व्याकरणमहाभाष्य खण्ड 34

विकिपुस्तकानि तः



(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-१/६४) गुरुमतः आम्विधाने लिण्निमित्तात् प्रतिषेधः ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-२/६४) गुरुमतः आम्विधाने लिण्निमित्तात् प्रतिषेधः वक्तव्यः ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-३/६४) इयेष उवोष ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-४/६४) गुणे कृते इजादेः च गुरुमतः अनृच्छः इति आम् प्राप्नोति ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-५/६४) गुरुमद्वचनम् इदानीम् किमर्थम् स्यात् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-६/६४) गुरुमद्वचनम् किमर्थम् इति चेत् णलि उत्तमे यजादिप्रतिषेधाऋथम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-७/६४) गुरुमद्वचनम् किमर्थम् इति चेत् णलि उत्तमे यजादीनाम् मा भूत् इति ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-८/६४) इयज अहम् उवप अहम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-९/६४) उपदेशवचनात् सिद्धम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-१०/६४) उपदेशे गुरुमतः इति वक्तव्यम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-११/६४) यदि उपदेशग्रहणम् क्रियते उच्छेः आम् वक्तव्यः ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-१२/६४) व्युच्छाम् चकार इति ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-१३/६४) ऋच्छिप्रतिषेधः ज्ञापकः उच्छेः आम्भावस्य ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-१४/६४) यत् अयम् अनृच्छः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः तुग्निमित्ता यस्य गुरुमत्ता भवति तस्मात् आम् इति ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-१५/६४) स तर्हि ज्ञापकार्थः ऋच्छिप्रतिषेधः वक्तव्यः ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-१६/६४) ननु च अवश्यम् प्राप्त्यर्थः अपि वक्तव्यः ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-१७/६४) न अर्थः प्राप्त्यर्थेन ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-१८/६४) ऋच्छत्यृ̄ताम् इति ऋच्छेः लिटि गुणवचनम् ज्ञापकम् न ऋच्छेः लिटि आम् भवति इति ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-१९/६४) न एतत् अस्ति ज्ञापकम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-२०/६४) अर्त्यर्थम् एतत् स्यात् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-२१/६४) कथम् पुनः ऋच्छेः लिटि गुणः उच्यमानः अर्त्यर्थः शक्यः विज्ञातुम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-२२/६४) सामर्थ्यात् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-२३/६४) ऋच्छिः लिटि न अस्ति इति कृत्वा प्रकृत्यर्थम् विज्ञायते ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-२४/६४) तत् यथा ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-२५/६४) तिष्ठतेः इत् जिघ्रतेः वा इति चङि तिष्ठतिजिघ्रती न स्तः इति कृत्वा प्रकृत्यर्थम् विज्ञायते ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-२६/६४) किम् पुनः अर्तेः गुणवचने प्रयोजनम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-२७/६४) आरतुः आरुः एतत् रूपम् यथा स्यात् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-२८/६४) किम् पुनः कारणम् न सिध्यति ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-२९/६४) द्विर्वचने कृते सवर्णदीर्घत्वे च यदि तावत् धातुग्रहणेन ग्रहणम् ऋ̄कारान्तानाम् लिटि गुणः भवति इति गुणे कृते रपरते अरतुः अरुः इति एतत् रूपम् प्रसज्येत ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-३०/६४) अथ अभ्यासग्रहणेन ग्रहणम् उः अत्त्वम् रपरत्वम् हलादिशेषः अतः आदेः इति दीर्घत्वम् आतः लोपः इटि च इति आकारलोपः अतुः उः इति वचनम् एव श्रूयेत ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-३१/६४) गुण पुनः सति गुणे कृते रपरत्वे च द्विर्वचनम् अतः आदेः इति दीर्घत्वम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-३२/६४) ततः सिद्धम् भवति यथा आटतुः आटुः इति ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-३३/६४) किम् पुनः सवर्णदीर्घत्वम् तावत् भवति न पुनः उः अत्त्वम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-३४/६४) परत्वात् उः अत्त्वेन भवितव्यम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-३५/६४) अन्तरङ्गत्वात् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-३६/६४) अन्तरङ्गम् सवर्णदीर्घत्वम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-३७/६४) बहिरङ्गम् उः अत्त्वम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-३८/६४) का अन्तरङ्गता ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-३९/६४) वर्णौ आश्रित्य सवर्णदीर्घत्वम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-४०/६४) अङ्गस्य उः अत्त्वम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-४१/६४) उः अत्त्वम् अपि अन्तरङ्गम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-४२/६४) कथम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-४३/६४) वक्ष्यति एतत् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-४४/६४) प्राक् अभ्यासविकारेभ्यः अङ्गाधिकारः इति ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-४५/६४) उभयोः अन्तरङ्गयोः परत्वात् उः अत्त्वम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-४६/६४) उः अत्त्वे कृते रपरत्वम् हलादिशेषः अतः आदेः इति दीर्घत्वम् परस्य रूपस्य यणादेशः ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-४७/६४) सिद्धम् भवति आरतुः आरुः इति ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-४८/६४) अथ अपि कथम् चित् अर्तेः लिटि गुणेन अर्थः स्यात् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-४९/६४) एवम् अपि न दोषः ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-५०/६४) ऋच्छत्यृ̄ताम् इति ऋकारः अपि निर्दिश्यते ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-५१/६४) कथम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-५२/६४) अयम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-५३/६४) ऋच्छति ऋ ऋताम् ऋच्छत्यृ̄ताम् इति ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-५४/६४) इह अपि तर्हि प्राप्नोति ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-५५/६४) चक्रतुः चक्रुः इति ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-५६/६४) संयोगादिग्रहणम् नियमार्थम् भविष्यति ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-५७/६४) संयोगादेः एव अकेवलस्य न अन्यस्य अकेवलस्य इति ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-५८/६४) तत् एतत् अन्तरेण अर्तेः लिटि गुणवचनम् रूपम् सिद्धम् अन्तरेण च ऋच्छिग्रहणम् अर्तेः लिटि गुणः सिद्धः ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-५९/६४) सः एषः अनन्यार्थः ऋच्छिप्रतिषेधः वक्तव्यः उच्छेः वा आम् वक्तव्यः ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-६०/६४) उभयम् न वक्तव्यम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-६१/६४) उपदेशग्रहणम् न करिष्यते ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-६२/६४) कस्मात् न भवति इयेष उवोष ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-६३/६४) उक्तम् वा ।किम् उक्तम् ।

(पा-३,१.३६.१; अकि-२,४४.२०-४६.९; रो-३,११५-११९; भा-६४/६४) सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

(पा-३,१.३६.२; अकि-२,४६.१०-१५; रो-३,११९-१२०; भा-१/११) ऊर्णोतेः च उपसङ्ख्यानम् ।

(पा-३,१.३६.२; अकि-२,४६.१०-१५; रो-३,११९-१२०; भा-२/११) ऊर्णोतेः च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.३६.२; अकि-२,४६.१०-१५; रो-३,११९-१२०; भा-३/११) प्रोर्णुनाव ।

(पा-३,१.३६.२; अकि-२,४६.१०-१५; रो-३,११९-१२०; भा-४/११) न वक्तव्यम् ।

(पा-३,१.३६.२; अकि-२,४६.१०-१५; रो-३,११९-१२०; भा-५/११) वाच्यः ऊर्णोः णुवद्भावः ।

(पा-३,१.३६.२; अकि-२,४६.१०-१५; रो-३,११९-१२०; भा-६/११) यङ्प्रसिद्धिः प्रयोजनम् ।

(पा-३,१.३६.२; अकि-२,४६.१०-१५; रो-३,११९-१२०; भा-७/११) आमः च प्रतिषेधार्थम् ।

(पा-३,१.३६.२; अकि-२,४६.१०-१५; रो-३,११९-१२०; भा-८/११) एकाचः च इडुपग्रहात् । अथ वा उकारः अपि अत्र निर्दिश्यते ।

