/७२) ननु च अयम् इषिः सकर्मकः यस्य अयम् अर्थे क्यच् विधीयते ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-६/७२) अभिहितम् तत् कर्म अन्तर्भूतम् धात्वर्थः सम्पन्नः ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-७/७२) न च इदानीम् अन्यत् कर्म अस्ति येन सकर्मकः स्यात् ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-८/७२) कथम् तर्हि अयम् सकर्मकः भवति अपुत्रम् पुत्रम् इव आचरति पुत्रीयति माणवकम् इति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-९/७२) अस्ति अत्र विशेषः ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-१०/७२) द्वे हि अत्र कर्मणी उपमानकर्म उपमेयकर्म च ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-११/७२) उपमानकर्म अन्तर्भूतम् ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-१२/७२) उपमेयेन कर्मणा सकर्मकः भवति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-१३/७२) तत् यथा ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-१४/७२) अपि काकः श्येनायते इति अत्र द्वौ कर्तारौ उपमानकर्ता च उपमेयकर्ता च. उपमानकर्ता अन्तर्भूतः ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-१५/७२) उपेमेयकर्त्रा सक्र्तृकः भवति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-१६/७२) अयम् तर्हि कथम् सकर्मकः भवति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-१७/७२) मुण्डयति माणवकम् इति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-१८/७२) अत्र अपि द्वे कर्मणी सामान्यकर्म विशेषकर्म च ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-१९/७२) सामान्यकर्म अन्तर्भूतम् ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-२०/७२) विशेषकर्मणा सकर्मकः भवति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-२१/७२) ननु च वृत्त्या एव अत्र न भवितव्यम् ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-२२/७२) किम् कारणम् ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-२३/७२) असामर्थ्यात् ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-२४/७२) कथम् असामर्थ्यम् ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-२५/७२) सापेक्षम् असमर्थम् भवति इति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-२६/७२) न एषः दोषः ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-२७/७२) न अत्र उभौ करोतियुक्तौ मुण्डः माणवकः च ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-२८/७२) न हि माणवकः क्रियते ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-२९/७२) यदा च उभौ करोतियुक्तौ भवतः न भवति तदा वृत्तिः ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-३०/७२) तत् यथा बलीवर्दम् करोति मुण्डम् च एनम् करोति इति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-३१/७२) कामम् तर्हि अनेन एव हेतुना क्यच् अपि कर्तव्यः माणवकम् मुण्डम् इच्छति इति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-३२/७२) न उभौ इषियुक्तौ इति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-३३/७२) न कर्तव्यः ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-३४/७२) उभौ अत्र इषियुक्तौ मुण्डः माणवकः च ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-३५/७२) कथम् ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-३६/७२) न हि असौ मौण्ड्यमात्रेण सन्तोषम् करोति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-३७/७२) माणवकस्थम् असौ मौण्ड्यम् इच्छति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-३८/७२) इह अपि तर्हि न प्राप्नोति मुण्डयति माणवकम् इति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-३९/७२) अत्र अपि हि उभौ करोतियुक्त मुण्डः माणवकः च ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-४०/७२) न हि असौ मौण्ड्यमात्रेण सन्तोषम् करोति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-४१/७२) माणवकस्थम् असु मौण्ड्यम् निर्वर्तयति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-४२/७२) एवम् तर्हि मुण्डादयः गुअणवचनाः ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-४३/७२) गुणवचनाः च सापेक्षाः ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-४४/७२) वचनात् सापेक्षाणाम् अपि वृत्तिः भविष्यति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-४५/७२) अथ वा धातवः एव मुण्डादयः ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-४६/७२) न न एव हि अर्थाः आदिश्यन्ते क्रियावचनता च गम्यते ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-४७/७२) अथ वा न इदम् उभयम् युगपत् भवति वाक्यम् च प्रत्ययः च ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-४८/७२) यदा वाक्यम् न तदा प्रत्ययः ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-४९/७२) यदा प्रत्ययः सामान्येन तदा वृत्तिः ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-५०/७२) तत्र अव्श्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-५१/७२) मुण्डयति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-५२/७२) कम् ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-५३/७२) माणवकम् इति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-५४/७२) मुण्डविशिष्टेन वा करोतिन तम् आप्तुम् इच्छति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-५५/७२) अथ वा उक्तम् एतत् ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-५६/७२) न अत्र व्यापारः अनुगन्तव्यः इति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-५७/७२) गमक्त्वात् इह वृत्तिः भविष्यति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-५८/७२) मुण्डयति माणवकम् इति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-५९/७२) अथ इह क्यचा भवितव्यम् ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-६०/७२) इष्टः पुत्रः ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-६१/७२) इष्यते पुत्रः इति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-६२/७२) के चित् तावत् आहुः न भवितव्यम् इत् ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-६३/७२) किम् कारणम् ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-६४/७२) स्वशब्देन उक्तत्वात् इति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-६५/७२) अपरे आहुः ॒ भवितव्यम् इति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-६६/७२) किम् कारणम् ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-६७/७२) धात्वर्थे अयम् क्यच् विधीयते ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-६८/७२) सः च धात्वर्थः केन चित् एव शब्देन निर्देष्टव्यः इति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-६९/७२) इहभवन्तः तु आहुः न भवितव्यम् इति ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-७०/७२) किम् कारणम् ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-७१/७२) इह समानार्थेन वाक्येन भवितव्यम् प्रत्ययान्तेन च ।

(पा-३,१.८.३; अकि-२,१८.१६-१९.१७; रो-३,५०-५५; भा-७२/७२) यः च इह अर्थः वाक्येन गम्यते इष्टः पुत्रः इष्यते पुत्रः इति न असौ जातु चित् प्रत्ययान्तेन गम्यते ।

(पा-३,१.८.४; अकि-२,१९.१८-२३; रो-३,५५-५६; भा-१/१३) क्यचि मान्ताव्ययप्रतिषेधः ।

(पा-३,१.८.४; अकि-२,१९.१८-२३; रो-३,५५-५६; भा-२/१३) क्यचि मान्ताव्ययानाम् प्रतिषेधः वक्तव्यः ।

(पा-३,१.८.४; अकि-२,१९.१८-२३; रो-३,५५-५६; भा-३/१३) इह मात् भूत् ।

(पा-३,१.८.४; अकि-२,१९.१८-२३; रो-३,५५-५६; भा-४/१३) इदम् इच्छति ।

(पा-३,१.८.४; अकि-२,१९.१८-२३; रो-३,५५-५६; भा-५/१३) किम् इच्छति ।

(पा-३,१.८.४; अकि-२,१९.१८-२३; रो-३,५५-५६; भा-६/१३) उच्चैः इच्छति ।

(पा-३,१.८.४; अकि-२,१९.१८-२३; रो-३,५५-५६; भा-७/१३) नीचैः इच्छति ।

(पा-३,१.८.४; अकि-२,१९.१८-२३; रो-३,५५-५६; भा-८/१३) गोसमानाक्षरनान्तात् इति एके ।

(पा-३,१.८.४; अकि-२,१९.१८-२३; रो-३,५५-५६; भा-९/१३) गाम् इच्छति गव्यति ।

(पा-३,१.८.४; अकि-२,१९.१८-२३; रो-३,५५-५६; भा-१०/१३) समानाक्षरात् ।

(पा-३,१.८.४; अकि-२,१९.१८-२३; रो-३,५५-५६; भा-११/१३) दधीयति मधति कर्त्रीयति हर्त्रीयति ।

