व्याकरणमहाभाष्य खण्ड 33

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-३,१.२४; अकि-२,३०.९-१४; रो-३,७८-७९; भा-१/८) उत्तरयोः विग्रहेण विशेषासम्प्रत्ययात् नित्यग्रहणानर्थक्यम् ।

(पा-३,१.२४; अकि-२,३०.९-१४; रो-३,७८-७९; भा-२/८) उत्तरयोः योगयोः विग्रहेण विशेषासम्प्रत्ययात् नित्यग्रहणानर्थक्यम् ।

(पा-३,१.२४; अकि-२,३०.९-१४; रो-३,७८-७९; भा-३/८) न हि कुटिलम् क्रामति इति चङ्क्रम्यते इति गम्यते ।

(पा-३,१.२४; अकि-२,३०.९-१४; रो-३,७८-७९; भा-४/८) अथे एतेभ्यः क्रियासमभिहारे यङा भवितव्यम् ।

(पा-३,१.२४; अकि-२,३०.९-१४; रो-३,७८-७९; भा-५/८) क्रियासमभिहारे च न एतेभ्यः ।

(पा-३,१.२४; अकि-२,३०.९-१४; रो-३,७८-७९; भा-६/८) क्रियासमभिहारे च न एतेभ्यः यङा भवितव्यम् ।

(पा-३,१.२४; अकि-२,३०.९-१४; रो-३,७८-७९; भा-७/८) भृशम् जपति ब्राह्मणः ।

(पा-३,१.२४; अकि-२,३०.९-१४; रो-३,७८-७९; भा-८/८) भृशम् समिदः दहति इति एव.

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-१/२५) सत्याप इति किम् निपात्यते ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-२/२५) सत्यस्य कृञि आपुक् च । सत्यस्य कृञि आपुक् च निपात्यते णिच् च ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-३/२५) सत्यम् करोति सत्यापयति ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-४/२५) अत्यल्पम् इदम् उच्यते ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-५/२५) णिविदौ अर्थवेदसत्यानाम् अपुक् च ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-६/२५) णिविदौ अर्थवेदसत्यानाम् अपुक् च इति वक्तव्यम् ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-७/२५) अर्थापयति वेदापयति सत्यापयति ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-८/२५) यदि आपुक् क्रियते टिलोपः प्राप्नोति ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-९/२५) एवम् तर्हि पुक् करिष्यते ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-१०/२५) एवम् अपि टिलोपः प्राप्नोति ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-११/२५) एवम् तर्हि आक् करिष्यते ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-१२/२५) एवम् अपि टिलोपः प्राप्नोति ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-१३/२५) एवम् तर्हि अक् करिष्यते ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-१४/२५) एवम् अपि अनाकारान्तत्वात् पुक् न प्राप्नोति ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-१५/२५) एवम् तर्हि अपुट् करिष्यते ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-१६/२५) अथ वा पुनः अस्तु आपुक् एव ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-१७/२५) ननु च उक्तम् ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-१८/२५) टिलोपः प्राप्नोति इति ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-१९/२५) आपुग्वचनसामर्थ्यात् न भविष्यति ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-२०/२५) अथ वा पुनः अस्तु पुक् एव ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-२१/२५) ननु च उक्तम् एवम् अपि टिलोपः प्राप्नोति इति ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-२२/२५) पुग्वचनसामर्थ्यात् न भविष्यति ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-२३/२५) अथ वा पुनः अस्तु आक् एव ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-२४/२५) ननु च उक्तम् एवम् अपि टिलोपः प्राप्नोति इति ।

(पा-३,१.२५; अकि-२,३०.१७-३१.५; रो-३,७९-८०; भा-२५/२५) आग्वचनसामर्थ्यात् न भविष्यति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-१/७०) कथम् इदम् विज्ञायते ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-२/७०) हेतुमति अभिधेये णिच् भवति इति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-३/७०) आहोस्वित् हेतुमति यः धातुः वर्तते इति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-४/७०) युक्तम् पुनः इदम् विचारयितुम् ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-५/७०) ननु अनेन असन्दिग्धेन प्रत्ययार्थविशेषणेन भवितव्यम् यावता हेतुमति इति उच्यते ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-६/७०) यदि हि प्रकृतर्थविशेषणम् स्यात् हेतुमतः इति एवम् ब्रूयात् ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-७/७०) न एतत् अस्ति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-८/७०) भवन्ति इह हि विषयसप्तम्यः अपि ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-९/७०) तत् यथा ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-१०/७०) प्रमाणे यत् प्रातिपदिकम् वर्तते स्त्रियाम् यत् प्रातिपदिकम् वर्तते इति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-११/७०) एवम् इह अपि हेतुमति अभिधेये णिच् भवति हेतुमति यः धातुः वर्तते इति जायते विचारणा ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-१२/७०) अत उत्तरम् पठति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-१३/७०) हेतुमति इति कारकोपादानम् प्रत्ययार्थपरिग्रहार्थम् यथा तनूकरणे तक्षः ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-१४/७०) हेतुमति इति कारकम् उपादीयते ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-१५/७०) किम् प्रयोजनम् ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-१६/७०) प्रत्ययार्थपरिग्रहार्थम् ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-१७/७०) एवम् सति प्रत्ययार्थः सुपरिगृहीतः भवति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-१८/७०) यथा तनूकरणे तक्षः इति तनूकरणम् उपादीयते ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-१९/७०) यदि तर्हि तद्वत् प्रकृत्यर्थविशेषणम् भवति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-२०/७०) प्रकृत्यर्थविशेषणम् हि तत् तत्र विज्ञायते ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-२१/७०) तनूकरणक्रियायाम् तक्षः इति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-२२/७०) अस्तु प्रकृत्यर्थविशेषणम् ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-२३/७०) कः दोषः ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-२४/७०) इह हि उक्तः करोति प्रेषितः करोति इति णिच् प्राप्नोति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-२५/७०) प्रत्ययार्थविशेषणे पुनः सति न एषः दोषः ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-२६/७०) स्वशब्देन उक्तत्वात् न भविष्यति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-२७/७०) प्रकृत्यर्थविशेषणे अपि सति न एषः दोषः ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-२८/७०) यत्र न अन्तरेण शब्दम् अर्थस्य गतिः भवति तत्र शब्दः प्रयुज्यते ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-२९/७०) यत्र हि अन्तरेण अपि शब्दम् अर्थस्य गतिः भवति न तत्र शब्दः प्रयुज्यते ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-३०/७०) इह तर्हि पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति उभयोः कर्त्रोः लेन अभिधानम् प्राप्नोति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-३१/७०) प्रत्ययार्थविशेषणे पुनः सति न दोषः ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-३२/७०) प्रधानकर्तरि लादयः भवन्ति इति प्रधानकर्ता लेन अभिधीयते ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-३३/७०) यः च अप्रधानम् सिद्ध तत्र कर्तरि इति एव तृतीया ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-३४/७०) इह च गमितः ग्रामम् देवदत्तः यज्ञदत्तनेअ इति अव्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थानाम् कर्तरि इति कर्तरि क्तः प्राप्नोति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-३५/७०) इह च व्यतिभेदयन्ते व्यतिच्छेदयन्ते इति अव्यतिरिक्तः हिंसार्थः इति कृत्वा न गतिहिंसार्थेभ्यः इति प्रतिषेधः प्राप्नोति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-३६/७०) अस्तु तर्हि प्रत्ययार्थविशेषणम् ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-३७/७०) यदि प्रत्ययार्थविशेषणम् पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति प्रयोज्ये कर्तरि कर्मसञ्ज्ञा प्राप्नोति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-३८/७०) भवति हि तस्य तस्मिन् ईप्सा ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-३९/७०) इह च ग्रामम् गमयति ग्रामाय गमयति इति व्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-४०/७०) इह च एधोदकस्य उपस्कारयति इति व्यतिरिक्तः करोत्यर्थः इति कृत्वा कृञः प्रतियत्ने इति षष्ठी न प्राप्नोति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-४१/७०) इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-४२/७०) इह च अभिषावयति परिषावयति इति व्यतिरिक्तः सुनोत्यर्थः इति कृत्वा उपसर्गात् सुनोत्यादीनाम् इति षत्वम् न प्राप्नोति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-४३/७०) न एषः दोषः ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-४४/७०) यत् तावत् उच्यते पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति प्रयोज्ये कर्तरि कर्मसञ्ज्ञा प्राप्नोति इति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-४५/७०) गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणि इति एतत् नियमार्थम् भविष्यति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-४६/७०) एतेषाम् एव अण्यन्तानाम् यः कर्ता सः णौ कर्मसञ्ज्ञः भवति न अन्येषाम् इति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-४७/७०) यत् अपि उच्यते इह च ग्रामम् गमयति ग्रामाय गमयति इति व्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः इति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-४८/७०) न असौ एवम् प्रेष्यते गच्छ ग्रामम् इति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-४९/७०) कथम् तर्हि ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-५०/७०) साधनविशिष्टाम् असौ क्रियाम् प्रेष्यते ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-५१/७०) ग्रामम् गच्छ ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-५२/७०) ग्रामाय गच्छ इति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-५३/७०) यत् अपि उच्यते इह च एधोदकस्य उपस्कारयति इति व्यतिरिक्तः करोत्यर्थः इति कृत्वा कृञः प्रतियत्ने इति षष्ठी न प्राप्नोति इति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-५४/७०) न असौ एवम् प्रेष्यते उपस्कुरुष्व एधोदकस्य इति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-५५/७०) कथम् तर्हि ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-५६/७०) साधनविशिष्टाम् असौ क्रियाम् प्रेष्यते ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-५७/७०) एधोदकस्य उपस्कुरुष्व इति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-५८/७०) यत् अपि उच्यते इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोति इति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-५९/७०) उक्तम् तत्र कृद्ग्रहणस्य प्रयोजनम् कर्तृभूतपूर्वमात्रे अपि षष्ठी यथा स्यात् इति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-६०/७०) यत् अपि उच्यते इह च अभिषावयति परिषावयति इति व्यतिरिक्तः सुनोत्यर्थः इति कृत्वा उपसर्गात् सुनोत्यादीनाम् इति षत्वम् न प्राप्नोति इति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-६१/७०) न असौ एवम् प्रेष्यते सुनु अभि इति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-६२/७०) कथम् तर्हि उपसर्गविशिष्टाम् असौ क्रियाम् प्रेष्यते ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-६३/७०) अभिषुनु इति ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-६४/७०) युक्तम् पुनः इदम् विचारयितुम् ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-६५/७०) ननु अनेन असन्दिग्धेन प्रत्ययार्थविशेषणेन भवितव्यम् यावता व्यक्तम् अर्थान्तरम् गम्यते पचति पाचयति इति च ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-६६/७०) बाढम् युक्तम् ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-६७/७०) इह पचेः कः प्रधानार्थः ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-६८/७०) या असौ तण्डुलानाम् विक्लित्तिः ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-६९/७०) अथ इदानीम् तदभिसन्धिपूर्वकम् प्रेषणम् अध्येषणम् वा ।

