व्याकरणमहाभाष्य खण्ड 35

विकिपुस्तकानि तः
Jump to navigation Jump to search



(पा-३,१.७१; अकि-२,६०.१३-१५; रो-३,१५३; भा-१/६) अनुपसर्गात् इति किमर्थम् ।

(पा-३,१.७१; अकि-२,६०.१३-१५; रो-३,१५३; भा-२/६) आयस्यति प्रयस्यति ।

(पा-३,१.७१; अकि-२,६०.१३-१५; रो-३,१५३; भा-३/६) अनुपसर्गात् इति शक्यम् अकर्तुम् ।

(पा-३,१.७१; अकि-२,६०.१३-१५; रो-३,१५३; भा-४/६) कथम् आयस्यति प्रयस्यति ।

(पा-३,१.७१; अकि-२,६०.१३-१५; रो-३,१५३; भा-५/६) संयसः च इति एतत् नियमार्थम् भविष्यति ।

(पा-३,१.७१; अकि-२,६०.१३-१५; रो-३,१५३; भा-६/६) सम्पूर्वात् यसः न अन्यपूर्वात् इति ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-१/६४) किमर्थः शकारः ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-२/६४) सार्वधातुकाऋथः ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-३/६४) शित् सार्वधातुकम् इति सार्वधातुकसञ्ज्ञा ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-४/६४) सार्वधातुकम् अपित् इति ङित्त्वम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-५/६४) ङिति इति गुणप्रतिषेधः यथा स्यात् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-६/६४) भिनत्ति छिनत्ति इति ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-७/६४) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-८/६४) सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते यस्मात् च प्रत्ययविधिः तदादि प्रत्यये अङ्गसञ्ज्ञम् भवति ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-९/६४) यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-१०/६४) यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-११/६४) इदम् तर्हि प्रयोजनम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-१२/६४) आर्धधातुकसञ्ज्ञा मा भूत् इति ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-१३/६४) किम् च स्यात् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-१४/६४) वलादिलक्षणः इट् प्रसज्येत ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-१५/६४) एतत् अपि न अस्ति प्रयोजनम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-१६/६४) वलादेः आर्धधातुकस्य अङ्गस्य इट् उच्यते ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-१७/६४) यस्मात् च प्रत्ययविधिः तदादि प्रत्यये अङ्गसञ्ज्ञम् भवति ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-१८/६४) यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-१९/६४) यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-२०/६४) अतः उत्तरम् पठति ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-२१/६४) श्नमि शित्करणम् प्वादिह्रस्वार्थम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-२२/६४) श्नमि शित्करणम् क्रियते प्वादीनाम् शिति ह्रस्वत्वम् यथा स्यात् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-२३/६४) पृणसि मृणसि इति ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-२४/६४) न वा धात्वन्यत्वात् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-२५/६४) न वा कर्तव्यम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-२६/६४) किम् कारणम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-२७/६४) धात्वन्यत्वात् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-२८/६४) धात्वन्तरम् पृणिमृणी ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-२९/६४) यत्र भूम्याम् वृणसे ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-३०/६४) न एषः श्नम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-३१/६४) श्नः एतत् ह्रस्वत्वम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-३२/६४) यदि श्नः ह्रस्वत्वम् स्वरः न सिध्यति ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-३३/६४) वृणसे ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-३४/६४) अदुपदेशात् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः न प्राप्नोति ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-३५/६४) तस्मात् श्नम् एषः ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-३६/६४) यदि श्नम् स्नसोः अल्लोपः इति लोपः प्राप्नोति ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-३७/६४) उपधायाः इति वर्तते ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-३८/६४) अनुपधात्वात् न भविष्यति ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-३९/६४) न सः शख्यः उपधायाः इति विज्ञातुम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-४०/६४) इह हि दोषः स्यात् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-४१/६४) अङ्क्तः अञ्जन्ति ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-४२/६४) तस्मात् श्नः एव ह्रस्वत्वम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-४३/६४) स्वरः कथम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-४४/६४) बहुलम् पित् सार्वधातुकम् छन्दसि । सार्वधातुकस्य भलुलम् छन्दसि पित्त्वम् वक्तव्यम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-४५/६४) पितः च अपित्त्वम् दृश्यते अपितः च पित्त्वम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-४६/६४) पितः तावत् अपित्त्वम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-४७/६४) मातरम् प्रमिणीमि जनित्रीम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-४८/६४) अपितः पित्त्वम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-४९/६४) शृणोत ग्रावाणः ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-५०/६४) तत् तर्हि ह्रस्वत्वम् वक्तव्यम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-५१/६४) अवश्यम् छन्दसि ह्रस्वत्वम् वक्तव्यम् उपगायन्तु माम् पत्नयः गर्भिणयः युवतयः इति एवमर्थम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-५२/६४) विशेषणाऋथः तर्हि ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-५३/६४) क्व विशेषणाऋथेन अर्थः ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-५४/६४) श्नात् नलोपः इति ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-५५/६४) नात् नलोपः इति उच्यमाने यज्ञानाम् यत्नानाम् इति अत्र अपि प्रसज्येत ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-५६/६४) दीर्घत्वे कृते न भविष्यति ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-५७/६४) इदम् इह सम्प्रधार्यम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-५८/६४) दीर्घत्वम् क्रियताम् नलोपः इति ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-५९/६४) किम् अत्र कर्तव्यम् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-६०/६४) परत्वात् न लोपः स्यात् ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-६१/६४) तस्मात् शकारः कर्तव्यः ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-६२/६४) अथ क्रियमाणे अपि शकारे इह कस्मात् न भवति ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-६३/६४) विश्नानाम् प्रश्नानाम् इति ।

(पा-३,१.७८; अकि-२,६०.१७-६१.१२; रो-३,१५३-१५४; भा-६४/६४) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-१/२१) अथ किमर्थम् करोतेः पृथग्ग्रहणम् क्रियते न तनादिभ्यः इति एव उच्यते ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-२/२१) अन्यानि तनोत्यादिकार्याणि मा भूवन् इति ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-३/२१) कानि ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-४/२१) अनुनासिकलोपादीनि ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-५/२१) दैवरक्ताः किंसुकाः ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-६/२१) अनुनासिकाभावात् एव अनुनासिकलोपः न भविष्यति ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-७/२१) इदम् तर्हि तनादिकार्यम् मा भूत् तनादिभ्यः तथासोः इति ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-८/२१) ननु च भवति एव अत्र ह्रस्वात् अङ्गात् इति ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-९/२१) तेन एव यथा स्यात् ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-१०/२१) अनेन मा भूत् इति ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-११/२१) कः च अत्र विशेषः तेन वा सति अनेन वा ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-१२/२१) तेन सति सिज्लोपस्य असिद्धत्वात् चिण्वद्भावः सिद्धः भवति ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-१३/२१) अनेन पुनः सति चिण्वद्भावः न स्यात् ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-१४/२१) अनेन अपि सति चिण्वद्भावः सिद्धः ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-१५/२१) कथम् ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-१६/२१) विभाषा लुक् ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-१७/२१) यदा न लुक् तदा तेन लोपः ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-१८/२१) तत्र सिज्लोपस्य असिद्धत्वात् चिण्वद्भावः सिद्धः भवति ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-१९/२१) तनादित्वात् कृञः सिद्धम् सिज्लोपे च न दुष्यति ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-२०/२१) चिण्वद्भावे अत्र दोषः स्यात् ।