(पा-३,१.८.४; अकि-२,१९.१८-२३; रो-३,५५-५६; भा-१२/१३) नान्तात् ।

(पा-३,१.८.४; अकि-२,१९.१८-२३; रो-३,५५-५६; भा-१३/१३) राजीयति तक्षीयति ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-१/३८) किमर्थः चकारः ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-२/३८) स्वरार्थः ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-३/३८) चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-४/३८) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-५/३८) धातुस्वरेण अपि एतत् सिद्धम् ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-६/३८) ककारस्य तर्हि इत्सञ्ज्ञापरित्राणार्थः आदितः चकारः कर्तव्यः ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-७/३८) अतः उत्तरम् पठति ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-८/३८) काम्यचः चित्करणानर्थक्यम् कस्य इदर्थाभावात् ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-९/३८) काम्यचः चित्करणम् अनर्थकम् ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-१०/३८) ककारस्य तर्हि इत्सञ्ज्ञा कस्मात् न भवति ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-११/३८) इदर्थाभावात् ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-१२/३८) इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-१३/३८) ननु च लोपः एव इत्कार्यम् ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-१४/३८) अकार्यम् लोपः ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-१५/३८) इह हि शब्दस्य कार्यार्थः वा भवति उपदेशः श्रवणार्थः वा ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-१६/३८) कर्यम् च इह न अस्ति ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-१७/३८) कार्ये असति यदि श्रवणम् अपि न स्यात् उपदेशः अनर्थकः स्यात् ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-१८/३८) इदम् तर्हि इत्कार्यम् ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-१९/३८) अग्निचित्कम्यति ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-२०/३८) किति इति गुणप्रतिषेधः यथा स्यात् ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-२१/३८) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-२२/३८) सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-२३/३८) धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-२४/३८) न च अयम् धातोः विधीयते ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-२५/३८) इदम् तर्हि ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-२६/३८) उपयट्काम्यति ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-२७/३८) किति इति सम्प्रसारणम् यथा स्यात् ।. एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-२८/३८) यजादिभिः अत्र कितम् विशेषयिष्यामः ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-२९/३८) यजादीनाम् यः कित् इति ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-३०/३८) कः च यजादीनाम् कित् ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-३१/३८) यजादिभ्यः यः विहितः इति ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-३२/३८) अथ अपि कथम् चित् इत्कार्यम् स्यात् ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-३३/३८) एवम् अपि न दोषः ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-३४/३८) क्रियते न्यासे एव द्विचकारकः निर्देशः ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-३५/३८) सुपः आत्मनः क्यच् च्काम्यत् च इति ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-३६/३८) अथ वा छान्दसम् एतत् ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-३७/३८) दृष्टानुविधिः छन्दसि भवति ।

(पा-३,१.९; अकि-२,१९.२५-२०.१५; रो-३,५६-५७; भा-३८/३८) न च अत्र सम्प्रसारणम् दृश्यते ।

(पा-३,१.१०; अकि-२,२०.१७-१९; रो-३,५७; भा-१/३) अधिकरणात् च ।

(पा-३,१.१०; अकि-२,२०.१७-१९; रो-३,५७; भा-२/३) अधिकरणात् च इति वक्तव्यम् ।

(पा-३,१.१०; अकि-२,२०.१७-१९; रो-३,५७; भा-३/३) प्रासादयति कुट्याम् कुटीयति प्रासादे इति अत्र अपि यथा स्यात् ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-१/२५) सलोपसन्नियोगेन अयम् क्यङ् विधीयते ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-२/२५) तेन यत्र एव सलोपः तत्र एव स्यात् ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-३/२५) पयायते ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-४/२५) इह न स्यात् ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-५/२५) अपि काकः श्येनायते ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-६/२५) न एषः दोषः ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-७/२५) प्रधान्शिष्टः क्यङ् ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-८/२५) अन्वाचयशिष्टः सलोपः ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-९/२५) यत्र च सकारम् पश्यसि इति ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-१०/२५) तत् यथ ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-११/२५) कः चित् उक्तः ग्रामे भिक्षाम् चर देवदत्तम् च आनय इति ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-१२/२५) सः ग्रामे भिक्षाम् चरति ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-१३/२५) यदि देवदत्तम् पश्यति तम् अपि आनयति ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-१४/२५) सलोपः वा ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-१५/२५) सलोपः वा इति वक्तव्यम् ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-१६/२५) पयायते पयस्यते ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-१७/२५) ओजोप्सरसोः नित्यम् ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-१८/२५) ओजोप्सरसोः नित्यम् सलोपः वक्तव्यः ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-१९/२५) ओजायमानम् यः अहिम् जघान ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-२०/२५) अप्सरायते ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-२१/२५) अप्रः आह सलोपः अप्सरसः एव ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-२२/२५) पयस्यते इति एव भवितव्यम् इति ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-२३/२५) कथम् ओजायमानम् यः अहिम् जघन इति ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-२४/२५) छान्दसः प्रयोगः ।

(पा-३,१.११.१; अकि-२,२०.२१-७; रो-३,५८; भा-२५/२५) छन्दसि च दृष्टानुविधिः विधीयते ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-१/२९) आचारे गल्भक्लीबहोडेभ्यः क्विप् वा ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-२/२९) आचारे गल्भक्लीबहोडेभ्यः क्विप् वा वक्तव्यः ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-३/२९) अवगल्भते अवगल्भायते ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-४/२९) क्लीब ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-५/२९) विक्लीबते विक्लीबायते ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-६/२९) क्लीब ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-७/२९) होड ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-८/२९) विहोडते विहोडायते ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-९/२९) किम् प्रयोजनम् ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-१०/२९) क्रियावचनता यथा स्यात् ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-११/२९) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-१२/२९) धातवः एव गल्भादयः ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-१३/२९) न च एव हि अर्थाः आदिश्यन्ते क्रियावचनता च गम्यते ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-१४/२९) इदम् तर्हि प्रयोजनम् ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-१५/२९) अवगल्भा विक्लीबा विहोडा ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-१६/२९) अ प्रत्ययात् इति अकारः यथा स्यात् ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-१७/२९) मा भूत् एवम् ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-१८/२९) गुरोः च हलः इति एवम् भविष्यति ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-१९/२९) इदम् तर्हि ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-२०/२९) अवगल्भाम् चक्रे ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-२१/२९) विक्लीबाम् चक्रे ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-२२/२९) विहोडाम् चक्रे ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-२३/२९) कास्प्रत्ययात् आम् अमन्त्रे इति आम् यथा स्यात् ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-२४/२९) अपरः आह ॒ सर्वप्रातिपदिकेभ्यः आचारे क्विप् वक्तव्यः अश्वति गर्दभति इति एवमर्थम् ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-२५/२९) न तर्हि इदानीम् गल्भाद्यनुक्रमणम् कर्तव्यम् ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-२६/२९) कर्तव्यम् च ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-२७/२९) किम् प्रयोजनम् ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-२८/२९) आत्मनेपदार्थम् अनुबन्धान् आसङ्क्ष्यामि इति ।