(पा-३,१.२६.१; अकि-२,३१.७-३२.२६; रो-३,८०-८६; भा-७०/७०) युक्तम् यत् सर्वम् पच्यर्थः स्यात् ।

(पा-३,१.२६.२; अकि-२,३३.१-८; रो-३,८७-८८; भा-१/१६) हेतुनिर्देशः च निमित्तमात्रम् बिक्षादिषु दर्शनात् ।

(पा-३,१.२६.२; अकि-२,३३.१-८; रो-३,८७-८८; भा-२/१६) हेतुनिर्देशः च निमित्तमात्रम् द्रष्टव्यम् ।

(पा-३,१.२६.२; अकि-२,३३.१-८; रो-३,८७-८८; भा-३/१६) यावत् ब्रूयात् निमित्तम् कारणम् इति ताव्त् हेतुः इति ।

(पा-३,१.२६.२; अकि-२,३३.१-८; रो-३,८७-८८; भा-४/१६) किम् प्रयोजनम् ।

(पा-३,१.२६.२; अकि-२,३३.१-८; रो-३,८७-८८; भा-५/१६) बिक्षादिषु दर्शनात् ।

(पा-३,१.२६.२; अकि-२,३३.१-८; रो-३,८७-८८; भा-६/१६) भिक्षादिषु हि णिच् दृश्यते ।

(पा-३,१.२६.२; अकि-२,३३.१-८; रो-३,८७-८८; भा-७/१६) भिक्षाः वासयन्ति ।कारिषः अग्निः अध्यापयति इति ।

(पा-३,१.२६.२; अकि-२,३३.१-८; रो-३,८७-८८; भा-८/१६) किम् पुनः कारणम् पारिभाषिके हेतौ न सिध्यति ।

(पा-३,१.२६.२; अकि-२,३३.१-८; रो-३,८७-८८; भा-९/१६) एवम् मन्यते ।

(पा-३,१.२६.२; अकि-२,३३.१-८; रो-३,८७-८८; भा-१०/१६) चेतनावतः एतत् भवति प्रेषणम् अध्येषणम् च इति ।

(पा-३,१.२६.२; अकि-२,३३.१-८; रो-३,८७-८८; भा-११/१६) भिक्षाः च अचेतनाः ।

(पा-३,१.२६.२; अकि-२,३३.१-८; रो-३,८७-८८; भा-१२/१६) न एषः दोषः ।

(पा-३,१.२६.२; अकि-२,३३.१-८; रो-३,८७-८८; भा-१३/१६) न अवश्यम् सः एव वासम् प्रयोजयति यः आह उष्यताम् इति ।

(पा-३,१.२६.२; अकि-२,३३.१-८; रो-३,८७-८८; भा-१४/१६) तूष्णीम् आसीनः यः तत्समर्थानि आचरति सः अपि वासम् प्रयोजयति ।

(पा-३,१.२६.२; अकि-२,३३.१-८; रो-३,८७-८८; भा-१५/१६) भिक्षाः च अपि प्रचुराः व्यञ्जनवत्यः लभ्यमानाः वासम् प्रयोजयन्ति ।