(पा-३,१.७९; अकि-२,६१.२४-६२.८; रो-३,१५५-१५६; भा-२१/२१) सः अपि प्रोक्तः विभाषया ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-१/२७) क्व अयम् अकारः श्रूयते ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-२/२७) न क्व चित् श्रूयते ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-३/२७) लोपः अस्य भवति अतः लोपः आर्धधातुके इति ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-४/२७) यदि न क्व चित् श्रूयते किमर्थम् अत्वम् उच्यते न लोपः एव उच्यते ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-५/२७) न एवम् शक्यम् ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-६/२७) लोपे हि सति गुणः प्रसज्येत ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-७/२७) ननु च लोपे अपि सति न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-८/२७) आर्धधातुकनिमित्ते लोपे सः प्रतिषेधः ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-९/२७) न च एषः आर्धधातुकनिमित्तः लोपः ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-१०/२७) अपि च प्रत्याख्यायते सः योगः ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-११/२७) तस्मिन् प्रत्याख्याते गुणः स्यात् एव ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-१२/२७) तस्मात् अत्वम् वक्तव्यम् ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-१३/२७) अथ किमर्थम् नुमनुषक्तयोः ग्रहणम् क्रियते न धिविकृव्योः इति एव उच्यते ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-१४/२७) धिविकृव्योः इति उच्यमाने अत्वे कृते अनिष्टे देशे नुम् प्रसज्येत ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-१५/२७) इदम् इह सम्प्रधार्यम् ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-१६/२७) अत्वम् क्रियताम् नुम् इति ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-१७/२७) किम् अत्र कर्तव्यम् ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-१८/२७) परत्वात् नुमागमः ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-१९/२७) अन्तरङ्गम् अत्वम् ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-२०/२७) का अन्तरङ्गता ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-२१/२७) प्रत्ययोत्पत्तिसन्नियोगेन अत्वम् उच्यते ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-२२/२७) उत्पन्नेप्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य नुमागमः ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-२३/२७) नुम् अपि अन्तरङ्गः ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-२४/२७) कथम् ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-२५/२७) वक्ष्यति एतत् नुम्विधौ उपदेशिवद्वचनम् प्रत्ययविध्यर्थम् इति ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-२६/२७) उभयोः अन्तरङ्गयोः परत्वात् नुमागमः ।

(पा-३,१.८०; अकि-२,६२.१०-२२; रो-३,१५६-१५७; भा-२७/२७) तस्मात् धिविकृव्योः इति वक्तव्यम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-१/५८) किमर्थः शकारः ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-२/५८) शित् सार्वधातुकम् इति सार्वधातुकसञ्ज्ञा सार्वधातुकम् अपित् इति ङित्त्वम् ङिति इति प्रतिषेधः यथा स्यात् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-३/५८) कुषाण पुषाण इति ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-४/५८) अतः उत्तरम् पठति ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-५/५८) श्नाविकारस्य शित्करणानर्थक्यम् स्थानिवत्वात् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-६/५८) श्नाविकारस्य शित्करणम् अनर्थकम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-७/५८) किम् कारणम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-८/५८) स्थानिवत्वात् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-९/५८) शितः अयम् आदेशः स्थानिवद्भावात् शित् भविष्यति ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-१०/५८) अर्थवत् तु ज्ञापकम् सार्वधातुकादेशे अनुबन्धास्थानिवत्त्वस्य ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-११/५८) अर्थवत् तु श्नाविकारस्य शित्करणम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-१२/५८) कः अर्थः ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-१३/५८) ज्ञापकार्थम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-१४/५८) किम् ज्ञाप्यम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-१५/५८) एतत् ज्ञापयति आचार्यः सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-१६/५८) किम् एतस्य ज्ञपने प्रयोजनम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-१७/५८) प्रयोजनम् हितातङोः अपित्त्वम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-१८/५८) हेः पित्त्वम् न प्रतिषेध्यम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-१९/५८) पितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-२०/५८) सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् पित् भविष्यति ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-२१/५८) तातङि च ङकारः न उच्चार्यः भवति ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-२२/५८) पितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-२३/५८) सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् पित् भविष्यति ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-२४/५८) तबादिषु च अङित्त्वम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-२५/५८) तबादिषु च अङित्त्वम् प्रयोजनम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-२६/५८) शृणोत ग्रावाणः ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-२७/५८) ङितः इमे आदेशाः स्थानिवद्भावात् ङितः स्युः ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-२८/५८) सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न इमे ङितः भवन्ति ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-२९/५८) तस्य दोषः मिपः आदेशे पिदभावः ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-३०/५८) तस्य एतस्य लक्षणस्य दोषः मिपः आदेशे पितः अभावः ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-३१/५८) अचिनवम् असुनवम् अकरवम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-३२/५८) पितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-३३/५८) सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् पित् स्यात् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-३४/५८) अत्यल्पम् इदम् उच्यते ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-३५/५८) तिप्सिब्मिपाम् आदेशाः इति वक्तव्यम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-३६/५८) वेद वेत्थ ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-३७/५८) विदेः वसोः शित्त्वम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-३८/५८) विदेः उत्तरस्य वसोः शित्त्वम् वक्तव्यम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-३९/५८) शितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-४०/५८) सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् शित् स्यात् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-४१/५८) कित्करणात् वा सिद्धम् । अथ वा अवश्यम् अत्र सामान्यग्रहणाविघातार्थः ककारः अनुबन्धः कर्तव्यः ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-४२/५८) क्व सामान्यग्रहणाविघातार्थेन अर्थः ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-४३/५८) वसोः सम्प्रसारणम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-४४/५८) तेन एव यत्नेन गुणः न भविष्यति ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-४५/५८) अस्य ज्ञापकस्य सन्ति दोषाः सन्ति प्रयोजनानि ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-४६/५८) समाः दोषाः भूयांसः वा ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-४७/५८) तस्मात् न अर्थः अनेन ज्ञापकेन ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-४८/५८) कथम् यानि प्रयोजनानि ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-४९/५८) तानि क्रियन्ते न्यासे एव ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-५०/५८) एवम् अपि भवेत् पित्करणसामर्थ्यात् पित्कृतम् स्यात् ङित्करणसामर्थ्यात् ङित्कृतम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-५१/५८) यत् तु खलु पिति ङित्कृतम् प्राप्नोति ङिति च पित्कृतम् केन तत् न स्यात् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-५२/५८) तस्मात् वक्तव्यम् पित् न ङिद्वत् भवति ङित् च न पिद्वत् भवति इति ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-५३/५८) न वक्तव्यम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-५४/५८) एवम् वक्ष्यामि ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-५५/५८) सार्वधातुकम् ङित् भवति पित् न ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-५६/५८) एवम् तावत् पितः ङित्त्वम् प्रतिषिद्धम् ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-५७/५८) ततः असंयोगात् लिट् कित् भवति इति ङित् च पित् न भवति ।

(पा-३,१.८३; अकि-२,६२.२४-६४.११; रो-३,१५७-१६०; भा-५८/५८) एवम् ङितः पित्त्वम् प्रतिषिद्धम् ।

(पा-३,१.८४; अकि-२,६४.१३-१५; रो-३,१६०; भा-१/६) शायच् छन्दसि सर्वत्र ।

(पा-३,१.८४; अकि-२,६४.१३-१५; रो-३,१६०; भा-२/६) शायच् छन्दसि सर्वत्र इति वक्तव्यम् ।