(पा-३,१.११.२; अकि-२,२१.८-१८; रो-३,५८-५९; भा-२९/२९) गल्भ क्लीब होड ।

(पा-३,१.१२.१; अकि-२,२१.२०-२२; रो-३,६०; भा-१/६) हलः लोपसन्नियोगेन अयम् क्यङ् विधीयते ।

(पा-३,१.१२.१; अकि-२,२१.२०-२२; रो-३,६०; भा-२/६) तेन यत्र एव हलः लोपः तत्र एव प्रसज्येत ।

(पा-३,१.१२.१; अकि-२,२१.२०-२२; रो-३,६०; भा-३/६) न एषः दोषः ।

(पा-३,१.१२.१; अकि-२,२१.२०-२२; रो-३,६०; भा-४/६) प्रधानशिष्टः क्यङ् ।

(पा-३,१.१२.१; अकि-२,२१.२०-२२; रो-३,६०; भा-५/६) अन्वाचयशिष्टः हलः लोपः ।

(पा-३,१.१२.१; अकि-२,२१.२०-२२; रो-३,६०; भा-६/६) यत्र च हलम् पश्यसि इति ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-१/३०) भृशादिषु अभूततद्भावग्रहणम् ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-२/३०) भृशादिषु अभूततद्भावग्रहणम् कर्तव्यम् ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-३/३०) इह मा भूत् ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-४/३०) क्व दिवा भृशाः भवन्ति इति ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-५/३०) च्विप्रतिषेधानर्थक्यम् च भवत्यर्थे क्यङ्वचनात् । च्विप्रतिषेधः च अनर्थकः ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-६/३०) किम् कारणम् ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-७/३०) भवत्यर्थे क्यङ्वचनात् ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-८/३०) भवत्यर्थे हि क्यङ् विधीयते ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-९/३०) भवतियोगे च्विविधानम् । भवतिना योगे च्विः विधीयते ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-१०/३०) तत्र च्विना उक्तत्वात् तस्य अर्थस्य क्यङ् न भविष्यति ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-११/३०) डाजन्तात् अपि तर्हि न प्राप्नोति ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-१२/३०) पटपटायते ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-१३/३०) डाच् अपि हि भवतिना योगे विधीयते ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-१४/३०) भवत्यर्थे क्यष् ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-१५/३०) डाचि वचनप्रामाण्यात् ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-१६/३०) डाचि वचनप्रामाण्यात् भविष्यति ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-१७/३०) किम् वचनप्रामाण्यम् ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-१८/३०) लोहितादिडाज्भ्यः क्यष् इति ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-१९/३०) इह किम् चित् अक्रियमाणम् चोद्यते किम् चित् क्रियमाणम् प्रत्याख्यायते ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-२०/३०) सः सूत्रभेदः कृतः भवति ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-२१/३०) यथान्यासम् एव अस्तु ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-२२/३०) ननु च उक्तम् इह कस्मात् न भवति क्व दिवा भृशाः भवन्ति इति ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-२३/३०) नञिवयुक्तम् अन्यसदृशाधिकरणे तथा हि अर्थगतिः ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-२४/३०) नञ्युक्तम् इवयुक्तम् व यत् किम् चित् इह दृश्यते तत्र अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-२५/३०) तथा हि अर्थः गम्यते ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-२६/३०) अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशः आनीयते ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-२७/३०) न असौ लोष्टम् आनीय कृती भवति ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-२८/३०) एवम् इह अपि अच्वेः इति च्विप्रतिषेधात् अन्यस्मिन् अच्व्यन्ते च्विसदृशे कार्यम् विज्ञास्यते ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-२९/३०) किम् च अतः अन्यत् अद्व्यन्तम् च्विसदृसम् ।