(पा-३,१.३६.२; अकि-२,४६.१०-१५; रो-३,११९-१२०; भा-९/११) कथम् ।

(पा-३,१.३६.२; अकि-२,४६.१०-१५; रो-३,११९-१२०; भा-१०/११) अविभक्तिकः निर्देशः ।

(पा-३,१.३६.२; अकि-२,४६.१०-१५; रो-३,११९-१२०; भा-११/११) अनृच्छ उ अनृच्छो दयायासः च इति ।

(पा-३,१.३८; अकि-२,४६.१७-२१; रो-३,१२०; भा-१/११) विदेः आम् कित् ।

(पा-३,१.३८; अकि-२,४६.१७-२१; रो-३,१२०; भा-२/११) विदेः आम् कित् वक्तव्यः ।

(पा-३,१.३८; अकि-२,४६.१७-२१; रो-३,१२०; भा-३/११) विदाम् चकार ।

(पा-३,१.३८; अकि-२,४६.१७-२१; रो-३,१२०; भा-४/११) न वक्तव्यः ।

(पा-३,१.३८; अकि-२,४६.१७-२१; रो-३,१२०; भा-५/११) विदिः अकारान्तः ।

(पा-३,१.३८; अकि-२,४६.१७-२१; रो-३,१२०; भा-६/११) यदि अकारान्तः वेत्ति इति गुणः न सिध्यति ।

(पा-३,१.३८; अकि-२,४६.१७-२१; रो-३,१२०; भा-७/११) लिट्सन्नियोगेन ।

(पा-३,१.३८; अकि-२,४६.१७-२१; रो-३,१२०; भा-८/११) एवम् अपि विवेद इति न सिध्यति ।

(पा-३,१.३८; अकि-२,४६.१७-२१; रो-३,१२०; भा-९/११) एवम् तर्हि आम्सन्नियोगेन ।

(पा-३,१.३८; अकि-२,४६.१७-२१; रो-३,१२०; भा-१०/११) भारद्वाजीयाः पठन्ति ।

(पा-३,१.३८; अकि-२,४६.१७-२१; रो-३,१२०; भा-११/११) विदेः आम् कित् निपातनात् वा अगुणत्वम् इति ।

(पा-३,१.३९; अकि-२,४६.२३-४७.२; रो-३,१२०-१२१; भा-१/३) श्लुवदतिदेशे किम् प्रयोजनम् ।

(पा-३,१.३९; अकि-२,४६.२३-४७.२; रो-३,१२०-१२१; भा-२/३) श्लुवदतिदेशे प्रयोजनम् द्वित्वेत्त्वे ।

(पा-३,१.३९; अकि-२,४६.२३-४७.२; रो-३,१२०-१२१; भा-३/३) बिभराम् चकार ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-१/७६) किमर्थम् इदम् उच्यते ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-२/७६) अनुप्रयोगः यथा स्यात् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-३/७६) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-४/७६) आमन्तम् अव्यक्तपदार्थकम् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-५/७६) तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-६/७६) अतः उत्तरम् पठति ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-७/७६) कृञः अनुप्रयोगवचनम् अस्तिभूप्रतिषेधार्थम् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-८/७६) कृञः अनुप्रयोगवचनम् क्रियते अस्तिभूप्रतिषेधार्थम् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-९/७६) अस्तिभुवोः अनुप्रयोगः मा भूत् इति ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-१०/७६) आत्मनेपदविध्यर्थम् च ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-११/७६) आत्मनेपदविध्यर्थम् च कृञः अनुप्रयोगवचनम् क्रियते ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-१२/७६) आत्मनेपदम् यथा स्यात् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-१३/७६) उच्यमाने अपि एतस्मिन् अवश्यम् आत्मनेपदार्थः यत्नः कर्तव्यः ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-१४/७६) अस्तिभूप्रतिषेधार्थेन च अपि न अर्थः ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-१५/७६) इष्टः सर्वानुप्रयोगः ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-१६/७६) सर्वेषाम् एव कृभ्वस्तीनाम् अनुप्रयोगः इष्यते ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-१७/७६) किम् इष्यते एव आहोस्वित् प्राप्नोति अपि ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-१८/७६) इष्यते च प्राप्नोति च ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-१९/७६) कथम् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-२०/७६) कृञ् इति न एतत् धातुग्रहणम् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-२१/७६) किम् तर्हि ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-२२/७६) प्रत्याहारग्रहणम् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-२३/७६) क्व सन्निविष्टानाम् प्रत्याहारः ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-२४/७६) कृभ्वस्तियोगे इति अतः प्रभृति आ कृञः ञकारात् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-२५/७६) सर्वानुप्रयोगः इति चेत् अशिष्यम् अर्थाभावात् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-२६/७६) सर्वानुप्रयोगः इति चेत् अशिष्यम् कृञः अनुप्रयोगवचनम् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-२७/७६) किम् कारणम् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-२८/७६) अर्थाभावात् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-२९/७६) आमन्तम् अव्यक्तपदार्थकम् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-३०/७६) तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-३१/७६) इदम् तर्हि प्रयोजनम् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-३२/७६) कृभ्वस्तीनाम् एव अनुप्रयोगः यथा स्यात् पचादीनाम् मा भूत् इति ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-३३/७६) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-३४/७६) अर्थाभावात् च अन्यस्य ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-३५/७६) अर्थाभावात् च अन्यस्य सिद्धम् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-३६/७६) कृभ्वस्तयः क्रियासामान्यवाचिनः ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-३७/७६) क्रियाविशेषवाचिनः पचादयः ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-३८/७६) न च सामान्यवाचिनोः एव विशेषवाचिनोः एव व प्रयोगः भवति ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-३९/७६) तत्र विशेषवाचिनः उत्पत्तिः ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-४०/७६) सामान्यवाचिनः अनुप्रयोक्ष्यन्ते ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-४१/७६) लिट्परार्थम् वा ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-४२/७६) लिट्परार्थम् तर्हि कृञः अनुप्रयोगवचनम् क्रियते ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-४३/७६) लिट्परस्य एव अनुप्रयोगः यथा स्यात् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-४४/७६) अन्यपरस्य मा भूत् इति ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-४५/७६) किम्परस्य पुनः प्राप्नोति ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-४६/७६) लट्परस्य ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-४७/७६) न लट्परस्य अनुप्रयोगेण भूतकालः विशेषितः स्यात् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-४८/७६) निष्ठापरस्य तर्हि ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-४९/७६) ननिष्ठापरस्य अनुप्रयोगेण पुरुषोपग्रहौ विशेइषितौ स्याताम् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-५०/७६) लुङ्परस्य तर्हि ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-५१/७६) न लुङ्परस्य अनुप्रयोगेण अनद्यतनः भूतकालः विशेषितः स्यात् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-५२/७६) लङ्परस्य तर्हि ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-५३/७६) न लङ्परस्य अनुप्रयोगेण अनद्यतनः परोक्षः कालः विशेषितः स्यात् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-५४/७६) अयम् तर्हि भूते परोक्षे अनद्यतने लङ् विधीयते ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-५५/७६) हशश्वतोः लङ् च इति ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-५६/७६) तत्परस्य मा भूत् इति ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-५७/७६) अतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-५८/७६) एकस्याः आकृतेः चरितः प्रयोगः द्वितीयस्याः तृतीयस्याः च न भवति ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-५९/७६) तत् यथा गोषु स्वामि अश्वेषु च इति ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-६०/७६) न च भवति गोषु च अश्वानाम् च स्वामी इति ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-६१/७६) अर्थसमाप्तेः वा अनुप्रयोगः न स्यात् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-६२/७६) अर्थसमाप्तेः तर्हि अनुप्रयोगः न स्यात् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-६३/७६) आमन्तेन परिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः न स्यात् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-६४/७६) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-६५/७६) इदानीम् एव उक्तम् आमन्तम् अव्यक्तपदार्थकम् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-६६/७६) तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति इति ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-६७/७६) विपर्यासनिवृत्त्यर्थम् वा ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-६८/७६) विपर्यासनिवृत्त्यर्थम् तर्हि कृञः अनुप्रयोगवचनम् क्रियते ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-६९/७६) ईहाम् चक्रे ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-७०/७६) चक्रे ईहाम् इति मा भूत् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-७१/७६) व्यवहित्निवृत्त्यर्थम् च ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-७२/७६) व्यवहित्निवृत्त्यर्थम् च कृञः अनुप्रयोगवचनम् क्रियते ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-७३/७६) अन्व् एव च अनुप्रयोगः यथा स्यात् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-७४/७६) ईहाम् चक्रे ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-७५/७६) व्यवहितस्य मा भूत् ।