(पा-३,१.८४; अकि-२,६४.१३-१५; रो-३,१६०; भा-३/६) क्व सर्वत्र ।

(पा-३,१.८४; अकि-२,६४.१३-१५; रो-३,१६०; भा-४/६) हौ च अहौ च ।

(पा-३,१.८४; अकि-२,६४.१३-१५; रो-३,१६०; भा-५/६) किम् प्रयोजनम् ।

(पा-३,१.८४; अकि-२,६४.१३-१५; रो-३,१६०; भा-६/६) महीअस्कभायत् यः अस्कभायत् उद्गृभायत उन्मथायत इत्यर्थम् ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-१/४३) योगविभागः कर्तव्यः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-२/४३) व्यत्ययः भवति स्यादीनाम् इति ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-३/४३) आण्डा शुष्णस्य भृ̄दति ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-४/४३) भिनत्ति इति प्राप्ते ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-५/४३) सः च न मरति ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-६/४३) मिर्यते इति प्राप्ते ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-७/४३) ततः बहुलम्. बहुलम् छन्दसि विषये सर्वे विधयः भवन्ति इति ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-८/४३) सुपाम् व्यत्ययः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-९/४३) तिङाम् व्यत्ययः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-१०/४३) वर्णव्यत्ययः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-११/४३) लिङ्गव्यत्ययः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-१२/४३) कालव्यत्ययः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-१३/४३) पुरुषव्यत्ययः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-१४/४३) आत्मनेपदव्यत्ययः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-१५/४३) परस्मैपदव्यत्ययः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-१६/४३) सुपाम् व्यत्ययः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-१७/४३) युक्ता माता आसीत् धुरि दक्षिणायाः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-१८/४३) दक्षिणायाम् इति प्राप्ते ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-१९/४३) तिङाम् व्यत्ययः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-२०/४३) चषालम् ये अश्वयूपाय तक्षति ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-२१/४३) तक्षन्ति इति प्राप्ते ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-२२/४३) वर्णव्यत्ययः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-२३/४३) त्रिष्टुभौजः शुभितम् उग्रवीरम् ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-२४/४३) सुहितम् इति प्राप्ते ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-२५/४३) लिङ्गव्यत्ययः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-२६/४३) मधोः गृह्णाति ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-२७/४३) मधोः तृप्ताः इव आसते ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-२८/४३) मधुनः इति प्राप्ते ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-२९/४३) कालव्यत्ययः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-३०/४३) श्वः अग्नीन् आधास्यमानेन ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-३१/४३) श्वः सोमेन यक्ष्यमाणेन ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-३२/४३) आधाता यष्टा इति एवम् प्राप्ते ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-३३/४३) पुरुषव्यत्ययः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-३४/४३) अधा सः वीरैः दशभिः वियूयाः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-३५/४३) वियूयात् इति प्राप्ते ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-३६/४३) आत्मनेपदव्यत्ययः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-३७/४३) ब्रह्म्नचारिणम् इच्छते ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-३८/४३) इच्छति इति प्राप्ते ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-३९/४३) परस्मैपदव्यत्ययः ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-४०/४३) प्रतीपम् अन्यः ऊर्मिः युध्यति ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-४१/४३) युध्यते इति प्राप्ते ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-४२/४३) सुप्तिङुपग्रहलिङ्गनराणाम् काल्हलच्स्वरकर्तृयङाम् च व्यत्ययम् इच्छति शास्त्रकृत् एषाम् ।

(पा-३,१.८५; अकि-२,६४.१७-६५.६; रो-३,१६०-१६२; भा-४३/४३) सः अपि च सिध्यति बाहुलकेन ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-१/२७) अयम् आशिषि अङ् विधीयते ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-२/२७) तस्य किम् प्रयोजनम् ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-३/२७) आशिषि अङः प्रयोजनम् स्थागागमिवचिविदयः ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-४/२७) स्था ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-५/२७) उप स्थेषम् वृषभम् ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-६/२७) स्था ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-७/२७) गा ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-८/२७) अञ्जसा सत्यम् उप गेषम् ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-९/२७) गा ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-१०/२७) गमि ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-११/२७) यज्ञेन प्रतिष्ठाम् गमेयम् ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-१२/२७) गमि ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-१३/२७) वचि ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-१४/२७) मन्त्रम् वोचेम अग्नये ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-१५/२७) वचि ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-१६/२७) विदि ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-१७/२७) विदेयम् एनाम् मनसि प्रविष्टाम् ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-१८/२७) शकिरुहोः च इति वक्तव्यम् ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-१९/२७) शकेम त्वा समिधम् ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-२०/२७) अस्रवन्तीम् आ रुहेम स्वस्तये ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-२१/२७) दृशोः अक् पितरम् च दृशेयम् मातरम् च ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-२२/२७) दृशोः अक् वक्तव्यः पितरम् च दृशेयम् मातरम् च इति एवमर्थम् ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-२३/२७) इह उपस्थेयाम इति आट् अपि वक्तव्यः ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-२४/२७) न हि अङा एव सिध्यति ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-२५/२७) न वक्तव्यः ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-२६/२७) सार्वधातुकत्वात् सलोपः आर्धधातुकत्वात् एत्वम् ।

(पा-३,१.८६; अकि-२,६५.८-२०; रो-३,१६१-१६२; भा-२७/२७) द्तत्र उभयलिङ्गत्वात् सिद्धम् ।

(पा-३,१.८७.१; अकि-२,६६.२-८; रो-३,१६२-१६४; भा-१/१५) वत्करणम् किमर्थम् ।

(पा-३,१.८७.१; अकि-२,६६.२-८; रो-३,१६२-१६४; भा-२/१५) स्वाश्रयम् अपि यथा स्यात् ।

(पा-३,१.८७.१; अकि-२,६६.२-८; रो-३,१६२-१६४; भा-३/१५) भिद्यते कुशूलेन इति ।

(पा-३,१.८७.१; अकि-२,६६.२-८; रो-३,१६२-१६४; भा-४/१५) अकर्मकाणाम् भावे लः भवति इति लः यथा स्यात् ।

(पा-३,१.८७.१; अकि-२,६६.२-८; रो-३,१६२-१६४; भा-५/१५) कर्मणा इति किमर्थम् ।

(पा-३,१.८७.१; अकि-२,६६.२-८; रो-३,१६२-१६४; भा-६/१५) करणाधिकरणाभ्याम् तुल्यक्रियः कर्ता यः सः कर्मवत् मा भूत् ।

(पा-३,१.८७.१; अकि-२,६६.२-८; रो-३,१६२-१६४; भा-७/१५) साधु असिः छिनत्ति ।

(पा-३,१.८७.१; अकि-२,६६.२-८; रो-३,१६२-१६४; भा-८/१५) साधु स्थाली पचति ।

(पा-३,१.८७.१; अकि-२,६६.२-८; रो-३,१६२-१६४; भा-९/१५) तुल्यक्रियः इति किमर्थम् ।

(पा-३,१.८७.१; अकि-२,६६.२-८; रो-३,१६२-१६४; भा-१०/१५) पचति ओदनम् देवदत्तः ।

(पा-३,१.८७.१; अकि-२,६६.२-८; रो-३,१६२-१६४; भा-११/१५) तुल्यक्रियः इति उच्यमाने अपि अत्र प्राप्नोति ।

(पा-३,१.८७.१; अकि-२,६६.२-८; रो-३,१६२-१६४; भा-१२/१५) अत्र अपि हि कर्मणा तुल्यक्रियः कर्ता ।

(पा-३,१.८७.१; अकि-२,६६.२-८; रो-३,१६२-१६४; भा-१३/१५) न तुल्यक्रियग्रहणेन समानक्रियत्वम् अभिसम्बध्यते ।