(पा-३,१.२६.२; अकि-२,३३.१-८; रो-३,८७-८८; भा-१६/१६) तथा कारीषः अग्निः निर्वाते एकान्ते सुप्रज्वलितः अध्ययनम् प्रयोजयति ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-१/२८) इह कः चित् कम् चित् आह ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-२/२८) पृच्छतु मा भवान् ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-३/२८) अनुयुङ्क्ताम् मा भवान् इति ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-४/२८) अत्र णिच् कस्मात् न भवति ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-५/२८) अकर्तृत्वात् ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-६/२८) न हि असौ सम्प्रति पृच्छति ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-७/२८) तूष्णीम् आस्ते ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-८/२८) किम् च भोः वर्तमानकालायाः एव क्रियायाः कर्त्रा भवितव्यम् न भूतभविष्यत्कालायाः ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-९/२८) भूतभविष्यत्कालायाः अपि भवितव्यम् ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-१०/२८) अभिसम्बन्धः तत्र क्रियते ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-११/२८) इमाम् क्रियाम् अकार्षीत् ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-१२/२८) इमाम् क्रियाम् करिष्यति इति ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-१३/२८) इह पुनः न कः चित् अभिसम्बन्धः क्रियते न च असौ सम्प्रति पृच्छति ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-१४/२८) तूष्णीम् आस्ते ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-१५/२८) यदि तर्हि कर्ता न अस्ति कथम् तर्हि कर्तृप्रत्ययेन लोटा अभिधीयते ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-१६/२८) अथम् कथम् अस्मिन् अपृच्छति अयम् प्रच्छिः वर्तते ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-१७/२८) अभिसम्बन्धः तत्र क्रियते ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-१८/२८) इमाम् क्रियाम् कुरु इति ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-१९/२८) कर्त्रा अपि तर्हि अभिसम्बन्धः क्रियते ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-२०/२८) कथम् ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-२१/२८) कर्ता च अस्याः क्रियायाः भव इति ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-२२/२८) एवम् न च कर्ता कर्तृप्रत्ययेन च लोटा अभिधीयते ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-२३/२८) अथ अपि कथम् चित् कर्ता स्यात् ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-२४/२८) एवम् अपि न दोषः ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-२५/२८) लोटा उक्तत्वात् प्रेषणस्य णिच् न भविष्यति ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-२६/२८) विधीयन्ते हि एतेषु अर्थेषु प्रैषादिषु लोडादयः ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-२७/२८) यत्र च द्वितीयः प्रयोज्यः अर्थः भवति भवति तत्र णिच् ।

(पा-३,१.२६.३; अकि-२,३३.९-२०; रो-३,८८-८९; भा-२८/२८) तत् यथा आसय शायय इति ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-१/३३) कृष्यादिषु च अनुत्पत्तिः ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-२/३३) कृष्यादिषु च अनुत्पत्तिः वक्तव्या ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-३/३३) एकान्ते तूष्णीम् आसीनः उच्यते पञ्चभिः हलैः कृषति इति ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-४/३३) तत्र भवितव्यम् ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-५/३३) पञ्चभिः हलैः कर्षयति इति ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-६/३३) कृष्यादिषु च अनुत्पत्तिः नानाक्रियाणाम् कृष्यर्थत्वात् ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-७/३३) कृष्यादिषु च अनुत्पत्तिः सिद्धा ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-८/३३) कुतः ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-९/३३) नानाक्रियाणाम् कृष्यर्थत्वात् ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-१०/३३) नानाक्रियाः कृषेः अर्थाः ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-११/३३) न अवश्यम् कृषिः विलेखने एव वर्तते ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-१२/३३) किम् तर्हि. प्रतिविधाने अपि वर्तते ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-१३/३३) यत् असौ भक्तबीजबलीवर्दैः प्रतिविधानम् करोति सः कृष्यर्थः ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-१४/३३) आतः च प्रतिविधाने वर्तते ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-१५/३३) यदहः एव असौ न प्रतिविधत्ते तदहः तत् कर्म न प्रवर्तते ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-१६/३३) यज्यादिषु च अविपर्यासः ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-१७/३३) यज्यादिषु च अविपर्यासः वक्तव्यः ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-१८/३३) पुष्यमित्रः यजते ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-१९/३३) याजकाः याजयन्ति इति ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-२०/३३) तत्र भवितव्यम् ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-२१/३३) पुष्यमित्रः याजयते ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-२२/३३) याजकाः यजन्ति इति ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-२३/३३) यज्यादिषु च अविपर्यासः नानाक्रियाणाम् यज्यर्थत्वात् ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-२४/३३) यज्यादिषु च अविपर्यासः सिद्धः ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-२५/३३) कुतः ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-२६/३३) नानाक्रियाणाम् यज्यर्थत्वात् ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-२७/३३) नानाक्रियाः यजेः अर्थाः ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-२८/३३) न अवश्यम् यजिः हविष्प्रक्षेपणे एव वर्तते ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-२९/३३) किम् तर्हि ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-३०/३३) त्यागे अपि वर्तते ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-३१/३३) अहो यजते इति उच्यते यः सुष्ठु त्यागम् करोति ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-३२/३३) तम् च पुष्यमित्रः करोति ।

(पा-३,१.२६.४; अकि-२,३३.२१-३४.७; रो-३,८९-९०; भा-३३/३३) याजकाः प्रयोजयन्ति ।

(पा-३,१.२६.५; अकि-२,३४.८-१३; रो-३,९१-९२; भा-१/१२) तत् करोति इति उपसङ्ख्यानम् सूत्रयत्याद्यर्थम् ।

(पा-३,१.२६.५; अकि-२,३४.८-१३; रो-३,९१-९२; भा-२/१२) तत् करोति इति उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.२६.५; अकि-२,३४.८-१३; रो-३,९१-९२; भा-३/१२) किम् प्रयोजनम् ।

(पा-३,१.२६.५; अकि-२,३४.८-१३; रो-३,९१-९२; भा-४/१२) सूत्रयत्याद्यर्थम् ।

(पा-३,१.२६.५; अकि-२,३४.८-१३; रो-३,९१-९२; भा-५/१२) सूत्रम् करोति ।

(पा-३,१.२६.५; अकि-२,३४.८-१३; रो-३,९१-९२; भा-६/१२) सूत्रयति ।

(पा-३,१.२६.५; अकि-२,३४.८-१३; रो-३,९१-९२; भा-७/१२) इह व्याकरणस्य सूत्रम् करोति ।

(पा-३,१.२६.५; अकि-२,३४.८-१३; रो-३,९१-९२; भा-८/१२) व्याकरणम् सूत्रयति इति ।

(पा-३,१.२६.५; अकि-२,३४.८-१३; रो-३,९१-९२; भा-९/१२) वाक्ये षष्ठी उत्पन्ने च प्रत्यये द्वितीया ।

(पा-३,१.२६.५; अकि-२,३४.८-१३; रो-३,९१-९२; भा-१०/१२) केन एतत् एवम् भवति ।

(पा-३,१.२६.५; अकि-२,३४.८-१३; रो-३,९१-९२; भा-११/१२) यः असौ सूत्रव्याकरणयोः अभिसम्बन्धः सः उत्पन्ने प्रत्यये निवर्तते ।