(पा-३,१.४०; अकि-२,४७.४-४८.२३; रो-३,१२१-१२४; भा-७६/७६) ईहाम् देवदत्तः चक्रे इति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-१/८५) क्व अयम् च्लिः श्रूयते ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-२/८५) न क्व चित् श्रूयते ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-३/८५) सिजादयः आदेशाः उच्यन्ते ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-४/८५) यद् न क्व चित् श्रूयते किमर्थः तर्हि च्लुः उत्सर्गः क्रियते ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-५/८५) न सिच् उत्सर्गः एव कर्तव्यः ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-६/८५) तस्य क्सादयः अपवादाः भविष्यन्ति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-७/८५) अत उत्तरम् पठति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-८/८५) च्ल्युत्सर्गः सामान्यग्रहणार्थः ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-९/८५) च्लिः उत्सर्गः क्रियते सामान्यग्रहणार्थः ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-१०/८५) क्व सामान्यग्रहणार्थेन अर्थः ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-११/८५) मन्त्र घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यः लेः इति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-१२/८५) तत्र अवरतः त्रयाणाम् ग्रहणम् कर्तव्यम् स्यात् ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-१३/८५) चङङोः सिचः च ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-१४/८५) क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः । क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः च्लिः उत्सर्गः क्रियते ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-१५/८५) च्लेः अनिटः क्सः सिद्धः भवति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-१६/८५) घस्ल्̥भावे च ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-१७/८५) घस्ल्̥भावे च च्लव् एव कृते लृदितः इति अङ् सिद्धः भवति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-१८/८५) अथ चित्करणम् किमर्थम् ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-१९/८५) च्लेः चित्करणम् विशेषणाऋथम् ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-२०/८५) च्लेः चित्करणम् क्रियते विशेषणार्थम् ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-२१/८५) क्व विशेषणार्थेन अर्थः ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-२२/८५) च्लेः सिच् इति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-२३/८५) लेः सिच् इति उच्यमाने लिङ्लिटोः अपि प्रसज्येत ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-२४/८५) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-२५/८५) लुङि इति उच्यते ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-२६/८५) न च लुङि लिङ्लिटौ भवतः ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-२७/८५) अथ इदित्करणम् किमर्थम् ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-२८/८५) इदित्करणम् सामान्यग्रहणार्थम् । इदित्करणम् क्रियते च सामान्यग्रहणार्थम् ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-२९/८५) क्व सामान्यग्रहणार्थेन अर्थः ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-३०/८५) मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यः लेः इति आमः इति च ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-३१/८५) इकारे च इदानीम् सामान्यग्रहणार्थे क्रियमाणे अवश्यम् सामान्यग्रहणाविघातार्थः चकारः कर्तव्यः ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-३२/८५) क्व सामान्यग्रहणाविघातार्थेन अर्थः चकारेण ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-३३/८५) अत्र एव ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-३४/८५) यत् तावत् उच्यते च्ल्युत्सर्गः सामान्यग्रहणार्थः इति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-३५/८५) क्रियमाणे अपि वै च्ल्युत्सर्गे तानि एव त्रीणि ग्रहणानि भवन्ति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-३६/८५) च्लु लुङि च्लेः सिच् लेः इति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-३७/८५) यत् एतत् लेः इति तत् परार्थम् भविष्यति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-३८/८५) कथम् ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-३९/८५) यत् एतत् गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु इति अत्र सिचः ग्रहणम् एतत् लेः इति वक्ष्यामि ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-४०/८५) यदि लेः इति उच्यते धेटः चातुःशब्द्यम् प्राप्नोति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-४१/८५) अदधत् अधात् अधासीत् ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-४२/८५) अदधात् इति अपि प्राप्नोति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-४३/८५) न चङः लुकि द्विर्वचनेन भवितव्यम् ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-४४/८५) किम् कारणम् ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-४५/८५) चङि इति उच्यते ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-४६/८५) न च अत्र चङम् पश्यामः ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-४७/८५) प्रत्ययलक्षणेन ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-४८/८५) न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-४९/८५) बहुवचने तर्हि चातुःशब्द्यम् प्राप्नोति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-५०/८५) अदधन् अधुः अधासिषुः ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-५१/८५) अधान् इति अपि प्राप्नोति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-५२/८५) न एषः दोषः ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-५३/८५) आतः इति जुस्भावः भविष्यति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-५४/८५) न सिध्यति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-५५/८५) सिज्ग्रहणम् तत्र अनुवर्तते ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-५६/८५) सिज्ग्रहणम् निवर्तिष्यते ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-५७/८५) यदि निवर्तते अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-५८/८५) एवम् तर्हि लुक् सिजपवादः विज्ञास्यते ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-५९/८५) यदि लुक् सिजपवादः विज्ञायते मा हि दाताम् मा हि धाताम् इति अत्र आदिः सिचः अन्यतरस्याम् इति एषः स्वरः न प्राप्नोति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-६०/८५) तस्मात् न एतत् शक्यम् वक्तुम् लुक् सिजपवादः इति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-६१/८५) न चेत् उच्यते अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-६२/८५) तस्मात् आतः इति अत्र सिज्ग्रहणम् अनुवर्त्यम् ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-६३/८५) तस्मिन् च अनुवर्तमाने धेटः चातुःशब्द्यम् प्राप्नोति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-६४/८५) तस्मात् गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु इति अत्र सिचः ग्रहणम् कर्तव्यम् ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-६५/८५) तस्मिन् च क्रियमाणे तानि एव त्रीणि ग्रहणानि भवन्ति च्लि लुङि च्लेः सिच् लेः इति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-६६/८५) यत् अपि उच्यते क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः इति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-६७/८५) धातुम् एव अत्र अनिट्वेन विशेषयिष्यामः ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-६८/८५) धातोः अनिटः इति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-६९/८५) कथम् पुनः धातुः नाम अनिट् स्यात् ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-७०/८५) धातुः एव अनिट् ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-७१/८५) कथम् ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-७२/८५) अनिमित्तम् वा इटः अनिटः न वा तस्मात् इट् अस्ति सः अयम् अनिट् इति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-७३/८५) अथ धातौ विशेष्यमाणे क्व यः अनिट् इति विशेषयिष्यसि ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-७४/८५) किम् च अतः ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-७५/८५) यदि विज्ञायते निष्ठायाम् अनिटः इति भूयिष्ठेभ्यः प्राप्नोति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-७६/८५) भूयिष्ठाः हि शलन्ताः इगुपधाः निष्ठायाम् अनिटः ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-७७/८५) अथ विज्ञायते लिटि यः अनिट् इति न कुतः चित् प्राप्नोति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-७८/८५) सर्वे हिस् शलन्ताः इगुपधाः लिटि सेटः ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-७९/८५) किम् पुनः कारणम् धातौ विशेष्यमाणे एतयोः विशेषयोः विशेषयिष्यते ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-८०/८५) न पुनः अत्र सामान्येन इटः विधिप्रतिषेधौ ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-८१/८५) क्व सामन्येन ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-८२/८५) वलादौ आर्धधातुके ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-८३/८५) यत् अपि उच्यते घस्ल्̥भावे च इति ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-८४/८५) आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु ।