(पा-३,१.८७.१; अकि-२,६६.२-८; रो-३,१६२-१६४; भा-१४/१५) किम् तर्हि ।

(पा-३,१.८७.१; अकि-२,६६.२-८; रो-३,१६२-१६४; भा-१५/१५) यस्मिन् कर्मणि कर्तृभूते अपि तद्वत् क्रिय लक्ष्यते यथा कर्मणि सः कर्मणा तुल्यक्रियः कर्ता कर्मवत् भवति इति ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-१/३१) कर्मवत् अकर्मकस्य कर्ता ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-२/३१) अकर्मकस्य कर्ता कर्मवत् भवति इति वक्तव्यम् ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-३/३१) किम् प्रयोजनम् ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-४/३१) सकर्मकस्य कर्ता कर्मवत् मा भूत् इति ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-५/३१) भिद्यमानः कुशूलः पात्राणि भिनत्ति ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-६/३१) तथा कर्म दृष्टः चेत् समानधातौ ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-७/३१) कर्म दृष्टः चेत् समानधातौ इति वक्तव्यम् ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-८/३१) इह मा भूत् ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-९/३१) पचति ओदनम् देवदत्तः ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-१०/३१) राध्यति ओधनः स्वयम् एव ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-११/३१) तथा कर्मस्थभावकानम् कर्मस्थक्रियाणाम् च ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-१२/३१) कर्मस्थभावकानम् कर्मस्थक्रियाणाम् वा कर्ता कर्मवत् भवति इति वक्तव्यम् ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-१३/३१) कर्तृस्थभावकानाम् कर्तृस्थक्रियाणाम् वा कर्ता कर्मवत् मा भूत् इति ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-१४/३१) यत् तावत् उच्यते अकर्मकस्य कर्ता कर्मवत् भवति इति वक्तव्यम् इति ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-१५/३१) न वक्तव्यम् ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-१६/३१) वक्ष्यति एतत् ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-१७/३१) सकर्मकाणाम् प्रतिषेधः अन्योन्यम् आश्लिष्यतः इति ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-१८/३१) यत् अपि उच्यते कर्म दृष्टः चेत् समानधातौ इति वक्तव्यम् इति ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-१९/३१) न वक्तव्यम् ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-२०/३१) धातोः इति वर्तते ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-२१/३१) धातोः कर्मणः कतुर्ः अयम् कर्मवद्भावः अतिदिश्यते ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-२२/३१) तत्र सम्बन्धात् एतत् गन्तव्यम् यस्य धातोः यत् कर्म तस्य चेत् कर्ता स्यात् इति ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-२३/३१) तत् यथा धातोः कर्मणि अण् भवति इति ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-२४/३१) तत्र सम्बन्धात् एतत् गम्यते यस्य धातोः यत् कर्म इति ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-२५/३१) इह मा भूत् ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-२६/३१) आहर कुम्भम् करोति कटम् इति ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-२७/३१) यत् अपि उच्यते कर्मस्थभावकानम् कर्मस्थक्रियाणाम् वा कर्ता कर्मवत् भवति इति वक्तव्यम् ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-२८/३१) कर्तृस्थभावकानाम् कर्तृस्थक्रियाणाम् वा कर्ता कर्मवत् मा भूत् इति ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-२९/३१) न वक्तव्यम् ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-३०/३१) कर्मस्थया क्रियया अयम् कर्तारम् उपमिमीते ।

(पा-३,१.८७.२; अकि-२,६६.९-६७.२; रो-३,१६४-१६७; भा-३१/३१) न च कर्तृस्थभावकानाम् कर्तृस्थक्रियाणाम् वा कर्मणि क्रियायाः प्रवृत्तिः अस्ति ।

(पा-३,१.८७.३; अकि-२,६७.३-९; रो-३,१६७; भा-१/१४) किम् पुनः कर्मकर्तरि कर्माश्रयम् एव भवति आहोस्वित् कर्त्राश्रयम् अपि ।

(पा-३,१.८७.३; अकि-२,६७.३-९; रो-३,१६७; भा-२/१४) किम् च अतः ।

(पा-३,१.८७.३; अकि-२,६७.३-९; रो-३,१६७; भा-३/१४) यदि कर्माश्रयम् एव चङ्शप्कृद्विधयः न सिध्यन्ति ।

(पा-३,१.८७.३; अकि-२,६७.३-९; रो-३,१६७; भा-४/१४) चङ् ।

(पा-३,१.८७.३; अकि-२,६७.३-९; रो-३,१६७; भा-५/१४) अचीकरत कटः स्वयम् एव ।

(पा-३,१.८७.३; अकि-२,६७.३-९; रो-३,१६७; भा-६/१४) शप् ।

(पा-३,१.८७.३; अकि-२,६७.३-९; रो-३,१६७; भा-७/१४) नमते दण्डः स्वयम् एव ।

(पा-३,१.८७.३; अकि-२,६७.३-९; रो-३,१६७; भा-८/१४) कृद्विधिः ।

(पा-३,१.८७.३; अकि-२,६७.३-९; रो-३,१६७; भा-९/१४) भिदुरम् काष्ठम् स्वयम् एव ।

(पा-३,१.८७.३; अकि-२,६७.३-९; रो-३,१६७; भा-१०/१४) अथ कर्त्राश्रयम् अपि सिद्धम् एतत् भवति ।

(पा-३,१.८७.३; अकि-२,६७.३-९; रो-३,१६७; भा-११/१४) किम् तर्हि इति ।

(पा-३,१.८७.३; अकि-२,६७.३-९; रो-३,१६७; भा-१२/१४) आत्मनेपदशबादिविधिप्रतिषेधः ।

(पा-३,१.८७.३; अकि-२,६७.३-९; रो-३,१६७; भा-१३/१४) आत्मनेपदम् विधेयम् शबादीनाम् च प्रतिषेधः वक्तव्यः ।