(पा-३,१.२६.५; अकि-२,३४.८-१३; रो-३,९१-९२; भा-१२/१२) अस्ति च करोतेः व्याकरणेन सामर्थ्यम् इति कृत्वा द्वितीया भविष्यति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-१/८०) आख्यानात् कृतः तत् आचष्टे इति कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् । आख्यानात् कृदन्तात् तत् आचष्टे इति एतस्मिन् अर्थे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति वक्तव्यम् ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-२/८०) कंसवधम् आचष्टे कंसम् घातयति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-३/८०) बलिबन्धम् आचष्टे बलिम् बन्धयति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-४/८०) आख्यानात् च प्रतिषेधः ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-५/८०) आख्यानशब्दात् च प्रतिषेधः वक्तव्यः ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-६/८०) आख्यानम् आचष्टे ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-७/८०) किम् पुनः यानि एतानि सञ्ज्ञाभूतानि आख्यानानि ततः उत्पत्त्या भवितव्यम् आहोस्वित् क्रियान्वाख्यानमात्रात् ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-८/८०) किम् च अतः ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-९/८०) यदि सञ्ज्ञाभूतेभ्यः इह न प्राप्नोति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-१०/८०) राजागमनम् आचष्टे ऋअजानम् आगमयति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-११/८०) अथ क्रियान्वाख्यानमात्रात् न दोषः भवति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-१२/८०) यथा न दोषः तथा अस्तु ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-१३/८०) दृश्यर्थानाम् च प्रवृत्तौ ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-१४/८०) दृश्यर्थानाम् च प्रवृत्तौ कृदन्तात् णिच् वक्तयः तत् आचष्टे इति एतस्मिन् अर्थे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-१५/८०) मृगरमणम् आचष्टे मृगान् रमयति इति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-१६/८०) दृश्यर्थानाम् इति किमर्थम् ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-१७/८०) यदा हि ग्रामे मृगरमणम् आचष्टे मृगरमणम् आचष्टे इति एव तदा भवति इति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-१८/८०) आङ्लोपः च कालात्यन्तसंयोगे मर्यादायाम् ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-१९/८०) कालात्यन्तसंयोगे मर्यादयाम् कृदन्तात् णिच् वक्तयः तत् आचष्टे इति एतस्मिन् अर्थे आङ्लोपः च कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-२०/८०) आरात्रिम्विवासम् आचष्टे रात्रिम् विवासयति इति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-२१/८०) चित्रीकरणे प्रापि ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-२२/८०) चित्रीकरणे प्राप्यर्थे कृदन्तात् णिच् वक्तयः कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-२३/८०) उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयते सूर्यम् उद्गमयति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-२४/८०) नक्षत्रयोगे ज्ञि ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-२५/८०) नक्षत्रयोगे जानात्यर्थे कृदन्तात् णिच् वक्तयः कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-२६/८०) पुष्ययोगम् जानाति पुष्येण योजयति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-२७/८०) मघाभिः योजयति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-२८/८०) तत् तर्हि बहु वक्तव्यम् ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-२९/८०) न वा सामान्यकृतत्वात् हेतुतः हि अविशिष्टम् ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-३०/८०) न वा वक्तव्यम् ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-३१/८०) किम् कारणम् ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-३२/८०) सामान्यकृतत्वात् ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-३३/८०) सामान्येन एव अत्र णिच् भविष्यति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-३४/८०) हेतुमति इति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-३५/८०) किम् कारणम् ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-३६/८०) हेतुतः हि अविशिष्टम् ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-३७/८०) हेतुतः हि अविशिष्टम् भवति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-३८/८०) तुल्या हि हेतुता देवदत्ते च आदित्ये च ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-३९/८०) न सिध्यति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-४०/८०) स्वतन्त्रप्रयोजकः हेतुसञ्ज्ञः भवति इति उच्यते ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-४१/८०) न च असौ आदित्यम् प्रयोजयति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-४२/८०) स्वतन्त्रप्रयोजकत्वात् अप्रयोजकः इति चेत् मुक्तसंशयेन तुल्यम् ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-४३/८०) यम् भवान् स्वत्रन्त्रप्रयोजकम् मुक्तसंशयम् न्याय्यम् मन्यते पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति तेन एतत् तुल्यम् ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-४४/८०) कथम् ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-४५/८०) प्रवृत्तिः हि उभयत्र अनपेक्ष्य ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-४६/८०) प्रवृत्तिः हि उभयत्र अनपेक्ष्य एव किम् चित् भवति देवदत्ते च आदित्ये च ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-४७/८०) न इह कः चित् परः अनुग्रहीतव्यः इति प्रवर्तते ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-४८/८०) सर्वे इमे स्वभूत्यर्थम् प्रवर्तन्ते ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-४९/८०) ये तावत् एते गुरुशुश्रूषवः ते अपि स्वभूत्यर्थम् एव प्रवर्तन्ते पारलौकिकम् च नः भविष्यति इह च नः प्रीतः गुरुः अध्यापयिष्यति इति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-५०/८०) तथा यत् एतत् दासकर्मकरम् नाम एते अपि स्वभूत्यर्थम् एव प्रवर्तन्तेभक्तम् चेलम् च लप्स्यामहे परिभाषाः च न नः भविष्यन्ति इति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-५१/८०) तथा ये एते शिल्पिनः नामे ते अपि स्वभूत्यर्थम् एव प्रवर्तन्ते वेतनम् च लप्स्यामहे मित्राणि च नः भविष्यन्ति इति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-५२/८०) एवम् एतेषु सर्वेषु स्वभूत्यर्थम् प्रवर्तमानेषु कुर्वतः प्रयोजकः इति चेत् तुल्यम् ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-५३/८०) यदि कः चित् कुर्वतः प्रयोजकः नाम भवति तेन एतत् तुल्यम् ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-५४/८०) यदि तर्हि सर्वे इमे स्वभूत्यर्थम् प्रवर्तन्तेकः प्रयोज्यार्थः ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-५५/८०) यत् अभिप्रायेषु सज्जन्ते ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-५६/८०) ईदृशौ वध्रौ कुरु ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-५७/८०) ईदृशौ पटुकौ कुरु ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-५८/८०) आदित्यः च अस्य अभिप्राये सज्जते ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-५९/८०) एषः तस्य अभिप्रायः ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-६०/८०) उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयेय इति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-६१/८०) तम् च अस्य अभिप्रायम् आदित्यः निर्वर्तयति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-६२/८०) भवेत् इह वर्तमानकालता युक्ता ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-६३/८०) उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयते सूर्यम् उद्गमयति इति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-६४/८०) तत्रस्थस्य हि तस्य आदित्यः उदेति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-६५/८०) इह तु कथम् वर्तमानकालताम् कंसम् घातयति बलिम् बन्धयति इति चिरहते कंसे चिरबद्धे च बलौ ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-६६/८०) अत्र अपि युक्ता ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-६७/८०) कथम् ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-६८/८०) ये तावत् एते शोभिकाः नाम एते प्रत्यक्षम् कंसम् घातयन्ति प्रत्यक्षम् च बलिम् बन्धयन्ति इति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-६९/८०) चित्रेषु कथम् ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-७०/८०) चित्रेषु अपि उद्गूर्णाः निपतिताः च प्रहाराः दृश्यन्ते कंसकर्षण्यः च ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-७१/८०) ग्रन्थिकेषु कथम् यत्र शब्दगडुमात्रम् लक्ष्यते ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-७२/८०) ते अपि हि तेषाम् उत्पत्तिप्रभृति आ विनाशात् ऋद्धीः व्याचक्षाणाः सतः बुद्धिविषयान् प्रकाशयन्ति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-७३/८०) आतः च सतः व्यामिश्राः हि दृश्यन्ते ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-७४/८०) के चित् कंसभक्ताः भवन्ति के चित् वासुदेवभक्ताः ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-७५/८०) वर्णान्यत्वम् खलु अपि पुष्यन्ति ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-७६/८०) के चित् रक्तमुखाः भवन्ति के चित् कालमुखाः ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-७७/८०) त्रैकाल्यम् खलु अपि लोके लक्ष्यते ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-७८/८०) गच्छ हन्यते कंसः ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-७९/८०) गच्छ घानिष्यते कंसः ।