(पा-३,१.४३; अकि-२,४९.२-५०.२८; रो-३,१२५-१३०; भा-८५/८५) तत्र आर्धधातुकसामान्ये घस्ल्̥भावे कृते लृदितः इति अङ् भविष्यति ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-१/५६) किमर्थः चकारः ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-२/५६) विशेषणार्थः ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-३/५६) क्व विशेषणार्थेन अर्थः ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-४/५६) सिचि वृद्धिः परस्मैपदेषु इति ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-५/५६) सौ वृद्धिः इति उच्यमाने अग्निः वायुः इति अत्र अपि प्रसज्येत ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-६/५६) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-७/५६) परस्मैपदेषु इति उच्यते ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-८/५६) न च अत्र परस्मैपदम् पश्यामः ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-९/५६) स्वरार्थः तर्हि ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-१०/५६) चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-११/५६) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-१२/५६) अनच्कः अयम् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-१३/५६) तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-१४/५६) इटि कृते साच्कः भविष्यति ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-१५/५६) तत्र प्रत्ययाद्युदात्तत्वेन इटः उदात्तत्वम् भविष्यति ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-१६/५६) न सिध्यति ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-१७/५६) आगमाः अनुदात्ताः भवन्ति इति अनुदात्तत्वम् प्राप्नोति ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-१८/५६) अतः उत्तरम् पठति ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-१९/५६) सिचः चित्करणानर्थक्यम् स्थानिवत्वात् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-२०/५६) सिचः चित्करणम् नर्थयम् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-२१/५६) किम् कारणम् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-२२/५६) स्थानिवत्वात् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-२३/५६) स्थानिवद्भावात् चित् भविष्यति ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-२४/५६) अर्थवत् तु चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-२५/५६) अर्थवत् तु चित्करणम् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-२६/५६) कः अर्थः ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-२७/५६) चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् भविष्यति ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-२८/५६) न अप्राप्ते प्रत्ययस्वरे आगमानुदात्तत्वम् आरभ्यते ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-२९/५६) तत् यथा एव प्रत्ययस्वरम् बाधते एवम् स्थानिवद्भावात् अपि या प्राप्तिः ताम् अपि बाधेत ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-३०/५६) तस्मात् चित्करणम् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-३१/५६) तस्मात् चकारः कर्तव्यः ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-३२/५६) अथ इदित्करणम् किमर्थम् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-३३/५६) इदित्करणम् नकारलोपाभावार्थम् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-३४/५६) इदित्करणम् क्रियते नकारलोपः मा भूत् इति ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-३५/५६) अमंस्त अमंस्थाः ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-३६/५६) अनिदिताम् हलः उपधायाः क्ङिति इति ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-३७/५६) न वा हन्तेः सिचः कित्करणम् नकारलोपाभावस्य ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-३८/५६) न वा एतत् प्रयोजनम् अस्ति ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-३९/५६) किम् कारणम् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-४०/५६) यत् अयम् हनः सिच् इति हन्तेः सिचः कित्त्वम् शास्ति तत् ज्ञापयति आचार्यः न सिजन्तस्य नकार्लोपः भवति इति ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-४१/५६) न एतत् अस्ति ज्ञापकम् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-४२/५६) अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-४३/५६) किम् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-४४/५६) सिचि एव नलोपः यथा स्यात् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-४५/५६) परस्मिन् निमित्ते मा भूत् इति ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-४६/५६) कः पुनः अत्र विशेषः सिचि वा नलोपे सति परस्मिन् वा निमित्ते ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-४७/५६) अयम् अस्ति विशेषः ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-४८/५६) सिचि नलोपे सति नलोपस्य असिद्धत्वात् अकारलोपः न भवति ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-४९/५६) परस्मिन् पुनः निमित्ते नलोपे सति अकारलोपः प्राप्नोति ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-५०/५६) समानाश्रयम् असिद्धम् व्याश्रयम् च इदम् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-५१/५६) ननु च परस्मिन् अपि निमित्ते नलोपे सति अकारलोपः न भविष्यति ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-५२/५६) कथम् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-५३/५६) असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति टत् एतत् हन्तेः सिचः कित्करणम् ज्ञापकम् एव न सिजन्तस्य नलोपः भवति इति ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-५४/५६) इदित्त्वात् वा स्थानिवत्त्वात् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-५५/५६) अथ अपि अनेन इदिता अर्थः स्यात् ।

(पा-३,१.४४.१; अकि-२,५१.२-५२.८; रो-३,१३०-१३२; भा-५६/५६) अयम् आदेशः स्थानिवद्भावात् इदित् भविष्यति.

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-१/५४) स्पृशमृशकृषतृपदृपः सिच् वा ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-२/५४) स्पृश्मृशकृषतृपदृपः सिच् वा इति वक्तव्यम् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-३/५४) स्पृश ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-४/५४) अस्पृक्षत् अस्प्राक्षीत् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-५/५४) स्पृश ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-६/५४) मृश ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-७/५४) अमृक्षत् अम्राक्षीत् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-८/५४) मृश ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-९/५४) कृष ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-१०/५४) अकृक्षत् अक्राक्षीत् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-११/५४) कृष ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-१२/५४) तृप ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-१३/५४) अतृपत् अत्राप्सीत् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-१४/५४) तृप ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-१५/५४) दृप ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-१६/५४) अदृपत् अद्रप्सीत् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-१७/५४) किम् प्रयोजनम् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-१८/५४) सिच् यथा स्यात ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-१९/५४) अथ क्सः सिद्धः ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-२०/५४) सिद्धः शलः इगुपधात् अनिटः इति ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-२१/५४) सिच् अपि सिद्धः ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-२२/५४) कथम् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-२३/५४) च्लेः चित्करणम् प्रत्याख्यायते ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-२४/५४) तत्र च्लौ एव झल्लक्षणे अमागमे कृते विहतनिमित्तत्वात् क्सः न भविष्यति ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-२५/५४) यदि एवम् अन्त्यसय सिजादयः प्राप्नुवन्ति ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-२६/५४) सिद्धम् तु सिचः यादित्वात् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-२७/५४) सिद्धम् एतत् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-२८/५४) कथम् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-२९/५४) यादिः सिच् करिष्यते ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-३०/५४) सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-३१/५४) किम् न श्रूयते यकारः ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-३२/५४) लुप्तनिर्दिष्टः यकारः ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-३३/५४) चङङोः कथम् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-३४/५४) चङङोः प्रश्लिष्टनिर्देशात् सिद्धम् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-३५/५४) चङङोः अपि प्रश्लिष्टनिर्देशः अयम् ॒ च अङ् चङ् अ अङ् अङ् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-३६/५४) सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-३७/५४) चिणः कथम् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-३८/५४) चिणः अनित्त्वात् सिद्धम् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-३९/५४) चिणः अनित्त्वात् सिद्धम् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-४०/५४) किम् इदम् अनित्त्वात् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-४१/५४) अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-४२/५४) असत्यायाम् प्रत्ययसञ्ज्ञयाम् इत्सञ्ज्ञा न. असत्याम् इत्सञ्ज्ञायाम् लोपः न ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-४३/५४) असति लोपे अनेकाल् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-४४/५४) यदा अनेकाल् तदा सर्वादेशः ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-४५/५४) यदा सर्वादेशः तदा प्रययः ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-४६/५४) यदा प्रत्ययः तदा इत्सञ्ज्ञा ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-४७/५४) यदा इत्सञ्ज्ञा तदा लोपः ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-४८/५४) एवम् च तत्र वार्त्तिककारस्य निर्णयः सप्रयोजनम् चित्करणम् इति ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-४९/५४) अपि च त्रैशब्द्यम् न प्रकल्पते ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-५०/५४) अस्पृक्षत् अस्प्राक्षीत् अस्पार्क्षीत् इति न सिध्यति ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-५१/५४) सिचि पुनः सति विभाषा सिच् ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-५२/५४) सिचि अपि झल्लक्षणः अमागमः विभाषा ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-५३/५४) यस्य खलु अपि अमा निमित्तम् न विहन्यते सः स्यात् एव ।