(पा-३,१.८७.३; अकि-२,६७.३-९; रो-३,१६७; भा-१४/१४) उभयम् क्रियते न्यासे एव ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-१/६८) किमर्थम् पुनः इदम् उच्यते ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-२/६८) कर्मकर्तरि कर्तृत्वम् स्वातन्त्र्यस्य विवक्षितत्वात् । कर्मकर्तरि कर्तृत्वम् अस्ति ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-३/६८) कुतः ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-४/६८) स्वातन्त्र्यस्य विवक्षितत्वात् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-५/६८) स्वातन्त्र्येण एव अत्र कर्ता विवक्षितः ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-६/६८) किम् पुनः सतः स्वातन्त्र्यस्य विवक्षा आहोस्वित् विवक्षामात्रम् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-७/६८) सतः इति आह ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-८/६८) कथम् ज्ञायते ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-९/६८) भिद्यते कुशूलेन इति ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-१०/६८) न च अन्यः कर्ता दृश्यते क्रिया च उपलभ्यते ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-११/६८) किम् च भोः विग्रहवता एव क्रियायाः कर्त्रा भवितव्यम् न पुनः वातातपकालाः अपि कर्तारः स्युः ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-१२/६८) भवेत् सिद्धम् यदि वातातपकालानाम् अन्यतमः कर्ता स्यात् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-१३/६८) यः तु खलु निवाते निरभिवर्षे अचिरकालकृतः कुशूलः भिद्यते तस्य न अन्यः कर्ता भवति अन्यत् अतः कुशूलात् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-१४/६८) यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र अन्यः कर्ता न अस्ति इह तु कथम् न स्यात् लूयते केदारः स्वयम् एव इति यत्र असु देवदत्तः दात्रहस्तः समन्ततः विपरिपतन् दृश्यते ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-१५/६८) अत्र अपि या असौ सुकरता नाम तस्याः न अन्यत् कर्ता भवति अन्यत् अतः केदारात् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-१६/६८) अस्ति प्रयोजनम् एतत् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-१७/६८) किम् तर्हि इति ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-१८/६८) तत्र लान्तस्य कर्मवदनुदेशः ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-१९/६८) तत्र लान्तस्य कर्मवदनुदेशः कर्तव्यः ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-२०/६८) लान्तस्य कर्ता कर्मवत् भवति इति वक्तव्यम् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-२१/६८) इतरथा हि कृत्यक्तखलर्थेषु प्रतिषेधः ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-२२/६८) अक्रियमाणे हि लग्रहणे कृत्यक्तखलर्थेषु प्रतिषेधः वक्तव्यः स्यात् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-२३/६८) कृत्य ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-२४/६८) भेत्तव्यः कुशूलः इति कर्म ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-२५/६८) सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-२६/६८) तस्य प्रतिषेधः वक्तव्यः ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-२७/६८) तस्मिन् प्रतिषिद्धि अकर्मकाणाम् भावे कृत्या भवन्ति इति भावे यथा स्यात् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-२८/६८) भेत्तव्यम् कुशूलेन इति ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-२९/६८) क्त ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-३०/६८) भिन्नः कुशूलः इति कर्म ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-३१/६८) सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-३२/६८) तस्य प्रतिषेधः वक्तव्यः ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-३३/६८) तस्मिन् प्रतिषिद्धि अकर्मकाणाम् भावे क्तः भवति इति भावे क्तः यथा स्यात् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-३४/६८) भिन्नम् कुशूलेन ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-३५/६८) खलर्थः ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-३६/६८) ईषद्भेद्यः कुशूलः इति कर्म ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-३७/६८) सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-३८/६८) तस्य प्रतिषेधः वक्तव्यः ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-३९/६८) तस्मिन् प्रतिषिद्धे अकर्मकाणाम् भावे खल् भवति इति भावे यथा स्यात् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-४०/६८) ईषद्भेद्यम् कुशूलेन इति ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-४१/६८) तत् तर्हि लग्रहणम् कर्तव्यम् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-४२/६८) न कर्तव्यम् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-४३/६८) क्रियते न्यासे एव ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-४४/६८) लिङि आशिषि अङ् इति द्विलकारकः निर्देशः ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-४५/६८) सिद्धम् तु प्राकृतकर्मत्वात् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-४६/६८) सिद्धम् एतत् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-४७/६८) कथम् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-४८/६८) प्राकृतकर्मत्वात् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-४९/६८) प्राकृतम् एव एतत् कर्म यथा कटम् करोति शकटम् करोति ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-५०/६८) कथम् पुनः ज्ञायते प्राकृतम् एव एतत् कर्म इति ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-५१/६८) आत्मसंयोगे अकर्मकर्तुः कर्मदर्शनात् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-५२/६८) आत्मसंयोगे अकर्मकर्तुः कर्म दृश्यते ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-५३/६८) क्व ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-५४/६८) हन्ति आत्मानम् ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-५५/६८) हन्यत आत्मना इति ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-५६/६८) विषमः उपन्यासः ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-५७/६८) हन्ति आत्मानम् इति कर्म दृश्यते ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-५८/६८) कर्ता न दृश्यते ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-५९/६८) आत्मना हन्यते इति कर्ता दृश्यते ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-६०/६८) कर्म न दृश्यते ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-६१/६८) पदलोपः च ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-६२/६८) पदलोपः च द्रष्टव्यः ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-६३/६८) हन्ति आत्मानम् आत्मना ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-६४/६८) आत्मना हन्यते आत्मा इति ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-६५/६८) कः पुनः आत्मानम् हन्ति कः वा आत्मना हन्यते ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-६६/६८) द्वौ आत्मानौ अन्तरात्मा शरीरात्मा च ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-६७/६८) अन्तरात्मा तत् कर्म करोति येन शरीरात्मा सुखदुःके अनुभवति ।

(पा-३,१.८७.४; अकि-२,६७.१०-६८२२७; रो-३,१६८-१७१; भा-६८/६८) शरीरात्मा तत् कर्म करोति येन अन्तरात्मा सुखदुःके अनुभवति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-१/७४) सकर्मकाणाम् प्रतिषेधः अन्योन्यम् आश्लिष्यतः इति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-२/७४) सकर्मकाणाम् प्रतिषेधः वक्तव्यः ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-३/७४) किम् प्रयोजनम् ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-४/७४) अन्योन्यम् आश्लिष्यतः ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-५/७४) अन्योन्यम् संस्पृशतः ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-६/७४) अन्योन्यम् गृह्णीतः इति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-७/७४) तपेः वा सकर्मकस्य वचनम् नियमार्थम् ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-८/७४) तपेः वा सकर्मकस्य वचनम् नियमार्थम् भविष्यति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-९/७४) तपेः एव सकर्मकस्य न अन्यस्य सकर्मकस्य इति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-१०/७४) तस्य तर्हि अन्यकर्मकस्य अपि प्राप्नोति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-११/७४) उत्तपति सुवर्णम् सुवर्णकारः ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-१२/७४) उत्तप्यमानम् सुवर्णम् सुवर्णकारम् उत्तपति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-१३/७४) तस्य च तपःकर्मकस्य एव ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-१४/७४) तस्य च तपःकर्मकस्य एव कर्ता कर्मवत् भवति न अन्यकर्मकस्य इति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-१५/७४) किम् इदम् तपः इति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-१६/७४) तपेः अयम् औणादिकः अस्कारः भावसाधनः ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-१७/७४) कः प्रकृत्यर्थः कः प्रत्ययार्थः ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-१८/७४) सः एव सन्तपः ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-१९/७४) कथम् पुनः सः एव नाम प्रकृत्यर्थः स्यात् सः एव प्रत्ययार्थः ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-२०/७४) सामान्यतपेः अवयवतपिः कर्म भवति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-२१/७४) तत् यथा ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-२२/७४) सः एतान् पोषान् अपुष्यत् गोपोषम् अश्वपोषम् रैपोषम् इति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-२३/७४) सामान्यपुषेः अवयविपुषिः कर्म भवति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-२४/७४) एवम् इह अपि सामान्यतपेः अवयवतपिः कर्म भवति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-२५/७४) दुहिपच्योः बहुलम् सकर्मकयोः ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-२६/७४) दुहिपच्योः सकर्मकयोः कर्ता बहुलम् कर्मवत् भवति इति वक्तव्यम् ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-२७/७४) दुग्धे गौः पयः ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-२८/७४) तस्मात् उदुम्बरः सः लोहितम् फलम् पच्यते ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-२९/७४) बहुलवचनम् किमर्थम् ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-३०/७४) परस्मैपदार्थम् ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-३१/७४) यदि एवम् न अर्थः बहुलवचनेन ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-३२/७४) न हि परस्मैपदम् इष्यते ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-३३/७४) सृजियुज्योः श्यन् तु ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-३४/७४) सृजियुज्योः सकर्मकयोः कर्ता बहुलम् कर्मवत् भवति इति वक्तव्यम् ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-३५/७४) श्यन् तु भवति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-३६/७४) सृजेः श्रद्धोपपन्ने कर्तरि कर्मवद्भावः वाच्यः चिणात्मनेपदार्थः ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-३७/७४) सृज्यते मालाम् ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-३८/७४) असर्जि मालाम् ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-३९/७४) यजेः तु न्याय्ये कर्मकर्तरि यकः अभावाय ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-४०/७४) युज्यते ब्रह्मचारी योगम् ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-४१/७४) करणेन तुल्यक्रियः कर्ता बहुलम् ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-४२/७४) करणेन तुल्यक्रियः कर्ता बहुलम् कर्मवत् भवति इति वक्तव्यम् ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-४३/७४) परिवारयन्ति कण्टकैः वृक्षम् ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-४४/७४) परिवारयन्ते कण्टकाः वृक्षम् इति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-४५/७४) स्रवत्यादीनाम् प्रतिषेधः ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-४६/७४) स्रवत्यादीनाम् प्रतिषेधः वक्तव्यः ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-४७/७४) स्रवति कुण्डिका उदकम् ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-४८/७४) स्रवति कुण्डिकायाः उदकम् ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-४९/७४) स्रवन्ति वलीकानि उदकम् ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-५०/७४) स्रवति वलीकेभ्यः उदकम् इति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-५१/७४) सः तर्हि प्रतिषेधः वक्तव्यः ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-५२/७४) न वक्तव्यः ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-५३/७४) तुल्यक्रियः इति उच्यते ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-५४/७४) क्रियान्तरम् च अत्र गम्यते ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-५५/७४) इह तावत् स्रवति कुण्डिका उदकम् इति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-५६/७४) विसृजति इति गम्यते ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-५७/७४) स्रवति कुण्डिकायाः उदकम् इति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-५८/७४) निष्क्रामति इति गम्यते ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-५९/७४) स्रवन्ति वलीकानि उदकम् इति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-६०/७४) विसृजन्ति इति गम्यते ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-६१/७४) स्रवति वलीकेभ्यः उदकम् इति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-६२/७४) पतति इति गम्यते ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-६३/७४) भूषाकर्मकिरतिसनाम् च अन्यत्र आत्मनेपदात् ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-६४/७४) भूषाकर्मकिरतिसनाम् च प्रतिषेधः वक्तव्यः अन्यत्र आत्मनेपदात् ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-६५/७४) भूषयते कन्या स्वयम् एव ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-६६/७४) अबुभूषत कन्या स्वयम् एव ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-६७/७४) मण्डयते कन्या स्वयम् एव ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-६८/७४) अममण्डत कन्या स्वयम् एव ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-६९/७४) किरति ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-७०/७४) अवकिरते हस्ती स्वयम् एव ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-७१/७४) अवाकीर्ष्ट हस्ती स्वयम् एव ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-७२/७४) सन् ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-७३/७४) चिकीर्षते कटः स्वयम् एव ।