(पा-३,१.१२.२; अकि-२,२१.२३-२२.१७; रो-३,६०-६१; भा-३०/३०) अभूततद्भावः ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-१/४९) इह काः चित् प्रकृतयः सोपसर्गाः पठ्यन्ते ॒ अभिमनस् , सुमनस् , उन्मनस् , दुर्मनस् ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-२/४९) तत्र विचार्यते ॒ भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् वा स्यात् ॒ अभिभवतौ सुभवतौ उद्भवतौ दुर्भवतौ इति ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-३/४९) प्रकृत्यर्थविशेषणम् वा ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-४/४९) अभिमनस्शब्दात् सुमनस्शब्दात् उन्मनस्शब्दात् दुर्मनस्शब्दात् इति ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-५/४९) युक्तम् पुनः इदम् विचारयतुम् ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-६/४९) ननु तेन असन्दिग्धेन प्रकृत्यर्थविशेषणम् भवितव्यम् यावता प्राक् प्रकृतेः पठ्यन्ते ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-७/४९) यदि हि प्रत्ययार्थविशेषणम् स्यात् प्राक् भवतेः पठ्येरन् ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-८/४९) न इमे शक्याः प्राक् भवतेः पठितुम् ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-९/४९) एवम् विशिष्टे हि प्रत्ययाऋथे भृशादिमात्रात् उत्पत्तिः प्रसज्येत ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-१०/४९) तस्मात् न एवम् शक्यम् कर्तुम् ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-११/४९) न चेत् एवम् जायते विचारणा ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-१२/४९) कः च अत्र विशेषः ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-१३/४९) भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् इति चेत् स्वरे दोषः ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-१४/४९) भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् इति चेत् स्वरे दोषः भवति ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-१५/४९) अभिमनायते ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-१६/४९) तिङ् अतिङः इति निघातः प्रसज्यते ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-१७/४९) अस्तु तर्हि प्रकृत्यर्थविशेषणम् ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-१८/४९) सोपसर्गात् इति चेत् अटि दोषः । सोपसर्गात् इति चेत् अटि दोषः भवति ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-१९/४९) स्वमनयत इति ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-२०/४९) अत्यल्पम् इदम् उच्यते ॒ अटि दोषः भवति इति ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-२१/४९) अड्ल्यव्द्विर्वचनेषु इति वक्तव्यम् ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-२२/४९) अटि ॒ उदाहृतम् ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-२३/४९) ल्यपि ॒ सुमनाय्य ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-२४/४९) द्विर्वचने ॒ अभिमिमनायिषते ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-२५/४९) न एषः दोषः ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-२६/४९) अवश्यम् सङ्ग्रामयतेः सोपसर्गात् उत्पत्तिः वक्तव्या असङ्ग्रामयत शूरः इति एवमर्थम् ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-२७/४९) तत् नियमार्थम् भविष्यति ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-२८/४९) सङ्ग्रामयतेः एव सोपसर्गात् न अन्यस्मात् सोपसर्गात् इति ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-२९/४९) यदि नियमः क्रियते स्वरः न सिध्यति ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-३०/४९) एवम् तर्हि भृशादिषु उपसर्गस्य पराङ्गवद्भावम् वक्ष्यामि ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-३१/४९) यदि पराङ्गवद्भावः उच्यते अड्ल्यव्द्विर्वचनानि न सिध्यन्ति ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-३२/४९) स्वरविधौ इति वक्ष्यामि ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-३३/४९) एवम् च कृत्वा अस्तु प्रत्ययार्थविशेषणम् ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-३४/४९) ननु च उक्तम् भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् इति चेत् स्वरे दोषः इति ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-३५/४९) स्वरे पराङ्गवद्भावेन परिहृतम् ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-३६/४९) अयम् तर्हि प्रत्ययार्थविशेषणे सति दोषः ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-३७/४९) क्यङा उक्तत्वात् तस्य अर्थस्य उपसर्गस्य प्रयोगः न प्राप्नोति ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-३८/४९) किम् कारणम् ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-३९/४९) उक्तार्थानाम् अप्रयोगः इति ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-४०/४९) तत् यथा ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-४१/४९) अपि काकः श्येनायते इति क्यङा उक्तत्वात् आचारार्थस्य आङः प्रयोगः न भवति ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-४२/४९) अस्ति अत्र विशेषः ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-४३/४९) एकेन अत्र विशिष्टे प्रत्ययार्थे प्रत्ययः उत्पद्यते इह पुनः अनेकेन ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-४४/४९) तत्र मनायते इति उक्ते सन्देहः स्यात् अभिभवतौ सुभवतौ दुर्भवतौ इति ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-४५/४९) तत्र असन्देहार्थम् उपसर्गः प्रयुज्यते ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-४६/४९) यत्र तर्हि एकेन ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-४७/४९) उत्पुच्छयते ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-४८/४९) अत्र अपि अनेकेन ।

(पा-३,१.१२.३; अकि-२,२२.१८-२३.२०; रो-३,६१-६४; भा-४९/४९) पुच्छात् उदसने पुच्छात् व्यसने पुच्छात् पर्यसने इति ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-१/५१) किमर्थः ककारः ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-२/५१) क्ङिति इति गुणप्रतिषेधः यथा स्यात् ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-३/५१) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-४/५१) सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-५/५१) धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-६/५१) न च अयम् धातोः विधीयते ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-७/५१) लोहितादीनि प्रातिपदिकानि ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-८/५१) सामान्यग्रहणार्थः तर्हि ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-९/५१) क्व सामान्यग्रहणेन अर्थः ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-१०/५१) नः क्ये इति ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-११/५१) न अयम् नान्तात् विधीयते ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-१२/५१) इह तर्हि ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-१३/५१) यस्य हलः क्यस्य विभाषा इति ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-१४/५१) न अयम् हलन्तात् विधीयते ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-१५/५१) इह तर्हि ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-१६/५१) आपत्ययस्य च तद्धिते अनाति क्यच्व्योः च इति ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-१७/५१) न अयम् आपत्यात् विधीयते ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-१८/५१) इह तर्हि ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-१९/५१) क्यात् छन्दसि इति ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-२०/५१) यात् छन्दसि इति एतावत् वक्तव्यम् चरण्यूः तुरण्युः भुरण्युः इति एवमर्थम् ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-२१/५१) इदम् तर्हि प्रयोजनम् ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-२२/५१) यत् तत् अकृत्यकारे इति दीर्घत्वम् तत्र क्ङिद्ग्रहणम् अनुवर्तते ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-२३/५१) तत् इह अपि यथा स्यात् ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-२४/५१) लोहितायते ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-२५/५१) किम् पुनः कारणम् तत्र क्ङिद्ग्रहणम् अनुवर्तते ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-२६/५१) इह मा भूत् ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-२७/५१) उरुया धृष्णुया इति ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-२८/५१) यदि क्ङिद्ग्रहणम् अनुवर्तते íत्र्यम् इति पितुः रीङ्भावः न प्राप्नोति ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-२९/५१) रीङ्भावे क्ङिद्ग्रहणम् निवर्तिष्यते ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-३०/५१) यदि निवर्तते कथम् असूया वसूया च यमामहे ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-३१/५१) असूयतेः असूया वसूयतेः वसूया ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-३२/५१) अथ वा छान्दसम् एतत् ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-३३/५१) दृष्टानुविधिः च छन्दसि भवति इति ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-३४/५१) यदि छान्दसत्वम् हेतुः न अर्थः क्ङिद्ग्रहणेन अनुवर्तमानेन ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-३५/५१) कस्मात् न भवति उरुया धृष्णुया इति ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-३६/५१) छान्दसत्वात् ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-३७/५१) अथ वा अस्तु अत्र दीर्घत्वम् ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-३८/५१) छान्दसम् ह्रस्वत्वम् भविष्यति ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-३९/५१) तत् यथा उपगायन्तु माम् पत्नयः गर्भिणयः युवतयः इति ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-४०/५१) अथ किमर्थः षकारः ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-४१/५१) विशेषणार्थः ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-४२/५१) क्व विशेषणार्थेन अर्थः ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-४३/५१) वा क्यषः इति ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-४४/५१) वा यात् इति हि उच्यमाने अतः अपि प्रसज्येत ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-४५/५१) न एतत् असि प्रयोजनम् ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-४६/५१) परस्मैपदम् इति उच्यते ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-४७/५१) न च अतः परस्मैपदम् न अपि आत्मनेपदम् पश्यामः ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-४८/५१) सामान्यग्रहणाविघातार्थः तर्हि भविष्यति ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-४९/५१) क्व सामान्यग्रहणाविघातार्थेन अर्थः ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-५०/५१) क्यात् छन्दसि इति ।

(पा-३,१.१३.१; अकि-२,२३.२२-२४.१९; रो-३,६४-६६; भा-५१/५१) यात् छन्दसि इति एवम् वक्तव्यम् चरण्यूः तुरण्युः भुरण्युः इति एवमर्थम् ।