(पा-३,१.२६.६; अकि-२,३४.१४-३६.२१; रो-३,९२-९७; भा-८०/८०) किम् गतेन हतः कंसः इति ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-१/५९) किमर्थः ककारः ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-२/५९) क्ङिति इति गुणप्रतिषेधः यथा स्यात् ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-३/५९) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-४/५९) सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-५/५९) धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-६/५९) न च अयम् धातोः विधीयते ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-७/५९) कण्ड्वादीनि हि प्रातिपदिकानि ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-८/५९) कण्ड्वादिभ्यः वावचनम् ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-९/५९) कण्ड्वादिभ्यः वा इति वक्तव्यम् ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-१०/५९) अवचने हि नित्यप्रत्ययत्वम् ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-११/५९) अक्रियमाणे हि वावचने नित्यः प्रत्ययविधिः प्रसज्येत ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-१२/५९) तत्र कः दोषः ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-१३/५९) तत्र धातुविधितुक्प्रतिषेधः ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-१४/५९) तत्र धातुविधेः तुकः च प्रतिषेधः वक्तव्यः स्यात् ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-१५/५९) कण्ड्वौ कण्ड्वः ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-१६/५९) अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इति उवङदेशः प्रसज्येत ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-१७/५९) इह च कण्ड्वा कण्ड्वे न ऊङ्धात्वोः इति प्रतिषेधः प्रसज्येत ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-१८/५९) तुक् च प्रतिषेध्यः ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-१९/५९) वल्गुः मन्तुः इति ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-२०/५९) ह्रस्वस्य पिति कृति तुक् प्राप्नोति ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-२१/५९) ह्रस्वयलोपौ च वक्तव्यौ ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-२२/५९) ह्रस्वयलोपौ च वक्तव्यौ स्याताम् ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-२३/५९) वल्गुः मन्तुः इति ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-२४/५९) किमर्थम् इदम् न ह्रस्वः एव अयम् ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-२५/५९) अन्तरङ्गत्वात् अकृद्यकारे इति दीर्घत्वम् प्राप्नोति ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-२६/५९) यलोपः ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-२७/५९) यलोपः च वक्तव्यः ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-२८/५९) कण्डूः वल्गुः मन्तुः इति ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-२९/५९) किमर्थम् इदम् न वलि इति एव सिद्धम् ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-३०/५९) वलि इति उच्यते ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-३१/५९) न च अत्र वलिम् पश्यामः ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-३२/५९) ननु चल् क्विप् वलादिः ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-३३/५९) क्विब्लोपे कृते वलाद्यभावात् न प्राप्नोति ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-३४/५९) इदम् इह सम्प्रधार्यम् ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-३५/५९) क्विब्लोपः क्रियताम् वलि लोपः इति ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-३६/५९) किम् अत्र कर्तव्यम् ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-३७/५९) परत्वात् क्विब्लोपः ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-३८/५९) नित्यः खलु अपि क्विब्लोपः ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-३९/५९) कृते अपि यलोपे प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-४०/५९) नित्यत्वात् परत्वात् च क्विलोपे कृते वलाद्यभावात् न प्राप्नोति ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-४१/५९) एवम् तर्हि प्रत्ययलक्षणेन भविष्यति ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-४२/५९) वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-४३/५९) अथ क्रियमाणे अपि वावचने यदा यगन्तात् क्विप् तदा एते दोषाः कस्मात् न भवन्ति ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-४४/५९) न एतेभ्यः तदा क्विप् द्रक्ष्यते ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-४५/५९) किम् कारणम् ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-४६/५९) अन्येभ्यः अपि दृश्यते इति उच्यते ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-४७/५९) न च एतेभ्यः तदा क्विप् दृश्यते ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-४८/५९) यथा एव तर्हि क्रियमाणे वावचने अन्येभ्यः अपि दृश्यते इति एवम् अत्र क्विप् न भवति एवम् अक्रियमाणे अपि न भविष्यति ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-४९/५९) अवश्यम् एतेभ्यः तदा क्विप् एषितव्यः ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-५०/५९) किम् प्रयोजनम् ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-५१/५९) एतानि रूपाणि यथा स्युः इति ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-५२/५९) तत् तर्हि वावचनम् कर्तव्यम् ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-५३/५९) न कर्तव्यम् ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-५४/५९) उभयम् कण्ड्वादीनि धातवः च प्रातिपदिकानि च ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-५५/५९) आतः च उभयम् ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-५६/५९) कण्डूयति इति क्रियाम् कुर्वाणे प्रयुज्यते अस्ति मे कण्डूः इति वेदनामात्रस्य सान्निध्ये ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-५७/५९) अपरः आह ॒ धातुप्रकरणात् धातुः कस्य आसञ्जनात् अपि ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-५८/५९) आह च अयम् इमम् दीर्घम् ।

(पा-३,१.२७; अकि-२,३७.२-३८.११; रो-३,९७-१०१; भा-५९/५९) मन्ये धातुः विभाषितः ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-१/८४) किमर्थः अयम् णकारः ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-२/८४) वृद्ध्यर्थः ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-३/८४) ञ्णिति इति वृद्धिः यथा स्यात् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-४/८४) क्रियमाणे अपि वै णकारे वृद्धिः न प्राप्नोति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-५/८४) किम् कारणम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-६/८४) क्ङिति च इति प्रतिषेधात् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-७/८४) णित्करणसामर्थ्यात् भविष्यति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-८/८४) अतः उत्तरम् पठति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-९/८४) णिङि णित्करणस्य सावकाशत्वात् वृद्धिप्रतिषेधप्रसङ्गः ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-१०/८४) णिङि णित्करणम् सावकाशम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-११/८४) कः अवकाशः ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-१२/८४) सामान्यग्रहणार्थः णकारः ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-१३/८४) क्व सामान्यग्रहणार्थेन अर्थः ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-१४/८४) णेः अनिटि इति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-१५/८४) णिङि णित्करणस्य सावकाशत्वात् वृद्धिप्रतिषेधः प्राप्नोति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-१६/८४) ङित्करणम् अपि तर्हि सावकाशम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-१७/८४) कः अवकाशः ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-१८/८४) सामान्यग्रहणाविघातार्थः ङकारः ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-१९/८४) क्व सामान्यग्रहणाविघातार्थेन अर्थः ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-२०/८४) अत्र एव ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-२१/८४) शक्यः अत्र सामान्यग्रहणाविघातार्थः अन्यः अनुबन्धः आसङ्क्तुम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-२२/८४) तत्र ङकारानुरोधात् वृद्धिप्रतिषेधः प्राप्नोति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-२३/८४) अवशयम् अत्र आत्मनेपदार्थः ङकारः अनुबन्धः आसङ्क्तव्यः ङितः इति आत्मनेपदम् यथा स्यात् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-२४/८४) एवम् उभयोः सावकशयोः प्रतिषेधबलीयस्त्वात् प्रतिषेधः प्राप्नोति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-२५/८४) एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न कमेः वृद्धिप्रतिषेधः भवति इति यत् अयम् न कम्यमिचमाम् इति मित्सञ्ज्ञाया प्रतिषेधम् शास्ति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-२६/८४) मित्प्रतिषेधस्य च अर्थवत्त्वात् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-२७/८४) मित्प्रतिषेधस्य च अर्थवत्त्वात् प्रतिषेधः प्राप्नोति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-२८/८४) अर्थवान् मित्प्रतिषेधः ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-२९/८४) कः अर्थः ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-३०/८४) णिङन्तस्य णिचि या वृद्धिः तस्याः ह्रस्वत्वम् मा भूत् इति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-३१/८४) ननु एतस्याः अपि क्ङिति च इति प्रतिषेधेन भवितव्यम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-३२/८४) न भवितव्यम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-३३/८४) उक्तम् एतत् क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् इति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-३४/८४) एवम् तर्हि न णिङन्तस्य णिचि या वृद्धिः तस्याः ह्रस्वत्वम् प्राप्नोति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-३५/८४) किम् कारणम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-३६/८४) णिङा व्यवहितत्वात् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-३७/८४) लोपे कृते न अस्ति व्यवधानम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-३८/८४) स्थानिवद्भावात् व्यवधानम् एव ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-३९/८४) णिङि एव तर्हि मा भूत् इति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-४०/८४) णिङि च न प्राप्नोति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-४१/८४) किम् कारणम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-४२/८४) असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-४३/८४) न एव वा पुनः णिङन्तस्य णिचि वृद्धिः प्राप्नोति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-४४/८४) किम् कारणम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-४५/८४) णिङा व्यवहितत्वात् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-४६/८४) लोपे कृते न अस्ति व्यवधानम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-४७/८४) स्थानिवद्भावात् व्यवधानम् एव ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-४८/८४) इदम् तर्हि प्रयोजनम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-४९/८४) यत् तत् चिण्णमुलोः दीर्घः अन्यतरस्याम् इति दीर्घत्वम् तत् कमेः णिङि मा भूत् इति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-५०/८४) किम् पुनः कारणम् तत्र दीर्घः अन्यतरस्याम् इति उच्यते ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-५१/८४) न ह्रस्वः अन्यतरस्याम् इति एव उच्येत ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-५२/८४) यथाप्राप्तम् च अपि कमेः ह्रस्वत्वम् एव ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-५३/८४) तत्र अयम् अपि अर्थः ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-५४/८४) ह्रस्वग्रहणम् न कर्तव्यम् भवति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-५५/८४) प्रकृतम् अनुवर्तते ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-५६/८४) क्व प्रकृतम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-५७/८४) मिताम् ह्रस्वः इति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-५८/८४) का रूपसिद्धिः ॒ अशमि अशामि शमम् शमम् शामम् शामम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-५९/८४) वृद्ध्या सिद्धम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-६०/८४) न सिध्यति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-६१/८४) न सिध्यति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-६२/८४) न उदात्तोपदेशस्य मान्तस्य अनाचमेः इति वृद्धिप्रतिषेधः प्राप्नोति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-६३/८४) चिण्कृतोः सः प्रतिषेधः न णिचि ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-६४/८४) इदम् तर्हि ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-६५/८४) अजनि अजानि जनम् जनम् जानम् जानम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-६६/८४) जनिवध्योः च इति वृद्धिप्रतिषेधः प्राप्नोति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-६७/८४) सः अपि चिण्कृतोः एव ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-६८/८४) णिज्व्यवहितेषु तर्हि यङ्लोपे च उपसङ्ख्यानम् कर्तव्यम् स्यात् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-६९/८४) शमयन्तम् प्रयोजितवान् अशमि अशामि शमम् शमम् शामम् शामम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-७०/८४) शंशमयतेः अशंसमि अशंशामि शंशमम् शंशमम् शंशामम् शंशामम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-७१/८४) किम् पुनः कारणम् न सिध्यति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-७२/८४) चिण्णमुल्परे णौ मिताम् अङ्गानाम् ह्रस्वः भवति इति उच्यते ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-७३/८४) यः च अत्र णिः चिण्णमुल्परः न तस्मिन् मित् अङ्गम् यस्मिन् च मित् अङ्गम् न असौ णिः णमुल्परः ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-७४/८४) णिलोपे कृते चिण्णमुल्परः ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-७५/८४) स्थानिवद्भावात् न चिण्णमुल्परः ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-७६/८४) अथ दीर्घः अन्यतरस्याम् इति उच्यमाने यावता स्थानिवद्भावः कथम् एव एतत् सिध्यति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-७७/८४) एतत् इदानीम् दीर्घग्रहणस्य प्रयोजनम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-७८/८४) दीर्घविधिम् प्रति अजादेशः न स्थानिवत् इति स्थानिवद्भावप्रतिषेधः सिद्धः भवति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-७९/८४) यदा खलु अपि आयादयः आर्धधातुके वा भवन्ति तदा णिचि णिङ् न भवति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-८०/८४) तदर्थम् च मित्प्रतिषेधः स्यात् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-८१/८४) तस्मात् प्रतिषेधः प्राप्नोति ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-८२/८४) उक्तम् वा ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-८३/८४) किम् उक्तम् ।