(पा-३,१.८७.५; अकि-२,६८.२३-७०.७; रो-३,१७२-१७६; भा-७४/७४) अचिकीर्षिष्ट कटः स्वयम् एव ।

(पा-३,१.८९; अकि-२,७०.९-१५; रो-३,१७६-१७७; भा-१/१५) यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् ।

(पा-३,१.८९; अकि-२,७०.९-१५; रो-३,१७६-१७७; भा-२/१५) यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् कर्तव्यम् ।

(पा-३,१.८९; अकि-२,७०.९-१५; रो-३,१७६-१७७; भा-३/१५) णि ।

(पा-३,१.८९; अकि-२,७०.९-१५; रो-३,१७६-१७७; भा-४/१५) कारयते कटः स्वयम् एव ।

(पा-३,१.८९; अकि-२,७०.९-१५; रो-३,१७६-१७७; भा-५/१५) अचीकरत कटः स्वयम् एव ।

(पा-३,१.८९; अकि-२,७०.९-१५; रो-३,१७६-१७७; भा-६/१५) णि ।

(पा-३,१.८९; अकि-२,७०.९-१५; रो-३,१७६-१७७; भा-७/१५) श्रि ।

(पा-३,१.८९; अकि-२,७०.९-१५; रो-३,१७६-१७७; भा-८/१५) उच्छ्रयते दण्डः स्वयम् एव ।

(पा-३,१.८९; अकि-२,७०.९-१५; रो-३,१७६-१७७; भा-९/१५) उदशिश्रियत दण्डः स्वयम् एव ।

(पा-३,१.८९; अकि-२,७०.९-१५; रो-३,१७६-१७७; भा-१०/१५) श्रि ।

(पा-३,१.८९; अकि-२,७०.९-१५; रो-३,१७६-१७७; भा-११/१५) ब्रूञ् ।

(पा-३,१.८९; अकि-२,७०.९-१५; रो-३,१७६-१७७; भा-१२/१५) ब्रूते कथा स्वयम् एव ।

(पा-३,१.८९; अकि-२,७०.९-१५; रो-३,१७६-१७७; भा-१३/१५) अवोचत कथा स्वयम् एव ।

(पा-३,१.८९; अकि-२,७०.९-१५; रो-३,१७६-१७७; भा-१४/१५) भारद्वाजीयाः पठन्ति ।

(पा-३,१.८९; अकि-२,७०.९-१५; रो-३,१७६-१७७; भा-१५/१५) यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञात्मनेपदाकर्मकाणाम् उपसङ्ख्यानम् इति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-१/५७) कुषिरजोः श्यन्विधाने सार्वधातुकवचनम् ।कुषिरजोः श्यन्विधाने सार्वधातुकग्रहणम् कर्तव्यम् ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-२/५७) अवचने हि लिङ्लिटोः प्रतिषेधः ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-३/५७) अक्रियमाणे हि सार्वधातुकग्रहणे लिङ्लिटोः प्रतिषेधः वक्तव्यः स्यात् ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-४/५७) चुकुषे पादः स्वयम् एव ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-५/५७) ररञ्जे वस्त्रम् स्वयम् एव ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-६/५७) कोषिषीष्ट पादः स्वयम् एव ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-७/५७) रङ्क्षीष्ट वस्त्रम् स्वयम् एव ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-८/५७) क्रियमाणे अपि सार्वधातुकग्रहणे इह प्राप्नोति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-९/५७) कति इह कुष्णाणाः पादाः ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-१०/५७) श्यना च स्यादीनाम् बाधनम् प्राप्नोति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-११/५७) कोषिष्यते पादः स्वयम् एव ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-१२/५७) रङ्क्ष्यते वस्त्रम् स्वयम् एव ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-१३/५७) अकोषि पादः स्वयम् एव ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-१४/५७) अरञ्जि वस्त्रम् स्वयम् एव ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-१५/५७) यत् तावत् उच्यते सार्वधातुकग्रहणम् कर्तव्यम् इति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-१६/५७) प्रकृतम् अनुवर्तते ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-१७/५७) क्व प्रकृतम् ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-१८/५७) सार्वधातुके यक् इति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-१९/५७) यदि तत् अनुवर्तते पूर्वस्मिन् योगे किम् समुच्चयः ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-२०/५७) ले च सार्वधातुके च इति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-२१/५७) आहोस्वित् लग्रहणम् सार्वधातुकविशेषणम् ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-२२/५७) किम् च अतः ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-२३/५७) यदि समुच्चयः कति इह भिन्दानाः कुशूलाः इति अत्र अपि प्राप्नोति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-२४/५७) अथ लग्रहणम् सार्वधातुकविशेषणम् लिङ्लिटोः न सिध्यति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-२५/५७) बिभिदे कुशूलः स्वयम् एव ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-२६/५७) भित्सीष्ट कुशूलः स्वयम् एव इति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-२७/५७) अस्तु लग्रहणम् सार्वधातुकविशेषणम् ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-२८/५७) ननु च उक्तम् लिङ्लिटोः न सिध्यति इति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-२९/५७) लिङ्लिड्ग्रहणम् अपि प्रकृतम् अनुवर्तते ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-३०/५७) क्व प्रकृतम् ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-३१/५७) कास् प्रत्ययात् आम् अमन्त्रे लिटि लिङि आशिषि आङ् इति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-३२/५७) एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् कति इह कुष्णाणाः पादाः इति प्राप्नोति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-३३/५७) अत्र अपि लविशिष्टम् सार्वधातुकग्रहणम् अनुवर्तते ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-३४/५७) यत् अपि उच्यते श्यना च स्यादीनाम् बाधनम् प्राप्नोति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-३५/५७) यक्प्रतिषेधसम्बन्धेन श्यनं वक्ष्यामि ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-३६/५७) न दुहस्नुनमाम् यक्चिणौ ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-३७/५७) ततः कुषिरजोः प्राचाम् यक्चिणौ न भवतः ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-३८/५७) ततः श्यन् परस्मैपदम् च इति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-३९/५७) यथा एव तर्हि यकः विषये श्यन् भवति एवम् चिणः अपि विषये प्राप्नोति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-४०/५७) अकोषि पादः स्वयम् एव ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-४१/५७) अरञ्जि वस्त्रम् स्वयम् एव इति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-४२/५७) एवम् तर्हि द्वितीयः योगविभागः करिष्यते ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-४३/५७) न दुहस्नुनमाम् चिण् भवति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-४४/५७) ततः यक् ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-४५/५७) यक् च न भवति दुहस्नुनमाम् ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-४६/५७) ततः कुषिरजोः प्राचाम् यक् न भवति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-४७/५७) ततः श्यन् परस्मैपदम् च ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-४८/५७) अथ वा अनुवृत्तिः करिष्यते ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-४९/५७) स्यतासी लृलुटोः ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-५०/५७) च्लि लुङि ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-५१/५७) च्लेः सिच् भवति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-५२/५७) कर्तरि शप् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-५३/५७) कुषिरजोः प्राचाम् श्यन् परस्मैपदम् च स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति इति ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-५४/५७) अथ वा अन्तरङ्गाः स्यादयः ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-५५/५७) का अन्तरङ्गता ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-५६/५७) लकारावस्थायाम् एव स्यादयः ।