(पा-३,१.१३.२; अकि-२,२४.२०-२५; रो-३,६६; भा-१/८) लोहितडाज्भ्यः क्यष्वचनम् ।

(पा-३,१.१३.२; अकि-२,२४.२०-२५; रो-३,६६; भा-२/८) लोहितडाज्भ्यः क्यष् वक्तव्यः ।

(पा-३,१.१३.२; अकि-२,२४.२०-२५; रो-३,६६; भा-३/८) लोहितायति लोहितायते पटपटायति पटपटायते ।

(पा-३,१.१३.२; अकि-२,२४.२०-२५; रो-३,६६; भा-४/८) अथ अन्यानि लोहितादीनि ।

(पा-३,१.१३.२; अकि-२,२४.२०-२५; रो-३,६६; भा-५/८) भृशादिषु इतराणि ।

(पा-३,१.१३.२; अकि-२,२४.२०-२५; रो-३,६६; भा-६/८) भृशादिषु इतराणि पठितव्यानि ।

(पा-३,१.१३.२; अकि-२,२४.२०-२५; रो-३,६६; भा-७/८) किम् प्रयोजनम् ।

(पा-३,१.१३.२; अकि-२,२४.२०-२५; रो-३,६६; भा-८/८) ङितः इति आत्मनेपदम् यथा स्यात् इति ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-१/२६) कष्टाय इति किम् निपात्यते ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-२/२६) कष्टशब्दात् चतुर्थीसमर्थात् क्रमणे अनार्जवे क्य्ङ् निपात्यते ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-३/२६) कष्टाय कर्मणे क्रामति कष्टायते ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-४/२६) अत्यल्पम् इदम् उच्यते ॒ कष्टाय इति ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-५/२६) सत्त्रकक्षकष्टगहनेभ्यः कण्वचिकीर्षायाम् ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-६/२६) सत्त्रकक्षकष्टगहनेभ्यः कण्वचिकीर्षायाम् इति वक्तव्यम् ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-७/२६) सत्त्रायते ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-८/२६) सत्त्र. ककष. कक्षायते ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-९/२६) कष्ट ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-१०/२६) कष्टायते ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-११/२६) कष्ट ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-१२/२६) गहन ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-१३/२६) गहनायते ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-१४/२६) अपरः आह॒. सत्त्रादिभ्यः चतुर्थ्यन्तेभ्यः क्रमणे अनार्जवे क्यङ् वक्तव्यः ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-१५/२६) एतानि एव उदाहरणानि ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-१६/२६) सत्त्रादिभ्यः इति किमर्थम् ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-१७/२६) कुटिलाय क्रामति अनुवाकाय ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-१८/२६) चतुर्थ्यन्तेभ्यः इति किमर्थम् ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-१९/२६) अजः कष्टम् क्रामति ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-२०/२६) तत् तर्हि वक्तव्यम् ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-२१/२६) न वक्तव्यम् ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-२२/२६) न एतत् प्रत्ययान्तनिपातनम् ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-२३/२६) किम् तर्हि ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-२४/२६) तादर्थ्ये एषा चतुर्थी ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-२५/२६) कष्टाय यत् प्रातिपदिकम् ।

(पा-३,१.१४; अकि-२,२१५.२-११; रो-३,६७-६८; भा-२६/२६) कष्टार्थे यत् प्रातिपदिकम् इति ।

(पा-३,१.१५; अकि-२,२५.१३-२०; रो-३,६८; भा-१/१६) रोमन्थे इति उच्यते ।

(पा-३,१.१५; अकि-२,२५.१३-२०; रो-३,६८; भा-२/१६) कः रोमन्थः नाम ।

(पा-३,१.१५; अकि-२,२५.१३-२०; रो-३,६८; भा-३/१६) उद्गीर्णस्य वा अवगीर्णस्य वा मन्थः रोमन्थः इति ।

(पा-३,१.१५; अकि-२,२५.१३-२०; रो-३,६८; भा-४/१६) यदि एवम् हनुचलने इति वक्तव्यम् ।

(पा-३,१.१५; अकि-२,२५.१३-२०; रो-३,६८; भा-५/१६) इह मा भूत् ।

(पा-३,१.१५; अकि-२,२५.१३-२०; रो-३,६८; भा-६/१६) कीटः रोमथम् वर्तयति ।

(पा-३,१.१५; अकि-२,२५.१३-२०; रो-३,६८; भा-७/१६) तत् तर्हि वक्तव्यम् ।

(पा-३,१.१५; अकि-२,२५.१३-२०; रो-३,६८; भा-८/१६) न वक्तव्यम् ।

(पा-३,१.१५; अकि-२,२५.१३-२०; रो-३,६८; भा-९/१६) कस्मात् न भवति ।

(पा-३,१.१५; अकि-२,२५.१३-२०; रो-३,६८; भा-१०/१६) कीटः रोमथम् वर्तयति इति ।

(पा-३,१.१५; अकि-२,२५.१३-२०; रो-३,६८; भा-११/१६) अनभिधानात् ।

(पा-३,१.१५; अकि-२,२५.१३-२०; रो-३,६८; भा-१२/१६) तपसः परस्मैपदम् च ।

(पा-३,१.१५; अकि-२,२५.१३-२०; रो-३,६८; भा-१३/१६) तपसः परस्मैपदम् च इति वक्तव्यम् ।

(पा-३,१.१५; अकि-२,२५.१३-२०; रो-३,६८; भा-१४/१६) तपः चरति तपस्यति ।

(पा-३,१.१५; अकि-२,२५.१३-२०; रो-३,६८; भा-१५/१६) कथम् तपस्यते लोकजिगीषुः अग्नेः ।

(पा-३,१.१५; अकि-२,२५.१३-२०; रो-३,६८; भा-१६/१६) छान्दसत्वात् भविष्यति ।

(पा-३,१.१६; अकि-२,२५.२२; रो-३,६९; भा-१/२) फेनात् च इति वक्तव्यम् ।

(पा-३,१.१६; अकि-२,२५.२२; रो-३,६९; भा-२/२) फेनायते ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-१/२४) अटाट्ताशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणम् कर्तव्यम् ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-२/२४) अटा ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-३/२४) अटायते ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-४/२४) अट्टा ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-५/२४) अट्टायते ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-६/२४) शीका ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-७/२४) शीकायते ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-८/२४) कोटा ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-९/२४) कोटायते ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-१०/२४) पोटा ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-११/२४) पोटायते ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-१२/२४) सोटा ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-१३/२४) सोटायते ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-१४/२४) प्रुष्टा ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-१५/२४) प्रुष्टयते ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-१६/२४) प्लुष्टा ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-१७/२४) प्लुष्टायते ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-१८/२४) सुदिनदुर्दिनाभ्याम् च ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-१९/२४) सुदिनदुर्दिनाभ्याम् च इति वक्तव्यम् ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-२०/२४) सुदिनायते ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-२१/२४) दुर्दिनायते ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-२२/२४) नीहारात् च ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-२३/२४) नीहारात् च इति वक्तव्यम् ।