(पा-३,१.३०; अकि-२,३८.१३-४०.२; रो-३,१०१-१०४; भा-८४/८४) तद्धितकाम्योः इक्प्रकरणात् इति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-१/६८) कथम् इदम् विज्ञायते ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-२/६८) आयादिभ्यः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् निवृत्तिः भवति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-३/६८) आहोस्वित् आयादिप्रकृतेः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् उत्पत्तिः भवति इति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-४/६८) किम् गतम् एतत् इयता सूत्रेणा आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-५/६८) गतम् इति आह ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-६/६८) कथम् ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-७/६८) यदा तावत् आयादिभ्यः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् निवृत्तिः भवति इति तदा अविशेषेण सर्वम् आयादिप्रकरणम् अनुक्रम्य आयादयः आर्धधातुके वा इति उच्यते ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-८/६८) यदा अपि आयादिप्रकृतेः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् उत्पत्तिः भवति इति तदा एकम् वाक्यम् तत् च इदम् च ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-९/६८) गुपूधूपविच्छिपणिपनिभ्यः आयः आर्धधातुके वा ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-१०/६८) ऋतेः ईयङ् आर्धधातुके वा ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-११/६८) कमेः णिङ् आर्धधातुके वा इति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-१२/६८) कः च अत्र विशेषः ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-१३/६८) आयादिभ्यः यत् आर्धधातुकम् आयादिप्रकृतेः यत् आर्धधातुकम् इति च उभयथा अनिष्टप्रसङ्गः । आयादिभ्यः यत् आर्धधातुकम् आयादिप्रकृतेः यत् आर्धधातुकम् इति च उभयथा अनिष्टम् प्राप्नोति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-१४/६८) यदि विज्ञायते आयादिभ्यः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् निवृत्तिः भवति इति गुप्तिः जुगोप इति च इष्टम् न सिध्यति इदम् च अनिष्टम् प्राप्नोति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-१५/६८) गोपाम् चकार गोपा इति च ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-१६/६८) इदम् तावत् इष्टम् सिद्धम् भवति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-१७/६८) गोपायाम् चकार गोपाय इति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-१८/६८) अथ विज्ञायते आयादिप्रकृतेः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् उत्पत्तिः भवति इति गुप्तिः जुगोप इति च इष्टम् सिद्धम् भवति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-१९/६८) इदम् च अनिष्टम् न प्राप्नोति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-२०/६८) गोपायाम् चकार गोपाय इति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-२१/६८) इदम् तु इष्टम् न सिध्यति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-२२/६८) गोपयाम् चकार गोपाय इति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-२३/६८) इदम् तावत् इष्टम् सिध्यति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-२४/६८) गोपयाम् चकार इति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-२५/६८) कथम् ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-२६/६८) अस्तु अत्र आयादिप्रकृतेः यत् आर्धधातुकम् लिट् ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-२७/६८) तस्मिन् अवस्थिते वा आयादयः ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-२८/६८) आम् मध्ये पतिष्यति यथा विकरणाः तद्वत् ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-२९/६८) इदम् तर्हि इष्टम् न सिध्यति गोपाया इति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-३०/६८) सिद्धम् तु सार्वधातुके नित्यवचनात् अनाश्रित्य वाविधानम् ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-३१/६८) सिद्धम् एतत् ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-३२/६८) कथम्. अविशेषेण आयादीनाम् वाविधानम् उक्त्वा सार्वधातुके नित्यम् इति वक्ष्यामि ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-३३/६८) स्यादिबलीयस्त्वम् तु विप्रतिषेधेन तुल्यनिमित्तत्वात् ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-३४/६८) स्यादिभिः तु आयादीनाम् बाधनम् प्राप्नोति विप्रतिषेधेन ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-३५/६८) किम् कारणम् ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-३६/६८) तुल्यनिमित्तत्वात् ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-३७/६८) तुल्यम् निमित्तम् स्यादीनाम् आयादीनाम् च ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-३८/६८) स्यादीनाम् अवकाशः करिष्यति हरिष्यति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-३९/६८) आयादीनाम् अवकाशः गोपायति धूपायति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-४०/६८) इह उभयम् प्राप्नोति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-४१/६८) गोपायिष्यति धूपायिष्यति इति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-४२/६८) परत्वात् स्यादयः प्राप्नुवन्ति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-४३/६८) न वा आयादिविधानस्य अनवकाशत्वात् ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-४४/६८) न वा एषः दोषः ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-४५/६८) किम् कारणम् ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-४६/६८) आयादिविधानस्य अनवकाशत्वात् ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-४७/६८) अनवकाशाः आयादयः उच्यन्ते च ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-४८/६८) ते वचनात् भविष्यन्ति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-४९/६८) ननु च इदानीम् एव अवकाशः प्रक्ल्̥प्तः गोपायति धूपायति इति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-५०/६८) अत्र अपि शप् स्यादिः भवति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-५१/६८) यदि अपि अत्र अपि भवति न तु अत्र अस्ति विशेषः सति वा शपि असति वा ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-५२/६८) अन्यत् इदानीम् एतत् उच्यते न अस्ति विशेषः इति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-५३/६८) यत् तु तत् उक्तम् आयादीनाम् स्यादिभिः अव्याप्तः अवकाशः इत् स न अस्ति अवकाशः ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-५४/६८) अवश्यम् खलु अपि अत्र शप् स्यादिः एषितव्यः ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-५५/६८) किम् कारणम् ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-५६/६८) गोपायन्ती धूपायन्ती इति ॒ शप्श्यनोः नित्यम् इति नुम् यथा स्यात् इति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-५७/६८) यदि तर्हि अनवकाशाः आयादयः आयादिभिः स्यादीनाम् बाधनम् प्राप्नोति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-५८/६८) यथा पुनः अयम् सूत्रेभेदेन परिहारः यदि पुनः शपि नित्यम् इति उच्येत ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-५९/६८) सिध्यति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-६०/६८) सूत्रम् तर्हि भिद्यते ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-६१/६८) यथान्यासम् एव अस्तु ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-६२/६८) ननु च उक्तम् आयादिभ्यः यत् आर्धधातुकम् आयादिप्रकृतेः यत् आर्धधातुकम् इति च उभयथा अनिष्टप्रसङ्गः इति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-६३/६८) न एषः दोषः ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-६४/६८) आर्धधातुके इति न एषा परसप्तमी ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-६५/६८) का तर्हि ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-६६/६८) विषयसप्तमी ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-६७/६८) आर्धधातुकविषये इति ।