(पा-३,१.९०; अकि-२,७०.१७-७१.२३; रो-३,१७७-१७९; भा-५७/५७) सार्वधातुके श्यन् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-१/९५) आ कुतः अयम् धात्वधिकारः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-२/९५) किम् प्राक् लादेशात् आहोस्वित् आ तृतीयाध्यायपरिसमाप्तेः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-३/९५) धातुवधिकारः प्राक् लादेशात् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-४/९५) प्राक् लादेशात् धात्वधिकारः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-५/९५) लादेशे हि व्यवहितत्वात् अप्रसिद्धिः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-६/९५) अनुवर्तमाने हि लादेशे धात्वधिकारे व्यवहितव्ता अप्रसिद्धिः स्यात् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-७/९५) किम् च स्यात् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-८/९५) आद्ये योगे न व्यवाये तिङः स्युः । आद्ये योगे विकरणैः व्यवहितत्वात् तिङः न स्युः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-९/९५) पचति पठति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-१०/९५) इदम् इह सम्प्रधार्यम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-११/९५) विकरणाः क्रियन्ताम् आडेशाः इति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-१२/९५) किम् अत्र कर्तव्यम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-१३/९५) परत्वात् आदेशाः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-१४/९५) नित्याः विकरणाः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-१५/९५) कृतेषु आदेशेषु प्राप्नुवन्ति अकृतेषु अपि प्राप्नुवन्ति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-१६/९५) नित्यत्वात् विकरणेषु कृतेषु विकरणैः व्यवहितत्वात् आदेशाः न प्राप्नुवन्ति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-१७/९५) अनवकाशः तर्हि आदेशाः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-१८/९५) सावकाशाः आदेशाः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-१९/९५) कः अवकाशः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-२०/९५) ये एते लुग्विकरणाः श्लुविकरणाः च लिङ्लिटौ च ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-२१/९५) न स्यात् एत्वम् टेः टिताम् यत् विधत्ते ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-२२/९५) यत् च टित्सञ्ज्ञानाम् एत्वम् विधत्ते तत् च विकरणैः व्यवहितत्वात् न स्यात् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-२३/९५) एशः शित्त्वम् । एकारः च शित् कर्तव्यः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-२४/९५) किम् प्रयोजनम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-२५/९५) शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-२६/९५) अक्रियमाणे हि शकारे तस्मात् इति उत्तरस्य आदेः इति तकारस्य एत्वे कृते द्वयोः एकारयोः श्रवणम् प्रसज्येत ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-२७/९५) निवृत्ते पुनः लादेशे धात्वधिकारे अलः अन्त्यस्य विधयः भवन्ति इति एकारस्य एकार्वचनने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि शकारम् सर्वादेशः भविष्यति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-२८/९५) यत् च लोटः विधत्ते ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-२९/९५) तत् च विकरणैः व्यवहितत्वात् न स्यात् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-३०/९५) किम् पुनः तत् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-३१/९५) लोटः लङ्वत् एः उः सेः हि अपित् च वा छन्दसि इति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-३२/९५) यत् च अपि उक्तम् लङ्लिङोः तत् च न स्यात् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-३३/९५) किम् पुनः तत् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-३४/९५) नित्यम् ङितः इतः च तस्थस्थमिपाम् ताम्तम्तामः लिङः सीयुट् यासुट् परस्मैपदेषु उदात्तः ङित् च इति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-३५/९५) तस्मात् प्राक् लादेशात् धात्वधिकारः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-३६/९५) यदि प्राक् लादेशात् धात्वधिकारः अकारः शित् कर्तव्यः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-३७/९५) किम् प्रयोजनम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-३८/९५) शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-३९/९५) अनुवर्तमाने पुनः लादेशे धात्वधिकारे तस्मात् इति उत्तरस्य आदेः इति थकारस्य अत्वे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-४०/९५) पेच यूयम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-४१/९५) चक्र यूयम् इति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-४२/९५) ननु च निवृत्ते अपि लादेशे धात्वधिकारे अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य अकार्वचनने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि शकारम् सर्वादेशः भविष्यति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-४३/९५) अस्ति अन्यत् अकारस्य अकारवचने प्रयोजनम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-४४/९५) किम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-४५/९५) वक्ष्यति एतत् तत् अकारस्य अकारवचनम् समसङ्ख्यार्थम् इति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-४६/९५) आर्धधातुकसञ्ज्ञायाम् धातुग्रहणम् कर्तव्यम् धातोः परस्य आर्धधातुकसञ्ज्ञा यथा स्यात् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-४७/९५) इह मा भूत् ॒ वृक्ष्त्वम् वृक्षता इति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-४८/९५) तस्मात् लादेशे धात्वधिकारः अनुवर्त्यः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-४९/९५) ननु च उक्तम् आद्ये योगे न व्यवाये तिङः स्युः इति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-५०/९५) न एषः दोषः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-५१/९५) आनुपूर्व्यात् सिद्धम् एतत् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-५२/९५) न अत्र अकृतेषु आदेशेषु विकरणाः प्राप्नुवन्ति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-५३/९५) किम् कारणम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-५४/९५) सार्वधातुके विकरणाः उच्यन्ते ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-५५/९५) न च अकृतेषु आदेशेषु सार्वधातुकत्वम् भवति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-५६/९५) ये तर्हि न एतस्मिन् विशेषे विधीयन्ते ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-५७/९५) के पुनः ते ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-५८/९५) स्यादयः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-५९/९५) तत्र अपि विहितविशेषणम् धातुग्रहणम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-६०/९५) धातोः विहितस्य लस्य इति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-६१/९५) यदि एवम् विन्दति इति णलादयः प्राप्नुवन्ति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-६२/९५) धातुना अत्र विहितम् विशेषयिष्यामः विदिना च आनतर्यम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-६३/९५) धातोः विहितस्य लस्य विदेः अनन्तरस्य इति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-६४/९५) इह तर्हि अजक्षिष्यन् अजागैर्ष्यन् इति अभ्यस्तात् झेः जुस् भवति इति जुस्भावः प्राप्नोति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-६५/९५) अत्र अपि धातुना विहितम् विशेषयिष्यामः अभ्यस्तेन आनन्तर्यम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-६६/९५) धातोः विहितस्य अभस्तात् अनन्तरस्य इति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-६७/९५) आतः इति अत्र कथम् विशेषयिष्यसि ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-६८/९५) यदि तावत् धातुग्रहणम् विहितविशेषणम् आकारग्रहणम् आनन्तर्यविशेषणम् अलुनन् इति अत्र अपि प्राप्नोति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-६९/९५) अथ आकारग्रहणम् विहितविशेषणम् धातुग्रहणम् आनन्तर्यविशेषणम् अपिबन् इति अत्र अपि प्राप्नोति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-७०/९५) अस्तु तर्हि धातुग्रहणम् विहितविशेषणम् आकारग्रहणम् आनन्तर्यविशेषणम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-७१/९५) ननु च उक्तम् अलुनन् इति अत्र अपि प्राप्नोति इति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-७२/९५) न एषः दोषः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-७३/९५) लोपे कृते न भविष्यति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-७४/९५) न अत्र लोपः प्राप्नोति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-७५/९५) किम् कारणम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-७६/९५) ईत्वेन बाध्यते ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-७७/९५) न अत्र ईत्वम् प्राप्नोति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-७८/९५) किम् कारणम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-७९/९५) अन्तिभावेन बाध्यते ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-८०/९५) न अत्र अन्तिभावः प्राप्नोति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-८१/९५) किम् कारणम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-८२/९५) जुस्भावेन बाध्यते ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-८३/९५) न अत्र जुस्भावः प्राप्नोति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-८४/९५) किम् कारणम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-८५/९५) लोपेन बाध्यते ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-८६/९५) लोपः ईत्वेन ईत्वम् अन्तिभावेन अन्तिभावः जुस्भावेन जुस्भावः लोपेन इति चक्रकम् अव्यवस्था प्रसज्येत ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-८७/९५) न अस्ति चक्रकप्रसङ्गः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-८८/९५) न हि अव्यवस्थाकारिणा शास्त्रेण भवितव्यम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-८९/९५) शास्त्रेण नाम व्यवस्थाकारिणा भवितव्यम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-९०/९५) न च अत्र हलादिना मुहूर्तम् अपि शक्यम् अवस्थातुम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-९१/९५) तावति एव अन्तिभावेन भवितव्यम् ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-९२/९५) अन्तिभावे कृते लोपः ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-९३/९५) लोपेन व्यवस्था भविष्यति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-९४/९५) यत् अपि उच्यते एशः शित्त्वम् इति ।