(पा-३,१.१७; अकि-२,२६.२-८; रो-३,६९; भा-२४/२४) नीहारायते ।

(पा-३,१.१८; अकि-२,२६.१०-१४; रो-३,६९; भा-१/१२) कर्तृवेदनायाम् इति किमर्थम् ।

(पा-३,१.१८; अकि-२,२६.१०-१४; रो-३,६९; भा-२/१२) इह मा भूत् ।

(पा-३,१.१८; अकि-२,२६.१०-१४; रो-३,६९; भा-३/१२) सुखम् वेदयते प्रसाधकः देवदत्तस्य ।

(पा-३,१.१८; अकि-२,२६.१०-१४; रो-३,६९; भा-४/१२) कर्तृवेदनायाम् इति उच्यमाने अपि अत्र प्राप्नोति ।

(पा-३,१.१८; अकि-२,२६.१०-१४; रो-३,६९; भा-५/१२) किम् कारणम् ।

(पा-३,१.१८; अकि-२,२६.१०-१४; रो-३,६९; भा-६/१२) कर्तुः इति इयम् कर्तरि षष्ठी ।

(पा-३,१.१८; अकि-२,२६.१०-१४; रो-३,६९; भा-७/१२) वेदनायाम् इति च अनः भावे ।

(पा-३,१.१८; अकि-२,२६.१०-१४; रो-३,६९; भा-८/१२) सः यदि एव आत्मनः वेदयते अथ अपि परस्य कर्तृवेदना एव असौ भवति ।

(पा-३,१.१८; अकि-२,२६.१०-१४; रो-३,६९; भा-९/१२) न कर्तृग्रहणेन वेदना अभिसम्बध्यते ।

(पा-३,१.१८; अकि-२,२६.१०-१४; रो-३,६९; भा-१०/१२) किम् तर्हि ।

(पा-३,१.१८; अकि-२,२६.१०-१४; रो-३,६९; भा-११/१२) सुखादीनि अभिसम्बध्यन्ते ।

(पा-३,१.१८; अकि-२,२६.१०-१४; रो-३,६९; भा-१२/१२) कर्तुः यानि सुखादीनि ।

(पा-३,१.१९.१; अकि-२,१६-२३; रो-३,७०; भा-१/१४) नमसः क्यचि द्वितीयानुपपत्तिः ।

(पा-३,१.१९.१; अकि-२,१६-२३; रो-३,७०; भा-२/१४) नमसः क्यचि द्वितीया न उपपद्यते ।

(पा-३,१.१९.१; अकि-२,१६-२३; रो-३,७०; भा-३/१४) नमस्यति देवान् ।

(पा-३,१.१९.१; अकि-२,१६-२३; रो-३,७०; भा-४/१४) किम् कारणम् ।

(पा-३,१.१९.१; अकि-२,१६-२३; रो-३,७०; भा-५/१४) नमःशब्देन योगे चतुर्थी विधीयते ।

(पा-३,१.१९.१; अकि-२,१६-२३; रो-३,७०; भा-६/१४) सा प्राप्नोति ।

(पा-३,१.१९.१; अकि-२,१६-२३; रो-३,७०; भा-७/१४) प्रकृत्यन्तरत्वात् सिद्धम् ।

(पा-३,१.१९.१; अकि-२,१६-२३; रो-३,७०; भा-८/१४) नमःशब्देन योगे चतुर्थी विधीयते नमस्यतिशब्दः च अयम् ।

(पा-३,१.१९.१; अकि-२,१६-२३; रो-३,७०; भा-९/१४) ननु च नमस्यतिशब्दे नमःशब्दः अस्ति ।

(पा-३,१.१९.१; अकि-२,१६-२३; रो-३,७०; भा-१०/१४) तेन योगे प्राप्नोति ।

(पा-३,१.१९.१; अकि-२,१६-२३; रो-३,७०; भा-११/१४) न एषः दोषः ।

(पा-३,१.१९.१; अकि-२,१६-२३; रो-३,७०; भा-१२/१४) अर्थवतः नमःसाब्दस्य ग्रहणम् ।

(पा-३,१.१९.१; अकि-२,१६-२३; रो-३,७०; भा-१३/१४) न च नमस्यतिशब्दे नमःशब्दः अर्थवान् ।

(पा-३,१.१९.१; अकि-२,१६-२३; रो-३,७०; भा-१४/१४) अथ वा उपपदविभक्तेः कारकविभक्तिः बलीयसी इति द्वितीया भविष्यति ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-१/४३) क्यजादिषु प्रत्ययार्थनिर्देशः ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-२/४३) क्यजादिषु प्रत्ययार्थनिर्देशः कर्तव्यः ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-३/४३) नमसः पूजायाम् ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-४/४३) वरिवसः परिचर्यायाम् ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-५/४३) चित्रङः आश्चर्ये ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-६/४३) भाण्डात् समाचयने ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-७/४३) चीवरात् अर्जने परिधाने वा ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-८/४३) पुच्छात् उदसने व्य्ससने च इति ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-९/४३) किम् प्रयोजनम् ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-१०/४३) क्रियावचनता यथा स्यात् ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-११/४३) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-१२/४३) आचार्यप्रवृत्तिः ज्ञापयति क्रियावचनाः क्यजादयः इति यत् अयम् सनाद्यन्ताः धातवः इति धातुसञ्ज्ञाम् शास्ति ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-१३/४३) धातुसञ्ज्ञावचने एतत् प्रयोजनम् ॒ धातोः इति तव्यदादीनाम् उत्पत्तिः यथा स्यात् ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-१४/४३) यदि च अत्र क्रियावचनता न स्यात् धातुसञ्ज्ञावचनम् अनर्थकम् स्यात् ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-१५/४३) सत्याम् अपि धातुसञ्ज्ञायाम् तव्यदादयः न स्युः ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-१६/४३) किम् कारणम् ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-१७/४३) साधने ताव्यादयः विधीयन्ते साधनम् च क्रियायाः ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-१८/४३) क्रियाभावात् साधनाभावः ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-१९/४३) साधनाभावात् सत्याम् अपि धातुसञ्ज्ञायाम् तव्यदादयः न स्युः ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-२०/४३) पश्यति तु आचार्यः क्रियावचनाः क्यजादयः इति ततः सनाद्यन्ताः धातवः इति धातुसञ्ज्ञाम् शास्ति ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-२१/४३) ननु च इदम् प्रयोजनम् स्यात् ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-२२/४३) परसाधने उत्पत्तिम् वक्ष्यामि इति ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-२३/४३) न परसाधने उत्पत्त्या भवितव्यम् ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-२४/४३) किम् कारणम् ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-२५/४३) साधनम् इति सम्बन्धिशब्दः अयम् ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-२६/४३) सम्बन्धिशब्दाः च पुनः एवमात्मकाः यत् उत सम्बन्धिनम् आक्षिपन्ति ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-२७/४३) तत् यथा ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-२८/४३) मातरि वर्तितत्व्यम् , पितरि शुश्रूषितव्यम् इति ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-२९/४३) न च उच्यते स्वस्याम् मातरि स्वस्मिन् वा पितरि इति , सम्बन्धात् च एतत् गम्यते या यस्य माता यः च यस्य पिता इति ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-३०/४३) एवम् इह अपि सम्बन्धात् एतत् गन्तव्यम् यस्य धातोः यत् साधनम् इति ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-३१/४३) अथ वा धातवः एव क्यजादयः ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-३२/४३) न च एव हि अर्थाः आदिश्यन्ते ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-३३/४३) क्रियावचनता च गम्यते ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-३४/४३) कः खलु अपि पचादीनाम् क्रियावचनत्वे यत्नम् करोति ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-३५/४३) येन एव खलु अपि हेतुना पचादयः क्रियावचनाः तेन एव क्यजादयः अपि ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-३६/४३) एवमर्थम् आचार्यः चित्रयति ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-३७/४३) क्व चित् अर्थान् आदिशति क्व चित् न ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-३८/४३) एवम् अपि अर्थादेशनम् कर्तव्यम् ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-३९/४३) कथम् इमे अबुधाः बुध्येरन् इति ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-४०/४३) अथ वा शक्यम् आदेशनम् अकर्तुम् ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-४१/४३) कथम् ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-४२/४३) करणे इति वर्तते ।