(पा-३,१.४४.२; अकि-२,५२.९-५३.५; रो-३,१३३-१३५; भा-५४/५४) तस्मात् सुष्ठु उच्यते स्पृश्मृशकृषतृपदृपः सिच् वा इति

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-१/३५) क्सविधाने इगुपधाभावः च्लेः गुणनिमित्तत्वात् ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-२/३५) क्सविधाने इगुपधाभावः ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-३/३५) किम् कारणम् ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-४/३५) च्लेः गुणनिमित्तत्वात् ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-५/३५) च्लिः गुणनिमित्तम् ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-६/३५) तत्र च्लौ एव गुणे कृते इगुपधात् इति क्सः न प्राप्नोति ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-७/३५) न वा क्सस्य अनवकाशत्वात् अपवादः गुणस्य ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-८/३५) न वा एषः दोषः ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-९/३५) किम् कारणम् ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-१०/३५) क्सस्य अनवकाशत्वात् ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-११/३५) अनवकाशः क्सः गुणम् बाधिष्यते ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-१२/३५) अनिड्वचनम् अविशेषणम् च्लेः नित्यादिष्टत्वात् ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-१३/३५) अनिड्वचनम् अविशेषणम् ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-१४/३५) किम् कारणम् ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-१५/३५) च्लेः नित्यादिष्टत्वात् ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-१६/३५) नित्यादिष्टः च्लिः न क्व चित् श्रूयते ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-१७/३५) तत्र च्लेः अनिटः इति क्सः न प्राप्नोति ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-१८/३५) न वा क्सस्य सिजपवादत्वात् तस्य च अनिडाश्रयत्वात् अनिटि प्रसिद्धे क्सविद्धिः ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-१९/३५) न वा एषः दोषः ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-२०/३५) किम् कारणम् ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-२१/३५) क्सस्य सिजपवादत्वात् ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-२२/३५) सिजपवादः क्सः ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-२३/३५) सः च अनिडाश्रयः ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-२४/३५) न च अपवादविषये उपसर्गः अभिनिविशते ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-२५/३५) पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-२६/३५) प्रकल्प्य वा अपवादविषयम् उत्सर्गः अभिनिविशते ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-२७/३५) तत् न तावत् अत्र कदा चित् सिच् भवति ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-२८/३५) अपवादम् क्सम् प्रतीक्षते ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-२९/३५) क्सस्य सिजपवादत्वात् तस्य च अनिडाश्रयत्वात् अनिट्त्वम् प्रसिद्धम् ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-३०/३५) अनिटि प्रसिद्धे क्सविद्धिः ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-३१/३५) अनिटि प्रसिद्धे क्सः भविष्यति ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-३२/३५) सिच् इदानीम् क्व भविष्यति ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-३३/३५) शेषे सिज्विधानम् ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-३४/३५) शेषे सिज्विधानम् भविष्यति ।

(पा-३,१.४५; अकि-२,५३.७-२५; रो-३,१३५-१३६; भा-३५/३५) अकोषीत् अमोषीत् इति ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-१/५२) किमर्थम् इदम् उच्यते ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-२/५२) नियमार्थम् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-३/५२) श्लिषः आलिङ्गने एव क्सः यथा स्यात् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-४/५२) इह मा भूत् ॒ उपाश्लिषत् जतु च काष्ठम् च ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-५/५२) समाश्लिषत् ब्राह्मणकुलम् इति ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-६/५२) अतः उत्तरम् पठति ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-७/५२) श्लिषः आलिङ्गने नियमानुपपत्तिः विधेयभावात् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-८/५२) श्लिषः आलिङ्गने नियमस्य अनुपपत्तिः ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-९/५२) किम् कारणम् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-१०/५२) विधेयभावात् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-११/५२) कैमर्थक्यात् नियमः भवति ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-१२/५२) विधेयम् न अस्ति इति कृत्वा ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-१३/५२) इह च अस्ति विधेयम् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-१४/५२) किम् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-१५/५२) पुषादिपाठात् अङ् प्राप्तः ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-१६/५२) तद्बाधनार्थः क्सः विधेयः ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-१७/५२) तत्र अपूर्वः विधिः अस्तु नियमः वा इति अपूर्वः एव विधिः स्यात् न नियमः ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-१८/५२) किम् च स्यात् यदि अयम् नियमः न स्यात् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-१९/५२) आत्मनेपदेषु आलिङ्गने च क्सः प्रसज्येत ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-२०/५२) यथा एव च क्सः अङम् बाधते एवम् चिणम् अपि बाधेत ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-२१/५२) उपाश्लेषि कन्या देवदत्तेन इति ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-२२/५२) सिद्धम् तु श्लिषः आलिङ्गने अचिण्विषये ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-२३/५२) सिद्धम् एतत् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-२४/५२) कथम् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-२५/५२) श्लिषः आलिङ्गने अचिण्विषये क्सः भवति इति वक्तव्यम् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-२६/५२) अङ्विधाने च श्लिषः अनालिङ्गने ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-२७/५२) अङ्विधाने च श्लिषः अनालिङ्गने इति वक्तव्यम् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-२८/५२) सिध्यति ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-२९/५२) सूत्रम् तर्हि भिद्यते ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-३०/५२) यथान्यासम् एव अस्तु ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-३१/५२) ननु च उक्तम् श्लिषः आलिङ्गने नियमानुपपत्तिः विधेयभावात् इति ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-३२/५२) न एषः दोषः ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-३३/५२) योगविभागात् सिद्धम् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-३४/५२) योगविभागः करिष्यते ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-३५/५२) श्लिषः ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-३६/५२) श्लिषः क्सः भवति ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-३७/५२) किमर्थम् इदम् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-३८/५२) पुषादिपाठात् अङ् प्राप्नोति ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-३९/५२) तद्बाधनार्थम् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-४०/५२) ततः आलिङ्गने ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-४१/५२) आलिङ्गने च श्लिषः क्सः भवति ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-४२/५२) इदम् इदानीम् किमर्थम् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-४३/५२) नियमार्थम् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-४४/५२) श्लिषः आलिङ्गने एव ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-४५/५२) क्व मा भूत् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-४६/५२) उपाश्लिषत् जतु च काष्ठम् च ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-४७/५२) समाश्लिषत् ब्राह्मणकुलम् इति ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-४८/५२) यत् अपि उच्यते यथा एव च क्सः अङम् बाधते एवम् चिणम् अपि बाधेत इति ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-४९/५२) पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते न उत्तरान् इति एवम् क्सः अङम् बाधिष्यते ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-५०/५२) चिणम् न बाधिष्यते ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-५१/५२) अथ वा तत्र वक्ष्यति ॒ चिण्ग्रहणस्य प्रयोजनम् चिण् एव यथा स्यात् ।