(पा-३,१.९१.१; अकि-२,७१.२४-७४.४; रो-३,१७९-१८३; भा-९५/९५) क्रियते न्यासे एव ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-१/४१) कानि पुनः अस्य योगस्य प्रयोजनानि ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-२/४१) प्रयोजनम् प्रातिपदिकप्रतिषेधः ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-३/४१) प्रातिपदिकप्रतिषेधः प्रयोजनम् ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-४/४१) धातोः तव्यादयः यथा स्युः ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-५/४१) प्रातिपदिकात् मा भूवन् इति ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-६/४१) न एतत् अस्ति प्रयोजनम् ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-७/४१) साधने ताव्यादयः विधीयन्ते साधनम् च क्रियायाः ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-८/४१) क्रियाभावात् साधनाभावः ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-९/४१) साधनाभावात् असति अपि धात्वधिकारे प्रातिपदिकात् तव्यादयः न भविष्यन्ति ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-१०/४१) स्वपादिषु ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-११/४१) स्वपादिषु तर्हि प्रयोजनम् ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-१२/४१) स्वपिति ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-१३/४१) सुपति इति मा भूत् ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-१४/४१) अङ्गसञ्ज्ञा च ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-१५/४१) अङ्गसञ्ज्ञा च प्रयोजनम् ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-१६/४१) यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् इति धातोः अङ्गसञ्ज्ञा सिद्धा भवति ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-१७/४१) कृत्सञ्ज्ञा च ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-१८/४१) कृत्सञ्ज्ञा च प्रयोजनम् ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-१९/४१) धातुविहितस्य प्रत्ययस्य कृत्सञ्ज्ञा सिद्धा भवति ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-२०/४१) उपपदसञ्ज्ञा च. उपपदसञ्ज्ञा च प्रयोजनम् ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-२१/४१) तत्र एतस्मिन् धात्वधिकारे सप्तमीनिर्दिष्टम् उपपदस्ञ्ज्ञम् भवति इति उपपदसञ्ज्ञा सिद्धा भवति ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-२२/४१) कृदुपपदसञ्ज्ञे तावन् न प्रयोजनम् ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-२३/४१) अधिकारात् अपि एते सिद्धे ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-२४/४१) स्वपादिषु तर्हि अङ्गसञ्ज्ञा च प्रयोजनम् ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-२५/४१) धातुग्रहणम् अनर्थकम् यङ्विधौ धात्वधिकारात् ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-२६/४१) धातुग्रहणम् अनर्थकम् ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-२७/४१) किम् कारणम् ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-२८/४१) यङ्विधौ धात्वधिकारात् ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-२९/४१) यङ्विधौ धातुग्रहणम् प्रकृतम् अनुवर्तते ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-३०/४१) तत् च अवश्यम् अनुवर्त्यम् ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-३१/४१) अनधिकारे हि अङ्गसञ्ज्ञाभावः ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-३२/४१) अनधिकारे हि सति अङ्गसञ्ज्ञायाः अभावः स्यात् ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-३३/४१) करिष्यति हरिष्यति इति ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-३४/४१) यद् तत् अनुवर्तते चूर्णचुरादिभ्यः णिच् भवति धातोः च इति धातुमात्रात् णिच् प्राप्नोति ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-३५/४१) हेतुमद्वचनम् तु ज्ञापकम् अन्यत्राभावस्य ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-३६/४१) यत् अयम् हेतुमति च इति आह तत् ज्ञापयति आचार्यः न धातुमात्रात् णिच् भवति इति ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-३७/४१) इह तर्हि कण्ड्वादिभ्यः यक् भवति धातोः च इति धातुमात्रात् यक् प्राप्नोति ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-३८/४१) कण्ड्वादिषु च व्यपदेशिवद्वचनात् ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-३९/४१) यत् अयम् कण्ड्वादिभ्यः यक् भवति इति आह तत् ज्ञापयति आचार्यः न धातुमात्रात् यक् भवति इति ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-४०/४१) अथ वा कण्ड्वादिभ्यः धातुग्रहणेन अभिसम्भन्त्स्यामः ।

(पा-३,१.९१.२; अकि-२,७४.५-७५.९; रो-३,१८३-१८५; भा-४१/४१) कण्ड्वादिभ्यः धातुभ्यः इति ।