(पा-३,१.१९.२; अकि-२,२७.१-२२; रो-३,७०-७२; भा-४३/४३) करणम् च करोतेः करोतिः च क्रियासामान्ये वर्तते ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-१/२९) इमौ हलिकली स्तः इकारान्तौ ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-२/२९) अस्ति हलशब्दः कलशब्दः च अकारान्तः ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-३/२९) कयोः इदम् ग्रहणम् ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-४/२९) यौ इकारान्तौ तयोः अत्वम् निपात्यते ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-५/२९) किम् प्रयोजनम् ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-६/२९) हलिकल्योः अत्वनिपातनम् सन्वद्भावप्रतिषेधार्थम् ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-७/२९) हलिकल्योः अत्वनिपातनम् क्रियते सन्वद्भावः मा भूत् इति ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-८/२९) अजहलत् अचकलत् ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-९/२९) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-१०/२९) इकारलोपे कृते अग्लोपिनाम् न इति प्रतिषेधः भविष्यति ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-११/२९) वृद्धौ कृतायाम् लोपः ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-१२/२९) तत् न अग्लोपि अङ्गम् भवति ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-१३/२९) इदम् इह सम्प्रधार्यम् ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-१४/२९) वृद्धिः क्रियताम् अग्लोपः इति ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-१५/२९) किम् अत्र कर्तव्यम् ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-१६/२९) परत्वात् वृद्धिः ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-१७/२९) नित्यः लोपः ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-१८/२९) कृतायाम् अपि वृद्धौ प्राप्नोति अकृतायाम् अपि प्राप्नोति ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-१९/२९) अनित्यः लोपः ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-२०/२९) अन्यस्य कृतायाम् वृद्धौ प्राप्नोति अन्यस्य अकृतायाम् ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-२१/२९) शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-२२/२९) वृद्धिः अपि अनित्या ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-२३/२९) अन्यस्य कृते लोपे प्राप्नोति अन्यस्य अकृते ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-२४/२९) शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-२५/२९) उभयोः अनित्ययोः परत्वात् वृद्धिः ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-२६/२९) वृद्धौ कृतायाम् लोपः ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-२७/२९) तत् न अग्लोपि अङ्गम् भवति ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-२८/२९) अत्वे पुनः सति वृद्धिः क्रियताम् लोपः इति यदि अपि परत्वात् वृद्धिः वृद्धौ कृतायाम् अपि अक् एव लुप्यते ।

(पा-३,१.२१; अकि-२,२७.२५-२८.११; रो-३,७२-७४; भा-२९/२९) तस्मात् सुष्ठु उच्यते हलिकल्योः अत्वनिपातनम् सन्वद्भावप्रतिषेधार्थम् ।

(पा-३,१.२२.१; अकि-२,२८.१३-१८; रो-३,७४-७५; भा-१/१२) समभिहारः इति कः अयम् शब्दः ।

(पा-३,१.२२.१; अकि-२,२८.१३-१८; रो-३,७४-७५; भा-२/१२) समभिपूर्वात् हरतेः भावसाधनः घञ् ।

(पा-३,१.२२.१; अकि-२,२८.१३-१८; रो-३,७४-७५; भा-३/१२) समभिहरणम् समभिहारः ।

(पा-३,१.२२.१; अकि-२,२८.१३-१८; रो-३,७४-७५; भा-४/१२) तत् यथ पुष्पाभिहारः फलाभिहारः इति ।

(पा-३,१.२२.१; अकि-२,२८.१३-१८; रो-३,७४-७५; भा-५/१२) विषमः उपन्यासः ।

(पा-३,१.२२.१; अकि-२,२८.१३-१८; रो-३,७४-७५; भा-६/१२) बह्व्यः हि ताः सुमनसः ।

(पा-३,१.२२.१; अकि-२,२८.१३-१८; रो-३,७४-७५; भा-७/१२) तत्र युक्तः समभिहारः ।

(पा-३,१.२२.१; अकि-२,२८.१३-१८; रो-३,७४-७५; भा-८/१२) इह पुनः एका क्रिया ।

(पा-३,१.२२.१; अकि-२,२८.१३-१८; रो-३,७४-७५; भा-९/१२) यदि अपि एका सामान्यक्रिया अवयवक्रियाः तु बह्व्यः अधिश्रयणोदकासेचनतण्डुलावपनैध्कोपकर्षण्क्रियाः ।

(पा-३,१.२२.१; अकि-२,२८.१३-१८; रो-३,७४-७५; भा-१०/१२) ताः कः चित् कार्त्स्न्येन करोति कः चित् अकार्त्स्न्येन ।

(पा-३,१.२२.१; अकि-२,२८.१३-१८; रो-३,७४-७५; भा-११/१२) यः कार्त्स्न्येन करोति सः उच्यते पापच्यते इति ।