(पा-३,१.४६; अकि-२,५४.२-२४; रो-३,१३६-१३८; भा-५२/५२) यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-१/२४) णिश्रिद्रुस्रुषु कमेः उपसङ्ख्यानम् । णिश्रिद्रुस्रुषु कमेः उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-२/२४) नाकम् इष्टमुखम् यान्ति सुयुक्तैः वडवारथैः ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-३/२४) अथ पत्काषीणः यान्ति ये अचीकमतभाषिणः ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-४/२४) कर्मकर्तरि च ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-५/२४) कर्मकर्तरि च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-६/२४) कारयति कटम् देवदत्तः ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-७/२४) अचीकरत कटः स्वयम् एव ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-८/२४) उच्छ्रययति कटम् देवदत्तः ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-९/२४) औदशिश्रियत कटः स्वयम् एव ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-१०/२४) न वा कर्मणि अविधानात् कर्तृत्वात् च कर्मकर्तुः सिद्धम् ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-११/२४) न वा कर्तव्यम् ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-१२/२४) किम् कारणम् ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-१३/२४) कर्मणि अविधानात् ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-१४/२४) न हि कः चित् कर्मणि विधीयते यः चङम् बाधेत ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-१५/२४) कर्तृत्वात् च कर्मकर्तुः सिद्धम् ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-१६/२४) अस्ति च कर्मकर्तरि कर्तृत्वम् इति कृत्वा चङ् भविष्यति ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-१७/२४) ननु च अयम् कर्मणि विधीयते ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-१८/२४) चिण् भावकर्मणोः इति ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-१९/२४) प्रतिषिध्येते तत्र यक्चिणौ ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-२०/२४) यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् इति ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-२१/२४) यः तर्हि अहेतुमण्णिच् ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-२२/२४) उदपुपुच्छत गौः स्वयम् एव ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-२३/२४) अत्र अपि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यम् प्रतिषेधेन ।

(पा-३,१.४८; अकि-२,५५.२-१६; रो-३,१३८-१३९; भा-२४/२४) यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञाम् आत्मनेपदाकर्मकाणाम् उपसङ्ख्यानम् इति ।

(पा-३,१.५२; अकि-२,५५.१८-२४; रो-३,१४०; भा-१/११) अस्यतिग्रहणम् किमर्थम् ।

(पा-३,१.५२; अकि-२,५५.१८-२४; रो-३,१४०; भा-२/११) अस्यतिग्रहणम् आत्मनेपदार्थम् ।

(पा-३,१.५२; अकि-२,५५.१८-२४; रो-३,१४०; भा-३/११) अस्यतिग्रहणम् आत्मनेपदार्थम् द्रष्टव्यम् ।

(पा-३,१.५२; अकि-२,५५.१८-२४; रो-३,१४०; भा-४/११) किम् उच्यते आत्मनेपदार्थम् इति ।

(पा-३,१.५२; अकि-२,५५.१८-२४; रो-३,१४०; भा-५/११) न पुनः परस्मैपदार्थम् अपि स्यात् ।

(पा-३,१.५२; अकि-२,५५.१८-२४; रो-३,१४०; भा-६/११) पुषादित्वात् ।

(पा-३,१.५२; अकि-२,५५.१८-२४; रो-३,१४०; भा-७/११) पुषादिपाठात् परस्मैपदेषु अङ् भविष्यति ।

(पा-३,१.५२; अकि-२,५५.१८-२४; रो-३,१४०; भा-८/११) कर्मकर्तरि च ।

(पा-३,१.५२; अकि-२,५५.१८-२४; रो-३,१४०; भा-९/११) कर्मकर्तरि च उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.५२; अकि-२,५५.१८-२४; रो-३,१४०; भा-१०/११) पर्यास्थेताम् कुण्डले स्वयम् एव ।

(पा-३,१.५२; अकि-२,५५.१८-२४; रो-३,१४०; भा-११/११) अत्र अपि न वा कर्मणि अविधानात् कर्तृत्वात् च कर्मकर्तुः सिद्धम् इति एव ।

(पा-३,१.५८; अकि-२,५६.२-६; रो-३,१४०; भा-१/९) इदम् लुचिग्रहणम् ग्लुञ्चिग्रहणम् च क्रियते ।

(पा-३,१.५८; अकि-२,५६.२-६; रो-३,१४०; भा-२/९) अन्यतरत् शक्यम् अकर्तुम् ।

(पा-३,१.५८; अकि-२,५६.२-६; रो-३,१४०; भा-३/९) कथम् ।

(पा-३,१.५८; अकि-२,५६.२-६; रो-३,१४०; भा-४/९) यदि तावत् ग्लुचिग्रहणम् क्रियते ग्लुञ्चिग्रहणम् न करिष्यते ।

(पा-३,१.५८; अकि-२,५६.२-६; रो-३,१४०; भा-५/९) तेन एव सिद्धम् न्यग्लुचत् न्यग्लोचीत् ।

(पा-३,१.५८; अकि-२,५६.२-६; रो-३,१४०; भा-६/९) इदम् इदानीम् ग्लुञ्चेः रूपम् न्यग्लुञ्चीत् ।

(पा-३,१.५८; अकि-२,५६.२-६; रो-३,१४०; भा-७/९) अथ ग्लुञ्चिग्रहणम् क्रियते ग्लुचेः ग्रहणम् न करिष्यते ।

(पा-३,१.५८; अकि-२,५६.२-६; रो-३,१४०; भा-८/९) तेन एव सिद्धम् न्यग्लुचत् न्यग्लुञ्चीत् ।

(पा-३,१.५८; अकि-२,५६.२-६; रो-३,१४०; भा-९/९) इदम् इदानीम् ग्लुचेः रूपम् न्यग्लोचीत् ।

(पा-३,१.६०; अकि-२,५६.८-९; रो-३,१४१; भा-१/५) अयम् तशब्दः अस्ति एव आत्मनेपदम् अस्ति परस्मैपदम् अस्ति एकवचनम् अस्ति बहुवचनम् ।

(पा-३,१.६०; अकि-२,५६.८-९; रो-३,१४१; भा-२/५) कस्य इदम् ग्रहणम् ।

(पा-३,१.६०; अकि-२,५६.८-९; रो-३,१४१; भा-३/५) यः पदेः अस्ति ।

(पा-३,१.६०; अकि-२,५६.८-९; रो-३,१४१; भा-४/५) कः च पदेः अस्ति ।

(पा-३,१.६०; अकि-२,५६.८-९; रो-३,१४१; भा-५/५) पदिः अयम् आत्मनेपदी ।

(पा-३,१.६६; अकि-२,५६.११-१३; रो-३,१४१; भा-१/८) चिण् इति वर्तमाने पुनः चिण्ग्रहणम् किमर्थम् ।

(पा-३,१.६६; अकि-२,५६.११-१३; रो-३,१४१; भा-२/८) न इति एवम् तत् अभूत् ।

(पा-३,१.६६; अकि-२,५६.११-१३; रो-३,१४१; भा-३/८) विध्यर्थम् इदम् ।

(पा-३,१.६६; अकि-२,५६.११-१३; रो-३,१४१; भा-४/८) अथ वा वा इति एवम् तत् अभूत् ।

(पा-३,१.६६; अकि-२,५६.११-१३; रो-३,१४१; भा-५/८) नित्यार्थम् इदम् ।

(पा-३,१.६६; अकि-२,५६.११-१३; रो-३,१४१; भा-६/८) अथ वा चिण् इति वर्तमाने पुनः चिण्ग्रहणस्य एतत् प्रयोजनम् ।