(पा-३,१.३१; अकि-२,४०.४-४१.१९; रो-३,१०४-१०७; भा-६८/६८) तत्र आर्धधातुकविषये आयादिप्रकृतेः आयादिषु कृतेषु यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-१/३४) अन्तग्रहणम् किमर्थम् न सनादयः धातवः इति एव उच्येत ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-२/३४) केन इदानीम् तदन्तानाम् भविष्यति ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-३/३४) तदन्तविधिना ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-४/३४) अतः उत्तरम् पठति ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-५/३४) सनादिषु अन्तग्रहणे उक्तम् ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-६/३४) किम् उक्तम् ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-७/३४) पदसञ्ज्ञायाम् अन्तग्रहणम् अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् इति ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-८/३४) इदम् च अपि प्रत्ययग्रहणम् ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-९/३४) अयम् च अपि सञ्ज्ञाविधिः ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-१०/३४) किमर्थम् पुनः इदम् उच्यते न भूवादयः धातवः इति एव सिद्धम् ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-११/३४) न सिध्यति ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-१२/३४) पाठेन धातुसञ्ज्ञा क्रियते न च इमे तत्र पठ्यन्ते ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-१३/३४) कथम् तर्हि अन्येषाम् अपठ्यमानानाम् धातुसञ्ज्ञा भवति ॒ अस्तेः भूः ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-१४/३४) ब्रुवः वचिः ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-१५/३४) चक्षिङः ख्याञ् इति ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-१६/३४) यदि अपि एते तत्र न पठ्यन्ते प्रकृतयः तु एषाम् तत्र पठ्यन्ते ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-१७/३४) तत्र स्थानिवद्भावात् सिद्धम् ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-१८/३४) इमे अपि तर्हि यदि अपि तत्र न पठ्यन्ते येषाम् तु अर्थाः आदिश्यन्ते ते तत्र पठ्यन्ते ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-१९/३४) तत्र स्थानिवद्भावात् सिद्धम् ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-२०/३४) न सिध्यति ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-२१/३४) आदेशः स्थानिवत् भवति इति उच्यते ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-२२/३४) न च इमे आदेशाः ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-२३/३४) इमे अपि आदेशाः ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-२४/३४) कथम् ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-२५/३४) आदिश्यते यः सः आदेशः ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-२६/३४) इमे च अपि आदिश्यन्ते ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-२७/३४) एवम् अपि षष्ठीनिर्दिष्टस्य आदेशाः स्थानिवत् भवन्ति इति उच्यते ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-२८/३४) न चे इमे षष्ठीनिर्दिष्टस्य आदेशाः ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-२९/३४) षष्ठीग्रहणम् निवर्तिष्यते ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-३०/३४) यदि निवर्तते अपवादे उत्सर्गकृतम् प्राप्नोति ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-३१/३४) कर्मणि अण् आतः अनुपसर्गे कः इति के अपि अण्कृतम् प्राप्नोति ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-३२/३४) न एषः दोषः ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-३३/३४) आचार्यप्रवृत्तिः ज्ञापयति न अपवादे उत्सर्गकृतम् भवति इति यत् अयम् श्यनादीन् कान् चित् शितः करोति ।

(पा-३,१.३२; अकि-२,४१.२१-४२.१२; रो-३,१०७-१०९; भा-३४/३४) श्नम् श्ना श्नुः इति.

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-१/५०) इमे विकरणाः पठ्यन्ते ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-२/५०) तत्र न ज्ञायते कः उत्सर्गः कः अपवादः इति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-३/५०) तत्र वक्त्यम् ॒ अयम् उत्सर्गः अयम् अपवादः इति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-४/५०) इमे ब्रूमः ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-५/५०) यक् उत्सर्गः ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-६/५०) अपवादः शब्दादिः स्यादयः च ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-७/५०) यदि एवम् अपवादविप्रतिषेधात् शबादिबाधनम् ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-८/५०) अपवाद्विप्रतिषेधात् शबादिभिः स्यादीनाम् बाधनम् प्राप्नोति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-९/५०) शबादीनाम् अवकाशः पचति यजति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-१०/५०) स्यादीनाम् अवकाशः पक्ष्यते यक्ष्यते ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-११/५०) इह उभयम् प्राप्नोति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-१२/५०) पक्ष्यति यक्ष्यति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-१३/५०) परत्वात् शबादयः प्राप्नुवन्ति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-१४/५०) अपवादः नाम अनेकलक्षणप्रसङ्गः ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-१५/५०) अपवादः नाम भवति यत्र अनेकलक्षणप्रसङ्गः ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-१६/५०) तत्र भावकर्मणोः यक् विधीयते कर्तरि शप् ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-१७/५०) कः प्रसङ्गः यत् भावकर्मणोः यकम् कर्तरि शबादयः बाधेरन् ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-१८/५०) एवम् तर्हि यक्शपौ उत्सर्गौ ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-१९/५०) अपवादाः श्यनादय स्यादयः च ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-२०/५०) अपवादविप्रतिषेधात् श्यनादिबाधनम् ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-२१/५०) अपवाद्विप्रतिषेधात् श्यनादिभिः स्यादीनाम् बाधनम् प्राप्नोति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-२२/५०) श्यनादीनाम् अवकाशः दीव्यति सीव्यति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-२३/५०) स्यादीनाम् अवकाशः पक्ष्यति यक्ष्यति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-२४/५०) इह उभयम् प्राप्नोति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-२५/५०) देविष्यति सेविष्यति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-२६/५०) परत्वात् श्यनादयः प्राप्नुवन्ति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-२७/५०) न एषः दोषः ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-२८/५०) शबादेशाः श्यनादयः करिष्यन्ते ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-२९/५०) शप् च स्यादिभिः बाध्यते ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-३०/५०) तत्र दिवादिभ्यः स्यादिविषये शप् एव न अस्ति कुतः श्यनादयः ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-३१/५०) तत् तर्हि शपः ग्रहणम् कर्तव्यम् ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-३२/५०) न कर्तव्यम् ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-३३/५०) प्रकृतम् अनुवर्तते ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-३४/५०) क्व प्रकृतम् ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-३५/५०) कर्तरि शप् इति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-३६/५०) तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-३७/५०) दिवादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-३८/५०) प्रत्ययविधिः अयम् ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-३९/५०) न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-४०/५०) न अयम् प्रत्ययविधिः ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-४१/५०) विहितः प्रत्ययः ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-४२/५०) प्रकृतः च अनुवर्तते ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-४३/५०) अथ वा अनुवृत्तिः करिष्यते ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-४४/५०) सार्वधातुके यक् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-४५/५०) कर्तरि शप् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-४६/५०) दिवादिभ्यः श्यन् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-४७/५०) अथ वा अन्तरङ्गाः स्यादयः ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-४८/५०) का अन्तरङ्गता ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-४९/५०) लावस्थायाम् एव स्यादयः ।