(पा-३,१.२२.१; अकि-२,२८.१३-१८; रो-३,७४-७५; भा-१२/१२) पुनः पुनः वा पचति पापच्यते इति ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-१/२८) अथ धातुग्रहणम् किमर्थम् ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-२/२८) इह मा भूत् प्राटति भृशम् इति ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-३/२८) अतः उत्तरम् पठति ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-४/२८) यङ्विधौ धातुग्रहणे उक्तम् ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-५/२८) किम् उक्तम् ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-६/२८) तत्र तावत् उक्तम् कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-७/२८) सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-८/२८) सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-९/२८) एवम् इह अपि क्रियासमभिहारग्रहणात् यङ्विधौ धातुग्रहणानर्थक्यम् ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-१०/२८) सोपसर्गः क्रियासमभिहारः इति चेत् क्रियासमभिहारविशेषकत्वात् उपसर्गस्य अनुपसर्गः क्रियासमभिहारः ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-११/२८) सोपसर्गस्य हि क्रियासमहिभारत्वे धात्वधिकारे अपि यङः अविधानम् अक्रियासमभिहारत्वात् इति ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-१२/२८) अथ एकाज्झलादिग्रहणम् किमर्थम् ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-१३/२८) इह मा भूत् ॒ जागर्ति भृशम् ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-१४/२८) ईक्षते भृशम् ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-१५/२८) एकाज्झलादिग्रहणे च ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-१६/२८) एकाज्झलादिग्रहणे च उक्तम् ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-१७/२८) किम् उक्तम् ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-१८/२८) तत्र तावत् उक्तम् कर्मसमानकर्तृकग्रहणानर्थक्यम् च इच्छाभिधाने प्रत्ययविधानात् ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-१९/२८) अकर्मणः हि असमानकर्तृकात् वा अनभिधानम् इति ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-२०/२८) इह अपि एकाज्झलादिग्रहणानर्थक्यम् क्रियासमभिहारे यङ्वचनात् अनेकाचः अहलादेः हि अनभिधानम् इति ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-२१/२८) तत् च अवश्यम् अनभिदानम् आश्रयितव्यम् ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-२२/२८) क्रियमाणे अपि हि एकाज्झलादिग्रहणे यत्र एकाचः हलादेः च उत्पद्यमानेन यङा अर्थस्य अभिधानम् न भवति न भवति तत्र उत्पत्तिः ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-२३/२८) तत् यथा ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-२४/२८) भृशम् शोभते ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-२५/२८) भृशम् रोचते ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-२६/२८) यत्र च अनेकाचः अहलादेः वो उत्पद्यमानेन यङा अर्थस्य अभिधानम् भवति भवति तत्र उत्पत्तिः ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-२७/२८) तत् यथा ।

(पा-३,१.२२.२; अकि-२,२८.१९-२९.१२; रो-३,७५-७६; भा-२८/२८) अटाट्यते अरार्यते अशाश्यते सोसूच्यते सोसूत्र्यते मोमूत्र्यते ।

(पा-३,१.२२.३; अकि-२,२९.१३-२१; रो-३,७६-७७; भा-१/११) ऊर्णोतेः च उपसङ्ख्यानम् ।

(पा-३,१.२२.३; अकि-२,२९.१३-२१; रो-३,७६-७७; भा-२/११) ऊर्णोतेः च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.२२.३; अकि-२,२९.१३-२१; रो-३,७६-७७; भा-३/११) प्रोर्णोनूयते ।

(पा-३,१.२२.३; अकि-२,२९.१३-२१; रो-३,७६-७७; भा-४/११) अत्यल्पम् इदम् उच्यते ॒ ऊर्णोतेः इति ।

(पा-३,१.२२.३; अकि-२,२९.१३-२१; रो-३,७६-७७; भा-५/११) सूचिसूत्रिमूत्र्यट्यर्त्यश्यूर्णुग्रहणम् यङ्विधौ अनेकाजहलाद्यर्थम् ।

(पा-३,१.२२.३; अकि-२,२९.१३-२१; रो-३,७६-७७; भा-६/११) सूचिसूत्रिमूत्र्यट्यर्त्यश्यूर्णोतीनाम् ग्रहणम् कर्तव्यम् ।

(पा-३,१.२२.३; अकि-२,२९.१३-२१; रो-३,७६-७७; भा-७/११) किम् प्रयोजनम् ।

(पा-३,१.२२.३; अकि-२,२९.१३-२१; रो-३,७६-७७; भा-८/११) यङ्विधौ अनेकाजहलाद्यर्थम् ।

(पा-३,१.२२.३; अकि-२,२९.१३-२१; रो-३,७६-७७; भा-९/११) सोसूच्यते सोसूत्र्यते मोमूत्र्यते अटाट्यते अरार्यते अशाश्यते प्रोर्णोनूयते ।

(पा-३,१.२२.३; अकि-२,२९.१३-२१; रो-३,७६-७७; भा-१०/११) वाच्यः ऊर्णोर्णुवद्भावः यङ्प्रसिद्धिः प्रयोजनम् ।

(पा-३,१.२२.३; अकि-२,२९.१३-२१; रो-३,७६-७७; भा-११/११) आमः च प्रतिषेधार्थम् एकाचः च इडुपग्रहात् ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-१/२४) क्रियासमभिहारे यङः विप्रतिषेधेन लोड्विधानम् ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-२/२४) क्रियासमभिहारे लोट् भवति यङः विप्रतिषेधेन ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-३/२४) क्रियासमभिहारे यङ् भवति इति अस्य अवकाशः धातुः यः एकाच् हलादिः क्रियासमभिहारे वर्तते अधातुसम्बन्धः ॒ लोलूयते ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-४/२४) लोटः अवकाशः धातुः यः अनेकाच् अहलादिः क्रियासमभिहारे वर्तते धातुसम्बन्धः ॒ सः भवान् जागृहि जागृहि इति एव अयम् जागर्ति ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-५/२४) सः भवान् ईहस्व ईहस्व इति एव अयम् ईहते ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-६/२४) धातुः यः एकाच् हलादिः क्रियासमभिहारे वर्तते धातुसम्बन्धः च तस्मात् उभयम् प्राप्नोति ॒ सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-७/२४) लोट् भवति विप्रतिषेधेन ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-८/२४) न तर्हि इदानीम् इदम् भवति ॒ सः भवान् लोलूयस्व लोलूयस्व इति एव अयम् लोलूयते ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-९/२४) भवति च ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-१०/२४) न वा नानार्थत्वात् ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-११/२४) कर्तृकर्मणोः हि लविधानम् क्रियाविशेषे स्वार्थे यङ् ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-१२/२४) न वा अर्थः विप्रतिषेधेन ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-१३/२४) किम् कारणम् ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-१४/२४) नानार्थत्वात् ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-१५/२४) का नानार्थता ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-१६/२४) कर्तृकर्मणोः हि लविधानम् ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-१७/२४) कर्तृकर्मणोः हि लोट् विधीयते ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-१८/२४) क्रियाविशेषे स्वार्थे यङ् ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-१९/२४) तत्र अन्तरङ्गत्वात् यङा भवितव्यम् ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-२०/२४) न तर्हि इदम् इदानीम् भवति ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-२१/२४) सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-२२/२४) भवति च ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-२३/२४) विभाषा यङ् ।

(पा-३,१.२२.४; अकि-२,२९.२२-३०.८; रो-३,७७-७८; भा-२४/२४) यदा न यङ् तदा लोट् ।