(पा-३,१.६६; अकि-२,५६.११-१३; रो-३,१४१; भा-७/८) चिण् एव यथा स्यात् ।

(पा-३,१.६६; अकि-२,५६.११-१३; रो-३,१४१; भा-८/८) यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-१/४५) इह पश्यामः कर्मणि द्विवचनबहुवचनानि उदाह्रियन्ते ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-२/४५) पच्येते* ओदनौ , पच्यन्ते ओदनाः इति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-३/४५) भावे पुनः एकवचनम् एव ॒ आस्यते भवता , आस्यते भवद्भ्याम् , आस्यते भवद्भिः इति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-४/४५) केन एतत् एवम् भवति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-५/४५) कर्म अनेकम् ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-६/४५) तस्य अनेकत्वात् द्विवचनबहुवचनानि भवन्ति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-७/४५) भावः पुनः एकः एव ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-८/४५) कथम् तर्हि इह द्विवचनबहुवचनानि भवन्ति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-९/४५) पाकौ पाकाः इति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-१०/४५) आश्रयभेदात् ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-११/४५) यत् असौ द्रव्यम् श्रितः भवति भावः तस्य भेदात् द्विवचनबहुवचनानि भवन्ति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-१२/४५) इह अपि तर्हि यावन्तः ताम् क्रियाम् कुर्वन्ति सर्वे ते तस्याः आश्रया भवन्ति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-१३/४५) तद्भेदात् द्विवचनबहुवचनानि प्राप्नुवन्ति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-१४/४५) एवम् तर्हि इदम् तावत् अयम् प्रष्टव्यः ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-१५/४५) किम् अभिसमीक्ष्य एतत् प्रयुज्यते ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-१६/४५) पाकौ पाकाः इति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-१७/४५) यदि तावत् पाकविशेषान् अभिसमीक्ष्य यः च ओदनस्य पाकः यः च गुडस्य यः च तिलानाम् बहवः ते शब्दाः सरूपाः च ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-१८/४५) तत्र युक्तम् बहुवचनम् एकशेषः च ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-१९/४५) तिङभिहिते च अपि तदा भावे बहुवचनम् श्रूयते ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-२०/४५) तत् यथा ॒ उष्टृआसिका आस्यन्ते ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-२१/४५) हतशायिकाः शय्यन्ते इति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-२२/४५) अथ कालविशेषान् अभिसमीक्ष्य यः च अद्यतनः पाकः यः ह्यस्तनः यः श्वस्तनः ते अपि बहवः शब्दाः सरूपाः च ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-२३/४५) तत्र युक्तम् बहुवचनम् एकशेषः च ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-२४/४५) तिङभिहिते च अपि तदा भावे असारूप्यात् एकशेषः न भवति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-२५/४५) आसि आस्यते , आसिष्यते ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-२६/४५) अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-२७/४५) कृदभिहितः भावः द्रव्यवत् भवति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-२८/४५) किम् इदम् द्रव्यवत् इति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-२९/४५) द्रव्यम् क्रियया समवायम् गच्छति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-३०/४५) कम् समवायम् ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-३१/४५) द्रव्यम् क्रियाभिनिर्वृत्तौ साधनत्वम् उपैति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-३२/४५) तद्वत् च अस्य भावस्य कृदभिहितस्य भवति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-३३/४५) पाकः वर्तते इति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-३४/४५) क्रियावत् न भवति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-३५/४५) किम् इदम् क्रियावत् इति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-३६/४५) क्रिया क्रियया समवायम् न गच्छति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-३७/४५) पचति पठति इति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-३८/४५) तद्वच् च अस्य कृतभिहितस्य न भवति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-३९/४५) पाकः वर्तते इति ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-४०/४५) अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-४१/४५) तिङभिहितेन भावेन कालपुरुषोपग्रहाः अभिव्यज्यन्ते ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-४२/४५) कृदभिहितेन पुनः न व्यज्यन्ते ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-४३/४५) अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-४४/४५) तिङभिहितः भावः कर्त्रा सम्प्रयुज्यते. कृदभिहितः पुनः न सम्प्रयुज्यते ।

(पा-३,१.६७.१; अकि-२,५६.१५-५७.१७; रो-३,१४१-१४६; भा-४५/४५) यावता किम् चित् सामान्यम् कः चित् विशेषः युक्तम् यत् अयम् अपि विशेषः स्यात् लिङ्गकृतः सङ्ख्याकृतः च इति ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-१/५३) इदम् विचार्यते ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-२/५३) भावकर्मकर्तारः सार्वधातुकार्थाः वा स्युः विकरणार्थाः वा इति ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-३/५३) कथम् च सार्वधातुकार्थः स्युः कथम् वा विकरणार्थाः ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-४/५३) भावकर्मवाचिनि सार्वधातुके यक् भवति कर्तृवाचिनि शर्वधातुके शप् भवति इति सार्वधातुकार्थाः ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-५/५३) भावकर्मणोः यग् भवति सार्वधातुके कर्तरि शप् भवति सार्वधातुके इति विकरणार्थाः ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-६/५३) कः च अत्र विशेषः ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-७/५३) भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमानुपपत्तिः अतदर्थत्वात् ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-८/५३) भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमस्य अनुपपत्तिः ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-९/५३) किम् कारणम् ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-१०/५३) अतदर्थत्वात् ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-११/५३) न हि तदानीम् एकत्वादयः एव विभक्त्यर्थाः ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-१२/५३) किम् तर्हि भावकर्मकर्तारः अपि ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-१३/५३) सन्तु तर्हि विकरणार्थाः ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-१४/५३) विकरणार्थाः इति चेत् कृता अभिहिते विकरणाभावः ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-१५/५३) विकरणार्थाः इति चेत् कृता अभिहिते विकरणः न प्राप्नोति ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-१६/५३) धारयः पारयः इति ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-१७/५३) किम् उच्यते कृता अभिहिते ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-१८/५३) न लेन अपि अभिधानम् भवति ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-१९/५३) अशक्यम् लेन अभिधानम् आश्रयितुम् ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-२०/५३) पक्षान्तरम् इदम् आस्थितम् भावकर्मकर्तारः सार्वधातुकार्थाः वा स्युः विकरणार्थाः वा इति ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-२१/५३) यदि च लेन अपि अभिधानम् स्यात् न इदम् पक्षान्तरम् स्यात् ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-२२/५३) कथम् अशक्यम् यदा भवान् एव आह लः कर्मणि च भावे च अकर्मकेभ्यः इति ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-२३/५३) एवम् वक्ष्यामि ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-२४/५३) लः कर्मणः भावात् च अकर्मकेभ्यः ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-२५/५३) यस्मिन् तर्हि ले विकरणाः न श्रूयन्ते कः तत्र भावकर्मकर्तृ̄न् अभिधास्यति ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-२६/५३) क्व च न श्रूयन्ते ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-२७/५३) ये एते लुग्विकरणाः श्लुविकरणाः च ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-२८/५३) अत्र अपि उक्ते कर्तृत्वे लुक् भविष्यति ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-२९/५३) यस्मिन् तर्हि ले विकरणाः न एव उत्पद्यन्ते कः तत्र भावकर्मकर्तृ̄न् अभिधास्यति ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-३०/५३) क्व च न एव उत्पद्यन्ते ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-३१/५३) लिङ्लिटोः ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-३२/५३) तस्मात् न एतत् शक्यम् वक्तुम् ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-३३/५३) न लेन अभिधानम् भवति इति ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-३४/५३) भवति चेत् अभिहिते विकरणाभावः एव ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-३५/५३) एवम् तर्हि इदम् स्यात् ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-३६/५३) यदा भावकर्मणोः लः तदा कर्तरि विकरणाः ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-३७/५३) यदा कर्तरि लः तदा भावकर्मणोः विकरणाः ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-३८/५३) इदम् अस्य यदि एव स्वाभाविकम् अथ अपि वाचनिकम् ॒ प्रकृतिप्रत्ययौ प्रत्ययार्थम् सह ब्रूतः इति ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-३९/५३) न च अस्ति सम्भवः यत् एकस्याः प्रकृतेः द्वयोः नानार्थयोः युगपत् अनुसहायीभावः स्यात् ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-४०/५३) एवम् च कृत्वा एकपक्षीभूतम् इदम् भवति ॒ सार्वधातुकार्थाः एव इति ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-४१/५३) ननु च उक्तम् भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमानुपपत्तिः अतदर्थत्वात् इति ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-४२/५३) न एषः दोषः ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-४३/५३) सुपाम् कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङाम् । सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-४४/५३) तथा तिङाम् ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-४५/५३) प्रसिद्धः नियमः तत्र ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-४६/५३) प्रसिद्धः तत्र नियमः ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-४७/५३) नियमः प्रकृतेषु वा ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-४८/५३) अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-४९/५३) के च प्रकृताः ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-५०/५३) एकत्वादयः ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-५१/५३) एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-५२/५३) द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु ।