(पा-३,१.३३; अकि-२,४२.१४-४३.९; रो-३,१०९-१११; भा-५०/५०) सार्वधातुके श्यनादयः ।

(पा-३,१.३४.१; अकि-२,४३.११९-४४.९; रो-३,१११-११२; भा-१/१३) सिपा- उत्सर्गः छन्दसि ।

(पा-३,१.३४.१; अकि-२,४३.११९-४४.९; रो-३,१११-११२; भा-२/१३) सिप् उत्सर्गः छन्दसि कर्तव्यः ।

(पा-३,१.३४.१; अकि-२,४३.११९-४४.९; रो-३,१११-११२; भा-३/१३) सनाद्यन्ते नेषत्वाद्यर्थः ।

(पा-३,१.३४.१; अकि-२,४३.११९-४४.९; रो-३,१११-११२; भा-४/१३) सनाद्यन्ते च कर्तव्यः ।

(पा-३,१.३४.१; अकि-२,४३.११९-४४.९; रो-३,१११-११२; भा-५/१३) किम् प्रजोजनम् ।

(पा-३,१.३४.१; अकि-२,४३.११९-४४.९; रो-३,१११-११२; भा-६/१३) नेषत्वाद्यर्थः ।

(पा-३,१.३४.१; अकि-२,४३.११९-४४.९; रो-३,१११-११२; भा-७/१३) इन्द्रः नः तेन नेषतु ।

(पा-३,१.३४.१; अकि-२,४३.११९-४४.९; रो-३,१११-११२; भा-८/१३) गा वः नेष्टात् ।

(पा-३,१.३४.१; अकि-२,४३.११९-४४.९; रो-३,१११-११२; भा-९/१३) प्रकृत्यन्तरत्वात् सिद्धम् ।

(पा-३,१.३४.१; अकि-२,४३.११९-४४.९; रो-३,१११-११२; भा-१०/१३) प्रकृत्यन्तरत्वात् सिद्धम् एतत् ।

(पा-३,१.३४.१; अकि-२,४३.११९-४४.९; रो-३,१११-११२; भा-११/१३) प्र्कृत्यन्तरम् नेषतिः ।

(पा-३,१.३४.१; अकि-२,४३.११९-४४.९; रो-३,१११-११२; भा-१२/१३) नेषतु नेष्टात् इति दर्शनात् ।

(पा-३,१.३४.१; अकि-२,४३.११९-४४.९; रो-३,१११-११२; भा-१३/१३) नेषतु नेष्टात् इति दृश्यते ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-१/२९) अथ किमर्थः पकारः ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-२/२९) स्वरार्थः ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-३/२९) अनुदात्तौ सुप्पितौ इति एषः स्वरः यथा स्यात् ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-४/२९) पित्करणानर्थक्यम् च अनच्कत्वात् ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-५/२९) पित्करणम् च अनर्थकम् ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-६/२९) किम् कारणम् ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-७/२९) अनच्कत्वात् ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-८/२९) अनच्कः अयम् ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-९/२९) तत्र न अर्थः स्वरार्थेन पकारेण अनुबन्धेन ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-१०/२९) इटि कृते साच्कः भविष्यति ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-११/२९) इटः अनुदात्तार्थम् इति चेत् आगमानुदात्तत्वात् सिद्धम् । आगमानुदात्तत्वेन इटः अनुदात्तत्वम् भविष्यति ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-१२/२९) एवम् तर्हि सप् अयम् कर्तव्यः ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-१३/२९) किम् प्रयोजनम् ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-१४/२९) यत् एव यासिषीष्ठाः ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-१५/२९) एकाज्लक्षणः इट्प्रतिषेधः मा भूत् इति ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-१६/२९) क्व अयम् अकारः श्रूयते ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-१७/२९) न क्व चित् श्रूयते ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-१८/२९) लोपः अस्य भविष्यति अतः लोपः आर्धधातुके इति ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-१९/२९) यदि न क्व चित् श्रूयते न अर्थः स्वरार्थेन पकारेण अनुबन्धेन ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-२०/२९) एवम् अपि कर्तव्यः एव ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-२१/२९) किम् प्रयोजनम् ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-२२/२९) अनुदात्तस्य लोपः यथा स्यात् ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-२३/२९) उदात्तस्य मा भूत् इति ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-२४/२९) किम् च स्यात् ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-२५/२९) उदात्तनिवृत्तिस्वरः प्रसज्येत ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-२६/२९) सिपा- बहुलम् छन्दसि णित् ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-२७/२९) सिप् बहुलम् छन्दसि णित् वक्तव्यः ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-२८/२९) सविता धर्मम् दाविषत् ।

(पा-३,१.३४.२; अकि-२,४३.२०-४४.९; रो-३,११२-११४; भा-२९/२९) प्र णः आयूंषि तारिषत् ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-१/२१) कास्ग्रहणे चकासः उपसङ्ख्यानम् ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-२/२१) कास्ग्रहणे चकासः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-३/२१) चकासाम् चकार ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-४/२१) न कर्तव्यम् ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-५/२१) चकास्प्रतययात् इति वक्ष्यामि ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-६/२१) चकास्ग्रहणे कासः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-७/२१) कासाम् चक्रे ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-८/२१) सूत्रम् च भिद्यते ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-९/२१) यथान्यासम् एव अस्तु ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-१०/२१) ननु च उक्तम् कास्ग्रहणे चकासः उपसङ्ख्यानम् इति ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-११/२१) न एषः दोषः ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-१२/२१) चकास्शब्दे कास्शब्दः अस्ति ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-१३/२१) तत्र कास्प्रत्ययात् इति एव सिद्धम् ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-१४/२१) न सिध्यति ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-१५/२१) किम् कारणम् ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-१६/२१) अर्थवतः कास्शब्दस्य ग्रहणम् ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-१७/२१) न च चकास्शब्दे कास्शब्दः अर्थवान् ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-१८/२१) एवम् तर्हि कासि अनेकाचः इति वक्तव्यम् ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-१९/२१) किम् प्रयोजनम् ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-२०/२१) चुलुम्पाद्यर्थम् ।

(पा-३,१.३५; अकि-२,४४.११-१८; रो-३,११४-११५; भा-२१/२१) चुलुम्पाम् चकार दरिद्राम् चकार ।