(पा-३,१.६७.२; अकि-२,५७.१८-५८.२३; रो-३,१४६-१४९; भा-५३/५३) बहुषु एव बहुवचनम् न द्वयोः न एकस्मिन् इति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-१/८७) भावकर्मणोः यग्विधाने कर्मकर्तरि उपसङ्ख्यानम् । भावकर्मणोः यग्विधाने कर्मकर्तरि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-२/८७) पच्यते स्वयम् एव ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-३/८७) पठ्यते स्वयम् एव ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-४/८७) किम् पुनः कारणम् न सिध्यति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-५/८७) विप्रतिषेधात् हि शपः बलीयस्त्वम् । विप्रतिषेधात् हि शपः बलीयस्त्वम् प्राप्नोति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-६/८७) शपः अवकाशः ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-७/८७) पचति पठति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-८/८७) यकः अवकाशः ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-९/८७) पच्यते ओदनः देवदत्तेन ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-१०/८७) पठ्यते विद्या देवदत्तेन ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-११/८७) इह उभयम् प्राप्नोति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-१२/८७) पच्यते स्वयम् एव ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-१३/८७) पठ्यते स्वयम् एव ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-१४/८७) परत्वात् शप् प्राप्नोति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-१५/८७) योगविभागात् सिद्धम् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-१६/८७) योगविभागः करिष्यते ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-१७/८७) चिण् भावकर्मणोः ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-१८/८७) सार्वधातुके यक् भावकर्मणोः ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-१९/८७) ततः कर्तरि ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-२०/८७) कर्तरि च यक् भवति भावकर्मणोः ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-२१/८७) यथा एव तर्हि कर्मणि कर्तरि यक् भवति एवम् भावे कर्तरि प्राप्नोति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-२२/८७) एति जीवन्तम् आनन्दः ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-२३/८७) न अस्य किम् चित् रुजति रोगः इति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-२४/८७) द्वितीयः योगविभागः करिष्यते ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-२५/८७) चिण् भावे ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-२६/८७) ततः कर्मणि ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-२७/८७) कर्मणि च चिण् भवति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-२८/८७) ततः सार्वधातुके यक् भवति भावे च कर्मणि च ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-२९/८७) ततः कर्तरि ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-३०/८७) कर्तरि च यक् भवति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-३१/८७) कर्मणि इति अनुवर्तते ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-३२/८७) भावे इति निवृत्तम् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-३३/८७) ततः शप् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-३४/८७) शप् च भवति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-३५/८७) कर्तरि इति एव ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-३६/८७) कर्मणि इति अपि निवृत्तम् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-३७/८७) एवम् अपि उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-३८/८७) विप्रतिषेधात् हि श्यनः बलीयस्त्वम् प्राप्नोति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-३९/८७) श्यनः अवकाशः ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-४०/८७) दीव्यति सीव्यति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-४१/८७) यकः अवकाशः ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-४२/८७) पच्यते ओदनः देवदत्तेन ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-४३/८७) पठ्यते विद्या देवदत्तेन ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-४४/८७) इह उभयम् प्राप्नोति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-४५/८७) दीव्यते स्वयम् एव ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-४६/८७) सीव्यते स्वयम् एव ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-४७/८७) परत्वात् श्यन् प्राप्नोति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-४८/८७) ननु च एतत् अपि योगविभागात् एव सिद्धम् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-४९/८७) न सिध्यति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-५०/८७) अनन्तरा या प्रप्तिः सा योगविभागेन शक्या बाधितुम् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-५१/८७) कुतः एतत् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-५२/८७) अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-५३/८७) परा प्राप्तिः अप्रतिषिद्धा ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-५४/८७) तया प्राप्नोति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-५५/८७) ननु च इयम् प्राप्तिः पराम् प्राप्तिम् बाधेत ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-५६/८७) न उत्सहते प्रतिषिद्धा सती बाधितुम् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-५७/८७) एवम् तर्हि शबादेशाः श्यनादयः करिष्यन्ते ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-५८/८७) शप् च स्यादिभिः बाध्यते ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-५९/८७) तत्र दिवादिभ्यः यग्विषये शप् एव न अस्ति कुतः श्यनादयः ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-६०/८७) तत् तर्हि शपः ग्रहणम् कर्तव्यम् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-६१/८७) न कर्तव्यम् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-६२/८७) प्रकृतम् अनुवर्तते ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-६३/८७) क्व प्रकृतम् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-६४/८७) कर्तरि शप् इति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-६५/८७) तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-६६/८७) दिवादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-६७/८७) प्रत्ययविधिः अयम् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-६८/८७) न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-६९/८७) न अयम् प्रत्ययविधिः ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-७०/८७) विहितः प्रत्ययः ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-७१/८७) प्रकृतः च अनुवर्तते ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-७२/८७) अथ वा भावकर्मणोः इति अनुवृत्त्या एव सिद्धे सति अनिवृत्तिः यकः भावाय ।इह सार्वधातुके यक् इति अन्तरेण भावकर्मणोः इति अनुवृत्तिम् सिद्धम् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-७३/८७) सः अयम् एवम् सिद्धे सति यत् भावकर्मणोः इति अनुवर्तयति तस्य एतत् प्रयोजनम् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-७४/८७) कर्मकर्तरि अपि यथा स्यात् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-७५/८७) कर्तरि इति च योगविभागः श्यनः पूर्वविप्रतिषेधावचनाय ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-७६/८७) कर्तरि इति योगविभागः कर्तव्यः श्यनः पूर्वविप्रतिषेधम् मा वोचम् इति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-७७/८७) अथ वा कर्मवद्भाववचनसामर्थ्यात् यक् भविष्यति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-७८/८७) अस्ति अन्यत् कर्मवद्भाववचने प्रयोजनम् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-७९/८७) किम् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-८०/८७) आत्मनेपदम् यथा स्यात् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-८१/८७) वचनात् आत्मनेपदम् भविष्यति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-८२/८७) चिण् तर्हि यथा स्यात् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-८३/८७) चिण् अपि वचनात् भविष्यति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-८४/८७) चिण्वद्भावः तर्हि यथा स्यात् ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-८५/८७) न एकम् प्रयोजनम् योगारम्भम् प्रयोजयति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-८६/८७) तत्र कर्मवद्भाववचनसामर्थ्यात् यक् भविष्यति ।

(पा-३,१.६७.३; अकि-२,५८.२४-६०.११; रो-३,१४९-१५३; भा-८७/८७) अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति कर्मकर्तरि यक् इति यत् अयम् न दुहस्न्नुनमाम् यक्चिणौ इति यक्चिणोः प्रतिषेधम् शास्ति ।